Adhyaya 42
Mahesvara KhandaKaumarika KhandaAdhyaya 42

Adhyaya 42

第42章分为彼此贯通的三段。第一段,纳罗陀阐明圣地(tīrtha)之义:若无婆苏提婆(Vāsudeva),圣地便不圆满。他以瑜伽式礼敬久修,持诵八字真言(aṣṭākṣara-japa),并祈请为普世安乐在此安立毗湿奴(Viṣṇu)的一分神力“卡拉”(kalā);毗湿奴允诺并受安置,由此形成当地尊号与仪轨权威。 第二段,制定迦尔蒂迦月白半月的十一斋日(Ekādaśī)法:于指定水域沐浴,以五供(pañcopacāra)礼拜,守斋,通宵警醒并以乐音/诵读供养,远离嗔怒与傲慢,行布施(dāna)。文中列举理想的信敬与德行,终以“圆满守夜者不复再生”(punar na jāyate)为旨归。 第三段以教诫故事收束:阿周那问及阿伊塔雷耶(Aitareya),纳罗陀叙其世系,并说他因恒常持咒而似乎缄默,引发家中紧张。阿伊塔雷耶开示有身之苦(duḥkha)遍在,外在净化若无内在心意清净(bhāva-śuddhi)终不成就,并阐明次第:厌离(nirveda)→离欲(vairāgya)→智慧(jñāna)→证悟毗湿奴→解脱(mokṣa)。毗湿奴显现,受其赞颂(stotra),赐福并名其功德为“灭罪者”(aghā-nāśana),又指引至科提圣渡(Koṭitīrtha)与哈利梅达斯(Harimedhas)仪式因缘;阿伊塔雷耶终以恒念婆苏提婆而得解脱。

Shlokas

Verse 1

नारद उवाच । ततो मया स्थापिते च स्थाने कालांतरेण ह । चिंतितं हृदये भूयो द्विजानुग्रहकाम्यया

那罗陀说道:我将其安置于本位之后,过了一段时日,又在心中再三思惟——愿为二次生者(婆罗门)求得安乐与恩佑。

Verse 2

वासुदेवविहीनं हि तीर्थमेतन्न रोचते । असूर्यं हि जगद्यद्वत्स हि भूषण भूषणम्

若此圣渡处缺少婆苏提婆(Vāsudeva),我便不觉欢喜;正如无日之世间寂然无乐——因为祂是诸庄严之庄严。

Verse 3

यत्र नैव हरिः स्वामी तीर्थे गेहेऽथ मानसे । शास्त्रे वा तदसत्सर्वं हांसं तीर्थं न वायसम्

凡哈利(Hari)主宰不在之处——无论在圣渡、在家宅、在心念,乃至在经典之中——一切皆成枯槁无实。圣渡当如天鹅般清净而善别择,不应如乌鸦。

Verse 4

तस्मात्प्रसाद्य वरदं तीर्थेऽस्मिन्पुरुषोत्तमम् । आनेष्ये कलया साक्षाद्विश्वनुग्रहकाम्यया

因此,我将在此圣渡处恭敬奉事赐愿的普鲁绍多摩(Puruṣottama);并以愿普施恩佑于整个世界之心,使祂以自身神圣一分明然显现,迎请至此。

Verse 5

इति संचिंत्य कौरव्य ततोऽहं चात्र संस्थितः । ज्ञानयोगेन योगींद्रं शतं वर्षाण्यतोषयम्

我如此思惟之后,噢俱卢后裔(Kauravya),便安住于此;以智瑜伽之修持,使诸瑜伽行者之主欢喜达百年。

Verse 6

अष्टाक्षरं जपन्मंत्रं संनिगृह्येंद्रियाणि च । वासुदेवमयो भूत्वा सर्वभूतकृपापरः

我诵持八字真言,摄伏诸根;身心尽为婆苏提婆(Vāsudeva)所充满,专注以慈悲怜悯一切众生。

Verse 7

एवं मयाराध्यमानो गरुडं हरिरास्थितः । गणकोटिपरिवृतः प्रत्यक्षः समजायत

我如是礼敬供养,乘坐迦楼罗(Garuḍa)的诃利(Hari)便亲现于前,周围环绕着亿万之众。

Verse 8

तमहं प्रांजलिर्भूत्वा दत्त्वार्घ्यं विधिवद्धरेः । प्रत्यवोचं प्रमम्याथ प्रबद्धकरसं पुटः

随后我合掌恭敬,依仪轨向诃利奉献阿尔伽(arghya);并俯首顶礼后,以合掌之礼向祂陈述。

Verse 9

श्वेतद्वीपे पुरा दृष्टं मया रूपं तव प्रभो । अजं सनातनं विष्णो नरनारायणात्मकम्

往昔在白洲(Śvetadvīpa),我曾得见您的圣相,噢主宰;噢毗湿奴(Viṣṇu),不生而常住者,其本性即那罗与那罗延(Nara-Nārāyaṇa)。

Verse 10

तद्रूपस्य कलामेकां स्थापयात्र जनार्दन । यदि तुष्टोऽसि मे विष्णो तदिदं क्रियतां त्वया

噢,阇那尔达那,请在此安立那同一圣相的一分神圣之力。若你悦纳于我,噢毗湿奴,愿此事由你亲自成就。

Verse 11

एवं मया प्रार्थितोऽथ प्रोवाच गरुडध्वजः । एवमस्तु ब्रह्मपुत्र यत्त्वयाभीप्सितं हृदि

我如此祈求后,那以迦楼罗为旌旗的主说道:“如是成就吧,噢梵天之子——你心中所愿。”

Verse 12

तत्तथा भविता सर्वमप्यत्रस्थं सदैव हि । एवमुक्त्वा गते विष्णौ निवेश्य स्वकलां प्रभो

“这一切必将如实成就,并将永远安住于此。”言毕,毗湿奴离去后,主便安置了自身的一分神圣之力。

Verse 13

मया संस्थापितो विष्णुर्लोकानुग्रहकाम्यया । यस्मात्स्वयं श्वेतद्वीपनिवास्यत्र हरिः स्थितः

我为饶益诸世而在此安立毗湿奴——使哈利自身,那居于白洲(Śvetadvīpa)者,得以在此处常住。

Verse 14

वृद्धो विश्वस्य विश्वाख्यो वासुदेवस्ततः स्मृतः । कार्तिके शुक्लपक्षे या भवत्ये कादशी शुभा

他被忆念为婆苏提婆(Vāsudeva)——宇宙之古老者,名闻诸界。因此,迦尔蒂迦月明半(白分)所现的吉祥十一斋日(Ekādaśī)尤为神圣。

Verse 15

स्नानं कृत्वा विधानेन तोयप्रस्रवणादिषु । योर्चयेदच्युतं भक्त्या पंचोपचारपूजया

依仪轨在泉眼等出水之处沐浴之后,凡以虔敬之心礼拜不堕者阿周多(Acyuta),以五供之礼(pañcopacāra)奉献者,

Verse 16

उपोष्य जागरं कुर्याद्गीतवाद्यं हरेः पुरः । कथां वा वैष्णवीं कुर्याद्दंभक्रोधविवर्जितः

既已持斋(upavāsa),当守夜不眠(jāgara),在哈利(Hari)前歌咏奏乐;或诵说毗湿奴派圣传,远离虚伪与嗔怒。

Verse 17

दानं दद्याद्यथाशक्त्या नियतो हृष्टमानसः । अनेकभवसंभूतात्कल्मषादखिलादपि

当随己力行布施(dāna),自持有度而心怀欢喜;由此,乃至从多生多世所积聚的一切罪垢之总聚—

Verse 18

मुच्यतेऽसौ न संदेहो यद्यपि ब्रह्मघातकः । गारुडेन विमानेन वैकुंठं पदमाप्नुयात्

—此人必得解脱,毫无疑虑,即便曾犯杀婆罗门之罪。乘迦楼罗之天车(Garuḍa-vimāna),得至毗昆塔(Vaikuṇṭha)圣境。

Verse 19

कुलानां तारयेत्पार्थ शतमेकोत्तरं नरः । श्रद्धायुक्तं मुदा युक्तं सोत्साहं सस्पृहं तथा

噢,帕尔塔(Pārtha),此人能度脱一百零一支族系。(此行持)当具信心(śraddhā),与欢喜相应,怀热忱,并以恳切渴慕(主)而行。

Verse 20

अहंकारविहीनं च स्नानं धूपानुपनम् । पुष्पनैवेद्यसंयुक्तमर्घदानसमन्वितम्

当以无我慢之心沐浴,并奉献香(熏香);配以花与供食(naivedya),并以奉献阿尔伽(arghya)及布施而圆满。

Verse 21

यामेयामे महाभक्त्या कृतारार्तिकसंयुतम् । चामराह्लादसंयुक्तं भेरीनादपुरस्कृतम्

在夜之每一更,以大虔敬行阿拉提(ārati);伴随以拂尘扇(cāmara)扇拂之喜悦,并以大鼓(bherī)之声为前导。

Verse 22

पुराणश्रुतिसंपन्नं भक्तिनृत्यसमन्वितम् । विनिद्रंक्षृत्तृषास्वादस्पृहाहीनं च भारत

婆罗多啊,以诵读《往世书》与聆听圣教而充盈;伴随奉爱之舞;不眠,并远离对滋味、饥饿、口渴与放纵欲求的贪著——

Verse 23

तत्पादसौरभघ्राणसंयुतं विष्णुवल्लभम् । सगीतं सार्चनकरं तत्क्षेत्रगमनान्वितम्

——欣悦于祂足下之芬芳,乃毗湿奴所钟爱者;伴以歌咏,勤修供奉礼拜(arcana);并随之前往祂圣域之朝圣。

Verse 24

पायुरोधेन संयुक्तं ब्रह्मचर्यसमन्वितम् । स्तुतिपाठेन संयुक्तं पादोदकविभूषितम्

此行与身之节制相应,并具梵行(brahmacarya)之戒;伴随诵读赞颂,并以主足圣水(pādodaka)而庄严。

Verse 25

सत्यान्वितं सत्ययोगसंयुतं पुण्यवार्तया । पंचविंशतिभिर्युक्तं गुणैर्यो जागरं नरः । एकादश्यां प्रकुर्वीत पुनर्न जायते भुवि

那守夜充满真实,契合真实之瑜伽戒行,并以清净圣言为资粮——具足二十五种德行——凡于爱迦达施(Ekādaśī)行此不眠之守夜者,不复再生于人间大地。

Verse 26

अत्र तीर्थवरे पूर्वमैतरेय इति द्विजः । सिद्धिं प्राप्तो महाभागो वासुदेवप्रसादतः

从前,在这最殊胜的圣渡处,有一位名为阿伊多雷耶(Aitareya)的再生者(dvija),福德深厚,蒙婆苏提婆(Vāsudeva)之恩而得成就。

Verse 27

अर्जुन उवाच । ऐतरेयः कस्य पुत्रो निवासः क्वास्य वा मुने । कथं सिद्धिमागाद्धीमान्वासुदेवप्रसादतः

阿周那说道:“噢牟尼,阿伊多雷耶是谁之子?他居于何处?那位智者又如何凭借婆苏提婆(Vāsudeva)的恩典而得成就?”

Verse 28

नारद उवाच । अस्मिन्नेव मम स्थाने हारीतस्यान्वयेऽभवत्

那罗陀说道:“就在此处,在我这地方本身,他出生于哈利塔(Hārīta)一系。”

Verse 29

मांडूकिरिति विप्राग्र्यो वेदवेदांगपारगः

有一位名为曼杜基(Māṇḍūkī)的上首婆罗门,通达诸吠陀及吠陀支分(Vedāṅga)。

Verse 30

तस्यासी दितरा नाम भार्या साध्वीगुणैर्युता । तस्यामुत्पद्यत सुतस्त्वैतरेय इति स्मृतः

他有一位名为迪塔拉(Ditarā)的妻子,具足贞洁贤善之德。由她诞生一子,世人忆念其名为“阿伊多罗耶”(Aitareya)。

Verse 31

स च बाल्यात्प्रभृत्येव प्राग्जन्मन्यनुशिक्षितम् । जजापमंत्रं त्वनिशं द्वादशाक्षरसंज्ञितम्

而他自幼便如同承受前生教诲一般,恒常持诵名为“十二音节”的真言。

Verse 32

न श्रृणोति न वक्त्येव मनसापि च किंचन । एवंप्रभावः सोऽभूच्च बाल्ये विप्रसुतस्तदा

他既不听也不说,甚至于心念亦不与任何事相应。那时他尚为婆罗门之子童年,却呈现如此非凡之相。

Verse 33

ततो मूकोऽयमित्येव नानोपायैः प्रबोधितः । पित्रा यदा न कुरुते व्यवहाराय मानसम्

因此父亲以为“这孩子是哑的”,便以种种方法欲令其觉悟。然当他连对世间日常事务也不肯稍转其心时——

Verse 34

ततो निश्चित्य मनसा जडोयमिति भारत । अन्यां विवाहयामास दारान्पुत्रांस्तथादधे

于是他心中断定:“此子愚钝啊,婆罗多!”便另娶他女;由她而得圆满家室,并生诸子。

Verse 35

पिंगानाम च सा भार्या तस्याः पुत्राश्च जज्ञिरे । चत्वारः कर्मकुशला वेदवेदांगवादिनः

那位妻子名为毗伽(Piṅgā),由她诞生了四个儿子,皆善于祭仪之业,且能精通宣说《吠陀》及其诸支(吠陀支分)。

Verse 36

यज्ञेषु शांतिहोमेषु द्विजैः सर्वत्र पूजिताः । ऐतरेयोपि नित्यं च त्रिकालं हरिकंदिरे

在诸祭祀(yajña)与息灾火供(śānti-homa)之中,他们处处受二次生者(dvija)礼敬。又阿伊多罗耶(Aitareya)亦每日三时,常住于哈利(Hari)之神庙。

Verse 37

जजाप परमं जाप्यं नान्यत्र कुरुते श्रमम् । ततो माता निरीक्ष्यैव सपत्नीतनयांस्तथा

他唯独持诵最上应诵之真言(japa),于他事不复劳作。于是母亲仅仅望见那位共妻(sapātnī)之子等,也不禁心生忧苦。

Verse 38

दार्यमाणेन मनसा तनयं वाक्यमब्रवीत् । क्लेशायैव च जातोऽसि धिग्मे जन्म च जीवितम्

她心如刀绞,便对儿子说道:“你生来只为受苦。嗟乎,我的出生与此生,真可羞叹!”

Verse 39

नार्यास्तस्या नृलोकेऽत्र वरैवाजननिः स्फुटम् । विमानिता या भर्त्रास्यान्न पुत्रः स्याद्गुणैर्युतः

在此人世诸女之中,那另一位母亲分明更为胜妙。被丈夫轻慢的妻子,她的儿子又怎能具足诸德?

Verse 40

पिंगेयं कृतपुण्या वै यस्याः पुत्रा महागुणाः । वेदवेदांगतत्त्वज्ञाः सर्वत्राभ्यर्चिता गुणैः

这位平伽(Piṅgā)确实积聚了功德,因为她的儿子们德行高尚——通晓吠陀(Veda)和吠陀支(Vedāṅga)的义理——因其品质而随处受人尊崇。

Verse 41

तदहं पुत्र दुर्भाग्या महीसागरसंगमे । निमज्जीष्ये वरं मृत्युर्जीविते किं फलं मम । त्वमप्येवं महामौनी नन्द भक्तो हरेश्चिरम्

因此,我的儿子,我不幸至极,将投身于陆地与海洋的交汇处;死亡胜过苟活。我活着还有什么意义?而你——伟大的沉默者,难陀(Nanda)啊——长久以来一直是哈里(Hari)的信徒。

Verse 42

नारद उवाच । इति मातुर्वचः श्रुत्वा प्रहसन्नैतरेयकः

那罗延(Nārada)说:听到母亲这番话,爱多列耶(Aitareyaka)微笑了。

Verse 43

ध्यात्वा मुहुर्तं धर्मज्ञो मातरं प्रणतोऽब्रवीत् । मातर्मिथ्याभिभूतासि अज्ञाने ज्ञानवत्यसि

沉思片刻后,这位通晓达摩(Dharma)者向母亲鞠躬说道:“母亲,您被谬误所蒙蔽;在无知中,您竟自以为充满智慧。”

Verse 44

अशोच्ये शोचसि शुभे शोच्ये नैवाऽपि शोचसि । देहस्यास्य कृते मिथ्यासंसारे किं विमुह्यसि

吉祥者啊,你为不该悲伤的事悲伤,却不为真正值得悲伤的事悲伤。为了这具躯体,你为何在这虚假、迷妄的轮回世间中感到困惑?

Verse 45

मूर्खाचरितमेतद्धि मन्मातुरुचितं न हि । अन्यत्संसारसारं च सारमन्यच्च मोहिताः

这确实是愚人的行径,并不适合我的母亲。被迷惑的人视某物为世俗生活的“本质”,而真正的本质却在别处。

Verse 46

प्रपश्यंति यथा रात्रौ खद्योतं दीपवत्स्थितम् । यदिदं मन्यसे सारं श्रृणु तस्याप्यसारताम्

就像在夜晚人们可能会把萤火虫误认为是灯火一样,你所认为的“本质”——现在且听我说它的虚无本质吧。

Verse 47

एवंविधं हि मानुऽयमा गर्भादिति कष्टदम् । अस्थिपट्टतुलास्तम्भे स्नायुबन्धेन यंत्रिते

这就是人的肉身——从在母胎中开始就充满痛苦——就像由骨板和支柱构成的框架,被筋腱的绳索束缚和固定。

Verse 48

रक्तमांसमदालिप्ते विण्मूत्रद्रव्यभाजने । केशरोमतृणच्छन्ने सुवर्णत्वक्सुधूतके

涂满血肉,盛装污秽和尿液的容器——覆盖着如草般的毛发——却被清洗干净,用“金色的皮肤”伪装起来。

Verse 49

वदनैकमहाद्वारे षड्गवाक्षवितभूषिते । ओष्ठद्वयकाटे च तथा दंतार्गलान्विते

以口为唯一的宏大门户,装饰着六扇“窗户”;双唇是门扇,牙齿则是门闩。

Verse 50

नाडीस्वेदप्रवाहे च कालवक्त्रानलस्थिते । एवंविधे गृहे गेही जीवो नामास्ति शोभने

在这样的屋舍中,诸脉道(nāḍī)与汗流之河不断奔涌,而时劫之火安住于其吞噬之口——美丽者啊,在此屋内居住着名为“吉瓦”(jīva)的“家主”。

Verse 51

गुणत्रयमयी भार्या प्रकृतिस्तस्य तत्र च । बोधाहंकारकामाश्च क्रोधलोभादयोऽपि च

在那里,他的“妻子”是由三种德性(guṇa)构成的自性(Prakṛti);在那里也有觉知、我慢(ahaṃkāra)、欲望,以及嗔怒、贪婪等诸般心行。

Verse 52

अपत्यान्यस्य हा कष्टमेवं मूढः प्रवर्तते । तस्य योयो यथा मोहस्तथा तं श्रृणु तत्त्वतः

哀哉——那些并非真正属于他的“子女”!迷痴之人便如此行事不止。其迷妄以何种形态纷起,且听我依真实义为你宣说。

Verse 53

स्रोतांसि यस्य सततं प्रस्रवंति गिरेरिव । कफमूत्रादिकान्यस्य कृते देहस्य मुह्यति

他身中的诸流常常奔注,如山间水瀑不息;然而为了这充满痰涎、尿液等秽物之身,他反而陷入迷妄。

Verse 54

सर्वाशुचिनिधानस्य शरीरस्य न विद्यते । शुचिरेकप्रदेशोऽपि विण्मूत्रस्य दृतेरिव

在此身中——积聚一切不净之藏——连一处真正清净之地也没有,犹如盛满粪秽与尿液的皮囊。

Verse 55

स्पृष्ट्वा स्वदेहस्रोतांसि मृत्तोयैः शोध्यते करः । तथाप्यशुचिभांडस्य न विरज्यति किं नरः

触及自身身体的诸出口之后,人以土与水净手;然而,他怎能不对这不净之器——此身——生起离欲之心?

Verse 56

कायः सुगन्धतोयाद्यैर्यत्नेनापि सुसंस्कृतः । न जहाति स्वकं भावं श्वपुच्छमिव नामितम्

纵以香水等悉心修饰此身,它也不舍其本性——如犬尾,纵使按压,亦不久直。

Verse 57

स्वदेहाशुचिगंधेन न विरज्यति यो नरः । विरागे कारणं तस्य किमन्यदु पदिश्यते

若有人连自身不净的恶臭都不能令其生离欲,那么还能教他什么别的因缘以成出离?

Verse 58

गन्धलेपापनोदार्थं शौचं देहस्य कीर्तितम् । द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुध्यति

所谓身之洁净,是为除去臭秽与污垢;然二者既除之后,唯以心意之清净(bhāva)方得真实净化。

Verse 59

गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः । आ मृत्योराचरञ्छौचं भावदुष्टो न शुध्यति

纵使至死修行沐浴洁身,尽用恒河之水,并以如山之土反复涤净;然内心秉性败坏者,终不得清净。

Verse 60

तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति । स्वेदितः क्षालितस्तीर्थे किं शुद्धिमधिगच्छति

即使在圣地渡口(tīrtha)沐浴,或行苦行,心怀邪恶者也绝不清净。若只是在 tīrtha 出汗洗身,他究竟能得何等真实的净化?

Verse 61

अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् । न स्वर्गो नापपर्गश्च देहनिर्दहनं परम्

内在污浊之人,即便投入祭火(hutaśana),也无天界、无解脱——唯有肉身的最终焚尽。

Verse 62

भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु । अन्यथालिंग्यते कांता भावेन दुहिताऽन्यथा

意念之清净,是至上的洁净,也是衡量一切行为的真实尺度。否则,因内心取向错乱,或将爱侣拥作女儿,或将女儿拥作他人。

Verse 63

अन्यथैव स्तनं पुत्रश्चिंतयत्यन्यथा पतिः । चित्तं विशोधयेत्तस्मात्किमन्यैर्बाह्यशोधनैः

儿子对乳房的念想是一种,丈夫的念想又是另一种。因此当净化其心;其余外在的洁净又有何用?

Verse 64

भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विंदति । ज्ञानामलांभसा पुंसः सद्वैराग्यमृदा पुनः

凭内在的正受与正意,真我得以彻底清净,行者亦得天界与解脱。无明之垢由真知的澄澈甘露洗净,而心地又以恒久离欲(vairāgya)之土重新坚实。

Verse 65

अविद्यारागविण्मूत्रलेपगंधविशोधनम् । एवमेतच्छरीरं हि निसर्गादशुचि विदुः

此身当净除无明与贪染之秽——粪秽、尿秽、污渍与臭气。是故智者了知:此身本性不净。

Verse 66

त्वङ्मात्रसारनिःसारं कदलीसारसंनिभम् । ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिलीभवेत्

了知此身空虚,所谓“精髓”唯是皮囊,犹如蕉茎之髓;智者见此多过之身,便松解执取与贪著。

Verse 67

स निष्क्रामति संसारे दृढग्राही स तिष्ठति । एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम्

能松开执取者,便出离轮回;执著坚固者,仍滞留其中。是故宣说此大艰难:生本身即是苦。

Verse 68

पुंसामज्ञातदोषेण नानाकर्मवशेन च । यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति

因不知自身过失,又为种种业力所驱使,众生住于苦中——如被大山压覆之人,难以起身。

Verse 69

यथा जरायुणा देही दुःखं तिष्ठति वेष्टितः । पतितः सागरे यद्वद्दृःखमास्ते समाकुलः

如有身众生被胎膜(jarāyu)缠裹而住于苦;亦复如坠入大海之人,惶乱不安,为苦所淹没。

Verse 70

गर्भोदकेन सिक्तांगस्तथाऽस्ते व्याकुलः पुमान् । लोहकुम्भे यथान्यस्त पच्यते कश्चिदग्निना

被胎中之液浸透,此人于其中惶惶不安。犹如置于铁釜之内为火所煮,他仿佛正被煎煮一般。

Verse 71

गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना । सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरन्तरम्

被掷入如釜之胎中,他为腹中之火所煮;又似被火色之针般的剧痛不断刺穿。

Verse 72

यद्दुःखं जायते तस्य तद्गर्भेऽष्टगुणं भवेत् । इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम्

凡众生所起之苦,于胎中同一之苦增至八倍。此即所谓众生之“胎中之苦”,如是宣说。

Verse 73

चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः । तत्रस्थस्य च सर्वेषां जन्मनां स्मरणं भवेत्

对一切众生——动者与不动者——随其自身胎位之相应,住于其中者便得忆念一切诸生。

Verse 74

मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नानायोनिसहस्राणि मया दृष्टान्वनेकधा

我曾死而复生,生而复死。以种种方式,我见过千百不同的胎门与出生。

Verse 75

अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च । ततः श्रेयः करिष्यामि येन गर्भो न संभवेत्

如今我方才出生,又再度落入世间习气(行、saṃskāra)的势力之中。因此我将追求至上的善,使我不再复入母胎。

Verse 76

अध्येष्यामि हरेर्ज्ञानं संसारविनिवर्तनम् । एवं संचिंतयन्नास्ते मोक्षोपायं विचिन्तयन्

“我将研习哈利(Hari)救度之智,此智能使人从轮回(saṃsāra)回转。”如是思惟,他安住专注,细察解脱之道。

Verse 77

गभात्कोटिगुणं दुःखं जायमानस्य जायते । गर्भवासे स्मृतिर्यासीत्सा जातस्य प्रणश्यति

在出生之时,痛苦生起,较在胎中之苦增至百万倍。并且在胎内曾有的记忆,一旦出生便消失无余。

Verse 78

स्पृष्टमात्रस्य बाह्येन वायुना मूढता भवेत् । संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः

一触及外界之风,迷妄便生;而对这般迷乱之人,失忆很快又再度发生。

Verse 79

स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च । रतिः संजायते तूर्णं जंतोस्तत्रैव जन्मनि

随后,由于记忆散失,又受往昔业力所驱使,欲望便在此生此世的有身众生中迅速生起。

Verse 80

रक्तो मूढश्च लोकोयमकार्ये संप्रवर्तते । तत्रात्मानं न जानाति न परं न च दैवतम्

此世间被贪染所染、为痴迷所覆,奔赴不当之行;于其中,既不识真我,亦不知至上者,乃至于神圣亦不觉。

Verse 81

न श्रृणोति परं श्रेयः सति चक्षुषि नेक्षते । समे पथि समैर्गच्छन्स्खलतीव पदेपदे

他不听至善之教;虽有双目,却不见真相。纵与众同行于平坦之道,亦似步步踉跄而跌。

Verse 82

सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि । संसारे क्लिश्यते तेन रागमोहवशानुगः

纵具正智,仍不领悟——即使贤者谆谆教诲亦然。是故他在轮回(saṃsāra)中受苦,随贪欲与痴迷之势而行。

Verse 83

गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः । तद्दृःखकथनार्थाय स्वर्गमोक्षप्रसाधकम्

由于不存胎中之忆,大圣仙(ṛṣi)宣说圣典(śāstra),为述彼苦,并建立通向天界与解脱(mokṣa)之法门。

Verse 84

ये शास्त्रज्ञाने सत्यस्मिन्सर्वकर्मार्थसाधके । न कुर्वंत्यात्मनः श्रेयस्तदत्र परमद्भुतम्

凡具真实经论之智——能成就一切正业之旨——却仍不求自身至善(śreyas)者;此在此处,实为最奇之事。

Verse 85

अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः । इच्छन्नपि न शक्नोति वक्तुं कर्तुं च किञ्चन

由于诸根之用尚未成熟,童年便有大苦;纵然想要,孩童也不能言说,亦不能成就任何事。

Verse 86

दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा । बालरोगैश्च विविधैः पीडा बालग्रहैरपि

齿生之时大苦,头疾亦复如是;又为种种幼疾所恼,乃至为夺童之灵——婆罗伽罗诃(bālagraha)所折磨。

Verse 87

तृड्बुभुक्षापरीतांगः क्वचित्तिष्ठति रारटन् । विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत्

为渴与饥所逼,孩童有时站立号哭;又因迷妄,甚至会作出如食粪、饮尿等行。

Verse 88

कौमारे कर्णवेधेन मातापित्रोर्विताडनैः । अक्षराध्ययनाद्यैश्च दुःखं स्याद्गुरुशासनात्

在童年,有穿耳之痛,有父母责罚之苦,又有习字等学习之劳;并且还因师长所施之教戒而受苦。

Verse 89

प्रमत्तेंद्रियवृत्तैश्च कामरागप्रपीडनात् । रागोद्वृत्तस्य सततं कुतः सौख्यं हि यौवने

在青春之时,诸根放逸,复为欲与贪爱所逼恼;常被渴爱搅动不息之人,安乐从何而来?

Verse 90

ईर्ष्यया सुमहद्दुःखं मोहाद्रक्तस्य जायते । मत्तस्य कुपितस्यैव रागो दोषाय केवलम्

对被迷妄染色之心而言,嫉妒生起极大的痛苦。对沉醉者与嗔怒者,贪爱之情唯成过失,别无他物。

Verse 91

न रात्रौ विंदते निद्रा कामाग्निपरिखेदितः । दिवापि हि कुतः सौख्यमर्थोपार्जनचिंतया

夜里,被欲火灼烧的人不得安眠;白日里又何来快乐——当心念忧虑于求取财物之时?

Verse 92

नारीषु त्वनुभूतासु सर्वदोषाश्रयासु च । विण्मुत्रोत्सर्गसदृशं सौख्यं मैथुनजं स्मृतम्

至于女人——一经经历,且被视为诸过失之所依——由交合而生的乐,被记作如同排出粪尿时的暂时舒解。

Verse 93

सन्मानमपमानेन वियोगेनेष्टसंगमः । यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्

荣誉之后必有辱没;与所爱相聚之后必有离别。青春为老迈所攫取——那么,何处有不受扰动的安乐?

Verse 94

वलीपलितकायेन शिथिलीकृतविग्रहः । सर्वक्रियास्वशक्तश्च जरयाजर्ज्जरीकृतः

身躯布满皱纹、白发斑斑,形体松弛衰弱;于诸行皆无力,终被老迈磨损至极。

Verse 95

स्त्रीपुंसोर्यौवनं रूपं यदन्योन्याश्रयं पुरा । तदेवं जरया ग्रस्तमुभयोरपि न प्रियम्

女子与男子的青春与容色,昔日彼此依凭;一旦为老迈所攫取,便不再为双方所悦。

Verse 96

जराभिभूतःपुरुषः पत्नीपुत्रादिबांधवैः । अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते

为老迈所压倒之人,由于无力自持,竟被妻子、儿子及诸亲族轻慢欺压,连行止不端的仆役也加以侮辱。

Verse 97

धर्ममर्थं च कामं च मोक्षं च नातुरो यतः । शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत्

因未为老病所困之人,能成就法(dharma)、财(artha)、欲乐(kāma),乃至解脱(mokṣa);故当年少之时,应勤修正法。

Verse 98

वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते । वातादीनां समूहश्च देहोऽयं परिकीर्तितः

风(vāta)、胆(pitta)、痰(kapha)等失衡,称为“疾病”;而此身亦被宣说为仅是由以风等为首的诸因素聚合而成。

Verse 99

तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः । रोगैर्नानाविधैर्यांति देहे दुःखान्यनेकशः

是故当知此自身之躯,遍满病患;由种种疾苦,身中生起无量诸苦。

Verse 100

तानि न स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् । एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम्

那些内在的苦恼,连自己也未必能彻底了知——我又何必多言?就在此身之中,安住着“百死加一”(无量无数的死因)。

Verse 101

तत्रैकः कालसंयुक्तः शेषास्त्वागंतवः स्मृताः । ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः

其中唯有一种与“时”(时间、命时)相系,故不可避免;其余皆称为“外来”。凡此处所说“外来”者,皆可由药物而平息。

Verse 102

जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति । विविधा व्याधयः शस्ताः सर्पाद्याः प्राणिनस्तथा

纵以持诵(japa)、火供(homa)与布施,随“时”而至的死亡亦不消退。诸般疾病、兵刃之伤,以及蛇等众生,亦皆为趋死之因。

Verse 103

विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् । पीडितं सर्परोगाद्यैरपि धन्वंतरिः स्वयम्

毒物与咒术(abhicāra,邪法)乃有身众生通向死亡之门。即便药王檀梵多利(Dhanvantari)自身,也曾为蛇咬、疾病等所苦。

Verse 104

स्वस्थीकर्तुं न शक्नोति कालप्राप्तं हि देहिनम् । नैषधं न तपो मंत्रा न मित्राणि न बांधवाः

当有身者的定时已至,便无物能使其复归安康——非药、非苦行(tapas)、非真言、非友人,乃至亲族亦不能。

Verse 105

शक्नुवंति परित्रातुं नरं कालेन पीडितम् । रसायनतपोजप्यैर्योगसिद्धैर्महात्मभिः

唯有以养生炼修(rasāyana)、苦行与恒常持诵(japa)而成就瑜伽的伟大圣者,方能护佑那被时间之压所逼迫的人。

Verse 106

कालमृत्युरपि प्राज्ञैर्नीयते नापि संयुतैः । नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम्

即便智者、具足资具者,也不能驱遣“时间之死”(kāla-mṛtyu)。世间无有与死亡等同的悲苦,也无有与死亡等同的恐惧。

Verse 107

नास्ति मृत्युसमस्रासः सर्वेषामपि देहिनाम् । सद्भार्यापुत्रमित्राणि राज्यैश्वर्यसुखानि च

对一切具身众生而言,没有任何恐怖可与死亡相比——纵然拥有贤德之妻、子女、朋友,以及王权与富足之乐。

Verse 108

आबद्धानि स्नेहपाशैर्मृत्युः सर्वाणि कृंतति । किं न पश्यसि मातस्त्वं सहस्रस्यापि मध्यतः

死亡斩断一切被爱恋之索所缚者。母亲啊——你为何不见此理,纵然身处千人之中?

Verse 109

जनाः शतायुषः पंचभवंति न भवन्ति वा । अशीतिका विपद्यन्ते केचित्सप्ततिका नराः

有人或可活到百岁——也许更久,也许未必;有人殒于八十,也有人甚至七十便逝。

Verse 110

परमायुः स्थिता षष्टिस्तदप्यस्ति न निष्ठितम् । तस्य यावद्भवेदायुर्देहिनः पूर्वकर्म भिः

所谓“最高寿命”说为六十岁,然即便如此亦非定数。具身之众生,唯随往昔业力所成而住世。

Verse 111

तस्यार्धमायुषो रात्रिर्हरते मृत्युरूपिणी । बालभावेन मोहेन वार्धके जरया तथा

其寿命之半,亦为黑夜所夺——黑夜即死亡之相。余下之时,又在童年因稚昧迷惑而耗散,在老年因衰朽之苦而消磨。

Verse 112

वर्षाणां विंशतिर्याति धर्मकामार्थवर्जितः । आगन्तुकैर्भवैः पुंसां व्याधिशोकैरनेकधा

二十年流逝,离于法(Dharma),亦无欲乐与利养。复有种种不期之缘起——疾病与忧悲——多方侵蚀男子之身心。

Verse 113

ह्रियतेर्द्धं हि तत्रापि यच्छेषं तद्धि जीवितम् । जीवितांतेच मरणं महाघोरमवाप्नुयात्

即便如此,其中亦有一分被夺去;所余者,方名为真正的“生命”。而至命终之际,必遭逢死亡——极其可怖。

Verse 114

जायते योनिकोटीषु मृतः कर्मवशात्पुनः । देहभेदेन यः पुंसां वियोगः कर्मसंख्यया

为业力所驱,使已死者复于千万胎藏中再生。对人而言,所谓“死亡”的离别,不过是随业之数与势而起的换身易体。

Verse 115

मरणं तद्विनिर्द्दिष्टं न नाशः परमार्थतः । महातमःप्रविष्टस्य च्छिद्यमानेषु मर्मसु

这就称为“死亡”:在究竟义上并非彻底毁灭。它是堕入大黑暗者的境况,当生命要害被割裂、被摧断之时。

Verse 116

यद्दुःखं मरणं जंतोर्न तस्येहोपमा क्वचित् । हा तात मातर्हा कांते क्रंदत्येवं सुदुःखितः

众生之死的痛苦,在此世间无可比拟。于那极深的悲苦中,他哭喊:“哀哉父亲!哀哉母亲!哀哉所爱!”

Verse 117

मण्डूक इव सर्पेण गीर्यते मृत्युना जनः । बांधवैः संपरित्यक्तः प्रियैश्च परिवारितः

如青蛙被蛇吞下,人亦被死神吞噬;有的亲族离弃他,而挚爱之人仍环绕在侧。

Verse 118

निःश्वसन्दीर्घमुष्णं च मुकेन परिशुष्यता । चतुरंतेषु खट्वायाः परिवर्तन्मुहुर्मुहुः

他长长地、灼热地呼出气息,面容渐枯;在床的四角间反复翻转不已。

Verse 119

संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः । खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम्

他神志昏乱,手足向四方乱掷。躺在床上又渴望到地上;到了地上又渴望回到床上——继而又恋慕大地。

Verse 120

विवस्त्रो मुक्तलज्जश्च विष्ठानुलेपितः । याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः

赤身露体,羞惭尽失,身涂秽污,乞求清水——喉咙、双唇与上腭皆枯干。

Verse 121

चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि । पंचावटान्खनमानः कालपाशेन कर्षितः

他忧虑自己的财物:“我死之后,这些将归谁?”——却被时轮之索拖拽而去,仿佛在掘取埋藏的私藏。

Verse 122

म्रियते पश्यतामेव गले घुर्घुररावकृत् । जीवस्तृणजलूकेव देहाद्देहं विशेत्क्रमात्

众目睽睽之下,他喉间作咕噜之声而死。生灵之我(吉瓦)依次入于一身又一身,如水蛭从一叶草移向另一叶草。

Verse 123

संप्राप्योत्तरमंशेन देहं त्यजति पूर्वकम् । मरणात्प्रार्थना दुःखमधिकं हि विवेकिनः

既已抵达下一分(下一身),便舍弃前身。对有辨慧者而言,哀求乞怜之苦,尤甚于死亡。

Verse 124

क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम् । ज्ञातं मयैतदधुना मृतो भवति यद्गुरुः

死亡之痛不过刹那;而由乞求与贪欲所生之苦,却无有穷尽。如今我已明了此理——因为连曾引导我的上师(古鲁)也已逝去。

Verse 125

न परः प्रार्थयेद्भूयस्तृष्णा लाघवकारणम् । आदौ दुःखं तथा मध्ये ह्यन्त्ये दुःखं च दारुणम्

因此,不应一再向他人哀求——贪欲之渴使人卑微可鄙。起初痛苦,中途亦痛苦,至终更带来可怖的剧痛。

Verse 126

निसर्गात्सर्वभूतानामिति दुःखपरंपरा । क्षुधा च सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः

就其本性而言,一切众生皆有连绵不绝的苦患相续。而饥饿被忆念为诸病之中最为首要的“病”。

Verse 127

स चान्नौषधिलेपेन क्षणमात्रं प्रशाम्यति । क्षुद्ध्याधेर्वेदना तीव्रा निःशेषबलकृन्तनी

即便那饥饿,也仅能凭食物、药物或膏涂暂时平息片刻。饥饿之“病”的折磨极其猛烈,能将人的气力尽数斩断。

Verse 128

तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्न्नरः । राज्ञोऽभिमानमात्रं हि ममैव विद्यते गृहे

被它(饥饿)所压倒,人亦会死去——正如死于其他疾病一般。我的家中唯有王者之虚荣而已,再无他物。

Verse 129

सर्वमाभरणं भारं सर्वमालेपनं मम । सर्वं प्रलापितं गीतं नित्यमुन्मत्तचेष्टितम्

我所有的饰物皆成负担;我所有的涂抹妆饰皆无意义。我所有的絮语与歌唱不过是胡言乱语——恒常不息,如同狂人之举止。

Verse 130

इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः । नृपाणां व्यग्रचित्तानामन्योन्यविजिगीषया

因此,若加以省思,王权的享乐之中何处有真正的安乐?诸王之心常为彼此征服之欲所扰,终日不宁。

Verse 131

प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः । स्वर्गं प्राप्यापि पतिताः कः श्रियो विंदते सुखम्

诚然,如那胡沙(Nahuṣa)等大王,仿佛涂抹着繁荣的光泽,纵然得至天界亦终至堕落。仅凭福运与富贵,谁能获得真实安乐?

Verse 132

उपर्युपरि देवानामन्योन्यातिशये स्थितम् । नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते

在诸天之中,层层更上,各各相互超胜。于天界,人享福德之果,然其享受乃是“断其根本”——消耗所积之功德。

Verse 133

न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः । छिन्नमूलतरुर्यद्वदवशः पतते क्षितौ

且不再造作他业——此即彼境之极重过失。譬如树根已断之树,身不由己,终坠于地。

Verse 134

पुण्यमूलक्षये तद्वत्पातयंति दिवौकसः । इति स्वर्गेपि देवानां नास्ति सौख्यं विचारतः

当福德之根耗尽之时,天界住民亦如是被抛落。故而省思之下,即便在天上,诸天亦无恒常安乐。

Verse 135

तथा नारकिणां दुःखं प्रसिद्धं किं च वर्ण्यते । स्थावरेष्वपिदुःखानि दावाग्निहिमशोषणम्

同样,地狱众生之苦早已为人所知——又何必多言?即便是不动之类(草木)亦有痛楚:林火、严寒,以及干旱枯槁。

Verse 136

कुठारैश्ठेदनं तीव्रं वल्कलानां च तक्षणम् । पर्णशखाफलानां च पातनं चंडवायुना

有利斧的猛烈砍伐,有剥去树皮之苦;又有狂风摧折,使叶、枝与果纷纷坠落。

Verse 137

अपमर्दश्च सततं गजैर्वन्यैश्च देहिभिः । तृड्बुभुक्षा च सर्पाणां क्रोधो दुःखं च दारुणम्

有野象及其他有身众生不断的碾压践踏。蛇类亦有煎迫:饥渴之苦,以及猛烈嗔怒,反自成可怖的痛苦。

Verse 138

दुष्टानां घातनं लोके पाशेन च निबन्धनम् । एवं सरीसृपाणां च दुःखं मातर्मुहुर्मुहुः

世间恶人或被诛杀,或被绳索套缚。是故,噢母亲啊,爬行之类亦屡屡遭受苦难。

Verse 139

अकस्माज्जन्ममरणं कीटादीनां तथाविधम् । वर्षाशीतातपैर्दुःखं सुकष्टं मृगपक्षिणाम्

对昆虫等类而言,生与死便如此猝然而至。对鹿与飞鸟而言,苦恼尤甚——为雨淋、寒冷与灼热日晒所逼迫。

Verse 140

क्षुत्तृट्क्लेशेन महता संत्रस्ताश्च सदा मृगाः । पशुनागनिकायानां श्रृणु दुःखानि यानि च

诸兽恒常惊惧,受饥渴之大苦所逼。今且听闻牛群与象群等众类所承受的诸般苦难。

Verse 141

क्षुत्तृट्छीतादिदमनं वधबन्धनताडनम् । नासाप्रवेधनं त्रासः प्रतोदांकुशताडनम्

有以饥、渴、寒等加以驯伏;有屠杀、囚系与鞭笞;有穿鼻之苦、常怀恐惧,并受驱策之刺棒与象钩之击。

Verse 142

वेणुकुन्तादिनिगडमुद्गरांऽकुशताडनम् । भारोद्वहनसंक्लेशं शिक्षायुद्धादिपीडनम्

有竹枷、枪矛等诸般桎梏;有棍棒与钩具之击;有负重搬运之苦;又有因训练、征战等种种磨难而受的折磨。

Verse 143

आत्मयूथवियोगश्च वने च नयनादिकम् । दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता

有与自群离散之苦;在林野中又有失目及残损诸肢之患。更有饥荒、不幸、愚昧与贫困。

Verse 144

अधरोत्तरभावश्च मरणं राष्ट्रविभ्रमः । अन्योन्याभिभवाद्दुःखमन्योन्यातिशयात्पुनः

此世有尊卑升沉,有死亡,亦有邦国倾覆。忧苦起于彼此压胜,又复起于争强好胜、躁动不息的竞逐。

Verse 145

अनित्यता प्रभावाणामुच्छ्रयाणां च पातनम् । इत्येवमादिभिर्दुःखैर्यस्माद्व्याप्तं चराचरम्

世间诸力皆无常,一切高升终归坠落。由此等苦及其类苦,凡动与不动的一切,皆为苦所遍满。

Verse 146

निरयादिमनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः । स्कन्धात्सकन्धं नयेद्भारं विश्रामं मन्यतेन्यथा

因此,智者应当舍离一切——从地狱等境乃至人身。否则,如人把重担从一肩移到另一肩,便将徒然的转移误作真实的安息。

Verse 147

तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति । एवमेतज्जगत्सर्वमन्योन्यातिशयोच्छ्रितम्

同样,世间一切皆是苦,而苦唯以苦而暂息。是故此宇宙万有,仿佛倚于争胜的过度之上:彼此竞逐,相互逾越。

Verse 148

दुःखैराकुलितं ज्ञात्वा निर्वेदं परमाप्नुयात् । निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः

了知世间为诸苦所扰动,当得至深厌离。由厌离生离欲(virāga),由离欲而生解脱之智。

Verse 149

ज्ञानेन तं परं ज्ञात्वा विष्णुं मुक्तिमवाप्नुयात् । नाहमेतादृशे लोके रमेयं जननि क्वचित्

以智慧证知至上之毗湿奴,便得解脱。 “在如此的世间里,噢母亲啊,我无论何处都不生欢喜。”

Verse 150

राजहंसो यथा शुद्धः काकामेध्यप्रदर्शकः । श्रृणु मातर्यत्र संस्थो रमेयं निरुपद्रवः

正如王天鹅清净无垢,能在群鸦中显出不净;母亲啊,请听:唯有在那我得以安住、无有扰乱之处,我方能得欢喜。

Verse 151

अविद्यायनमत्युग्रं नानाकर्मातिशाखिनम् । संकल्पदंशमकरं शोकहर्षहिमातपम्

此乃无明之可怖乘具,诸业如繁枝蔓延;诸意念如叮咬的虻与鲨;忧与喜如寒与热交替。

Verse 152

मोहांधकारतिमिरं लोभव्यालसरीसृपम् । विषयानन्यथाध्वानं कामक्रोधविमोक्षकम्

其幽暗乃迷妄之黑夜,其贪欲乃蛇类凶兽。其道必然趋向诸境尘;唯由欲与嗔而得解脱,却又不断将人抛掷向前。

Verse 153

तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् । न तत्प्रविश्य शोचंति न प्रदुष्यंति तद्विदः

越过那巨大而险固的关隘,我已进入广袤之林。真正了知此境者,既入其中,既不忧悲,亦不染污。

Verse 154

न च बिभ्यति केषांचिन्नास्य बिभ्यति केचन

有人全然无惧;而此处亦无人畏惧。

Verse 155

तस्मिन्वने सप्तमहाद्रुमास्तु सप्तैव नद्यश्च फलानि सप्त । सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम्

在那片林中,有七株大树、七条河流、七类果实;又有七处修行林苑(āśrama)、七种三昧(samādhi)、七次灌顶受戒(dīkṣā)——此即这圣林的本然形相。

Verse 156

पंचवर्णानि दिव्यानि चतुर्वर्णानि कानिचित् । त्रिद्विवर्णैकवर्णानि पुष्पाणि च फलानि च

那里有五色的神圣花与果;也有四色者;又有三色、二色,乃至一色的花果。

Verse 157

सृजंतः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्

在那里,诸树不断生长繁衍,舒展枝叶,屹立而遍满整片森林。

Verse 158

सप्त स्त्रियस्तत्र वसंति सत्यस्त्ववाङ्मुख्यो भानुमतो भवंति । ऊर्ध्वं रसानाददते प्रजाभ्यः सर्वाश्च तास्तत्त्वतः कोपि वदे

那里住着七位真实的女神;她们仰面向上,光辉如日。她们从众生之中摄取精华而上升;而谁又能如实尽述她们的真相呢?

Verse 159

सप्तैव गिरयश्चात्र धृतं यैर्भुवनत्रयम् । नद्यश्च सरितः सप्त ब्रह्मवारिवहाः सदा

此处亦有七座山岳,凭其支撑三界;又有七条河流与溪涧,恒常承载梵(Brahman)的圣水而行。

Verse 160

तेजश्चाभयदानत्वमद्रोहः कौशलं तथा । अचापल्यम थाक्रोधः प्रियवादश्च सप्तमः

光辉、赐予无畏、不怀恶意与善巧;沉稳、不起嗔怒,并以第七为——柔和悦意的善语。

Verse 161

इत्येते गिरयो ज्ञेयास्तस्मिन्विद्यावने स्थिताः । दृढनिश्चयस्तथा भासा समता निग्रहो गुणः

因此,应当知晓:这些就是安立于彼“智林”(Vidyāvana)中的“群山”——坚固的决断、光明的觉照、平等心、自制与德行。

Verse 162

निर्ममत्वं तपश्चात्र सन्तोषः सप्तमो ह्रदः । भगवद्गुणविज्ञानाद्भक्तिः स्यात्प्रथमा नदी

此处具足无我所、苦行(tapas);知足为第七湖。由了知主宰的德性而生起奉爱(bhakti)——此即第一条圣河。

Verse 163

पुष्पादिपूजा द्वितीया तृतीया च प्रदक्षिणा । चतुर्थी स्तुतिवाग्रूपा पञ्चमी ईश्वरार्पणा

以花等供养之礼为第二;绕行礼敬(pradakṣiṇā)为第三。第四是以圣言赞颂;第五是将一切奉献于自在天主。

Verse 164

षष्ठी ब्रह्मैकता प्रोक्ता सप्तमी सिद्धिरेव च । सप्त नद्योऽत्र कथिता ब्रह्मणा परमेष्ठिना

第六被宣说为与梵(Brahman)合一;第七确为成就(siddhi)。于此所说七条圣河,乃由梵天(Brahmā)、至上者帕拉梅什提因所教示。

Verse 165

ब्रह्मा धर्मो यमश्चाग्निरिंद्रो वरुण एव च

梵天(Brahmā)、法(Dharma)、阎摩(Yama)、火神阿耆尼(Agni)、因陀罗(Indra)以及伐楼那(Varuṇa)——皆在此被称名。

Verse 166

धनदश्च ध्रुवादीनां सप्तकानर्चयंत्यमी । नदीनां संगमस्तत्र वैकुंठसमुपह्वरे

又有财主天(Dhanada,即俱毗罗 Kubera)——他们礼敬以北极星神德鲁瓦(Dhruva)为首的七重诸群。于彼处,在毗昆塔(Vaikuṇṭha)近旁的高胜境域,有诸河汇合之所。

Verse 167

आत्मतृप्ता यतो यांति शांता दांताः परात्परम् । केचिद्द्रुमाः स्त्रियः केचित्केचित्तत्त्वविदोऽपरे

他们于自性中自足,寂静而自制,趋向那“超越复超越”的至上者。有的如树木,有的为女子,另有的则是了知真如之人。

Verse 168

सरितः केचिदाहुः स्म सप्तैव ज्ञानवित्तमाः । अनपेतव्रतकामोऽत्र ब्रह्मचर्यं चरामि च

有些人——于智慧与明见中最为卓越者——说这些确是七条圣河。在此,我愿守持不退失之誓,亦修梵行(brahmacarya)。

Verse 169

ब्रह्मैव समिधस्तत्र ब्रह्माग्निर्ब्रह्म संस्तरः । आपो ब्रह्म गुरुब्रह्म ब्रह्मचर्यमिदं मम

于彼处,供火之柴唯是梵;火亦是梵;圣席之铺陈亦是梵。水是梵;师长是梵——此即我之梵行(brahmacarya)。

Verse 170

एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः । गुरुं च श्रृणु मे मातर्यो मे विद्याप्रदोऽभवत्

智者了知,如此的梵行(brahmacarya)极其微妙,深藏于内。母亲啊,请听我说我的上师——他成为赐予我智慧之人。

Verse 171

एकः शास्ता न द्वितीयोऽस्ति शास्ता हृद्येव तिष्ठन्पुरुषं प्रशास्ति । तेनाभियुक्तः प्रणवादिवोदकं यता नियुक्तोस्मि तथाचरामि

唯有一位主宰,别无第二主宰。祂安住于心中,调御并教诫众人。奉祂差遣,如同水因原初圣音“普拉纳瓦”(Om)而流动,我便完全依其所命而行。

Verse 172

एको गुरुर्नास्ति तथा द्वितीयो हृदि स्थितस्तमहं नृ ब्रवीमि । यं चावमान्यैव गुरुं मुकुन्दं पराभूता दानवाः सर्व एव

上师唯有一位,亦无第二。那位安住于心中的上师——我向世人宣说祂。因轻慢那位上师穆昆达(Mukunda),一切达那瓦(Dānava)尽皆惨败。

Verse 173

एको बंधुर्नास्ति ततो द्वितीयो हृदी स्थितं तमहमनुब्रवीमि । तेनानुशिष्टा बांधवा बंधुमंतः सप्तर्षयः सप्त दिवि प्रभांति

真正的至亲唯有一位,除此之外别无第二。那位安住于心中的至亲——我宣扬祂。蒙祂教诲,得此真亲的眷属——七位圣仙(Ṛṣi)——在天界如七曜般辉耀。

Verse 174

ब्रह्मचर्यं च संसेव्यं गार्हस्थ्य श्रृणु यादृशम् । पत्नी प्रकृतिरूपा मे तच्चित्तो नास्मि कर्हिचित्

既已如法修习梵行,如今请听我作为居士的生活如何。我的妻子具足普拉克里蒂(Prakṛti,自然本性)之形,然而我的心念从未系缚于她。

Verse 175

मच्चित्ता सा सदा मातर्मम सर्वार्थसाधनी । घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पंचमम्

噢,圣母,她恒常专注于我,为我成就一切所求。然而鼻、舌、眼、肤与耳为第五——这些乃是运作的诸根器。

Verse 176

मनो बुद्धिश्च सप्तैते दीप्यंते पावका मम । गंधो रसश्च रूपं च शब्दः स्पर्शश्च पंचमम्

心与慧—连同这七者—是我炽燃的诸火。香、味、色、声与触为第五——这些是它们的所缘境。

Verse 177

मंतव्यमथ बोद्धव्यं सप्तैताः समिधो मम । हुतं नारायणध्यानाद्भुंक्ते नारायणः स्वयम्

当如是观想并正知:此七者为我祭火之薪(samidh)。由观念那罗延(Nārāyaṇa)而所献之供养,那罗延自身受用此供。

Verse 178

एवंविधेन यज्ञेन यजाम्यस्मि तमीश्वरम् । अकामयानस्य च सर्वकामो भवेदद्विषाणस्य च सर्वदोषः

以如是之祭(yajña),我礼敬彼主宰。无欲之人,诸愿皆得圆满;无嗔之人,一切过失悉皆消除。

Verse 179

न मे स्वभावेषु भवंति लेपास्तोयस्य बिंदोरिव पुष्करेषु । नित्यस्य मे नैव भवंत्यनित्या निरीक्षमाणस्य बहुस्यभावात्

我之自性无有垢染,如水滴不著莲叶。于我安住于永恒者,非恒之相实不生起;我观万象纷然,不过是诸态迁变而已。

Verse 180

न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्

在诸行之中,享乐之网不黏著于他——正如天空中太阳的光网不附着一般。

Verse 181

एवंविधेन पुत्रेण मा मातर्दुःखिनी भव । तत्पदं त्वा च नेष्यामि न यत्क्रतुशतैरपि

母亲啊,莫要忧伤,因为你有这样的儿子。我也将引你到达那境地,纵使以百次吠陀祭祀亦不可得。

Verse 182

इति पुत्रवचः श्रुत्वा विस्मिता इतराभवत् । चिंतयामास यद्येवं विद्वान्मम सुतो दृढम्

听到儿子这番话,那位母亲惊异不已。她思忖道:“若我儿果真如此坚固安住于智慧……”

Verse 183

लोकेषु ख्यातिमायाति ततो मे स्याद्यशः परम् । इत्यादि चिंतयंत्यां च रजन्यां भगवान्हरिः

“他将名闻诸世;于是我的名望也将至高无上”——她正这样思量种种之时,夜里,吉祥的主宰哈利显现了。

Verse 184

प्रहृष्टस्तस्य तैर्वाक्यैर्विस्मितः प्रादुरास च । मूर्तेः स्वयं विनिष्क्रम्य शंखचक्रगदाधराः

主因其言而欢喜、又深感惊奇,遂显现出来——自那圣像(mūrti)中亲自走出,手持海螺、神轮与钉锤。

Verse 185

जगदुद्भासयन्भासा सूर्यकोटिसमप्रभः । ततो निष्पत्य धरणीं हृष्टरोमाश्रुद्गदः

以自身光辉照耀整个世界——其威光堪比千万日轮——随后他跃降大地,毛发竖立,泪流不止,喜悦哽咽而声不成句。

Verse 186

मूर्ध्नि बद्धांजलिं धीमानैतरेयोऽथ तुष्टुवे

于是,智者阿伊多利耶将合十之掌置于头顶,开始以赞颂之歌礼赞主。

Verse 187

नमस्तुभ्यं भगवते वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च

顶礼于您,至福的主瓦苏戴瓦——我们所观想者。顶礼于普拉丢姆那与阿尼鲁达,并亦顶礼于桑迦尔沙那。

Verse 188

नमो विज्ञानमात्राय परमानंदमूर्तये । आत्मारामाय शांताय निवृत्तद्वैतदृष्टये

礼敬彼唯是纯粹觉知者,其形体即至上安乐;礼敬自性自乐、寂静安然者,其见已离一切二元分别。

Verse 189

आत्मानंदानुरुद्धाय सम्यक्तयक्तोर्मये नमः । हृषीकेशाय महते नमस्तेऽनंतशक्तये

礼敬安住于自性之乐者,其(世间扰动的)波浪已全然止息;礼敬伟大的赫利希凯沙——向您致敬,具无尽神力者。

Verse 190

वचस्युपरते प्राप्यो य एको मनसा सह । अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः

当言语止息之时,唯有祂可证得——与心之内向同在:超越名相的纯净觉知。愿那超越有与无的一者护佑我们。

Verse 191

यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते । मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः

此宇宙安住于祂;由祂而起;凭祂而住;归于祂而灭;又由祂再生——如一切陶土之物不过是泥土。向那梵、向祢致敬礼拜。

Verse 192

यं न स्पृशंति न विदुर्मनोबुद्धींद्रियासवः । अंतर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम्

心、智、诸根与诸气息皆不能触及、不能真知者——而祂却如虚空般遍满内外——我于彼前稽首礼拜。

Verse 193

देहेंद्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरंति कर्मसु । नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते

这些——身、诸根、诸气、心与慧——之所以在诸业中运转,只因系于祂的一分。离开那一分,便一无所有——如铁唯在烧得通红时方能灼人。故在各自所处之位,它们皆凭祂临在之力而行。

Verse 194

चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् । पूर्वापरापरयुगे शास्तारं परमीश्वरम्

以四重、三重、二重与一心之礼,我向祂顶礼——至上主宰、永恒导师——贯穿前后诸劫而常在。

Verse 195

हित्वा गतीर्मोक्षकामा यं भजंति दशात्मकम् । तं परं सत्यममलं त्वां वयं पर्युपास्महे

舍弃一切别的道路,求解脱者礼敬于你——十相之尊。你是至上真理,清净无垢;我们恒常奉事、敬拜于你。

Verse 196

ओंनमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविंदयुगल परमपरमेष्ठिन्नमस्ते

唵——礼敬薄伽梵,大丈夫,威德广大者;一切神通威德(vibhūti)之主。你双莲足,受最胜萨特瓦塔信众之众以莲苞般的双手温柔奉敬。至上中的至上者,我今稽首于你。

Verse 197

तवाग्निरास्यं वसुधांघ्रियुग्मं नभः शिरश्चंद्ररवी च नेत्रे । समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते

你的口是火;大地是你的双足;虚空是你的头;月与日是你的双眼。诸世界为你的腹;四方为你的臂——世尊啊,敬礼于你。

Verse 198

जन्मानि तावंति न संति देव निष्पीड्य सर्वाणि च सर्वकालम् । भूतानि यावंति मयात्र भीमे पीतानि संसारमहासमुद्रे

噫,神啊,我所经历的生死之数不可胜计——在一切时中屡屡被压迫摧折。于这可怖的轮回大海里,我被迫“饮下”(承受、经历)的众生与苦难亦不可计量。

Verse 199

संपच्छिलानां हिमवन्महेंद्रकैलासमेर्वादिषु नैव तादृक् । देहाननेकाननुगृह्णतो मे प्राप्तास्ति संपन्महती तथेश

即便诸山之财——喜马梵、摩诃因陀罗、凯拉萨、须弥等——也不及此。正如你以慈恩护持我,赐我无数身躯;同样地,主啊,我也一次又一次获得广大福富。

Verse 200

न संतिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः । भूत्वा मया येषु न जंतवश्च संभक्षितो वा न च भूतसंघैः

噢,神啊,在大地之上,没有一处不是我曾出生而后又灭亡之地;也没有一处不是我曾生存其间、吞食众生——或被众生之群所吞噬之处。