Adhyaya 92
Purva BhagaAdhyaya 92190 Verses

Adhyaya 92

अविमुक्तक्षेत्रमाहात्म्य — काशी-वाराणसी में मोक्ष, लिङ्ग-तीर्थ-मानचित्र, और उपासना-विधि

ऋषयः सूतं पृच्छन्ति—अविमुक्तक्षेत्रस्य (काश्याः) माहात्म्यं कथय। सूतः शिवस्य पार्वत्या सह आगमनं, अविमुक्तेश्वरस्य प्रादुर्भावं, दिव्योपवनस्य पवित्रवातावरणस्य च काव्यमयवर्णनं निवेदयति। ततः शिवः पार्वतीं रहस्यं शिक्षयति—अविमुक्तं मम नित्यपुरी, सर्वतीर्थोत्तमा; अस्य सीम्नि मरणेन निश्चयेन मोक्षः, धर्मविमुखानामपि। अनन्तरं गोप्रेक्षक-हिरण्यगर्भ-स्वर्लिङ्गेश्वर-सङ्गमेश्वर-मध्यमेंश्वर-शुक्रेश्वर-व्याघ्रेश्वर-जम्बुकेश्वर-शैलेश्वरादीनां लिङ्गतीर्थानां सूची, तेषां फलानि च कथ्यन्ते। शिवः अभिषेकं (महास्नानविधिं), बिल्वपुष्पार्चनं, नैवेद्यं, जागरणं, प्रदक्षिणां, रुद्रबीज-पञ्चाक्षरजपं च विधत्ते, शिवसायुज्यं प्रतिजानाति। अन्ते पार्वत्याः पूजनं, सूतेन फलश्रुतिः, क्षेत्राश्रितशैवाचारस्य प्रवर्तनं च।

Shlokas

Verse 1

इति श्रीलिङ्गमहापुराणे पूर्वभागे अरिष्टकथनं नाम एकनवतितमो ऽध्यायः ऋषय ऊचुः एवं वाराणसी पुण्या यदि सूत महामते वक्तुमर्हसि चास्माकं तत्प्रभावं हि सांप्रतम्

इति श्रीलिङ्गमहापुराणे पूर्वभागे अरिष्टकथनं नाम एकनवतितमोऽध्यायः। ऋषय ऊचुः—एवं वाराणसी पुण्या यदि सूत महामते, वक्तुमर्हसि चास्माकं तत्प्रभावं हि साम्प्रतम्॥

Verse 2

क्षेत्रस्यास्य च माहात्म्यम् अविमुक्तस्य शोभनम् विस्तरेण यथान्यायं श्रोतुं कौतूहलं हि नः

अस्य क्षेत्रस्य अविमुक्तस्य शोभनं माहात्म्यं यथान्यायं विस्तरेण श्रोतुं नः कौतूहलं वर्तते।

Verse 3

सूत उवाच देस्च्रिप्तिओन् ओफ़् अविमुक्त वक्ष्ये संक्षेपतः सम्यक् वाराणस्याः सुशोभनम् अविमुक्तस्य माहात्म्यं यथाह भगवान् भवः

सूत उवाच—अविमुक्तस्य वर्णनं संक्षेपतः सम्यक् वक्ष्ये; वाराणस्याः सुशोभनं माहात्म्यं यथाह भगवान् भवः।

Verse 4

विस्तरेण मया वक्तुं ब्रह्मणा च महात्मना शक्यते नैव विप्रेन्द्रा वर्षकोटिशतैरपि

विस्तरेण वक्तुं मया न शक्यते, महात्मना ब्रह्मणा च नैव; विप्रेन्द्राः, वर्षकोटिशतैरपि।

Verse 5

देवः पुरा कृतोद्वाहः शङ्करो नीललोहितः हिमवच्छिखराद्देव्या हैमवत्या गणेश्वरैः

पुरा देवः शङ्करो नीललोहितः कृतोद्वाहः; देव्या हैमवत्या सह हिमवच्छिखरात् गणेश्वरैः।

Verse 6

वाराणसीमनुप्राप्य दर्शयामास शङ्करः अविमुक्तेश्वरं लिङ्गं वासं तत्र चकार सः

वाराणसीमनुप्राप्य शङ्करः अविमुक्तेश्वरं लिङ्गं दर्शयामास; स तत्रैव वासं चकार।

Verse 7

वाराणसीकुरुक्षेत्रश्रीपर्वतमहालये तुङ्गेश्वरे च केदारे तत्स्थाने यो यतिर्भवेत्

वाराणसीकुरुक्षेत्रश्रीपर्वतमहालये । तुङ्गेश्वरे च केदारे तत्स्थाने यो यतिर्भवेत् ॥

Verse 8

योगे पाशुपते सम्यक् दिनमेकं यतिर्भवेत् तस्मात्सर्वं परित्यज्य चरेत् पाशुपतं व्रतम्

योगे पाशुपते सम्यक् दिनमेकं यतिर्भवेत् । तस्मात्सर्वं परित्यज्य चरेत् पाशुपतं व्रतम् ॥

Verse 9

देवोद्याने वसेत्तत्र शर्वोद्यानमनुत्तमम् मनसा निर्ममे रुद्रो विमानं च सुशोभनम्

देवोद्याने वसेत्तत्र शर्वोद्यानमनुत्तमम् । मनसा निर्ममे रुद्रो विमानं च सुशोभनम् ॥

Verse 10

दर्शयामास च तदा देवोद्यानमनुत्तमम् हैमवत्याः स्वयं देवः सनन्दी परमेश्वरः

दर्शयामास च तदा देवोद्यानमनुत्तमम् । हैमवत्याः स्वयं देवः सनन्दी परमेश्वरः ॥

Verse 11

क्षेत्रस्यास्य च माहात्म्यम् अविमुक्तस्य शङ्करः उक्तवान्परमेशानः पार्वत्याः प्रीतये भवः

क्षेत्रस्यास्य च माहात्म्यम् अविमुक्तस्य शङ्करः । उक्तवान्परमेशानः पार्वत्याः प्रीतये भवः ॥

Verse 12

प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानादिमनोहरं बहिः विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश् च केतकैः

बहिः प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानादिमनोहरं, परितो विरूढपुष्पैः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैश्च समन्तात् परिवृतम्।

Verse 13

तमालगुल्मैर्निचितं सुगन्धिभिर् निकामपुष्पैर्वकुलैश् च सर्वतः अशोकपुन्नागशतैः सुपुष्पितैर् द्विरेफमालाकुलपुष्पसंचयैः

तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्वकुलैश्च सर्वतः, अशोकपुन्नागशतैः सुपुष्पিতैर्द्विरेफमालाकुलपुष्पसञ्चयैः समृद्धम्।

Verse 14

क्वचित् प्रफुल्लाम्बुजरेणुभूषितैर् विहङ्गमैश् चानुकलप्रणादिभिः विनादितं सारसचक्रवाकैः प्रमत्तदात्यूहवरैश् च सर्वतः

क्वचित् प्रफुल्लाम्बुजरेणुभूषितैर्विहङ्गमैश्चानुकलप्रणादिभिः विनादितं, सारसचक्रवाकैः प्रमत्तदात्यूहवरैश्च सर्वतः प्रतिध्वनितम्।

Verse 15

क्वचिच्च केकारुतनादितं शुभं क्वचिच्च कारण्डवनादनादितम् क्वचिच्च मत्तालिकुलाकुलीकृतं मदाकुलाभिर् भ्रमराङ्गनादिभिः

क्वचित् केकारुतनादितं शुभं क्वचित् कारण्डवनादनादितम्, क्वचित् मत्तालिकुलाकुलीकृतं मदाकुलाभिर्भ्रमराङ्गनादिभिः।

Verse 16

निषेवितं चारुसुगन्धिपुष्पकैः क्वचित् सुपुष्पैः सहकारवृक्षैः लतोपगूढैस्तिलकैश् च गूढं प्रगीतविद्याधरसिद्धचारणम्

क्वचित् चारुसुगन्धिपुष्पकैर् निषेवितं, क्वचित् सुपुष्पैः सहकारवृक्षैः; लतोपगूढैस्तिलकैश्च गूढं, प्रगीतविद्याधरसिद्धचारणं तत्पुण्यस्थानम्।

Verse 17

प्रवृत्तनृत्तानुगताप्सरोगणं प्रहृष्टनानाविधपक्षिसेवितम् प्रनृत्तहारीतकुलोपनादितं मृगेन्द्रनादाकुलमत्तमानसैः

तत्र प्रवृत्तनृत्तानुगताप्सरोगणं प्रहृष्टनानाविधपक्षिसेवितम्। प्रनृत्तहारीतकुलोपनादितं मृगेन्द्रनादाकुलमत्तमानसम्॥

Verse 18

क्वचित् क्वचिद् गन्धकदम्बकैर् मृगैर् विलूनदर्भाङ्कुरपुष्पसंचयम् प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित्

क्वचित्क्वचिद्गन्धकदम्बकैर्मृगैर्विलूनदर्भाङ्कुरपुष्पसंचयम्। प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित्॥

Verse 19

विटपनिचयलीनं नीलकण्ठाभिरामं मदमुदितविहङ्गं प्राप्तनादाभिरामम् कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितं प्रांशुशाखम्

विटपनिचयलीनं नीलकण्ठाभिरामं मदमुदितविहङ्गं प्राप्तनादाभिरामम्। कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितं प्रांशुशाखम्॥

Verse 20

क्वचिच्च दन्तक्षतचारुवीरुधं क्वचिल्लतालिङ्गितचारुवृक्षकम् /* क्वचिद्विलासालसगामिनीभिर् निषेवितं किंपुरुषाङ्गनाभिः

क्वचिच्च दन्तक्षतचारुवीरुधं क्वचिल्लतालिङ्गितचारुवृक्षकम्। क्वचिद्विलासालसगामिनीभिर्निषेवितं किंपुरुषाङ्गनाभिः॥

Verse 21

पारावतध्वनिविकूजितचारुशृङ्गैर् अभ्रङ्कषैः सितमनोहरचारुरूपैः आकीर्णपुष्पनिकरप्रविभक्तहंसैर् विभ्राजितं त्रिदशदिव्यकुलैरनेकैः

पारावतध्वनिविकूजितचारुशृङ्गैरभ्रङ्कषैः सितमनोहरचारुरूपैः। आकीर्णपुष्पनिकरप्रविभक्तहंसैर्विभ्राजितं त्रिदशदिव्यकुलैरनेकैः॥

Verse 22

फुल्लोत्पलांबुजवितानसहस्रयुक्तं तोयाशयैः समनुशोभितदेवमार्गम् मार्गान्तराकलितपुष्पविचित्रपङ्क्तिसम्बद्धगुल्मविटपैर् विविधैरुपेतम्

फुल्लोत्पलाम्बुजवितानसहस्रयुक्तं तोयाशयैः समनुशोभितदेवमार्गम्। मार्गान्तराकलितपुष्पविचित्रपङ्क्तिसम्बद्धगुल्मविटपैर्विविधैरुपेतम्॥

Verse 23

तुङ्गाग्रैर् नीलपुष्पस्तबकभरनतप्रांशुशाखैर् अशोकैर् दोलाप्रान्तान्तनीलश्रुतिसुखजनकैर् भासितान्तं मनोज्ञैः रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदूर्वाङ्कुराग्रम्

तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रांशुशाखैरशोकैः दोलाप्रान्तान्तनीलश्रुतिसुखजनकैर् भासितान्तं मनोज्ञैः। रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदूर्वाङ्कुराग्रम्॥

Verse 24

हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रचकितकदलीचाटुनृत्यन्मयूरम् मायूरैः पक्षचन्द्रैः क्वचिदवनिगतै रञ्जितक्ष्माप्रदेशं देशे देशे विलीनप्रमुदितविलसन्मत्तहारीतवृन्दम्

हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रचकितकदलीचाटुनृत्यन्मयूरम्। मायूरैः पक्षचन्द्रैः क्वचिदवनिगतै रञ्जितक्ष्माप्रदेशं देशे देशे विलीनप्रमुदितविलसन्मत्तहारीतवृन्दम्॥

Verse 25

सारङ्गैः क्वचिदुपशोभितप्रदेशं प्रच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिर् वीणाभिः सुमधुरगीतनृत्तकण्ठम्

सारङ्गैः क्वचिदुपशोभितप्रदेशं प्रच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः। हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिर्वीणाभिः सुमधुरगीतनृत्तकण्ठम्॥

Verse 26

संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैर् आवासैः परिवृतपादपं मुनीनाम् आ मूलात् फलनिचितैः क्वचिद्विशालैर् उत्तुङ्गैः पनसमहीरुहैरुपेतम्

संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम्। आ मूलात् फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरुहैरुपेतम्॥

Verse 27

फुल्लातिमुक्तकलतागृहनीतसिद्धसिद्धाङ्गनाकनकनूपुररावरम्यम् /* रम्यं प्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीकवलिताम्रकदम्बपुष्पम्

फुल्लातिमुक्तकलतागृहनीतसिद्धसिद्धाङ्गनाकनकनूपुररावरम्यम्। रम्यं प्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीकवलिताम्रकदम्बपुष्पम्॥

Verse 28

पुष्पोत्करानिलविघूर्णितवारिरम्यं रम्यद्विरेफविनिपातितमञ्जुगुल्मम् गुल्मान्तरप्रसभभीतमृगीसमूहं वातेरितं तनुभृतामपवर्गदातृ

पुष्पोत्करानिलविघूर्णितवारिरम्यं रम्यद्विरेफविनिपातितमञ्जुगुल्मम्। गुल्मान्तरप्रसभभीतमृगीसमूहं वातेरितं तनुभृतामपवर्गदातृ॥

Verse 29

चन्द्रांशुजालशबलैस् तिलकैर् मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैर् अशोकैः चामीकरद्युतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः

चन्द्रांशुजालशबलैस् तिलकैर् मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैर् अशोकैः। चामीकरद्युतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः॥

Verse 30

क्वचिदञ्जनचूर्णाभैः क्वचिद् विद्रुमसन्निभैः क्वचित्काञ्चनसंकाशैः पुष्पैर् आचितभूतलम्

क्वचिदञ्जनचूर्णाभैः क्वचिद् विद्रुमसन्निभैः। क्वचित्काञ्चनसंकाशैः पुष्पैर् आचितभूतलम्॥

Verse 31

पुन्नागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम् रम्योपान्तक्लमहारभवनं फुल्लाब्जेषु भ्रमरविलसितम्

पुन्नागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम्। रम्योपान्तक्लमहारभवनं फुल्लाब्जेषु भ्रमरविलसितम्॥

Verse 32

सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरपुत्र्या सार्धमिष्टैर्गणेशैः विविधतरुविशालं मत्तहृष्टान्नपुष्टैर् उपवनम् अतिरम्यं दर्शयामास देव्याः

तदानीं सकलभुवनभर्ता लोकनाथः शम्भुः तुहिनशिखरपुत्र्या सह प्रियैर्गणैश्च विविधतरुविशालं मत्तहृष्टान्नपुष्टप्राणिसङ्कुलम् अतिरम्यमुपवनं देव्यै दर्शयामास।

Verse 33

पुष्पैर्वन्यैः शुभशुभतमैः कल्पितैर्दिव्यभूषैर् देवीं दिव्यामुपवनगतां भूषयामास शर्वः सा चाप्येनं तुहिनगिरिसुता शङ्करं देवदेवं पुष्पैर्दिव्यैः शुभतरतमैर् भूषयामास भक्त्या

वन्यैः पुष्पैः शुभशुभतमैः तैः कल्पितैर्दिव्यभूषणैः उपवनगतां दिव्यां देवीं शर्वो भूषयामास। सा च तुहिनगिरिसुता भक्त्या देवदेवं शङ्करं दिव्यैः पुष्पैः शुभतरतमैः भूषयामास।

Verse 34

सम्पूज्य पूज्यं त्रिदशेश्वराणां सम्प्रेक्ष्य चोद्यानम् अतीव रम्यम् गणेश्वरैर् नन्दिमुखैश् च सार्धम् उवाच देवं प्रणिपत्य देवी

त्रिदशेश्वराणामपि पूज्यं देवं सम्पूज्य, अतीव रम्यमुद्यानं सम्प्रेक्ष्य, गणेश्वरैर्नन्दिमुखैश्च सार्धं देवी प्रणिपत्य देवं उवाच।

Verse 35

श्रीदेव्युवाच उद्यानं दर्शितं देव प्रभया परया युतम् क्षेत्रस्य च गुणान्सर्वान् पुनर्मे वक्तुमर्हसि

श्रीदेव्युवाच— देव, प्रभया परया युतमिदमुद्यानं मे दर्शितम्। अस्य क्षेत्रस्य सर्वान् गुणान् पुनर्मे विस्तरेण वक्तुमर्हसि।

Verse 36

अस्य क्षेत्रस्य माहात्म्यम् अविमुक्तस्य सर्वथा वक्तुमर्हसि देवेश देवदेव वृषध्वज

देवेश देवदेव वृषध्वज, अस्य अविमुक्तक्षेत्रस्य माहात्म्यं सर्वथा वक्तुमर्हसि।

Verse 37

सूत उवाच देव्यास्तद्वचनं श्रुत्वा देवदेवो वरप्रभुः आघ्राय वदनाम्भोजं तदाह गिरिजां हसन्

सूत उवाच—देव्यास्तद्वचनं श्रुत्वा देवदेवो वरप्रभुः। आघ्राय वदनाम्भोजं तदाह गिरिजां हसन्॥

Verse 38

होलिनेस्स् ओफ़् अविमुक्त श्रीभगवानुवाच इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा

श्रीभगवानुवाच—इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम। सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा॥

Verse 39

अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमास्थिताः नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः

अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमास्थिताः। नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः॥

Verse 40

अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः नानावृक्षसमाकीर्णे नानाविहगशोभिते

अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः। नानावृक्षसमाकीर्णे नानाविहगशोभिते॥

Verse 41

कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते अप्सरोगणगन्धर्वैः सदा संसेविते शुभे

कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते। अप्सरोगणगन्धर्वैः सदा संसेविते शुभे॥

Verse 42

रोचते मे सदा वासो येन कार्येण तच्छृणु मन्मना मम भक्तश् च मयि नित्यार्पितक्रियः

रोचते मे सदा वासो येन कार्येण तच्छृणु। मन्मना मम भक्तश्च मयि नित्यार्पितक्रियः॥

Verse 43

यथा मोक्षमवाप्नोति अन्यत्र न तथा क्वचित् कामं ह्यत्र मृतो देवि जन्तुर्मोक्षाय कल्पते

यथा मोक्षमवाप्नोति अन्यत्र न तथा क्वचित्। कामं ह्यत्र मृतो देवि जन्तुर्मोक्षाय कल्पते॥

Verse 44

एतन्मम पुरं दिव्यं गुह्याद्गुह्यतमं महत् ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः

एतन्मम पुरं दिव्यं गुह्याद्गुह्यतमं महत्। ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः॥

Verse 45

अतः परमिदं क्षेत्रं परा चेयं गतिर्मम विमुक्तं न मया यस्मान् मोक्ष्यते वा कदाचन

अतः परमिदं क्षेत्रं परा चेयं गतिर्मम। विमुक्तं न मया यस्मान् मोक्ष्यते वा कदाचन॥

Verse 46

मम क्षेत्रमिदं तस्माद् अविमुक्तमिति स्मृतम् नैमिषे च कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे

मम क्षेत्रमिदं तस्माद् अविमुक्तमिति स्मृतम्। नैमिषे च कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे॥

Verse 47

स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः इह सम्प्राप्यते येन तत एतद्विशिष्यते

स्नानेन केवलं बाह्यसेवनेन वा मोक्षो न लभ्यते; यत् साधनं येनात्रैव परं तत्त्वं साक्षात्क्रियते, पतिना कृपाप्रदेन—तदेव विशिष्यते।

Verse 48

प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् प्रयागादपि तीर्थाग्र्याद् अविमुक्तमिदं शुभम्

प्रयागे वा भवेत् मोक्षोऽथवा इहैव मत्परिग्रहात्; प्रयागादपि तीर्थाग्र्याद् अविमुक्तं शुभं परम्।

Verse 49

धर्मस्योपनिषत् सत्यं मोक्षस्योपनिषच् छमः क्षेत्रतीर्थोपनिषदं न विदुर्बुधसत्तमाः

धर्मस्योपनिषत् सत्यं मोक्षस्योपनिषत् शमः; क्षेत्रतीर्थोपनिषदं न जानन्ति बुधोत्तमाः।

Verse 50

कामं भुञ्जन् स्वपन् क्रीडन् कुर्वन् हि विविधाः क्रियाः अविमुक्ते त्यजेत्प्राणान् जन्तुर्मोक्षाय कल्पते

कामं भुञ्जन् स्वपन् क्रीडन् कुर्वन् विविधाः क्रियाः; अविमुक्ते त्यजेत् प्राणान् जन्तुर्मोक्षाय कल्पते।

Verse 51

कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना

कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम्; न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना।

Verse 52

तस्मात्संसेवनीयं हि अविमुक्तं हि मुक्तये जैगीषव्यः परां सिद्धिं गतो यत्र महातपाः

तस्मादविमुक्तं क्षेत्रं मुक्तये नित्यं संसेवनीयं; यत्र महातपाः जैगीषव्यः पाशच्छेदकपतेः प्रसादात् परां सिद्धिं मोक्षं प्राप्तवान्।

Verse 53

अस्य क्षेत्रस्य माहात्म्याद् भक्त्या च मम भावितः जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते

अस्य क्षेत्रस्य माहात्म्येन मयि भावितया भक्त्या च जैगीषव्यगुहा श्रेष्ठा योगिनां परमं स्थानमिष्यते।

Verse 54

ध्यायन्तस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम् कैवल्यं परमं याति देवानामपि दुर्लभम्

तत्र मां नित्यं ध्यायन्तः योगाग्निं भृशं दीपयन्ति; ते परमं कैवल्यं यान्ति, यद्देवानामपि दुर्लभम्।

Verse 55

अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः इह सम्प्राप्यते मोक्षो दुर्लभो ऽन्यत्र कर्हिचित्

अव्यक्तलिङ्गनिष्ठैर्मुनिभिः सर्वसिद्धान्तवेदिभिः इहैव मोक्षः सम्प्राप्यते; अन्यत्र तु कर्हिचिदपि दुर्लभः।

Verse 56

तेभ्यश्चाहं प्रवक्ष्यामि योगैश्वर्यमनुत्तमम् आत्मनश्चैव सायुज्यम् ईप्सितं स्थानमेव च

तेभ्यश्चाहं प्रवक्ष्यामि योगैश्वर्यमनुत्तमम्; आत्मनः पत्यात्मना सह सायुज्यं च, ईप्सितं स्थानमेव च।

Verse 57

कुबेरो ऽत्र मम क्षेत्रे मयि सर्वार्पितक्रियः क्षेत्रसंसेवनादेव गणेशत्वमवाप ह

अत्र मम पुण्यक्षेत्रे कुबेरः सर्वकर्माणि मय्येव समर्प्य, अस्य क्षेत्रस्य नित्यसेवनमात्रेण गणेशत्वं प्राप ह।

Verse 58

संवर्तो भविता यश् च सो ऽपि भक्तो ममैव तु इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम्

यश्च संवर्तो नाम भविष्यति सोऽपि ममैव भक्तः; इहैव मां देवि समाराध्य, अनुत्तमां सिद्धिं यास्यति।

Verse 59

पराशरसुतौ योगी ऋषिर्व्यासो महातपाः मम भक्तो भविष्यश् च वेदसंस्थाप्रवर्तकः

पराशरसुतो योगी ऋषिर्व्यासो महातपाः मम भक्तो भविष्यति, वेदसंस्थां च प्रवर्तयिष्यति।

Verse 60

रंस्यते सो ऽपि पद्माक्षि क्षेत्रे ऽस्मिन्मुनिपुङ्गवः ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वापि दिवाकरः

पद्माक्षि, अस्मिन्पुण्यक्षेत्रे स मुनिपुङ्गवोऽपि रमते; ब्रह्मा देवर्षिभिः सार्धं, विष्णुश्च, दिवाकरश्चापि अत्र क्रीडन्ति।

Verse 61

देवराजस्तथा शक्रो ये ऽपि चान्ये दिवौकसः उपासते महात्मानः सर्वे मामिह सुव्रते

सुव्रते, देवराजः शक्रश्च ये चान्ये दिवौकसः, ते सर्वे महात्मानः मामिह उपासते।

Verse 62

अन्ये ऽपि योगिनो दिव्याश् छन्नरूपा महात्मनः अनन्यमनसो भूत्वा मामिहोपासते सदा

अन्येऽपि योगिनो दिव्याः छन्नरूपा महात्मनः। अनन्यमनसो भूत्वा मामिहोपासते सदा॥

Verse 63

विषयासक्तचित्तो ऽपि त्यक्तधर्मरतिर्नरः इह क्षेत्रे मृतः सो ऽपि संसारे न पुनर्भवेत्

विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः। इह क्षेत्रे मृतः सोऽपि संसारे न पुनर्भवेत्॥

Verse 64

ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः व्रतिनश् च निरारम्भाः सर्वे ते मयि भाविताः

ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः। व्रतिनश्च निरारम्भाः सर्वे ते मयि भाविताः॥

Verse 65

देवदेवं समासाद्य धीमन्तः संगवर्जिताः गता इह परं मोक्षं प्रसादान्मम सुव्रते

देवदेवं समासाद्य धीमन्तः संगवर्जिताः। गता इह परं मोक्षं प्रसादान्मम सुव्रते॥

Verse 66

जन्मान्तरसहस्रेषु यं न योगी समाप्नुयात् तमिहैव परं मोक्षं प्रसादान्मम सुव्रते

जन्मान्तरसहस्रेषु यं न योगी समाप्नुयात्। तमिहैव परं मोक्षं प्रसादान्मम सुव्रते॥

Verse 67

गोप्रेक्षकम् इदं क्षेत्रं ब्रह्मणा स्थापितं पुरा कैलासभवनं चात्र पश्य दिव्यं वरानने

गोप्रेक्षकमिति पुण्यं क्षेत्रं पुरा ब्रह्मणा स्थापितम्। वरानने, अत्र कैलासभवनं दिव्यं तेजोमयं पश्य॥

Verse 68

गोप्रेक्षकम् अथागम्य दृष्ट्वा मामत्र मानवः न दुर्गतिमवाप्नोति कल्मषैश् च विमुच्यते

गोप्रेक्षकमथागम्य दृष्ट्वा मामत्र मानवः। न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते॥

Verse 69

कपिलाह्रदम् इत्येवं तथा वै ब्रह्मणा कृतम् गवां स्तन्यजतोयेन तीर्थं पुण्यतमं महत्

कपिलाह्रदमित्येवं तथा वै ब्रह्मणा कृतम्। गवां स्तन्यजतोयेन तीर्थं पुण्यतमं महत्॥

Verse 70

अत्रापि स्वयमेवाहं वृषध्वज इति स्मृतः सान्निध्यं कृतवान् देवि सदाहं दृश्यते त्वया

अत्रापि स्वयमेवाहं वृषध्वज इति स्मृतः। सान्निध्यं कृतवान् देवि सदाहं दृश्यते त्वया॥

Verse 71

भद्रतोयं च पश्येह ब्रह्मणा च कृतं ह्रदम् सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः

भद्रतोयं च पश्येह ब्रह्मणा च कृतं ह्रदम्। सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः॥

Verse 72

गच्छोपशमम् ईशेति उपशान्तः शिवस् तथा अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना

“गच्छोपशमम्, ईश” इति उक्ते उपशान्तः शिवोऽभवत्। ततः ब्रह्मणा नीतोऽहं परमेष्ठिना अत्र स्थापितः, पूजार्थं प्रभोः सन्निधिं स्थापयन्।

Verse 73

ब्रह्मणा चापि संगृह्य विष्णुना स्थापितः पुनः ब्रह्मणापि ततो विष्णुः प्रोक्तः संविग्नचेतसा

ब्रह्मणा चापि संगृह्य विष्णुना स्थापितः पुनः। ततो ब्रह्मा संविग्नचेतसा विष्णुं प्रोवाच, लोकानां स्थैर्यार्थं पतिसन्निधिं विचिन्तयन्।

Verse 74

मयानीतमिदं लिङ्गं कस्मात् स्थापितवान् असि तमुवाच पुनर् विष्णुर् ब्रह्माणं कुपिताननम्

“मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि?” इति विष्णुः पुनर्ब्रह्माणं कुपिताननं उवाच।

Verse 75

रुद्रे देवे ममात्यन्तं परा भक्तिर्महत्तरा मयैव स्थापितं लिङ्गं तव नाम्ना भविष्यति

रुद्रे देवे ममात्यन्तं परा भक्तिर्महत्तरा। मयैव स्थापितं लिङ्गं तव नाम्ना भविष्यति॥

Verse 76

हिरण्यगर्भ इत्येवं ततो ऽत्राहं समास्थितः दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः

हिरण्यगर्भ इत्येवं ततोऽत्राहं समास्थितः। दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः॥

Verse 77

ततः पुनरपि ब्रह्मा मम लिङ्गमिदं शुभम् स्थापयामास विधिवद् भक्त्या परमया युतः

ततः पुनरपि ब्रह्मा ममैतत् शुभं लिङ्गं विधिवत् स्थापयामास, परमया भक्त्या समन्वितः।

Verse 78

स्वर्लीनेश्वर इत्येवम् अत्राहं स्वयमागतः प्राणान् इह नरस्त्यक्त्वा न पुनर्जायते क्वचित्

एवं स्वर्लीनेश्वर इति ख्यातम्; अत्राहं स्वयमेवागतः। यः कश्चिन्नर इह प्राणान् त्यजति, स क्वचिदपि न पुनर्जायते।

Verse 79

अनन्या सा गतिस्तस्य योगिनां चैव या स्मृता व्याघ्रेश्वर अस्मिन्नपि मया देशे दैत्यो दैवतकण्टकः

सा एव तस्य अनन्या गतिः स्मृता, योगिनां च यैव परा गतिः। हे व्याघ्रेश्वर, ममास्मिन्नपि देशे दैत्योऽस्ति दैवतकण्टकः विघ्नकरः।

Verse 80

व्याघ्ररूपं समास्थाय निहतो दर्पितो बली व्याघ्रेश्वर इति ख्यातो नित्यमत्राहमास्थितः

व्याघ्ररूपं समास्थाय दर्पितं बलिनं निहतवानहम्। ततोऽहं व्याघ्रेश्वर इति ख्यातः, नित्यमत्राहमवस्थितः।

Verse 81

न पुनर्दुर्गतिं याति दृष्ट्वैनं व्याघ्रमीश्वरम् उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा

एनं व्याघ्रमीश्वरं दृष्ट्वा न पुनर्दुर्गतिं याति। उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा प्रोक्तौ, तावपि दर्शनात् पतनं न प्रापतुः।

Verse 82

स्त्रीवध्यौ दर्पितौ दृष्ट्वा त्वयैव निहतौ रणे सावज्ञं कन्दुकेनात्र तस्येदं देहमास्थितम्

स्त्रीवधयोग्यौ दर्पितौ तौ दृष्ट्वा त्वयैव रणे निहतौ; तथापि अत्र सावज्ञेन कन्दुकेन तस्यायं देह एव त्वया धारितः।

Verse 83

आदावत्राहमागम्य प्रस्थितो गणपैः सह ज्येष्ठस्थानमिदं तस्माद् एतन्मे पुण्यदर्शनम्

आदौ अहम् अत्र आगम्य गणपैः सह प्रस्थितः; तस्माद् एतज्ज्येष्ठस्थानं, एतन्मे पुण्यदर्शनम्।

Verse 84

देवैः समन्ताद् एतानि लिङ्गानि स्थापितान्यतः दृष्ट्वापि नियतो मर्त्यो देहभेदे गणो भवेत्

तस्माद् देवैः समन्ताद् एतानि लिङ्गानि स्थापितानि; नियतभक्त्या यः पश्यति मर्त्यः, स देहभेदे गणो भवेत्।

Verse 85

पित्रा ते शैलराजेन पुरा हिमवता स्वयम् मम प्रियहितं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम्

पुरा ते पिता शैलराजो हिमवान् स्वयम् मम प्रियहितं स्थानं ज्ञात्वा अत्र लिङ्गं प्रतिष्ठितवान्।

Verse 86

शैलेश्वरमिति ख्यातं दृश्यतामिह चादरात् दृष्ट्वैतन्मनुजो देवि न दुर्गतिमतो व्रजेत्

शैलेश्वरमिति ख्यातम्; अतः अत्र आदरात् दृश्यताम्। देवि, एतद्दृष्ट्वा मनुजो न दुर्गतिं व्रजेत्।

Verse 87

नद्येषा वरुणा देवि पुण्या पापप्रमोचनी क्षेत्रमेतद् अलंकृत्य जाह्नव्या सह संगता

हे देवि, एषा वरुणा नाम नदी पुण्या पापप्रमोचनी च। एतत् पवित्रं क्षेत्रम् अलंकृत्य सा जाह्नव्या सह संगता॥

Verse 88

स्थापितं ब्रह्मणा चापि संगमे लिङ्गमुत्तमम् संगमेश्वरम् इत्येवं ख्यातं जगति दृश्यताम्

संगमे ब्रह्मणापि स्थापितं लिङ्गमुत्तमम्। तदेव ‘संगमेश्वरम्’ इति लोके ख्यातं, सर्वैर्दृश्यताम्॥

Verse 89

संगमे देवनद्या हि यः स्नात्वा मनुजः शुचिः अर्चयेत् संगमेश्वरं तस्य जन्मभयं कुतः

देवनद्याः संगमे यः स्नात्वा शुचिर्मनुजः। संगमेश्वरम् अर्चयेत्, तस्य जन्मभयं कुतः॥

Verse 90

इदं मन्ये महाक्षेत्रं निवासो योगिनां परम् क्षेत्रमध्ये च यत्राहं स्वयं भूत्वाग्रमास्थितः

इदं महाक्षेत्रं मन्ये योगिनां परमं निवासम्। क्षेत्रमध्ये यत्राहं स्वयंभूत्वा अग्रे प्रतिष्ठितः॥

Verse 91

मध्यमेश्वरमित्येवं ख्यातः सर्वसुरासुरैः सिद्धानां स्थानमेतद्धि मदीयव्रतधारिणाम्

‘मध्यमेश्वरः’ इति ख्यातः सर्वसुरासुरैः। सिद्धानां स्थानमेतद्धि मदीयव्रतधारिणाम्॥

Verse 92

योगिनां मोक्षलिप्सूनां ज्ञानयोगरतात्मनाम् दृष्ट्वैनं मध्यमेशानं जन्म प्रति न शोचति

योगिनां मोक्षलिप्सूनां ज्ञानयोगपरायणानाम्। एतं मध्यमेशानं दृष्ट्वा जन्मनि न शोचति॥

Verse 93

स्थापितं लिङ्गमेतत्तु शुक्रेण भृगुसूनुना नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम्

स्थापितं लिङ्गमेतत्तु शुक्रेण भृगुनन्दन। नाम्ना शुक्रेश्वरं ख्यातं सर्वसिद्धामरार्चितम्॥

Verse 94

दृष्ट्वैनं नियतः सद्यो मुच्यते सर्वकिल्बिषैः मृतश् च न पुनर्जन्तुः संसारी तु भवेन्नरः

दृष्ट्वैनं नियतः सद्यो मुच्यते सर्वकिल्बिषैः। मृतश्च न पुनर्जन्तुः संसारी न भवेद्नरः॥

Verse 95

पुरा जम्बूकरूपेण असुरो देवकण्टकः ब्रह्मणो हि वरं लब्ध्वा गोमायुर्बन्धशङ्कितः

पुरा जम्बूकरूपेण असुरो देवकण्टकः। ब्रह्मणो वरमासाद्य गोमायुरिव बन्धशङ्कितः॥

Verse 96

निहतो हिमवत्पुत्रि जम्बूकेशस्ततो ह्यहम् अद्यापि जगति ख्यातं सुरासुरनमस्कृतम्

निहतो हिमवत्पुत्रि जम्बूकेशस्ततो ह्यहम्। अद्यापि जगति ख्यातं सुरासुरनमस्कृतम्॥

Verse 97

दृष्ट्वैनमपि देवेशं सर्वान्कामानवाप्नुयात् ग्रहैः शुक्रपुरोगैश् च एतानि स्थापितानि ह

दृष्ट्वैनमपि देवेशं सर्वान्कामानवाप्नुयात्। ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि ह॥

Verse 98

पश्य पुण्यानि लिङ्गानि सर्वकामप्रदानि तु एवमेतानि पुण्यानि मन्निवासानि पार्वति

पश्य पुण्यानि लिङ्गानि सर्वकामप्रदानि तु। एवमेतानि पुण्यानि मन्निवासानि पार्वति॥

Verse 99

कथितानि मम क्षेत्रे गुह्यं चान्यदिदं शृणु चतुःक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम्

कथितानि मम क्षेत्रे गुह्यं चान्यदिदं शृणु। चतुःक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम्॥

Verse 100

योजनं विद्धि चार्वङ्गि मृत्युकाले ऽमृतप्रदम् महालयगिरिस्थं मां केदारे च व्यवस्थितम्

योजनं विद्धि चार्वङ्गि मृत्युकालेऽमृतप्रदम्। महालयगिरिस्थं मां केदारे च व्यवस्थितम्॥

Verse 101

गणत्वं लभते दृष्ट्वा ह्य् अस्मिन्मोक्षो ह्यवाप्यते गाणपत्यं लभेद्यस्माद् यतः सा मुक्तिरुत्तमा

गणत्वं लभते दृष्ट्वा ह्यस्मिन्मोक्षो ह्यवाप्यते। गाणपत्यं लभेद्यस्माद्यतः सा मुक्तिरुत्तमा॥

Verse 102

ततो महालयात् तस्मात् केदारान्मध्यमादपि स्मृतं पुण्यतमं क्षेत्रम् अविमुक्तं वरानने

ततो महालयात् तस्मात् केदारान्मध्यमादपि स्मृतं पुण्यतमं क्षेत्रम् अविमुक्तं वरानने। यत्र पतिः पशून् न कदाचिद् जहाति, पाशच्छेदेन मोक्षं ददाति॥

Verse 103

केदारं मध्यमं क्षेत्रं स्थानं चैव महालयम् मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम्

केदारं मध्यमं क्षेत्रं स्थानं चैव महालयम्। मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम्॥

Verse 104

यतः सृष्टास्त्विमे लोकास् ततः क्षेत्रमिदं शुभम् कदाचिन्न मया मुक्तम् अविमुक्तं ततो ऽभवत्

यतः सृष्टास्त्विमे लोकास् ततः क्षेत्रमिदं शुभम्। कदाचिन्न मया मुक्तम् अविमुक्तं ततोऽभवत्॥

Verse 105

अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते

अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः। सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते॥

Verse 106

शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम् हिरण्यगर्भम् ईशानं गोप्रेक्षं वृषभध्वजम्

शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम्। हिरण्यगर्भम् ईशानं गोप्रेक्षं वृषभध्वजम्॥

Verse 107

उपशान्तं शिवं चैव ज्येष्ठस्थाननिवासिनम् शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम्

उपशान्तं शिवं चैव ज्येष्ठस्थाननिवासिनम् । शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् ॥

Verse 108

दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे सूत उवाच एवम् उक्त्वा महादेवो दिशः सर्वा व्यलोकयत्

दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे । सूत उवाच एवम् उक्त्वा महादेवो दिशः सर्वा व्यलोकयत् ॥

Verse 109

विलोक्य संस्थिते पश्चाद् देवदेवे महेश्वरे अकस्मादभवत्सर्वः स देशोज्ज्वलितो यथा

विलोक्य संस्थिते पश्चाद् देवदेवे महेश्वरे । अकस्मादभवत्सर्वः स देशोज्ज्वलितो यथा ॥

Verse 110

ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः माहेश्वरा महात्मानस् तथा वै नियतव्रताः

ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः । माहेश्वरा महात्मानस् तथा वै नियतव्रताः ॥

Verse 111

बहवः शतशो ऽभ्येत्य नमश्चक्रुर्महेश्वरम् पुनर्निरीक्ष्य योगेशं ध्यानयोगं च कृत्स्नशः

बहवः शतशो ऽभ्येत्य नमश्चक्रुर्महेश्वरम् । पुनर्निरीक्ष्य योगेशं ध्यानयोगं च कृत्स्नशः ॥

Verse 112

तस्थुरात्मानमास्थाय लीयमाना इवेश्वरे स्थितानां स तदा तेषां देवदेव उमापतिः

तस्थुरात्मानमास्थाय लीयमाना इवेश्वरे। स्थितानां स तदा तेषां देवदेव उमापतिः॥

Verse 113

स बिभ्रत्परमां मूर्तिं बभूव पुरुषः प्रभुः कृत्स्नं जगदिहैकस्थं कर्तुम् अन्त इव स्थितः

स बिभ्रत्परमां मूर्तिं बभूव पुरुषः प्रभुः। कृत्स्नं जगदिहैकस्थं कर्तुमन्त इव स्थितः॥

Verse 114

तस्य तां परमां मूर्तिम् आस्थितस्य जगत्प्रभोः न शशाक पुनर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा

तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः। न शशाक पुनर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा॥

Verse 115

ततस्त्वदृष्टमाकारं बुद्ध्वा सा प्रकृतिस्थितम् प्रकृतेर्मूर्तिमास्थाय योगेन परमेश्वरी

ततस्त्वदृष्टमाकारं बुद्ध्वा सा प्रकृतिस्थितम्। प्रकृतेर्मूर्तिमास्थाय योगेन परमेश्वरी॥

Verse 116

तं शशाक पुनर्द्रष्टुं हरस्य च महात्मनः ततस्ते लयमाधाय योगिनः पुरुषस्य तु

तं शशाक पुनर्द्रष्टुं हरस्य च महात्मनः। ततस्ते लयमाधाय योगिनः पुरुषस्य तु॥

Verse 117

विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः पञ्चाक्षरस्य वै बीजं संस्मरन्तः सुशोभनम्

सर्वे दग्धसंसारबीजिनो हृदयमेव विविशुः। ते पञ्चाक्षरस्य सुशोभनं बीजं निरन्तरं संस्मरन्तः सम्यग्विराजिरे॥

Verse 118

सर्वपापहरं दिव्यं पुरा चैव प्रकाशितम् नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम्

सर्वपापहरं दिव्यं पुरा प्रकाशितं यत्। नीललोहितमूर्तिस्थं तत् पुनः शुभं वपुः चकार॥

Verse 119

तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा स्तुवती चरणौ नत्वा क इमे भगवन्निति

तं दृष्ट्वा शैलजा हृष्टसर्वतनूरुहा। चरणौ नत्वा स्तुवती प्राह—क इमे भगवन् इति॥

Verse 120

तामुवाच सुरश्रेष्ठस् तदा देवीं गिरीन्द्रजाम् श्रीभगवानुवाच मदीयं व्रतमाश्रित्य भक्तिमद्भिर् द्विजोत्तमैः

तदा सुरश्रेष्ठो देवीं गिरीन्द्रजामुवाच। श्रीभगवान् उवाच—मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः॥

Verse 121

यैर्यैर्योगा इहाभ्यस्तास् तेषाम् एकेन जन्मना क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भामिनि

यैर्यैर्योगा इहाभ्यस्तास्तेषामेकजन्मना। क्षेत्रस्यास्य प्रभावेण भक्त्या च मम भामिनि॥

Verse 122

अनुग्रहो मया ह्येवं क्रियते मूर्तितः स्वयम् तस्माद् एतन् महत् क्षेत्रं ब्रह्माद्यैः सेवितं तथा

अनुग्रहो मया ह्येवं मूर्तितः स्वयमेव क्रियते। तस्मादेतन्महत्क्षेत्रं ब्रह्माद्यैर्देवैः सेवितं पूजितं च॥

Verse 123

श्रुतिमद्भिश् च विप्रेन्द्रैः संसिद्धैश् च तपस्विभिः प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम्

श्रुतिमद्भिर्द्विजेन्द्रैश्च संसिद्धैस्तपस्विभिः। प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम्॥

Verse 124

उभयोः पक्षयोर्देवि वाराणस्यामुपास्यते शशिभानूपरागे च कार्तिक्यां च विशेषतः

उभयोः पक्षयोर्देवि वाराणस्यामुपास्यते। शशिभानूपरागे च कार्तिक्यां च विशेषतः॥

Verse 125

सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम्

सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च। पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम्॥

Verse 126

उत्तरप्रवहां पुण्यां मम मौलिविनिःसृताम् पितुस्ते गिरिराजस्य शुभां हिमवतः सुताम्

उत्तरप्रवहां पुण्यां मम मौलिविनिःसृताम्। पितुस्ते गिरिराजस्य शुभां हिमवतः सुताम्॥

Verse 127

पुण्यस्थानस्थितां पुण्यां पुण्यदिक्प्रवहां सदा भजन्ते सर्वतो ऽभ्येत्य ये ताञ्छृणु वरानने

पुण्यस्थानेषु स्थितां पुण्यां पुण्यदिक्प्रवहां सदा। सर्वतोऽभ्येत्य ये भक्त्या भजन्ते ताञ्छृणु वरानने॥

Verse 128

संनिहत्य कुरुक्षेत्रं सार्धं तीर्थशतैस् तथा पुष्करं निमिषं चैव प्रयागं च पृथूदकम्

संनिहत्य कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा। पुष्करं नैमिषं चैव प्रयागं च पृथूदकम्॥

Verse 129

द्रुमक्षेत्रं कुरुक्षेत्रं नैमिषं तीर्थसंयुतम् क्षेत्राणि सर्वतो देवि देवता ऋषयस् तथा

द्रुमक्षेत्रं कुरुक्षेत्रं नैमिषं तीर्थसंयुतम्। क्षेत्राणि सर्वतो देवि देवता ऋषयस्तथा॥

Verse 130

संध्या च ऋतवश्चैव सर्वा नद्यः सरांसि च समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः

संध्याश्च ऋतवश्चैव सर्वा नद्यः सरांसि च। समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः॥

Verse 131

भागीरथीं समेष्यन्ति सर्वपर्वसु सुव्रते अविमुक्तेश्वरं दृष्ट्वा दृष्ट्वा चैव त्रिविष्टपम्

भागीरथीं समेष्यन्ति सर्वपर्वसु सुव्रते। अविमुक्तेश्वरं दृष्ट्वा दृष्ट्वा चैव त्रिविष्टपम्॥

Verse 132

कालभैरवमासाद्य धूतपापानि सर्वशः भवन्ति हि सुरेशानि सर्वपर्वसु पर्वसु

कालभैरवमासाद्य धूतपापानि सर्वशः भवन्ति हि सुरेशानि सर्वपर्वसु पर्वसु।

Verse 133

पृथिव्यां यानि पुण्यानि महान्त्यायतनानि च प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु अविमुक्तं क्षेत्रवरं महापापनिबर्हणम्

पृथिव्यां यानि पुण्यानि महान्त्यायतनानि च प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु। अविमुक्तं क्षेत्रवरं महापापनिबर्हणम्॥

Verse 134

केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये

केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये।

Verse 135

मध्यमेश्वरसंज्ञं च तथा पाशुपतेश्वरम् शङ्कुकर्णेश्वरं चैव गोकर्णौ च तथा ह्युभौ

मध्यमेश्वरसंज्ञं च तथा पाशुपतेश्वरम्। शङ्कुकर्णेश्वरं चैव गोकर्णौ च तथा ह्युभौ॥

Verse 136

द्रुमचण्डेश्वरं नाम भद्रेश्वरम् अनुत्तमम् स्थानेश्वरं तथैकाग्रं कालेश्वरम् अजेश्वरम्

द्रुमचण्डेश्वरं नाम भद्रेश्वरम् अनुत्तमम्। स्थानेश्वरं तथैकाग्रं कालेश्वरम् अजेश्वरम्॥

Verse 137

भैरवेश्वरम् ईशानं तथौंकारकसंज्ञितम् अमरेशं महाकालं ज्योतिषं भस्मगात्रकम्

भैरवेश्वरमीशानं तथौङ्कारकसंज्ञितम् । अमरेशं महाकालं ज्योतिषं भस्मगात्रकम् ॥

Verse 138

यानि चान्यानि पुण्यानि स्थानानि मम भूतले अष्टषष्टिसमाख्यानि रूढान्यन्यानि कृत्स्नशः

यानि चान्यानि पुण्यानि स्थानानि मम भूतले । अष्टषष्टिसमाख्यानि रूढान्यन्यानि कृत्स्नशः ॥

Verse 139

तानि सर्वाण्यशेषाणि वाराणस्यां विशन्ति माम् सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम्

तानि सर्वाण्यशेषाणि वाराणस्यां विशन्ति माम् । सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् ॥

Verse 140

तेनेह लभते जन्तुर् मृतो दिव्यामृतं पदम् स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे

तेनेह लभते जन्तुर्मृतो दिव्यामृतं पदम् । स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे ॥

Verse 141

सर्वयज्ञफलैस्तुल्यम् इष्टैः शतसहस्रशः सद्य एव समाप्नोति किं ततः परमाद्भुतम्

सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः । सद्य एव समाप्नोति किं ततः परमाद्भुतम् ॥

Verse 142

सर्वायतनमुख्यानि दिवि भूमौ गिरिष्व् अपि परात्परतरं देवी बुध्यस्वेति मयोदितम्

सर्वायतनमुख्यानि दिवि भूमौ गिरिष्वपि; परात्परतरं तत्त्वं देवी बुध्यस्वेति मयोदितम्।

Verse 143

अविशब्देन पापस्तु वेदोक्तः कथ्यते द्विजैः तेन मुक्तं मया जुष्टम् अविमुक्तम् अत उच्यते

अविशब्देन पापस्तु वेदोक्तः कथ्यते द्विजैः; तेन मुक्तं मया जुष्टम् अविमुक्तम् अत उच्यते।

Verse 144

इत्युक्त्वा भगवान् रुद्रः सर्वलोकमहेश्वरः सुदृष्टं कुरु देवेशि अविमुक्तं गृहं मम

इत्युक्त्वा भगवान् रुद्रः सर्वलोकमहेश्वरः; सुदृष्टं कुरु देवेशि अविमुक्तं गृहं मम।

Verse 145

श्रीशैल इत्युक्त्वा भगवान् देवस् तया सार्धम् उमापतिः दर्शयामास भगवान् श्रीपर्वतमनुत्तमम्

श्रीशैल इत्युक्त्वा भगवान् देवस् तया सार्धम् उमापतिः; दर्शयामास भगवान् श्रीपर्वतमनुत्तमम्।

Verse 146

अविमुक्तेश्वरे नित्यम् अवसच्च सदा तया सर्वगत्वाच्च सर्वत्वात् सर्वात्मा सदसन्मयः

अविमुक्तेश्वरे नित्यं अवसच्च सदा तया; सर्वगत्वाच्च सर्वत्वात् सर्वात्मा सदसन्मयः।

Verse 147

श्रीपर्वतमनुप्राप्य देव्या देवेश्वरो हरः क्षेत्राणि दर्शयामास सर्वभूतपतिर्भवः

श्रीपर्वतम् अनुप्राप्य देव्या सह देवेश्वरो हरः। सर्वभूतपतिर्भवः पावनानि क्षेत्राणि तस्यै दर्शयामास॥

Verse 148

कुण्डीप्रभं च परमं दिव्यं वैश्रवणेश्वरम् आशालिङ्गं च देवेशं दिव्यं यच्च बिलेश्वरम्

कुण्डीप्रभं च परमं दिव्यं वैश्रवणेश्वरम्। आशालिङ्गं च देवेशं दिव्यं यच्च बिलेश्वरम्॥

Verse 149

रामेश्वरं च परमं विष्णुना यत्प्रतिष्ठितम् दक्षिणद्वारपार्श्वे तु कुण्डलेश्वरमीश्वरम्

रामेश्वरं च परमं विष्णुना यत्प्रतिष्ठितम्। दक्षिणद्वारपार्श्वे तु कुण्डलेश्वरमीश्वरम्॥

Verse 150

पूर्वद्वारसमीपस्थं त्रिपुरान्तकमुत्तमम् विवृद्धं गिरिणा सार्धं देवदेवनमस्कृतम्

पूर्वद्वारसमीपस्थं त्रिपुरान्तकमुत्तमम्। विवृद्धं गिरिणा सार्धं देवदेवनमस्कृतम्॥

Verse 151

मध्यमेश्वरमित्युक्तं त्रिषु लोकेषु विश्रुतम् अमरेश्वरं च वरदं देवैः पूर्वं प्रतिष्ठितम्

मध्यमेश्वरमित्युक्तं त्रिषु लोकेषु विश्रुतम्। अमरेश्वरं च वरदं देवैः पूर्वं प्रतिष्ठितम्॥

Verse 152

गोचर्मेश्वरम् ईशानं तथेन्द्रेश्वरम् अद्भुतम् कर्मेश्वरं च विपुलं कार्यार्थं ब्रह्मणा कृतम्

ब्रह्मा कार्यसिद्ध्यर्थं गोचर्मेश्वरनामानम् अद्भुतमीशानं तथा इन्द्रेश्वरमपि, विपुलं कर्मेश्वरं च कृतवान्—एते सर्वे पाशबद्धपशूनां पाशच्छेदकः पतिरूपा महेश्वरस्य लिङ्गमूर्तयः।

Verse 153

श्रीमत्सिद्धवटं चैव सदावासो ममाव्यये अजेन निर्मितं दिव्यं साक्षादजबिलं शुभम्

“एतत् श्रीमत्सिद्धवटं मम सदावासः—अव्ययः। अजेन् निर्मितं दिव्यं; साक्षाद् अजबिलं शुभं दृश्यते।”

Verse 154

तत्रैव पादुके दिव्ये मदीये च बिलेश्वरे तत्र शृङ्गाटकाकारं शृङ्गाटाचलमध्यमे

तत्रैव दिव्ये पादुके सन्ति, मदीयं च बिलेश्वरस्यायतनम्। शृङ्गाटाचलस्य मध्ये शृङ्गाटकाकारं पावनं स्थानं विद्यते—यत्र भक्त्या पशुः पत्यभिमुखो भूत्वा मोक्षमार्गं प्रवर्तते।

Verse 155

शृङ्गाटकेश्वरं नाम श्रीदेव्या तु प्रतिष्ठितम् मल्लिकार्जुनकं चैव मम वासमिदं शुभम्

“एतत् शृङ्गाटकेश्वरं नाम, श्रीदेव्याः प्रतिष्ठितम्। मल्लिकार्जुनकं चैव; एष शुभो मम वासः।”

Verse 156

रजेश्वरं च पर्याये रजसा सुप्रतिष्ठितम् गजेश्वरं च वैशाखं कपोतेश्वरमव्ययम्

पर्यायेण रजेश्वरः रजसा सुप्रतिष्ठितः; गजेश्वरश्च, वैशाखश्च, कपोतेश्वरश्च अव्ययः—एतेषु प्रतिष्ठितलिङ्गेषु शिवः सदा विराजते।

Verse 157

कोटीश्वरं महातीर्थं रुद्रकोटिगणैः पुरा सेवितं देवि पश्याद्य सर्वस्मादधिकं शुभम्

देवि, अद्य कोटीश्वरं महातीर्थं पश्य; यत् पुरा रुद्रकोटिगणैः सेवितम्। एतत् सर्वतीर्थेभ्यः परं परमं शुभम्॥

Verse 158

द्विदेवकुलसंज्ञं च ब्रह्मणा दक्षिणे शुभम् उत्तरे स्थापितं चैव विष्णुना चैव शैलजम्

तत् शुभं स्थलम् ‘द्विदेवकुल’ इति संज्ञितम्। दक्षिणे ब्रह्मणा स्थापितं, उत्तरे विष्णुना शैलजं च प्रतिष्ठितम्॥

Verse 159

महाप्रमाणलिङ्गं च मया पूर्वं प्रतिष्ठितम् पश्चिमे पर्वते पश्य ब्रह्मेश्वरमलेश्वरम्

महाप्रमाणं लिङ्गं च मया पूर्वं प्रतिष्ठितम्। पश्चिमे पर्वते पश्य ब्रह्मेश्वरम् अलेश्वरं च॥

Verse 160

अलंकृतं त्वया ब्रह्मन् पुरस्तान् मुनिभिः सह इत्युक्त्वा तद्गृहे तिष्ठद् अलंगृहमिति स्मृतम्

‘अलंकृतं त्वया ब्रह्मन् पुरस्तान् मुनिभिः सह’ इत्युक्त्वा तद्गृहे तिष्ठन्; तस्माद् ‘अलंगृहम्’ इति स्मृतम्॥

Verse 161

तत्रापि तीर्थं तीर्थज्ञे व्योमलिङ्गं च पश्य मे कदम्बेश्वरम् एतद्धि स्कन्देनैव प्रतिष्ठितम्

तत्रापि तीर्थं, तीर्थज्ञे, व्योमलिङ्गं च पश्य मे। एतद्धि कदम्बेश्वरं स्कन्देनैव प्रतिष्ठितम्॥

Verse 162

गोमण्डलेश्वरं चैव नन्दाद्यैः सुप्रतिष्ठितम् देवैः सर्वैस्तु शक्राद्यैः स्थापितानि वरानने

हे वरानने! गोमण्डलेश्वरः नन्द्यादिभिः सुसंस्थापितः; शक्राद्यैः सर्वैर्देवैश्चापि सम्यक् प्रतिष्ठापितः।

Verse 163

श्रीमद्देवह्रदप्रान्ते स्थानानीमानि पश्य मे तथा हारपुरे देवि तव हारे निपातिते

श्रीमद्देवह्रदप्रान्ते मदीयानि स्थानानीमानि पश्य मे; तथा देवि हारपुरे तव हारे निपातितेऽपि (पुण्यं जातम्)।

Verse 164

त्वया हिताय जगतां हारकुण्डमिदं कृतम् शिवरुद्रपुरे चैव तत्कायोपरि सुव्रते

त्वया हिताय जगतां हारकुण्डमिदं कृतम्; शिवरुद्रपुरे चैव तत्कायोपरि सुव्रते।

Verse 165

तत्र पित्रा सुशैलेन स्थापितं त्वचलेश्वरम् अलंकृतं मया ब्रह्म पुरस्तान् मुनिभिः सह

तत्र पित्रा सुशैलेन स्थापितं त्वचलेश्वरम्; अलंकृतं मया ब्रह्म पुरस्तान् मुनिभिः सह।

Verse 166

चण्डिकेश्वरकं देवि चण्डिकेशा तवात्मजा चण्डिकानिर्मितं स्थानम् अंबिकातीर्थम् उत्तमम्

चण्डिकेश्वरकं देवि, चण्डिकेशा तवात्मजा; चण्डिकानिर्मितं स्थानम्—अंबिकातीर्थम् उत्तमम्।

Verse 167

रुचिकेश्वरकं चैव धारैषा कपिला शुभा एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च

रुचिकेश्वरकं चैव धारैषा कपिला शुभा। एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च॥

Verse 168

पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते श्रीशैले संत्यजेद् देहं ब्राह्मणो दग्धकिल्बिषः

पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते। श्रीशैले संत्यजेद् देहं ब्राह्मणो दग्धकिल्बिषः॥

Verse 169

मुच्यते नात्र संदेहो ह्य् अविमुक्ते यथा शुभम् महास्नानं च यः कुर्याद् घृतेन विधिनैव तु

मुच्यते नात्र संदेहो ह्यविमुक्ते यथा शुभम्। महास्नानं च यः कुर्याद् घृतेन विधिनैव तु॥

Verse 170

स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते स्नानं पलशतं ज्ञेयम् अभ्यङ्गं पञ्चविंशति

स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते। स्नानं पलशतं ज्ञेयम् अभ्यङ्गं पञ्चविंशति॥

Verse 171

पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् स्नाप्य लिङ्गं मदीयं तु गव्येनैव घृतेन च

पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम्। स्नाप्य लिङ्गं मदीयं तु गव्येनैव घृतेन च॥

Verse 172

विशोध्य सर्वद्रव्यैस्तु वारिभिर् अभिषिञ्चति संमार्ज्य शतयज्ञानां स्नानेन प्रयुतं तथा

सर्वद्रव्यैः शुद्धिकरैः पूर्वं लिङ्गं पूजास्थानं च विशोध्य, ततः वारिभिरभिषिञ्चेत्। सम्यक् संमार्ज्य कृतं स्नानं शतयज्ञानां फलसमं, स्नानेन तु प्रयुतगुणं—पाशबद्धपशुं मोचयितुः पतेः भक्त्या कृतम्।

Verse 173

पूजया शतसाहस्रम् अनन्तं गीतवादिनाम् महास्नाने प्रसक्तं तु स्नानमष्टगुणं स्मृतम्

पूजया शतसाहस्रगुणं पुण्यम्, गीतवाद्यप्रशंसया तु अनन्तं भवति। महास्नाने तु यः प्रसक्तः, तस्य स्नानं अष्टगुणफलप्रदमिति स्मृतम्।

Verse 174

जलेन केवलेनैव गन्धतोयेन भक्तितः अनुलेपनं तु तत् सर्वं पञ्चविंशत्पलेन वै

केवलेन जलेन वा गन्धतोयेन वा भक्तितः कृतम्। तदनुलेपनं सर्वं पञ्चविंशत्पलप्रमाणेनैव विधीयते।

Verse 175

शमीपुष्पं च विधिना बिल्वपत्रं च पङ्कजम् अन्यान्यपि च पुष्पाणि बिल्वपत्रं न संत्यजेत्

शमीपुष्पं विधिना दद्यात्, बिल्वपत्रं च पङ्कजम्। अन्यानि पुष्पाण्यपि दद्याद्, तथापि बिल्वपत्रं न कदाचन त्यजेत्।

Verse 176

चतुर्द्रोणैर् महादेवम् अष्टद्रोणैरथापि वा दशद्रोणैस् तु नैवेद्यम् अष्टद्रोणैरथापि वा

चतुर्द्रोणैर्महादेवं पूजयेत्, अष्टद्रोणैरथापि वा। नैवेद्यं तु दशद्रोणैः, अष्टद्रोणैरथापि वा, विधीयते।

Verse 177

शतद्रोणसमं पुण्यम् आढके ऽपि विधीयते वित्तहीनस्य विप्रस्य नात्र कार्या विचारणा

वित्तहीनस्य विप्रस्य यद् आढकेऽपि दत्तं पुण्यं शतद्रोणसमं भवति। अत्र भाव एव मुख्यः; तस्मान्न विचारणा कार्या।

Verse 178

भेरीमृदङ्गमुरजतिमिरापटहादिभिः वादित्रैर्विविधैश्चान्यैर् निनादैर्विविधैरपि

भेरीमृदङ्गमुरजतिमिरापटहादिभिर्विविधैर्वादित्रैः, अन्यैश्च नानानिनादैः, मङ्गलं निनादं चक्रुः पतेः शिवस्योत्सवे।

Verse 179

जागरं कारयेद्यस्तु प्रार्थयेच्च यथाक्रमम् स भृत्यपुत्रदारैश् च तथा संबन्धिबान्धवैः

यो जागरं कारयेत् प्रार्थयेत् च यथाक्रमम्, स भृत्यपुत्रदारैः सह तथा सम्बन्धिबान्धवैः, शिवानुग्रहभाजनं भवति, येन पाशा विमुच्यन्ते पशुश्च पतिं प्रति प्रवर्तते।

Verse 180

सार्धं प्रदक्षिणं कृत्वा प्रार्थयेल्लिङ्गम् उत्तमम् द्रव्यहीनं क्रियाहीनं श्रद्धाहीनं सुरेश्वर

सार्धं प्रदक्षिणं कृत्वा लिङ्गम् उत्तमं प्रार्थयेत्— ‘सुरेश्वर, द्रव्यहीनं क्रियाहीनं श्रद्धाहीनं च मां, तथापि मे समागमं गृहाण’।

Verse 181

कृतं वा न कृतं वापि क्षन्तुमर्हसि शङ्कर इत्युक्त्वा वै जपेद्रुद्रं त्वरितं शान्तिमेव च

‘कृतं वा न कृतं वापि क्षन्तुमर्हसि शङ्कर’ इत्युक्त्वा रुद्रं जपेत्; तेन त्वरितं शान्तिमेव प्राप्नुयात्।

Verse 182

जपित्वैवं महाबीजं तथा पञ्चाक्षरस्य वै स एवं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्

एवं महाबीजं तथा पञ्चाक्षरं च जपित्वा, स सर्वतीर्थेषु सर्वयज्ञेषु च यत्फलं, तत्सर्वं समवाप्नोति।

Verse 183

तत्फलं समवाप्नोति वाराणस्यां यथा मृतः तथैव मम सायुज्यं लभते नात्र संशयः

तत्फलं समवाप्नोति वाराणस्यां यथा मृतः। तथैव मम सायुज्यं लभते, नात्र संशयः॥

Verse 184

मत्प्रियार्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम् ये न कुर्वन्ति ते भक्ता न भवन्ति न संशयः

मत्प्रियार्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम्। ये न कुर्वन्ति ते भक्ता न भवन्ति, न संशयः॥

Verse 185

सूत उवाच निशम्य वचनं देवी गत्वा वाराणसीं पुरीम् अविमुक्तेश्वरं लिङ्गं पयसा च घृतेन च

सूत उवाच—निशम्य वचनं देवी गत्वा वाराणसीं पुरीम्। अविमुक्तेश्वरं लिङ्गं पयसा च घृतेन च अर्चयामास॥

Verse 186

अर्चयामास देवेशं रुद्रं भुवननायकम् अविमुक्ते च तपसा मन्दरस्य महात्मनः

अर्चयामास देवेशं रुद्रं भुवननायकम्। अविमुक्ते च तपसा मन्दरस्य महात्मनः॥

Verse 187

कल्पयामास वै क्षेत्रं मन्दरे चारुकन्दरे तत्रान्धकं महादैत्यं हिरण्याक्षसुतं प्रभुः

मन्दरे चारुकन्दरे प्रभुः खलु क्षेत्रं कल्पयामास; तत्र हिरण्याक्षसुतं महादैत्यं अन्धकं न्ययोजयत्।

Verse 188

अनुगृह्य गणत्वं च प्रापयामास लीलया एतद्वः कथितं सर्वं कथासर्वस्वमादरात्

अनुगृह्य लीलया गणत्वं च प्रापयामास; एतद्वः सर्वं कथितं कथासर्वस्वमादरात्।

Verse 189

यः पठेच्छृणुयाद्वापि क्षेत्रमाहात्म्यमुत्तमम् सर्वक्षेत्रेषु यत्पुण्यं तत्सर्वं सहसा लभेत्

यः पठेच्छृणुयाद्वापि क्षेत्रमाहात्म्यमुत्तमम्, स सर्वक्षेत्रेषु यत्पुण्यं तत्सर्वं सहसा लभेत्।

Verse 190

श्रावयेद्वा द्विजान्सर्वान् कृतशौचान् जितेन्द्रियान् स एव सर्वयज्ञस्य फलं प्राप्नोति मानवः

श्रावयेद्वा द्विजान्सर्वान् कृतशौचान् जितेन्द्रियान्; स एव सर्वयज्ञस्य फलं प्राप्नोति मानवः।

Frequently Asked Questions

Shiva states that while other tirthas grant merit through bathing and service, Avimukta uniquely grants moksha through Shiva’s permanent presence and direct anugraha—hence liberation is attained here ‘with certainty’ (especially at death).

The text names multiple kshetra-lingas including Avimukteshvara, Shaileshvara, Sangameshvara, Swarlineshvara, Madhyameshvara, Hiranyagarbha, Goprekshaka, Vrishadhvaja, Upashanta Shiva, Jyeshthasthana, Shukreshvara, Vyaghreshvara, and Jambukeshvara—each associated with purification, freedom from durgati, and moksha.

Abhisheka (including ‘mahasnana’), offering bilva leaves and flowers, naivedya according to capacity, music and jagarana, pradakshina with prayers for forgiveness of deficiencies, and japa of Rudra-bija and the Panchakshara—framed as yielding tirtha- and yajna-equivalent fruits and culminating in Shiva-sayujya.