
Adhyaya 72 — Puradāha: Rudra’s Cosmic Chariot, Pāśupata-Vrata, and Brahmā’s Shiva-Stuti
苏多叙述:为毁灭三城(Tripura),毗湿瓦羯摩建造天车,其诸部件皆与宇宙实相相应——日月为轮,四时与诸时分为构件,群山与大海为支撑——使此战车成为象征性的宇宙。湿婆在仙人、天女与众伽那的赞颂中登车;象头神伽内沙先设障碍,待受“毗那耶迦供奉”(vināyaka-pūjā)后方止,由此确立大仪之前必先礼敬毗那耶迦。诸天畏惧鲁陀罗所宣“兽性/众生之属”(paśutva),湿婆却安慰说:帕修帕塔誓戒(Pāśupata-vrata)能解众生系缚而得解脱。虽仅一瞥即可令三城成灰,湿婆仍以弓与帕修帕塔神兵施行,作为神圣游戏(līlā)。随后梵天献上长篇赞颂,融摄唵字(Oṅkāra)、五梵形(pañcabrahma)、瑜伽从摄根(pratyāhāra)至三摩地(samādhi),并阐明林伽/非林伽(liṅga/aliṅga)之玄理。湿婆欢喜赐福:令梵天为御者,毗湿奴为乘具;章末以果报偈(phalaśruti)许诺听闻者得净化、胜利与兴盛,并引向后续湿婆派关于信爱、持誓与解脱赞颂的教导。
Verse 1
इति श्रीलिङ्गमहापुराणे पूर्वभागे पुरदाहे नन्दिकेश्वरवाक्यं नाम एकसप्ततितमो ऽध्यायः सूत उवाच शिवस् छरिओत् फ़ोर् देस्त्रुच्तिओन् ओफ़् त्रिपुर अथ रुद्रस्य देवस्य निर्मितो विश्वकर्मणा सर्वलोकमयो दिव्यो रथो यत्नेन सादरम्
如是,在《圣林伽大往世书》前分,于焚毁特里普拉之事中,名为“难提计湿伐罗之言”的第七十二章。苏多曰:其后,为毁灭特里普拉,毗湿瓦羯磨以勤谨恭敬之心,为神鲁陀罗造作一乘天车;此车由一切世界所成。
Verse 2
सर्वभूतमयश्चैव सर्वदेवनमस्कृतः सर्वदेवमयश्चैव सौवर्णः सर्वसंमतः
祂遍满一切众生,为诸天所礼敬;祂亦为一切神祇之内在精髓。祂金辉灿然,众皆承认、共同印可。
Verse 3
रथाङ्गं दक्षिणं सूर्यो वामाङ्गं सोम एव च दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम्
在此宇宙之轮中,太阳为其右侧,月亮确为其左侧。右部称有十二辐,北部亦有十六辐。
Verse 4
अरेषु तेषु विप्रेन्द्राश् चादित्या द्वादशैव तु शशिनः षोडशारेषु कला वामस्य सुव्रताः
噢,婆罗门中之最胜者,在那些辐上安置十二阿底提耶;而在月轮之十六辐上,则安住十六迦罗——月之十六分相——依吉祥正序列于左侧。
Verse 5
ऋक्षाणि च तदा तस्य वामस्यैव तु भूषणम् नेम्यः षडृतवश्चैव तयोर्वै विप्रपुङ्गवाः
于是,婆罗门中最殊胜者啊,那时诸月宿成为祂左侧的庄严;轮缘与六时(六季)亦成为主之宇宙肢体的装饰——昭示一切时间与秩序皆依止于主宰(Pati)、至上湿婆。
Verse 6
पुष्करं चान्तरिक्षं वै रथनीडश् च मन्दरः अस्ताद्रिरुदयाद्रिश् च उभौ तौ कूबरौ स्मृतौ
普什迦罗与安达利迦沙,罗陀尼荼与曼陀罗;同样,阿斯塔陀利与优陀耶陀利——此二者被忆念为成对的界峰(kūbara),标示湿婆有序创造中所安立的宇宙边界。
Verse 7
अधिष्ठानं महामेरुर् आश्रयाः केसराचलाः वेगः संवत्सरस्तस्य अयने चक्रसंगमौ
大梅鲁为其根本轴心;计舍罗遮罗诸山为其依托支撑。其度量之行程为一年,而两种阿耶那(ayana)乃天轮交会之处。
Verse 8
मुहूर्ता बन्धुरास्तस्य शम्याश्चैव कलाः स्मृताः तस्य काष्ठाः स्मृता घोणा चाक्षदण्डाः क्षणाश् च वै
就此时间的计量而言,牟呼尔多(muhūrta)被教示为其“bandhurā”之单位;而沙弥耶(śamyā)被忆念为迦罗(kalā)。同样,更细微的分段被宣说为:迦湿吒(kāṣṭhā)、瞿那(ghoṇā)、阿叉檀陀(akṣa-daṇḍa),以及刹那(kṣaṇa)。
Verse 9
निमेषाश्चानुकर्षाश् च ईषा चास्य लवाः स्मृताः द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ
眨眼(nimeṣa)与相续之刻(anukarṣa)被知为其时间度量;其车辕为极微之瞬(lavāḥ)。苍穹本身即此车之车盖,而其两面旌旗为:天界(svarga)与解脱(mokṣa)。
Verse 10
धर्मो विरागो दण्डो ऽस्य यज्ञा दण्डाश्रयाः स्मृताः दक्षिणाः संधयस्तस्य लोहाः पञ्चाशदग्नयः
就此与戒律之杖(daṇḍa)相应的宇宙形相而言,法(Dharma)与离欲(Vairāgya)被宣说为祂自身之杖。诸祭(yajña)被说依止于此杖;供施(dakṣiṇā)为祂之关节;而祂之“金属”即五十种圣火——象征由秩序与出离所护持的众多仪轨之火。
Verse 11
युगान्तकोटी तौ तस्य धर्मकामावुभौ स्मृतौ ईषादण्डस्तथाव्यक्तं बुद्धिस्तस्यैव नड्वलः
在劫末之时,那二者——法(Dharma)与欲(Kāma)——被忆念为祂的宇宙之双。祂的驱策之杖(īṣā-daṇḍa)亦即不显(Avyakta);而祂的觉智(Buddhi)实为绳索(pāśa),能系缚、制御并牵引众生。
Verse 12
कोणस् तथा ह्यहङ्कारो भूतानि च बलं स्मृतम् इन्द्रियाणि च तस्यैव भूषणानि समन्ततः
科那(Koṇa,宇宙之角与方位原理)与我执(ahaṅkāra),诸大(bhūta)被称为力,及诸根(indriya)——这一切在四方周遍,皆为主宰帕提(Pati)之庄严饰物;祂超越而又遍入万有。
Verse 13
श्रद्धा च गतिरस्यैव वेदास्तस्य हयाः स्मृताः पदानि भूषणान्येव षडङ्गान्युपभूषणम्
信(śraddhā)本身即是祂前行之道;诸吠陀被忆念为祂的骏马。祂的步履诚为庄严之饰;六支吠陀(Vedāṅga)为次第之饰。由是赞颂主宰帕提:吠陀威力之化身,正行之灵动所依。
Verse 14
पुराणन्यायमीमांसाधर्मशास्त्राणि सुव्रताः वालाश्रयाः पटाश्चैव सर्वलक्षणसंयुताः
具善誓者(suvrata),以《往世书》(Purāṇa)、因明(Nyāya)、弥曼萨(Mīmāṃsā)与《法论》(Dharmaśāstra)为根基,依止戒行与恒常修持,并具足一切吉祥相——如是之人,方为堪任此教与其诵持者。
Verse 15
मन्त्रा घण्टाः स्मृतास्तेषां वर्णाः पादास्तथाश्रमाः अवच्छेदो ह्यनन्तस्तु सहस्रफणभूषितः
他们的真言被忆念如钟铃之声;其音节为四分(pāda),其所依为种姓(varṇa)与住期(āśrama)。然而其真实的界限乃无穷——阿难多(Ananta),以千重蛇冠为饰,昭示主宰帕提(Śiva)超越一切分段衡量的无边性。
Verse 16
दिशः पादा रथस्यास्य तथा चोपदिशश् च ह पुष्कराद्याः पताकाश् च सौवर्णा रत्नभूषिताः
诸方位成为此车之足,诸隅方亦复如是。其旌旗——以“普什迦罗”(Puṣkara)幢为首——皆以黄金制成,并以珠宝庄严。
Verse 17
समुद्रास्तस्य चत्वारो रथकम्बलिकाः स्मृताः गङ्गाद्याः सरितः श्रेष्ठाः सर्वाभरणभूषिताः
其四大海被忆为车之毯覆,护持而周匝;而诸胜河流,以恒河(Gaṅgā)为首,最为尊上,具足一切庄严。于是诸圣水自身显现为受灌顶的神力,奉事主宰帕提(Śiva)的神圣秩序。
Verse 18
चामरासक्तहस्ताग्राः सर्वाः स्त्रीरूपशोभिताः तत्रतत्र कृतस्थानाः शोभयांचक्रिरे रथम्
众者皆以女性之姿容而庄美,或此或彼各安其位,手执拂尘(chāmara,仪式之扇),令此车辉耀庄严。
Verse 19
आवहाद्यास् तथा सप्त सोपानं हैममुत्तमम् सारथिर्भगवान्ब्रह्मा देवाभीषुधराः स्मृताः
同样,七种神力以“阿婆诃”(Āvahā)为首而为人所知;又说到那最胜的金阶(上升之阶)。御者为薄伽梵梵天(Brahmā),诸天被忆为执缰之者(如光线之缰)。
Verse 20
प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् लोकालोकाचलस्तस्य ससोपानः समन्ततः
对于那宇宙之林伽,梵天为驱策创造前行之鞭策;神圣的普罗那瓦“唵”(Oṁ)为其梵神之本尊。洛迦罗迦山为其界限,四周环列阶梯,宛如供奉与瑜伽证悟之登阶。
Verse 21
विषमश् च तदा बाह्यो मानसाद्रिः सुशोभनः नासाः समन्ततस्तस्य सर्व एवाचलाः स्मृताः
其时,在外侧显现出庄严秀丽的摩那萨德里山,地势参差不齐;而环绕其四方的山脊与突起之处,皆被记念为诸山。
Verse 22
तलाः कपोताः कापोताः सर्वे तलनिवासिनः मेरुरेव महाछत्रं मन्दरः पार्श्वडिण्डिमः
这一切——名为塔拉、鸽族(Kapota)与鸽族(Kāpotā)者——皆为塔拉境之住民。须弥山自身如同宏大的王伞,而曼陀罗山则仿佛其侧旁鸣响的边鼓。
Verse 23
शैलेन्द्रः कार्मुकं चैव ज्या भुजङ्गाधिपः स्वयम् कालरात्र्या तथैवेह तथेन्द्रधनुषा पुनः
在此,雪楞陀罗(Śailendra)确为弓;弓弦则是蛇王自身。同样,迦罗夜(Kālarātrī)亦在此显现;而再者,因陀罗之虹亦为弓。由这些神圣的人格化可知主之威力:连兵器与时间之力,皆成至上湿婆——主宰(Pati)手中的器具。
Verse 24
घण्टा सरस्वती देवी धनुषः श्रुतिरूपिणी इषुर्विष्णुर्महातेजाः शल्यं सोमः शरस्य च
铃为辩才天女萨拉斯瓦蒂;弓为吠陀圣闻(Śruti)之化身。箭为大威光的毗湿奴;而苏摩(月神)为箭镞,亦为箭杆之精髓。
Verse 25
कालाग्निस्तच्छरस्यैव साक्षात्तीक्ष्णः सुदारुणः अनीकं विषसम्भूतं वायवो वाजकाः स्मृताः
那支箭本身化为“时火”(Kālāgni),显现分明,锋利如刃,极其可怖。由毒而生的军阵被称为诸风——名为“推动者”(vājaka),驱使它向前疾进。
Verse 26
एवं कृत्वा रथं दिव्यं कार्मुकं च शरं तथा सारथिं जगतां चैव ब्रह्माणं प्रभुमीश्वरम्
如此安排好天界战车,并备齐弓与箭之后,他又任命梵天(Brahmā)——诸世界的主宰——为御者(车夫)。
Verse 27
आरुरोह रथं दिव्यं रणमण्डनधृग् भवः सर्वदेवगणैर्युक्तं कम्पयन्निव रोदसी
战饰加身的婆伐(Bhava,主湿婆)登上神圣战车,诸天众神随侍左右,仿佛令天地二界都为之震颤。
Verse 28
शिव मोउन्त्स् थे छरिओत् ऋषिभिः स्तूयमानश् च वन्द्यमानश् च बन्दिभिः उपनृत्तश्चाप्सरसां गणैर्नृत्यविशारदैः
湿婆登上战车——众仙(ṛṣi)赞颂,颂德者礼敬;又有善舞的阿普萨拉斯天女成群环绕起舞,随侍相伴以奉献。
Verse 29
सुशोभमानो वरदः सम्प्रेक्ष्यैव च सारथिम् तस्मिन्नारोहति रथं कल्पितं लोकसंभृतम्
赐福之主光辉灿然,只一瞥御者,便登上那辆战车——以神秘之力铸成、为诸世界所承托——显明“主宰者”(Pati)的至尊权能:为护持并提升诸“系缚之魂”(paśu),而能示现种种形相。
Verse 30
शिरोभिः पतिता भूमीं तुरगा वेदसंभवाः अथाधस्ताद्रथस्यास्य भगवान् धरणीधरः
那些由吠陀所生的骏马头朝下坠落大地;而在这战车之下,吉祥的圣主——大地的承持者——立为其支撑。
Verse 31
वृषेन्द्ररूपी चोत्थाप्य स्थापयामास वै क्षणम् क्षणान्तरे वृषेन्द्रो ऽपि जानुभ्यामगमद्धराम्
他化作牛主之形(Vṛṣendra),将其扶起并暂时立正;然而转瞬之间,那雄健之牛又双膝下沉,伏向大地。
Verse 32
अभीषुहस्तो भगवान् उद्यम्य च हयान् विभुः स्थापयामास देवस्य वचनाद्वै रथं शुभम्
圣主手执缰绳,威力无边、遍一切处,扶起群马;并遵从天神之命,将那吉祥战车稳稳安置。
Verse 33
ततो ऽश्वांश्चोदयामास मनोमारुतरंहसः पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम्
随后他策动骏马——疾如心念与风——直指那强盛达那婆(Dānava)在空中安置的古老城堡要塞。
Verse 34
अथाह भगवान् रुद्रो देवानालोक्य शङ्करः पशूनामाधिपत्यं मे दत्तं हन्मि ततो ऽसुरान्
于是圣主鲁陀罗——商羯罗——望向诸天神而宣言:“对诸‘帕舒’(被系缚之众生灵魂)的主权已赐予我;因此我将击灭阿修罗。”
Verse 35
पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः कल्पयित्वैव वध्यास्ते नान्यथा नैव सत्तमाः
噢,诸天中最胜者!这些众生唯有在被明确指定为独立的“帕舒”(paśu,仪式之祭牲/受缚之灵)之后,方可作为巴利(bali,供献)而奉献;绝非他法——贤圣如是宣说。于法(dharma)中,作为帕舒的灵魂不可无规而伤;唯有为仪轨所许可者,方可献为巴利。
Verse 36
इति श्रुत्वा वचः सर्वं देवदेवस्य धीमतः विषादमगमन् सर्वे पशुत्वं प्रति शङ्किताः
他们听罢智者“诸主之主”的全部开示,众皆陷入忧惧沮丧,对“帕舒性”(paśutva)——在缚索(pāśa)之下受系缚之灵的境况——心生恐惧与疑惑。
Verse 37
तेषां भावं ततो ज्ञात्वा देवस्तानिदमब्रवीत् मा वो ऽस्तु पशुभावे ऽस्मिन् भयं विबुधसत्तमाः
主洞悉他们的内心情状,便对他们说道:“噢,天众中最胜的智者们,在此作为帕舒(paśu,受缚之灵)的境况中,你们不必恐惧。”
Verse 38
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः यो वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति
当听闻:从帕舒(paśu,受缚之灵)之境得解脱的方法,确应付诸实行。凡真实修行神圣的帕舒帕塔(Pāśupata)之道者,必得解脱(莫克沙,mokṣa)。
Verse 39
पशुत्वादिति सत्यं च प्रतिज्ञातं समाहिताः ये चाप्यन्ये चरिष्यन्ति व्रतं पाशुपतं मम
“众生处于帕舒性(paśutva)——受缚之灵的境况,此乃真实。”他们心神专一而立此誓愿;凡其他人亦修持我之帕舒帕塔(Pāśupata)誓行(vrata)者,同样将入于引导帕舒趋向主宰帕提(Pati)的戒律之道。
Verse 40
मोक्ष्यन्ति ते न संदेहः पशुत्वात् सुरसत्तमाः नैष्ठिकं द्वादशाब्दं वा तदर्धं वर्षकत्रयम्
噢,诸天中最胜者,毫无疑问他们必得解脱(mokṣa);因为虽处于“兽”(paśu,受缚之灵)的境地,却能以坚固不退的持戒修行而得出离——或十二年,或其半,即三年。
Verse 41
शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः
凡能令他人修行恭敬侍奉(śuśrūṣā)与专注戒律者,便从“兽性”(paśutva,受缚之态)中解脱。因此,噢,诸神中最胜者,当修此至上而神圣之道。
Verse 42
तथेति चाब्रुवन्देवाः शिवे लोकनमस्कृते तस्माद्वै पशवः सर्वे देवासुरनराः प्रभोः
“如是。”诸神对为诸世界所礼敬的湿婆说道。因此,噢,主宰啊,一切确为“兽”(paśu)——天神、阿修罗与人类——皆隶属于主人(Pati)。
Verse 43
रुद्रः पशुपतिश्चैव पशुपाशविमोचकः यः पशुस्तत्पशुत्वं च व्रतेनानेन संत्यजेत्
鲁陀罗确为牧主(Paśupati)——诸“兽”(paśu,受缚之灵)的主宰——亦是解缚者,能斩断paśu之缚索(pāśa)。众生之灵若奉行此戒行,便能舍离其“兽性”之态,即束缚之境。
Verse 44
तत्कृत्वा न च पापीयान् इति शास्त्रस्य निश्चयः गणेश पचिफ़िएद् ततो विनायकः साक्षाद् बालो ऽबालपराक्रमः
既已如是行持,便不为罪垢所染——此乃圣典(śāstra)之定论。于是象头神伽内沙得以欢悦,毗那夜迦亲自显现:形如童子,而威力不可抗拒,绝非稚弱。
Verse 45
अपूजितस्तदा देवैः प्राह देवान्निवारयन् श्रीविनायक उवाच मामपूज्य जगत्यस्मिन् भक्ष्यभोज्यादिभिः शुभैः
当时,诸天未曾礼敬供奉,圣尊毗那耶迦便出言制止诸神:“在此世间,若不先以吉祥供品——饮食、甜点等——礼拜于我……”。
Verse 46
कः पुमान्सिद्धिमाप्नोति देवो वा दानवो ऽपि वा ततस्तस्मिन् क्षणादेव देवकार्ये सुरेश्वराः
“众生之中,谁能得成就——无论是天神,乃至达那婆也?”于是就在那一刹那,诸天之主投入神圣之事,使其迅速圆满成办。
Verse 47
विघ्नं करिष्ये देवेश कथं कर्तुं समुद्यताः ततः सेन्द्राः सुराः सर्वे भीताः सम्पूज्य तं प्रभुम्
“我将制造障碍,噢诸天之主——你们又将如何着手成办?”于是,一切天神以因陀罗为首皆生畏惧,遂礼拜供奉那位至上之主。
Verse 48
भक्ष्यभोज्यादिभिश्चैव उण्डरैश्चैव मोदकैः अब्रुवंस्ते गणेशानं निर्विघ्नं चास्तु नः सदा
他们献上种种饮食珍馐——甜食、糕饼与摩陀迦——随从们对伽内沙祈言:“愿我等之道恒常无碍。”
Verse 49
भवो ऽप्यनेकैः कुसुमैर् गणेशं भक्ष्यैश् च भोज्यैः सुरसैः सुगन्धैः /* आलिङ्ग्य चाघ्राय सुतं तदानीमपूजयत्सर्वसुरेन्द्रमुख्यः
随后,婆婆(湿婆)亦以繁多花鬘与芬芳甘美的饮食——点心与盛供俱全——礼敬供养伽内沙。那位至上之主,连诸天首领亦在其前俯首者,当即拥抱其子,慈爱地嗅闻其顶髻,并于彼时亲自加以尊崇。
Verse 50
सम्पूज्य पूज्यं सह देवसंघैर् विनायकं नायकमीश्वराणाम् गणेश्वरैरेव नगेन्द्रधन्वा पुरत्रयं दग्धुमसौ जगाम
在与诸天众会一同恭敬礼拜那位“应受礼敬者”——毗那夜迦、诸主之领袖之后,持弓如山的自在天湿婆,偕同诸伽那之首领,遂启程前往焚毁三城(特里普罗)。
Verse 51
अर्म्य् ओफ़् थे गोद्स् तं देवदेवं सुरसिद्धसंघा महेश्वरं भूतगणाश् च सर्वे गणेश्वरा नन्दिमुखास्तदानीं स्ववाहनैरन्वयुरीशमीशाः
其时,诸天与悉达众会,以及一切部多伽那——由难提目迦等湿婆侍从之首领统率——皆随从那位天中之天摩诃伊湿伐罗、至上自在主;各各乘其自有之乘具而行。
Verse 52
अग्रे सुराणां च गणेश्वराणां तदाथ नन्दी गिरिराजकल्पम् विमानमारुह्य पुरं प्रहर्तुं जगाम मृत्युं भगवानिवेशः
随后,在诸天与伽那诸主之前锋,难提雄伟如山王,登上天车,前往击打那城;承受主之威力加持,他如同死神一般推进。
Verse 53
यान्तं तदानीं तु शिलादपुत्रम् आरुह्य नागेन्द्रवृषाश्ववर्यान् देवास्तदानीं गणपाश् च सर्वे गणा ययुः स्वायुधचिह्नहस्ताः
当时,随着尸罗陀之子(尊贵的难提)启行,诸天与一切伽那亦同时出发——乘骑最胜的龙王、神牛与骏马——各各手持自家兵器之徽记。
Verse 54
खगेन्द्रमारुह्य नगेन्द्रकल्पं खगध्वजो वामत एव शंभोः /* जगाम जगतां हिताय पुरत्रयं दग्धुमलुप्तशक्तिः
旗帜之尊乘迦楼罗而行,旌幡巍然如山王之相,前往商婆(湿婆)左侧。其力不失,为诸世界之安乐而去——使三城(特里普罗)被焚。
Verse 55
तं सर्वदेवाः सुरलोकनाथं समन्ततश्चान्वयुरप्रमेयम् /* सुरासुरेशं सहस्ररश्मिर् भगवान् सुतीक्ष्णः
诸天神众环绕随从那不可度量的主宰——天界诸世界之君——统御天神与阿修罗者;彼为千光之薄伽梵,极其辉耀,威力锋锐。
Verse 56
रराज मध्ये भगवान्सुराणां विवाहनो वारिजपत्रवर्णः यथा सुमेरोः शिखराधिरूढः सहस्ररश्मिर् भगवान् सुतीक्ष्णः
在诸天之中,薄伽梵赫然照耀——其光色如莲瓣之华——宛若千光之日安立须弥山巅,炽盛辉煌,神圣无比。
Verse 57
सहस्रनेत्रः प्रथमः सुराणां गजेन्द्रमारुह्य च दक्षिणे ऽस्य जगाम रुद्रस्य पुरं निहन्तुं यथोरगांस्तत्र तु वैनतेयः
千眼的因陀罗,诸天之首,乘王象自南翼推进,意欲摧灭鲁陀罗之城——如迦楼罗(毗那底耶)俯冲以灭群蛇。
Verse 58
तं सिद्धगन्धर्वसुरेन्द्रवीराः सुरेन्द्रवृन्दाधिपम् इन्द्रम् ईशम् समन्ततस्तुष्टुवुरिष्टदं ते जयेति शक्रं वरपुष्पवृष्ट्या
于是悉达、乾闼婆与诸天勇士从四面赞颂因陀罗——天军之主、威德之君。众皆呼“胜利!”称扬释迦罗为赐愿施恩者,并以殊胜妙花如雨散落供奉。
Verse 59
तदा ह्यहल्योपपतिं सुरेशं जगत्पतिं दिविष्ठाः /* प्रणेमुरालोक्य सहस्रनेत्रं सलीलमंबा तनयं यथेन्द्रम्
其时,天界众生瞻见诸神之主——阿诃利耶之夫、世间之君、千眼者——便恭敬顶礼,如同礼敬安芭之子因陀罗,那随意游戏、自在无碍者。
Verse 60
यमपावकवित्तेशा वायुर्निरृतिरेव च अपाम्पतिस् तथेशानो भवं चानु समागताः
阎摩、阿耆尼、俱毗罗、伐由与尼利底,并水之主伐楼那及伊舍那,皆悉会集,继而随从婆伐(湿婆)之后而行。
Verse 61
वीरभद्रो रणे भद्रो नैरृत्यां वै रथस्य तु वृषभेन्द्रं समारुह्य रोमजैश् च समावृतः
吉祥的毗罗跋陀罗,战阵中威猛无比,立于战车之西南(尼利底)翼侧;乘御牛王,周身毛发竖立,形相可怖,宛如破碎敌对众生(paśu)系缚之主(Pati)。
Verse 62
सेवां चक्रे पुरं हन्तुं देवदेवं त्रियंबकम् महाकालो महातेजा महादेव इवापरः
为成就对那魔城的毁灭,他以虔敬之侍奉归依三目者特里央婆迦——诸神之神。彼大迦罗光辉炽盛,宛若又一位大天(摩诃提婆)亲临而立。
Verse 63
वायव्यां सगणैः सार्धं सेवां चक्रे रथस्य तु
于西北方(伐由方),他与诸伽那同在,侍奉那战车,依所定之职而行,以严整的虔敬尽其随侍。
Verse 64
षण्मुखो ऽपि सह सिद्धचारणैः सेनया च गिरिराजसंनिभः देवनाथगणवृन्दसंवृतो वारणेन च तथाग्निसंभवः
六面天子斯迦陀亦然——由火神阿耆尼所生——与悉达、查罗那同进,并率如山王般浩大的军旅;周围簇拥着诸天之主与伽那众,又有其雄伟象乘随侍而行。
Verse 65
विघ्नं गणेशो ऽप्यसुरेश्वराणां कृत्वा सुराणां भगवानविघ्नम् विघ्नेश्वरो विघ्नगणैश् च सार्धं तं देशमीशानपदं जगाम
于是,伽内沙——障碍主毗伽涅湿伐罗——为阿修罗诸王设下重重障碍,却令诸天之道无有阻滞;他又率领诸“障碍众”(vighna-gaṇa)前往名为“伊舍那之位”(Īśāna-pada)的境界——伊舍那的圣域,至上主宰帕提(Pati)之所。
Verse 66
काली तदा कालनिशाप्रकाशं शूलं कपालाभरणा करेण प्रकम्पयन्ती च तदा सुरेन्द्रान् महासुरासृङ्मधुपानमत्ता
其时,迦梨女神——以骷髅为饰——手执三叉戟,光芒如同“时劫”之幽暗长夜;她饮尽大阿修罗甘若蜜的鲜血而沉醉,令诸天之主亦为之战栗。
Verse 67
मत्तेभगामी मदलोलनेत्रा मत्तैः पिशाचैश् च गणैश् च मत्तैः मत्तेभचर्मांबरवेष्टिताङ्गी ययौ पुरस्ताच्च गणेश्वरस्य
她步履如醉象,双目因狂喜而摇曳;周遭簇拥着癫狂的毗舍遮与沉醉的众伽那;她以象皮为衣裹覆肢体,走在伽内舍伐罗——众伽那之主——的前方。
Verse 68
तां सिद्धगन्धर्वपिशाचयक्षविद्याधराहीन्द्रसुरेन्द्रमुख्याः प्रणेमुरुच्चैरभितुष्टुवुश् च जयेति देवीं हिमशैलपुत्रीम्
诸悉达、乾闼婆、毗舍遮、夜叉、持明者、龙王以及诸天之主中的最上者,皆向那位女神俯首顶礼;并高声赞颂雪山王希摩伐特之女,齐呼:“胜利归于天女(Devī)!”
Verse 69
मातरः सुरवरारिसूदनाः सादरं सुरगणैः सुपूजिताः मातरं ययुरथ स्ववाहनैः स्वैर्गणैर्ध्वजधरैः समन्ततः
随后,诸神圣母——诛灭最胜诸天之敌者——既受天众恭敬供养,便乘各自之乘具前往“母”(至上女神/圣力Śakti);其自属眷众执幡持旌,四面环卫随行。
Verse 70
दुर्गारूढमृगाधिपा दुरतिगा दोर्दण्डवृन्दैः शिवा बिभ्राणाङ्कुशशूलपाशपरशुं चक्रासिशङ्खायुधम् प्रौढादित्यसहस्रसदृशैर्नेत्रैर्दहन्ती पथं बालाबालपराक्रमा भगवती दैत्यान्प्रहर्तुं ययौ
端坐于杜尔迦之狮上,吉祥的湿婆女神——不可逾越,具无数雄健之臂——执持钩杖、三叉戟、绳索、战斧、法轮、利剑与海螺为兵器。其目光炽烈如千轮盛日,灼烧前方道路;这位威德无量的圣母,遂出征以诛灭代提耶诸魔。
Verse 71
तं देवमीशं त्रिपुरं निहन्तुं तदा तु देवेन्द्ररविप्रकाशाः गजैर्हयैः सिंहवरै रथैश् च वृषैर्ययुस्ते गणराजमुख्याः
其时,为诛灭特里普拉,湿婆诸伽那的首领们——光辉如因陀罗与太阳——启程趋向主宰、至上伊湿伐罗。他们乘象、乘马、乘上等雄狮,驾战车,亦骑公牛而行。
Verse 72
हलैश् च फालैर् मुसलैर् भुशुण्डैर् गिरीन्द्रकूटैर् गिरिसन्निभास्ते ययुः पुरस्ताद्धि महेश्वरस्य सुरेश्वरा भूतगणेश्वराश् च
他们执持犁与犁铧、杵与巨棒,甚至擎起山峰之巅——其形体宛如群山——诸天之主与部多军团之统帅,行进在大自在天(摩诃伊湿伐罗)之前。
Verse 73
तथेन्द्रपद्मोद्भवविष्णुमुख्याः सुरा गणेशाश् च गणेशमीशम् जयेति वाग्भिर् भगवन्तमूचुः किरीटदत्ताञ्जलयः समन्तात्
于是,诸天由因陀罗、莲生者(梵天)与毗湿奴为首,并与湿婆伽那之首领一同,从四方对主宰伽内沙致敬。众人放下冠冕,合掌作礼,齐声称颂:“胜利归于您,世尊!”
Verse 74
ननृतुर्मुनयः सर्वे दण्डहस्ता जटाधराः ववृषुः पुष्पवर्षाणि खेचराः सिद्धचारणाः पुरत्रयं च विप्रेन्द्राः प्राणदत्सर्वतस् तथा
诸牟尼皆执杖、披结发(阇吒),欢喜起舞。住于虚空者——悉达与查罗那——降下花雨。三座城(特里普拉),噢婆罗门中最胜者,也从四面八方断绝其命息。
Verse 75
गणेश्वरैर् देवगणैश् च भृङ्गी सहावृतः सर्वगणेन्द्रवर्यः जगाम योगी त्रिपुरं निहन्तुं विमानमारुह्य यथा महेन्द्रः
在诸伽内湿伐罗与天众侍从的簇拥之中,婆陵祇随侍在侧;那位统摄一切伽那首领的至上主——大瑜伽行者——登上天车,如同摩诃因陀罗(因陀罗)一般,启程前往毁灭三城(Tripura)。
Verse 76
केशो विगतवासाश् च महाकेशो महाज्वरः सोमवल्ली सवर्णश् च सोमपः सेनकस् तथा
祂是吉舍(Keśa),亦是超越一切覆障者(Vigatavāsas);祂是摩诃吉舍(Mahākeśa),大髻之主;亦是摩诃灼热(Mahājvara),以至上热焰焚尽系缚。祂是苏摩藤(Somavallī)本身,是萨伐尔那(Savarṇa),同一而遍照的光辉;祂是饮苏摩者(Somapa),亦是塞那迦(Senaka),统摄并整肃天军之主。
Verse 77
सोमधृक् सूर्यवाचश् च सूर्यपेषणकस् तथा सूर्याक्षः सूरिनामा च सुरः सुन्दर एव च
祂是持月者(Somadhṛk);祂是日之言音(Sūryavāc);祂是碾磨并使万物成熟的太阳(Sūryapeṣaṇaka)。祂是日眼者(Sūryākṣa);祂名为智者(Sūrināmā);祂是天神(Sura);唯祂是至美者(Sundara)——如是赞颂主宰。
Verse 78
प्रकुदः ककुदन्तश् च कम्पनश् च प्रकम्पनः इन्द्रश् चेन्द्रजयश्चैव महाभीर् भीमकस् तथा
祂是普罗库达(Prakuda)、卡库丹塔(Kakudanta);祂是震动者(Kampana)与大震动者(Prakampana)。祂是因陀罗(Indra),亦是胜因陀罗者(Indrajaya);祂是大可畏者(Mahābhīr),亦是令众生战栗的毗摩迦(Bhīmaka)——以此诸名,主宰(Pati)受人赞颂。
Verse 79
शताक्षश्चैव पञ्चाक्षः सहस्राक्षो महोदरः यमजिह्वः शताश्वश् च कण्ठनः कण्ठपूजनः
祂是百眼者(Śatākṣa),亦是五字真言之主(Pañcākṣa);祂是千眼者(Sahasrākṣa),广大之体(Mahodara)。祂是阎摩之舌(Yamajihva)——制御与裁断之力;祂是百马者(Śatāśva)——迅疾而遍至。祂是搅动咽喉者(Kaṇṭhana),亦是于咽喉受礼敬者(Kaṇṭhapūjana)——被赞为尼罗迦ṇṭha(Nīlakaṇṭha,青颈者),为护持一切众生而承受宇宙之毒。
Verse 80
द्विशिखस् त्रिशिखश्चैव तथा पञ्चशिखो द्विजाः मुण्डो ऽर्धमुण्डो दीर्घश् च पिशाचास्यः पिनाकधृक्
噢,诸位二生者,主宰帕提、自在天湿婆被称为“二髻者”“三髻者”“五髻者”;又称“剃首者”“半剃者”“高长者”;称“面貌可怖如毗舍遮者”;并称“执持毗那迦神弓者”——以此诸圣号赞颂之。
Verse 81
पिप्पलायतनश्चैव तथा ह्यङ्गारकाशनः शिथिलः शिथिलास्यश् च अक्षपादो ह्यजः कुजः
祂以神圣的毕钵罗树(阿湿婆他)为居处;祂吞食祭火中炽热的余烬;祂是不受系缚者;祂口容舒缓而安宁;祂双足不坏;祂为不生者;并被称为“俱阇”(Kuja),如火如赤星之力。
Verse 82
अजवक्त्रो हयवक्त्रो गजवक्त्रो ऽर्ध्ववक्त्रकः इत्याद्याः परिवार्येशं लक्ष्यलक्षणवर्जिताः
“羊面、马面、象面、仰面”等等侍从之相,被说围绕在主宰左右;然而伊沙自身——超越一切的帕提——并无可执取的“标相”,亦无可限定的特征;超越客观之征与一切局限之属性。
Verse 83
वृन्दशस्तं समावृत्य जग्मुः सोमं गणैर्वृताः सहस्राणां सहस्राणि रुद्राणामूर्ध्वरेतसाम्
他们列队成群环绕着他,与苏摩同行前进,四周为伽那所拥护——千千无数的鲁陀罗,皆为“精力上行”的苦行者,以瑜伽的摄持使威力转向上升。
Verse 84
समावृत्य महादेवं देवदेवं महेश्वरम् दग्धुं पुरत्रयं जग्मुः कोटिकोटिगणैर्वृताः
他们环绕着大天——诸神之神、摩诃自在天——出发去焚毁三城(特里普拉),随行者为亿亿无数的湿婆伽那。
Verse 85
त्रयस्त्रिंशत्सुराश्चैव त्रयश् च त्रिशतास् तथा त्रयश् च त्रिसहस्राणि जग्मुर्देवाः समन्ततः
诸天从四方而来——三十三位主神,亦有三百零三,又有三千零三——从各处环集而至,被那在神圣境域中显现的至上临在(主宰Pati)所吸引。
Verse 86
मातरः सर्वलोकानां गणानां चैव मातरः भूतानां मातरश्चैव जग्मुर्देवस्य पृष्ठतः
诸世界之母——亦即诸伽那之母、万有众生之母——行于主神之后,随侍在其身后。
Verse 87
भाति मध्ये गणानां च रथमध्ये गणेश्वरः नभस्यमलनक्षत्रे तारामध्य इवोडुराट्
伽内湿伐罗(Gaṇeśvara)在伽那众中居中而耀,在车乘之中亦居中而辉;如同清净天穹的群星之间,月亮——众星之王——在中央放光。
Verse 88
रराज देवी देवस्य गिरिजा पार्श्वसंस्थिता तदा प्रभावतो गौरी भवस्येव जगन्मयी
其时,吉利阇(Girijā)女神侍立于天神(湿婆Śiva)之侧,光辉炽盛;凭其自身神圣光明,皎丽(Gaurī)显现为遍满世界者——正如婆伐(Bhava,湿婆)自身即是宇宙之体。
Verse 89
शुभावती तदा देवी पार्श्वसंस्था विभाति सा चामरासक्तहस्ताग्रा सा हेमांबुजवर्णिका
其时,吉祥的女神善福者(Śubhāvatī)近侍于侧而光耀夺目;其前列之手执持拂尘(cāmara,牦牛尾扇),肤色如金莲一般——放射出湿婆–夏克蒂神圣临在的辉煌。
Verse 90
अथ विभाति विभोर्विशदं वपुर् भसितभासितमंबिकया तया सितमिवाभ्रमहो सह विद्युता नभसि देवपतेः परमेष्ठिनः
随后,遍一切处的主(毗布)那清净无垢之身赫然炽现——因圣灰(bhasma)与安比迦(Ambikā)的临在而愈加光明——宛如天际白云挟电闪耀,奇妙可观,乃诸天之上的至上主宰。
Verse 91
भातीन्द्रधनुषाकाशं मेरुणा च यथा जगत् हिरण्यधनुषा सौम्यं वपुः शंभोः शशिद्युति
如同虚空因因陀罗之虹而辉映,如同世界因须弥山而增光,善柔的商婆(Śambhu)之身亦如金弓般炽然,以月华般的光明照耀;显现为主宰(Pati),以其灿然恩光为众生(pashu)解散黑暗之缚(pāśa)。
Verse 92
सितातपत्रं रत्नांशुमिश्रितं परमेष्ठिनः यथोदये शशाङ्कस्य भात्यखण्डं हि मण्डलम्
一柄白色王伞,杂映宝珠之光,为至上主帕拉梅什提因(Parameṣṭhin)而辉耀;正如月出之时,月轮显现圆满无缺,通体光明。
Verse 93
सदुकूला शिवे रक्ता लम्बिता भाति मालिका छत्रान्ता रत्नजाकाशात् पतन्तीव सरिद्वरा
一串吉祥赤染的花鬘,优雅垂挂于圣母湿婆妃(Śivā)身上而熠熠生辉——其末端仿佛抵至伞缘——宛如一条华美之河倾泻而下,放射宝石般的光彩。
Verse 94
अथ महेन्द्रविरिञ्चिविभावसुप्रभृतिभिर् नतपादसरोरुहः सह तदा च जगाम तयांबया सकललोकहिताय पुरत्रयम्
随后,主宰——其莲足为因陀罗、毗邻支(梵天)、毗婆婆苏(火神阿耆尼)及诸天所顶礼——当时与圣母安芭(Ambā)同往。为利益一切世界,祂前行至三城(Tripura)。
Verse 95
दग्धुं समर्थो मनसा क्षणेन चराचरं सर्वमिदं त्रिशूली किमत्र दग्धुं त्रिपुरं पिनाकी स्वयं गतश्चात्र गणैश् च सार्धम्
持三叉戟者仅以一念之意,于刹那间便能焚尽此一切动与不动的宇宙。既如此,此处还有什么可焚——三城(Tripura)吗?执持毗那迦神弓的圣主已亲自降临,并与诸伽那同来。
Verse 96
रथेन किं चेषुवरेण तस्य गणैश् च किं देवगणैश् च शंभोः पुरत्रयं दग्धुमलुप्तशक्तेः किमेतद् इत्याहुर् अजेन्द्रमुख्याः
“他何须战车,又何须上妙之箭?商婆(Śambhu)何须侍从,又何须诸天之众?其神力从不减损——他独自便能焚毁三城(Tripura)。‘那么这一切究竟何意?’——无生者与因陀罗中最尊者(即梵天与诸天领袖)如是说道。”
Verse 97
मन्वाम नूनं भगवान्पिनाकी लीलार्थमेतत्सकलं प्रवर्त्तुम् व्यवस्थितश्चेति तथान्यथा चेद् आडम्बरेणास्य फलं किमन्यत्
我们确知:持毗那迦之圣主乃是为着利拉(līlā,神圣戏游)而有意令这一切运转。若非如此——若另有其因——这般仅是外相的铺陈,又能结出何等果报?
Verse 98
पुरत्रयस्यास्य समीपवर्ती सुरेश्वरैर् नन्दिमुखैश् च नन्दी गणैर्गणेशस्तु रराज देव्या जगद्रथो मेरुरिवाष्टशृङ्गैः
在那三城(Tripura)近旁,伽内沙——伽那之主——光辉显现,周围环侍着诸天之主、难提穆迦(Nandimukha)、难提(Nandin)以及众多随从伽那。他宛如八峰之须弥山(Meru),又如女神(Śakti)在湿婆胜利的宇宙仪轨中所乘的神圣战车。
Verse 99
अथ निरीक्ष्य सुरेश्वरमीश्वरं सगणमद्रिसुतासहितं तदा त्रिपुररङ्गतलोपरि संस्थितः सुरगणो ऽनुजगाम स्वयं तथा
于是,诸天见到天神之主——自在天(Īśvara)——与其伽那同在,并有山之女(Śakti)相伴;当时驻立于三城(Tripura)竞技场地面的诸天众,便自发随从其后。
Verse 100
जगत्त्रयं सर्वमिवापरं तत् पुरत्रयं तत्र विभाति सम्यक् नरेश्वरैश्चैव गणैश् च देवैः सुरेतरैश् च त्रिविधैर्मुनीन्द्राः
在那境界中,三界仿佛皆成次要;彼处三重之城(Puratraya)依正法次第灿然显现,充满人中王者、湿婆之众伽那、诸天与非天等——噫,诸牟尼之最胜者。
Verse 101
शिव बुर्न्स् त्रिपुर अथ सज्यं धनुः कृत्वा शर्वः संधाय तं शरम् युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत्
于是舍婆(湿婆)张弓上弦,安置其箭,以“帕修帕塔”神兵加持之,并以神圣决意凝注于特里普拉——令三城在“帕提”之威下化为灰烬;彼为断除众生(paśu)系缚(pāśa)之主。
Verse 102
तस्मिन् स्थिते महादेवे रुद्रे विततकार्मुके पुराणि तेन कालेन जग्मुरेकत्वमाशु वै
当大天——弓已满引的鲁陀罗——凝立待发之时,正于彼刻,特里普拉三城迅疾合为一体,诚然如此。
Verse 103
एकीभावं गते चैव त्रिपुरे समुपागते बभूव तुमुलो हर्षो देवतानां महात्मनाम्
当特里普拉确已归于一体之时,伟大神祇之中便涌起强烈而沸腾的欢喜。
Verse 104
ततो देवगणाः सर्वे सिद्धाश् च परमर्षयः जयेति वाचो मुमुचुः संस्तुवन्तो ऽष्टमूर्तिकम्
于是诸天众、诸悉地者与至上仙圣齐声呼喊“胜利!”并赞颂八相之主(Aṣṭamūrti)——湿婆·帕提,以多重显现遍满宇宙者。
Verse 105
अथाह भगवान्ब्रह्मा भगनेत्रनिपातनम् पुष्ययोगे ऽपि सम्प्राप्ते लीलावशमुमापतिम्
随后,神圣的梵天讲述了拔伽(Bhaga)之眼被击落之事——即便在吉祥的鬼宿(Puṣya)时刻到来之际,乌玛帕提(湿婆),受其神圣游戏(Lila)的驱使,仍促成了此事的发生。
Verse 106
स्थाने तव महादेव चेष्टेयं परमेश्वर पूर्वदेवाश् च देवाश् च समास्तव यतः प्रभो
噢,摩诃提婆(大天),噢,帕拉梅什瓦拉(最高主)——这举动在您面前是恰当的;因为,噢,主啊,所有的旧神与现今的诸神都聚集并安住于您之中。
Verse 107
तथापि देवा धर्मिष्ठाः पूर्वदेवाश् च पापिनः यतस्तस्माज्जगन्नाथ लीलां त्यक्तुमिहार्हसि
即便如此,诸神确实致力于正法(Dharma),而旧神却已堕入罪恶。因此,噢,贾格纳塔(Jagannātha,世主),您不应在此放弃您的神圣游戏。
Verse 108
किं रथेन ध्वजेनेश तव दग्धुं पुरत्रयम् इषुणा भूतसंघैश् च विष्णुना च मया प्रभो
噢,主啊,您何需战车和旗帜来焚烧那三座城池?只需一支箭——连同众生大军、毗湿奴,甚至还有我——噢,主宰,您完全有能力将特里普拉(Tripura)化为灰烬。
Verse 109
पुष्ययोगे त्वनुप्राप्ते पुरं दग्धुमिहार्हसि यावन्न यान्ति देवेश वियोगं तावदेव तु
如今鬼宿(Puṣya-yoga)时刻已至,您确实适合在此焚毁那座城池。噢,诸神之主,请务必在它们尚未分离之际动手——仅限那一刻。
Verse 110
दग्धुमर्हसि शीघ्रं त्वं त्रीण्येतानि पुराणि वै अथ देवो महादेवः सर्वज्ञस्तदवैक्षत
“你当迅速焚烧这三座古城,确然如此。”于是全知的摩诃提婆(Mahādeva)以神圣之目注视其意,如同主宰Pati,斩断系缚众生paśu的羁绊pāśa。
Verse 111
पुरत्रयं विरूपाक्षस् तत्क्षणाद्भस्म वै कृतम् सोमश् च भगवान्विष्णुः कालाग्निर्वायुरेव च
随即,毗卢帕克沙(Virūpākṣa)在刹那间将三城(Tripura)化为灰烬;而苏摩(Soma)、吉祥的毗湿奴(Viṣṇu)、迦罗火(Kālāgni)与风神伐由(Vāyu)亦同为此神圣之举的参与者。
Verse 112
शरे व्यवस्थिताः सर्वे देवमूचुः प्रणम्य तम् दग्धमप्यथ देवेश वीक्षणेन पुरत्रयम्
诸天皆立于神箭之上,向祂顶礼而启言:“噢,天众之主啊,连三城也仅因祢一瞥而被焚尽。”
Verse 113
अस्मद्धितार्थं देवेश शरं मोक्तुमिहार्हसि अथ संमृज्य धनुषो ज्यां हसन् त्रिपुरार्दनः
“噢,天众之主,为我等福祉,请在此放出神箭。”于是三城摧伏者特里普拉尔达那(Śiva)含笑拂拭并调正弓弦于其弓上——准备放出终结三重系缚之矢。
Verse 114
मुमोच बाणं विप्रेन्द्रा व्याकृष्याकर्णम् ईश्वरः तत्क्षणात्त्रिपुरं दग्ध्वा त्रिपुरान्तकरः शरः
噢,婆罗门中最胜者,主宰伊湿伐罗(Īśvara)引弦至耳而放箭;就在那一刹那,特里普兰塔卡(Tripurāntaka)之矢焚尽特里普拉(Tripura)成灰——显明Pati至上主宰,迅疾摧破系缚。
Verse 115
देवदेवं समासाद्य नमस्कृत्वा व्यवस्थितः रेजे पुरत्रयं दग्धं दैत्यकोटिशतैर्वृतम्
他趋近诸神之神,恭敬顶礼而安然立定;彼处三重之城(特里普拉)虽已被焚毁,仍放光辉,周遭尚有数百俱胝的阿修罗族(Daitya)环绕。
Verse 116
इषुणा तेन कल्पान्ते रुद्रेणेव जगत्त्रयम् ये पूजयन्ति तत्रापि दैत्या रुद्रं सबान्धवाः
凭那同一支箭,在劫末之时,他能如鲁陀罗一般摧灭三界。即便在那里,诸达伊提亚与其眷属也礼敬供奉鲁陀罗。
Verse 117
गाणपत्यं तदा शंभोर् ययुः पूजाविधेर्बलात् न किंचिद् अब्रुवन् देवाः सेन्द्रोपेन्द्रा गणेश्वराः
于是,由于商婆(Śambhu)所规定之礼拜仪轨的强大摄持力,诸天神——连同因陀罗与优波因陀罗——进入被计入其伽那(Gaṇa)之列的境地;那些天众之主竟一言不发。
Verse 118
भयाद्देवं निरीक्ष्यैव देवीं हिमवतः सुताम् दृष्ट्वा भीतं तदानीकं देवानां देवपुङ्गवः
由于恐惧,诸神中最卓越者凝视雪山之女——女神;一见主宰在彼处显现,那一众天神当下便生大惧。
Verse 119
किं चेत्याह तदा देवान् प्रणेमुस्तं समन्ततः
当他问道:“怎么了?”诸天神便从四面八方俯伏礼拜,归依于主宰帕提(Pati)——能解脱系缚之绳索(pāśa)者。
Verse 120
ववन्दिरे नन्दिनमिन्दुभूषणं ववन्दिरे पर्वतराजसंभवाम् ववन्दिरे चाद्रिसुतासुतं प्रभुं ववन्दिरे देवगणा महेश्वरम्
诸天众向难提(Nandin)顶礼;向额饰新月之主顶礼;向山王之女帕尔瓦蒂顶礼;又向山女之子、威德大主斯甘达顶礼。于是天众皆以恭敬之心礼拜大自在天摩诃湿伐罗。
Verse 121
तुष्टाव हृदये ब्रह्मा देवैः सह समाहितः विष्णुना च भवं देवं त्रिपुरारातिमीश्वरम्
于是,具足内在定慧的尊贵祖父梵天(Brahmā),与诸天及毗湿奴同在,于心中赞颂婆伐神(Bhava)——神圣自在主,摧灭三城(Tripura)者。
Verse 122
श्रीपितामह उवाच प्रसीद देवदेवेश प्रसीद परमेश्वर प्रसीद जगतां नाथ प्रसीदानन्ददाव्यय
尊贵的毗多摩诃(梵天)说道:“愿您垂怜,诸神之主;愿您垂怜,至上大自在。愿您垂怜,诸世界之依怙;愿您垂怜,不坏而施与喜乐(ānanda)者。”
Verse 123
पञ्चास्यरुद्ररुद्राय पञ्चाशत्कोटिमूर्तये आत्मत्रयोपविष्टाय विद्यातत्त्वाय ते नमः
顶礼于您——五面诸鲁陀罗之上之鲁陀罗;顶礼于您,具五十俱胝形相者;顶礼于您,安住于自性三分者;顶礼于您,亲为圣智原理——毗提耶真理(vidyā-tattva)。
Verse 124
शिवाय शिवतत्त्वाय अघोराय नमोनमः अघोराष्टकतत्त्वाय द्वादशात्मस्वरूपिणे
再三顶礼于湿婆——亲为湿婆真理(Śiva-tattva)者,阿伽罗(Aghora)吉祥主:非可怖,唯为瑞善。顶礼于彼,其真实被宣说为“阿伽罗八义”(Aghora-Aṣṭaka),并显现为十二重自性之形。
Verse 125
विद्युत्कोटिप्रतीकाशम् अष्टकाशं सुशोभनम् रूपमास्थाय लोके ऽस्मिन् संस्थिताय शिवात्मने
顶礼那具湿婆之魂的主宰,安住于此世(为主宰Pati、内在实相),示现至美妙相,光耀如千万道霹雳,具八重辉煌而灿然。
Verse 126
अग्निवर्णाय रौद्राय अंबिकार्धशरीरिणे धवलश्यामरक्तानां मुक्तिदायामराय च
敬礼火色之鲁陀罗;敬礼威猛之主,其身半为安毗迦(圣力Śakti);敬礼不死者,赐予白、黑、红诸性众生以解脱。
Verse 127
ज्येष्ठाय रुद्ररूपाय सोमाय वरदाय च त्रिलोकाय त्रिदेवाय वषट्काराय वै नमः
诚敬顶礼最古之主(本初者),顶礼鲁陀罗之形;顶礼苏摩——如月之甘露、恩泽之蜜——赐福者;顶礼三界之主,亦为三神一体之神;并顶礼那自体即“Vaṣaṭ”者——祭祀中使供品达于神明的献供呼声。
Verse 128
मध्ये गगनरूपाय गगनस्थाय ते नमः अष्टक्षेत्राष्टरूपाय अष्टतत्त्वाय ते नमः
顶礼于汝:安住于中,体即虚空,居于天穹。复顶礼于汝:显现为八圣域、八种形相,并为八种本原(tattva)之精髓。
Verse 129
चतुर्धा च चतुर्धा च चतुर्धा संस्थिताय च पञ्चधा पञ्चधा चैव पञ्चमन्त्रशरीरिणे
顶礼彼者:安住于四重分判——复又复为四重——亦复安立为五重;顶礼其主:其身即由五种神圣真言所成。
Verse 130
चतुःषष्टिप्रकाराय अकाराय नमोनमः द्वात्रिंशत्तत्त्वरूपाय उकाराय नमोनमः
向显现为六十四种形态的音节“阿(A)”再三顶礼。向其本体即三十二种真理原则(tattva)的音节“乌(U)”再三顶礼——由此显明主宰Pati为一切系缚与解脱之理的根基,使众生之魂(pashu)得见本源。
Verse 131
षोडशात्मस्वरूपाय मकाराय नमोनमः अष्टधात्मस्वरूपाय अर्धमात्रात्मने नमः
向音节“摩(Ma)”再三顶礼——彼之自性为十六重自我。向彼顶礼:其自性为八重自我,并安住为“半摩怛罗(ardha-mātrā)”,那超越可言之声的微妙、超然之度量。
Verse 132
ओङ्काराय नमस्तुभ्यं चतुर्धा संस्थिताय च गगनेशाय देवाय स्वर्गेशाय नमो नमः
向您顶礼:您即是唵迦罗(Oṅkāra),以四重显现而安立。向天穹之主、神圣之天界君王再三顶礼。
Verse 133
सप्तलोकाय पातालनरकेशाय वै नमः अष्टक्षेत्राष्टरूपाय परात्परतराय च
向遍满七界、亦为帕塔拉(Pātāla)与诸地狱之主者顶礼。向具八圣域、八种形相者顶礼——彼超越一切“超越”,为至上Pati,凌驾万有。
Verse 134
सहस्रशिरसे तुभ्यं सहस्राय च ते नमः सहस्रपादयुक्ताय शर्वाय परमेष्ठिने
向您顶礼,千首之尊;向您顶礼,您即“千”本身。向具千足的舍尔瓦(Śarva)顶礼——向凌驾万有、至高在上的主宰顶礼,彼为超越一切度量之Pati。
Verse 135
नवात्मतत्त्वरूपाय नवाष्टात्मात्मशक्तये पुनरष्टप्रकाशाय तथाष्टाष्टकमूर्तये
顶礼于主宰:其本体之形即为九重我性之理(九我之真谛);顶礼于彼:其自有圣力(Śakti)为九与八之内在妙能;顶礼于彼:复现为八种光明之显照;亦顶礼于彼:示现为八与八之诸身相(mūrti)。
Verse 136
चतुःषष्ट्यात्मतत्त्वाय पुनरष्टविधाय ते गुणाष्टकवृतायैव गुणिने निर्गुणाय ते
顶礼于汝:以六十四种真理位(tattva)而显现之实相;复顶礼于汝:以八重方式而示现者。顶礼于汝:为八种德性(guṇa)所覆者;顶礼于汝:为诸guṇa之主者;并顶礼于汝:超越一切guṇa之无相者——湿婆,解脱主Pati,使有情paśu脱离系缚pāśa。
Verse 137
मूलस्थाय नमस्तुभ्यं शाश्वतस्थानवासिने नाभिमण्डलसंस्थाय हृदि निःस्वनकारिणे
顶礼于汝:安住于根本处(mūla),居于永恒之位者。顶礼于汝:建立于脐轮之环者;并令心中回响微细无击之音(anāhata)者。
Verse 138
कन्धरे च स्थितायैव तालुरन्ध्रस्थिताय च भ्रूमध्ये संस्थितायैव नादमध्ये स्थिताय च
彼女(Śakti)确然住于喉间;亦住于上腭之窍。她安立于眉间;又住于那达(nāda,内在玄音)之正中——当证悟为内在之林伽,于此处Pati得以直接直觉。
Verse 139
चन्द्रबिम्बस्थितायैव शिवाय शिवरूपिणे वह्निसोमार्करूपाय षट्त्रिंशच्छक्तिरूपिणे
顶礼于湿婆:安住于月轮之中,自身即为吉祥之形。顶礼于彼:示现为火、月与日;并示现为三十六种圣力之身——以自身Śakti遍满一切tattva之主Pati。
Verse 140
त्रिधा संवृत्य लोकान्वै प्रसुप्तभुजगात्मने त्रिप्रकारं स्थितायैव त्रेताग्निमयरूपिणे
顶礼于彼:以三重方式覆护诸世界;其自性即瑜伽睡眠中安卧之大蛇;安住为三重原理;并示现为特雷塔——三圣火之形。
Verse 141
सदाशिवाय शान्ताय महेशाय पिनाकिने सर्वज्ञाय शरण्याय सद्योजाताय वै नमः
诚敬礼于常住吉祥的萨达希瓦——寂静安然者;礼于大自在天摩诃伊湿伐罗;礼于执持毗那迦神弓者;礼于遍知者;礼于一切众生之归依处;并礼于萨德约阇多——主宰即刻显现之圣面。
Verse 142
अघोराय नमस्तुभ्यं वामदेवाय ते नमः तत्पुरुषाय नमो ऽस्तु ईशानाय नमोनमः
礼敬于汝为阿伽罗;礼敬于汝为婆摩提婆。愿我之敬拜归于怛特补鲁沙;复又复,顶礼于伊舍那。
Verse 143
नमस्त्रिंशत्प्रकाशाय शान्तातीताय वै नमः अनन्तेशाय सूक्ष्माय उत्तमाय नमो ऽस्तु ते
顶礼于汝:以三十种光明而辉耀者;亦顶礼于汝:超越安寂(śānti)者。无尽之主啊,微妙不可执取,至上凌驾一切——愿我稽首归命于汝。
Verse 144
एकाक्षाय नमस्तुभ्यम् एकरुद्राय ते नमः नमस्त्रिमूर्तये तुभ्यं श्रीकण्ठाय शिखण्डिने
顶礼于汝:独眼者;顶礼于汝:唯一之鲁陀罗。顶礼于汝:三相身(梵天、毗湿奴与鲁陀罗)。顶礼于室利建陀——吉祥喉者;并顶礼于戴高冠、饰以孔雀翎冠冕之主。
Verse 145
अनन्तासनसंस्थाय अनन्तायान्तकारिणे विमलाय विशालाय विमलाङ्गाय ते नमः
顶礼于汝——安坐无尽宝座者;无量者,能终结一切终结;无垢清净者,广大遍满者;其身相纯净无瑕。
Verse 146
विमलासनसंस्थाय विमलार्थार्थरूपिणे योगपीठान्तरस्थाय योगिने योगदायिने
顶礼于主——安住无垢之座者;其自性即清净之义,能净化一切所求者;住于瑜伽内在诸座者;为瑜伽行者,施与瑜伽者。
Verse 147
योगिनां हृदि संस्थाय सदा नीवारशूकवत् प्रत्याहाराय ते नित्यं प्रत्याहाररताय ते
汝住于诸瑜伽行者之心,恒常微细,如野稻壳尖;湿婆不断引导他们入于制感(pratyāhāra),因他们常乐于收摄诸根。
Verse 148
प्रत्याहाररतानां च प्रतिस्थानस्थिताय च धारणायै नमस्तुभ्यं धारणाभिरताय ते
顶礼于汝——令乐于制感(pratyāhāra)者得欢喜者;安住于坚固安立之基(pratiṣṭhāna)者;汝自身即为持念(dhāraṇā)。主啊,礼敬汝——乐于持念者;为主宰(Pati),赐心之自在,以解脱众生(paśu)之系缚(pāśa)。
Verse 149
धारणाभ्यासयुक्तानां पुरस्तात्संस्थिताय च ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः
顶礼于汝——在修习持念(dhāraṇā)者之前现前者;汝即禅观(dhyāna)本身;汝之形相即禅观;亦唯由禅观而得证。噢主宰(Pati),解脱众生(paśu)离系缚(pāśa)之主,敬礼于汝。
Verse 150
ध्येयाय ध्येयगम्याय ध्येयध्यानाय ते नमः ध्येयानामपि ध्येयाय नमो ध्येयतमाय ते
顶礼于您——应当观想者,由观想而可证得者,且您自身即是对所观者的禅观。顶礼于您——乃一切所观之所观;顶礼于您,最至上、最微妙的禅观所缘。
Verse 151
समाधानाभिगम्याय समाधानाय ते नमः समाधानरतानां तु निर्विकल्पार्थरूपिणे
顶礼于您——唯以深妙的三摩陀那(圆满的内在摄持)方可证达者,而您自身即是三摩陀那之理。对乐住三摩陀那者,您显现为离一切分别构作(nirvikalpa)的真实义体。
Verse 152
दग्ध्वोद्धृतं सर्वमिदं त्वयाद्य जगत्त्रयं रुद्र पुरत्रयं हि कः स्तोतुमिच्छेत् कथमीदृशं त्वां स्तोष्ये हि तुष्टाय शिवाय तुभ्यम्
噢鲁陀罗,今日由您使这一切焚尽而又复起——三界与三城(特里普拉)皆然。谁还能起意称赞您?我又如何能赞颂如此的您——自足而常吉祥的湿婆?
Verse 153
भक्त्या च तुष्ट्याद्भुतदर्शनाच्च मर्त्या अमर्त्या अपि देवदेव एते गणाः सिद्धगणैः प्रणामं कुर्वन्ति देवेश गणेश तुभ्यम्
以虔爱(bhakti)、以欢喜满足、并以奇妙的圣见(由您恩典而生),噢诸天之天——这些众生之群,或有死或不死,与诸悉地者之众同来,向您俯首顶礼:噢天主,噢伽内沙。
Verse 154
निरीक्षणादेव विभो ऽसि दग्धुं पुरत्रयं चैव जगत्त्रयं च लीलालसेनांबिकया क्षणेन दग्धं किलेषुश् च तदाथ मुक्तः
噢遍一切的主,仅凭您一瞥,便能焚烧三城(特里普拉)乃至三界。确然,在刹那间,欢悦于戏(līlā)的安比迦焚尽了那支箭;随后它才被放出。
Verse 155
कृतो रथश्चेषुवरश् च शुभ्रं शरसनं ते त्रिपुरक्षयाय अनेकयत्नैश् च मयाथ तुभ्यं फलं न दृष्टं सुरसिद्धसंघैः
战车已备,妙箭与光辉之弓亦为汝铸成,皆为摧灭三城(Tripura)之用。然我为汝多方勤作,诸天与悉地众仍未见决定之果——唯待汝,噢主宰(Pati),亲自垂意,使其成就威力。
Verse 156
रथो रथी देववरो हरिश् च रुद्रः स्वयं शक्रपितामहौ च त्वमेव सर्वे भगवन् कथं तु स्तोष्ये ह्य् अतोष्यं प्रणिपत्य मूर्ध्ना
战车与御者,诸神之最胜者——毗湿奴(Hari);鲁陀罗自身;以及释迦罗(因陀罗)与毗多摩诃(梵天)——一切实皆唯汝,噢薄伽梵。既如此,我将如何赞颂汝这不可逾越者?唯有俯首顶礼而已。
Verse 157
अनन्तपादस् त्वम् अनन्तबाहुर् अनन्तमूर्धान्तकरः शिवश् च अनन्तमूर्तिः कथम् ईदृशं त्वां तोष्ये ह्य् अतोष्यं कथमीदृशं त्वाम्
汝具无量之足、无量之臂、无量之首——终结一切之主,实即湿婆自身。汝之形相无尽;我如何能令汝欢悦——汝本超越“可被满足”——又如何能取悦如是无边之无限者?
Verse 158
नमोनमः सर्वविदे शिवाय रुद्राय शर्वाय भवाय तुभ्यम् स्थूलाय सूक्ष्माय सुसूक्ष्मसूक्ष्मसूक्ष्माय सूक्ष्मार्थविदे विधात्रे
稽首再稽首于汝——遍知之湿婆;鲁陀罗、舍婆(Śarva)、婆婆(Bhava)。稽首于汝,既为粗显亦为微细,又为超越微细之至微;稽首于洞知诸理(tattva)幽微义趣者,稽首于制定者(Vidhātṛ)、主宰(Pati),统摄一切生成者。
Verse 159
स्रष्ट्रे नमः सर्वसुरासुराणां भर्त्रे च हर्त्रे जगतां विधात्रे नेत्रे सुराणामसुरेश्वराणां दात्रे प्रशास्त्रे मम सर्वशास्त्रे
稽首于一切天与阿修罗之创造者;稽首于维持者,亦于收摄者——诸世界之制定者。稽首于诸天与阿修罗之主的“眼”与内在导师;稽首于施与者与至上统御者——我之主,诸《沙斯特拉》(Śāstra)之精髓与权威。
Verse 160
वेदान्तवेद्याय सुनिर्मलाय वेदार्थविद्भिः सततं स्तुताय वेदात्मरूपाय भवाय तुभ्यम् अन्ताय मध्याय सुमध्यमाय
敬礼于您,婆婆(Bhava)——为吠檀多所证知,至净无垢,常为通达吠陀义理者所赞颂;敬礼于您,您的自性即是吠陀——您是终、是中,亦是一切之中最微妙的内核。
Verse 161
आद्यन्तशून्याय च संस्थिताय तथा त्वशून्याय च लिङ्गिने च अलिङ्गिने लिङ्गमयाय तुभ्यं लिङ्गाय वेदादिमयाय साक्षात्
敬礼于您——圣林伽——超越始与终而恒常安住;非虚无;既为有相之主(Liṅgin),亦为离相之主(Aliṅgin);为林伽真理(Liṅga-tattva)之精髓;并直接显现为吠陀及其本初源头,作为至上实在之主宰(Pati)而现前。
Verse 162
रुद्राय मूर्धाननिकृन्तनाय ममादिदेवस्य च यज्ञमूर्तेः विध्वान्तभङ्गं मम कर्तुमीश दृष्ट्वैव भूमौ करजाग्रकोट्या
噢鲁陀罗——斩首者——噢伊湿(Īśa)!您见到我这原初之神、亦即祭祀(yajña)之身时,我以指甲尖击地,意欲粉碎您那炽烈的攻势。
Verse 163
अहो विचित्रं तव देवदेव विचेष्टितं सर्वसुरासुरेश देहीव देवैः सह देवकार्यं करिष्यसे निर्गुणरूपतत्त्व
何等奇妙啊,天中之天(Devadeva)、诸天与阿修罗之主!您虽为超越诸性(guṇa)的无相真理,却仍将取有身之形,与众天同成天界之业。
Verse 164
एकं स्थूलं सूक्ष्ममेकं सुसूक्ष्मं मूर्तामूर्तं मूर्तमेकं ह्यमूर्तम् एकं दृष्टं वाङ्मयं चैकमीशं ध्येयं चैकं तत्त्वमत्राद्भुतं ते
唯有一者为粗显,唯有一者为微细,唯有一者为至微。唯有一者具相亦离相——一者显为有形,而同一者又本为无形。唯有一者可亲见,唯有一者亦由圣言(vāc)而知;那唯一的主宰即是当观之所缘。此处所说的一真(tattva)奇妙无比——这便是对你所示之教。
Verse 165
स्वप्ने दृष्टं यत्पदार्थं ह्यलक्ष्यं दृष्टं नूनं भाति मन्ये न चापि मूर्तिर्नो वै दैवकीशान देवैर् लक्ष्या यत्नैरप्यलक्ष्यं कथं तु
梦中所见之“物”,实则不可执取;虽见之,亦不过似乎发光而已,我以为然——却无可触之形。亦复如是,噢诸天之主,神圣并非诸神所能观取之境;纵使竭力求见,亦超越一切相与标记——又怎能令其全然可知?
Verse 166
दिव्यः क्व देवेश भवत्प्रभावो वयं क्व भक्तिः क्व च ते स्तुतिश् च तथापि भक्त्या विलपन्तमीश पितामहं मां भगवन्क्षमस्व
噢神圣之主,噢诸天之主——你的无量威德在何处,而我们又在何处?我们的奉爱(bhakti)在何处,又何来配得上你的赞颂?然而,噢伊湿(Īśa),我以奉爱而哀诉之时,愿你宽恕我——我这“祖父”梵天(Brahmā),噢吉祥的世尊。
Verse 167
सूत उवाच य इमं शृणुयाद्द्विजोत्तमा भुवि देवं प्रणिपत्य पठेत् स च मुञ्चति पापबन्धनं भवभक्त्या पुरशासितुः स्तवम्
苏多说道:噢诸婆罗门中最胜者,凡在世间聆听此赞颂者,或先向天神顶礼而诵读者,皆以对婆伐(Bhava)——统御诸城之主——的奉爱而解脱罪业之缚。
Verse 168
श्रुत्वा च भक्त्या चतुराननेन स्तुतो हसञ्शैलसुतां निरीक्ष्य स्तवं तदा प्राह महानुभावं महाभुजो मन्दरशृङ्गवासी
那居于曼陀罗峰顶、臂力宏伟的大主,听闻四面梵天以奉爱所献之赞歌,便含笑。祂望向山之女(帕尔瓦蒂,Pārvatī),随后那位崇高者对心怀高尚的梵天开口说道。
Verse 169
शिव उवाच स्तवेनानेन तुष्टो ऽस्मि तव भक्त्या च पद्मज वरान् वरय भद्रं ते देवानां च यथेप्सितान्
湿婆说道:“我因这赞歌而欢喜,也因你的奉爱而欢喜,噢莲华所生者(梵天,Padmaja)。你当选择恩赐——愿吉祥归于你——也当选择诸天所愿之恩赐。”
Verse 170
सूत उवाच ततः प्रणम्य देवेशं भगवान्पद्मसंभवः कृताञ्जलिपुटो भूत्वा प्राहेदं प्रीतमानसः
苏多说道:随后,莲华所生的吉祥梵天向诸天之主顶礼。合掌作礼,心怀虔敬的奉爱(bhakti),便说出如下言辞。
Verse 171
श्रीपितामह उवाच भगवन्देवदेवेश त्रिपुरान्तक शङ्कर त्वयि भक्तिं परां मे ऽद्य प्रसीद परमेश्वरम्
尊贵的毗多摩诃(梵天)说道:“世尊啊,诸天之主、天中之天主(Devadeveśa)、摧灭三城者(Tripurāntaka)、吉祥的商羯罗(Śaṅkara)——愿你今日赐我至上的奉爱,使我专注安住于你。愿你垂怜,至上自在主(Parameśvara)——那位‘主宰’(Pati),能令被缚之灵(paśu)脱离系缚(pāśa)。”
Verse 172
देवानां चैव सर्वेषां त्वयि सर्वार्थदेश्वर प्रसीद भक्तियोगेन सारथ्येन च सर्वदा
噢,统御一切目的与一切义理之主;诸神皆依止于你。愿你垂恩——以奉爱之瑜伽(bhakti-yoga)——并恒常作我们的御者与引导者。
Verse 173
जनार्दनो ऽपि भगवान् नमस्कृत्य महेश्वरम् कृताञ्जलिपुटो भूत्वा प्राह सांबं त्रियंबकम्
就连吉祥的阇那尔达那(毗湿奴)也向大自在天(Maheśvara)顶礼;合掌恭敬,向三眼之主——与圣力(Śakti)合一的湿婆(Sāmbā)启言。
Verse 174
वाहनत्वं तवेशान नित्यमीहे प्रसीद मे त्वयि भक्तिं च देवेश देवदेव नमो ऽस्तु ते
噢,伊舍那(Īśāna),我恒常渴望成为你的乘具(vāhana)与仆从;愿你垂恩于我。噢,诸天之主,天中之天,愿我心中生起对你不动摇的奉爱(bhakti);我向你顶礼。
Verse 175
सामर्थ्यं च सदा मह्यं भवन्तं वोढुमीश्वरम् सर्वज्ञत्वं च वरद सर्वगत्वं च शङ्कर
愿你常赐我力量,得以承持你——至上主宰;愿你赐我遍知之智,噢赐福者;并赐我遍在之德,噢商羯罗。
Verse 176
सूत उवाच तयोः श्रुत्वा महादेवो विज्ञप्तिं परमेश्वरः सारथ्ये वाहनत्वे च कल्पयामास वै भवः
苏多说道:听闻他们的祈请后,摩诃提婆——至上主——婆伐确然允诺,愿担任御者与负载坐骑之职。
Verse 177
दत्त्वा तस्मै ब्रह्मणे विष्णवे च दग्ध्वा दैत्यान्देवदेवो महात्मा सार्धं देव्या नन्दिना भूतसंघैर् अन्तर्धानं कारयामास शर्वः
既已赐允于彼梵天,亦赐允于毗湿奴;那大心的天中之天在焚灭诸代底耶之后,舍尔瓦令自身隐没,与女神、难丁及诸部众鬼神同退,离于显现之境。
Verse 178
ततस्तदा महेश्वरे गते रणाद्गणैः सह सुरेश्वराः सुविस्मिता भवं प्रणम्य पार्वतीम्
其时,摩诃伊湿伐罗与其伽那众离开战场;诸天之主惊叹不已,礼拜婆伐(湿婆),亦恭敬顶礼帕尔瓦蒂。
Verse 179
ययुश् च दुःखवर्जिताः स्ववाहनैर्दिवं ततः सुरेश्वरा मुनीश्वरा गणेश्वराश् च भास्कराः
随后,诸天之主、最胜牟尼与湿婆伽那之首领——并诸光辉者——皆离苦得安,各乘自有天乘,启程归往天界。
Verse 180
त्रिपुरारेरिमं पुण्यं निर्मितं ब्रह्मणा पुरा यः पठेच्छ्राद्धकाले वा दैवे कर्मणि च द्विजाः
此《三城敌》(Tripurāri,毁灭三城之湿婆)之圣诵,乃梵天于远古所作;诸二生者,凡于施罗陀(śrāddha)之时或行吠陀祭仪之业而诵读者,皆得清净福德,并堪受主宰(Pati)湿婆之恩,彼能断除缚魂之绳索——帕沙(pāśa),令帕舒(paśu,灵我)得解脱。
Verse 181
श्रावयेद्वा द्विजान् भक्त्या ब्रह्मलोकं स गच्छति मानसैर्वाचिकैः पापैस् तथा वै कायिकैः पुनः
又若有人以虔敬之心令诸二生者聆听此诵,则得至梵天界(Brahmaloka)。复次,由意、由语、由身所造诸罪,亦因此湿婆之听闻与诵持而得净除;此法能松解系缚帕舒(paśu,灵我)之帕沙(pāśa,束缚),使其归向主宰(Pati)湿婆。
Verse 182
स्थूलैः सूक्ष्मैः सुसूक्ष्मैश् च महापातकसंभवैः पातकैश् च द्विजश्रेष्ठा उपपातकसंभवैः
二生中之最胜者啊,众生为粗重、微细与极微细之罪所染;此等罪业或出自大罪(mahāpātaka),或出自常罪(pātaka),亦或出自次罪(upapātaka)。
Verse 183
पापैश् च मुच्यते जन्तुः श्रुत्वाध्यायमिमं शुभम् शत्रवो नाशमायान्ति संग्रामे विजयीभवेत्
闻此吉祥之章,受缚之众生(jantu)得脱诸罪;怨敌趋于灭亡,战阵之中亦得胜利。
Verse 184
सर्वरोगैर्न बाध्येत आपदो न स्पृशन्ति तम् धनमायुर्यशो विद्यां प्रभावमतुलं लभेत्
其人不为诸病所侵;灾厄亦不触及。由依《林伽修持》(Liṅga-upāsanā)所示,对主宰(Pati)湿婆坚固奉爱,便得财富、长寿、名闻、神圣智识与无比的灵性威德。
It identifies chariot-parts with the cosmos: Sūrya and Soma as wheels, Ādityas and lunar kalās as spokes, ṛtus as rim-elements, oceans as coverings, mountains as structural supports, and time-units (muhūrta, kṣaṇa, nimeṣa, lava) as fittings—turning the ratha into a universe-map (brahmāṇḍa-saṅketa).
Śiva teaches that practicing the divine Pāśupata observance—undertaken with discipline and service (śuśrūṣā) for prescribed durations (e.g., a full twelve-year commitment or shorter regulated terms)—liberates beings from paśutva (the bound condition under pāśa).
Gaṇeśa states that without worship (offerings like modaka and other naivedya), success (siddhi) is obstructed; once honored, he grants ‘avighna’ (unobstructed completion), establishing the ritual principle of Vināyaka-pūjā before major yajña, vrata, or divine undertakings.
Both are presented: the text says Tripura becomes ash by Śiva’s instantaneous look (īśvara-sāmarthya), yet he still releases the Pāśupata-arrow as līlā—affirming that ritualized action can occur even when divine power is already sufficient.