Adhyaya 9
Purva BhagaFirst QuarterAdhyaya 9149 Verses

The Greatness of the Gaṅgā (Gaṅgā-māhātmya): Saudāsa/Kalmāṣapāda’s Curse and Release

那罗达询问萨纳卡关于苏达萨王(Saudāsa)受诅咒与获救之事。萨纳卡讲述:国王杀了一只母虎(罗刹女),其伴侣意图报复。罗刹伪装成瓦西什塔(Vasiṣṭha),诱骗国王供奉肉食。真正的瓦西什塔诅咒国王变成罗刹。在王后玛达扬提(Madayantī)的劝阻下,国王接受了诅咒,双脚被咒水染黑(Kalmāṣapāda)。化身罗刹受苦后,他被一位正直婆罗门带来的恒河水净化。随后他前往瓦拉纳西,礼拜萨达希瓦(Sadāśiva),并通过对哈里(Hari)的虔诚获得了最终解脱(Mokṣa)。

Shlokas

Verse 1

नारद उवाच । शप्तः कथं वसिष्ठेन सौदासो नृपसत्तमः । गङ्गाबिन्दूभिषेकेण पुनः शुद्धोऽबवत्कथम् ॥ १ ॥

那罗陀(Nārada)说道:“最胜诸王的苏达萨王(Saudāsa)如何被婆悉吒(Vasiṣṭha)诅咒?又如何因以恒河(Gaṅgā)滴水灌沐而再度清净?”

Verse 2

सर्वमेतदशेषेण भ्रातर्मे वक्तुमर्हसि । श्रृण्वतां वदतां चैव गङ्गाख्यानं शुभावहम् ॥ २ ॥

兄长啊,请将这一切毫无遗漏地宣说。因为恒河(Gaṅgā)的圣传,能为聆听者与诵读者同样带来吉祥。

Verse 3

सनक उवाच । सौदासः सर्वधर्मज्ञः सर्वज्ञो गुणवाञ्छुचिः । बुभुजे पृथिवीं सर्वां पितृवद्रञ्जयन्प्रजाः ॥ ३ ॥

萨那迦说道:苏达萨通达一切法(达摩),洞悉诸事,具足德行而清净;他统御全地,如父亲令子女欢喜般,使臣民悦乐。

Verse 4

सगेरण यथा पूर्वं महीयं सप्तसागरा । रक्षिता तद्वदमुना सर्वधर्माविरोधिना ॥ ४ ॥

正如往昔萨伽罗守护这被七海环绕的大地,他亦如是护持此世,行事不违背任何达摩。

Verse 5

पुत्रपौत्रसमायुक्तः सर्वैश्वर्यसमन्वितः । त्रिंशदष्टसहस्त्राणि बुभुजे पृथिवीं युवा ॥ ५ ॥

那位年轻的国王子孙满堂,具足一切福祉与威势,享治大地三万八千年。

Verse 6

सौदासस्त्वेकदा राजा मृगयाभिरतिर्वनम् । विवेज्ञ सबलः सम्यक् शोधितं ह्यासमन्त्रिभिः ॥ ६ ॥

有一次,喜好狩猎的苏达萨王在随从簇拥下进入森林;此前大臣们已细致搜查,使其周全安稳。

Verse 7

निषादैः सहितस्तत्र विनिघ्रन्मूगसंचयम् । आससाद नदीं रेवां धर्मज्ञः स पिपासितः ॥ ७ ॥

在那里,他与尼沙陀人同行,击杀聚集成群的鹿;那位通达达摩的王为渴所逼,来到勒瓦河(纳尔马达河)畔。

Verse 8

सुदासतनयस्तत्र स्नात्वा कृत्वाह्निकं मुने । भुक्त्वा च मन्त्रिभिः सार्ध्दं तां निशां तत्र चावसत् ॥ ८ ॥

圣者啊,在那里,苏达萨之子沐浴并行每日常仪;随后与诸大臣同食,亦在彼处度过那一夜。

Verse 9

ततः प्रातः समुथाय कृत्वा पौर्वाह्णिकीं क्रियाम् । बभ्राम मन्त्रिसहितो नर्मदातीरजे वने ॥ ९ ॥

随后清晨起身,行毕上午之仪;他与诸大臣相伴,在那尔玛达河岸的林中徜徉。

Verse 10

वनाद्वनान्तरं गच्छन्नेक एव महीपत्तिः । आकर्णकृष्टबाणः सत् कृष्णसारं समन्वगात् ॥ १० ॥

那位威严的国王独自穿行于林野之间,挽弓引箭至耳,追逐那黑羚羊(克里什那萨拉)。

Verse 11

दूरसैन्योऽश्वमारूढः स राजानुव्रजन्मृगम् । व्याघ्रद्वयं गुहासंस्थमपश्थमपश्यत्सुरते रतम् ॥ ११ ॥

他将军队远远抛在后方,策马追逐那鹿;在那里,他看见一对老虎栖于洞穴,安卧自得,沉溺于交合之乐。

Verse 12

मृगपृष्टं परित्यज्य व्याघ्रयोः संमुखं ययौ । धनुःसंहितबाणेन तेनासौ शरशास्त्रवित् ॥ १२ ॥

他舍弃追鹿,径直走向两虎之前;箭已搭弦,那位精通射术与兵器之理者,正面迎对它们。

Verse 13

तां व्याघ्रीं पातयामास तीक्ष्णाग्रनतपर्वणा । पतमाना तु साव्याघ्री षट्रत्रिंशद्योजनायता ॥ १३ ॥

他以尖锐有节的兵器击倒那母虎。母虎坠落之时,身长三十六由旬,轰然砸落大地。

Verse 14

तडित्वद्धोरनिर्घोषा राक्षसी विकृताभवत् । पतितां स्वप्रियां वीक्ष्य द्विषन्स व्याघ्रराक्षसः ॥ १४ ॥

她发出如闪电般骇人的咆哮,那罗刹女遂变得狰狞可怖。见到爱侣倒下,那虎般的罗刹怒火翻腾,怨恨沸起,凶猛而动。

Verse 15

प्रतिक्रियां करिष्यामीत्युक्तवा चांतर्दधे तदा । राजा तु भयसंविग्नो वनेसैन्यं समेत्य च ॥ १५ ॥

他说:“我将施以反制。”随即隐没不见。国王却因恐惧而战栗,也召集了林中诸军。

Verse 16

तद्रृत्तं कथयन्सर्वान्स्वां पुरीं स न्यवर्त्तत । शङ्कमानस्तु तद्रक्षःकृत्या द्राजा सुदासजः ॥ १६ ॥

他将此事始末尽告众人,便回到自己的城邑;然而,苏达斯之子为王者仍心怀惴惴,忧惧那罗刹所施的妖术。

Verse 17

परितत्याज मृगयां ततः प्रभृति नारद । गते बहुतिथे काले हयमेधमखं नृपः ॥ १७ ॥

自此以后,噢那罗陀,国王彻底舍弃了狩猎。岁月久远之后,这位君主举行了宏大的阿湿婆梅陀马祭。

Verse 18

समारेभे प्रसन्नात्मा वशिष्टाद्यमुनीश्वरैः । तत्र ब्रह्मादिदेवेभ्यो हविर्दत्त्वा यथाविधि ॥ १८ ॥

他心神安宁而喜悦,在以婆悉吒(Vasiṣṭha)为首的诸大牟尼圣者陪同下开始仪式;并在彼处依照法度,将祭供之物(havis)奉献给梵天(Brahmā)及诸天神,然后继续进行。

Verse 19

समाप्य यज्ञनिष्क्रांतो वशिष्टः स्नातकोऽपि च । अत्रान्तरे राक्षसोऽसौ नृपहिम्सितभार्यकः । कर्तुं प्रतिक्रियां राज्ञे समायातोरुषान्वितः ॥ १९ ॥

祭祀既毕,婆悉吒亦完成了“沐浴净礼”(snātaka)而离去。其间,那罗刹因其妻被国王所害,怒火中烧,前来向国王讨还报应。

Verse 20

स राक्षसस्तस्य गुरौ प्रयाते वशिष्टवेषं तु तदैव धृत्वा । राजानमभ्येत्य जगाद भोक्ष्ये मांसं समिच्छाम्यहमित्युवाच ॥ २० ॥

当那位师长离去后,那罗刹立刻化作婆悉吒的形貌。它走近国王说道:“我要进食;我想要肉。”便如此开口。

Verse 21

भूयः समास्थाय स सूदवषं पक्त्वामिषं मानुपमस्य वादात् । स्थितश्च राजापि हरि यपात्रे धृत्वा गुरोरागमनं प्रतीक्षन् ॥ २१ ॥

随后,他又一次顺从了厨师的强求,烹煮了肉食。国王也站立等待师长归来,手持盛放供食之器,内置所献之物。

Verse 22

तन्मांसं हेमपात्रस्थं सौदासो विनयान्वितः । समागताय गुरवे ददौ तस्मै ससादरम् ॥ २२ ॥

于是,娑乌达萨(Saudāsa)怀着谦恭,将那肉置于金器之中,恭敬而郑重地奉献给已到来的师长。

Verse 23

तं दृष्ट्वा चिन्तयामास गुरुः किमिति विस्मितः ॥ २३ ॥

导师见状,惊讶地沉思道:“这究竟是何缘故?”

Verse 24

अपश्यन्मानुषं मासं परमेण समाधिना । अहोऽस्य राज्ञो दौःशील्यमभक्ष्यं दत्तवान्मम ॥ २४ ॥

我入甚深三昧,不知人间一月已过。呜呼!此王何其堕落,竟以此不可食之物供养我。

Verse 25

इति विरमयमापन्नः प्रमन्युरभवन्मुनिः । अभोऽज्यं मद्विघाताय दत्त हि पृथिवीपते ॥ २५ ॥

圣人虽欲隐忍了结此事,终难抑盛怒:“呜呼!大地之主啊,你竟以此不洁之物毁我修行!”

Verse 26

तस्मात्तवापि भवतु ह्येतदेव हि भोजनम् । नृमांसं रक्षसामेव भोज्यं दत्तं मम त्वया ॥ २६ ॥

“既是如此,这也将成为你的食物。人肉乃是罗刹之食,而你竟将其予我。”

Verse 27

तद्याहि राक्षसत्वं त्वं तदाहारोचितं नृपा । इति शापं ददत्यस्मिन्सौदासो भयविह्वूलः ॥ २७ ॥

“是以,王啊,你当堕为罗刹,方配享用此食。”言毕,苏达萨(Saudāsa)惊恐万分,对他立下了这道诅咒。

Verse 28

आज्ञत्पो भवतैवेति सकंपोऽस्म व्यजिज्ञपत् । भूश्च चिन्तयामास वशिष्टस्तेन नोदितः ॥ २८ ॥

“我确已奉你之命,”他战栗着恭敬禀告。于是大地女神布(Bhū)开始沉思;而圣者瓦西什塔(Vasiṣṭha)在他的促动下,也一同思量此事。

Verse 29

रक्षसा वंचितं भूपं ज्ञातवान् दिव्यचक्षुषा । राजापि जलमादाय वशिष्टं शप्तुमुद्यतः ॥ २९ ॥

凭借天眼,他得知国王已被罗刹(rākṣasa)所欺。国王也取水在手,正要诅咒圣者瓦西什塔(Vasiṣṭha)。

Verse 30

समुद्यतं गुरुं शप्तं दृष्ट्वा भूयो रुपान्वितम् । मदयंती प्रियातस्य प्रत्युवाचाथ सुव्रता ॥ ३० ॥

见那可敬的师长起身发出诅咒,且再度显现形体;贤贞的玛达延蒂(Madayantī),为他所钟爱之人,便开口答道。

Verse 31

मदयंत्युवाच । भो भो क्षत्रियदायाद कोप संहर्तुमर्हसि । त्वया यत्कर्म भोक्तव्यं तत्प्रात्पं नात्र संशयः ॥ ३१ ॥

玛达延蒂说道:“噢,刹帝利的后裔啊,当收摄你的忿怒。你应当承受的业果——如今已临到你身;对此毫无疑惑。”

Verse 32

गुरु तुम्कृत्य हुंम्कृत्य यो वदेन्मृढधीर्नरः । अरण्ये निर्जले देश स भवेद्बुह्यराक्षसः ॥ ३२ ॥

那愚昧之人若以轻慢之声对师长发出“tum”“hum”之类的鄙语,便将再生为布赫亚罗刹(Buhya-rākṣasa),栖居于无水的荒林之地。

Verse 33

जितेन्द्रिया जितक्रोधा गुरु शुश्रूषणे रताः । प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः ॥ ३३ ॥

凡能制伏诸根、降伏嗔怒,并以恭敬心欢喜侍奉上师者,必得至梵天之居处——此乃诸经论所确立之定论。

Verse 34

तयोक्तो भूपतिः कोपं त्यक्त्वा भार्यां ननन्द च । जलं कुत्र क्षिपामीति चिन्तयामास चात्मना ॥ ३४ ॥

被他们如此劝告后,国王舍弃嗔怒,亦对王后心生欢喜;随即在心中思量:“这水我当倾倒于何处?”

Verse 35

तज्जलं यत्र संसिक्तं तद्भवेद्भस्म निश्चितम् । इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम् ॥ ३५ ॥

那水无论洒在何处,彼处必定化为灰烬。明白此理后,国王便亲自将那水倾注于自己的双足之上。

Verse 36

तज्जलस्पर्शमात्रेण पादौ कल्माषतां गतौ । कल्माषपाद इत्येवं ततः प्रभृति विस्तृतः ॥ ३६ ॥

仅因那水一触,其双足便变得黧黑污渍;因此自那时起,他便广为人知,名为“迦尔摩沙钵陀”(意为“足有污痕者”)。

Verse 37

कल्माषपादो मतिमान् प्रिययाश्चासितस्तदा । मनसा सोऽतिभीतस्तु ववन्दे चरणं गुरोः ॥ ३७ ॥

其时迦尔摩沙钵陀虽具慧智,却为爱妻之情所牵;心中极度恐惧,便俯伏礼拜于师尊(古鲁)足下。

Verse 38

उवाच च प्रपन्नस्तं प्राञ्जलिर्नयकोविदः । क्षमस्व भगवन्सर्वं नापराधः कृतो मया ॥ ३८ ॥

智者既已归依于彼,合掌而立,启言道:“噢,福德圆满的世尊(薄伽梵),愿您宽恕一切;我并未犯下任何冒犯。”

Verse 39

तच्छुत्वोवाच भूपालं मुनिर्निःश्वस्य दुःखितः । आत्मानं गर्हयामास ह्यविवेकपरायणम् ॥ ३९ ॥

听闻此言,圣仙悲伤叹息,对国王说道,并开始自责:自己竟依恋于无辨识之心(aviveka)。

Verse 40

अविवेको हि सर्वेषामापदां परमं पदम् । विवेकरहितो लोके पशुरेव न संशयः ॥ ४० ॥

诚然,无辨识(aviveka)乃一切灾厄的至上根源;在世间缺乏分辨者,毫无疑问,与禽兽无异。

Verse 41

राज्ञा त्वजानता नूनमेतत्कर्मोचितं कृतम् । विवेकरहितोऽज्ञोऽहं यतः पापं समाचरेत् ॥ ४१ ॥

确实,国王是在不知何为相应之行的情况下做了此事。而我愚昧无知、缺乏辨识(viveka),因此竟走向造罪。

Verse 42

विवेकनियतो याति यो वा को वापि निर्वृत्तिम् । इत्युक्तवा चात्मनात्मानं प्रत्युवाच मुनिर्नृपम् । नात्यन्तिंकं भवेदेतद्दादशाब्दं भविष्यति ॥ ४३ ॥

“凡以辨识(viveka)自律者,必至于离系寂止(nirvṛtti)。”说罢,圣仙又从真我(Ātman)的立场答复国王:“此事并非终局;它将持续十二年。”

Verse 43

गङ्गाबिन्दूभिषिक्तस्तु त्यक्त्त्वा वै राक्षसीं तनुम् । पूर्वरुपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम् ॥ ४४ ॥

但当你被恒河圣水的点滴洒灌时,你必将舍弃这罗刹之形。复得旧日容貌,你将统御并享受此大地。

Verse 44

तद्बिंदुसेकसंभूतज्ञानेन गतकल्मषः । हरिसेवापरो भूत्वा परां शान्तिं गमिष्यसि ॥ ४५ ॥

由那点滴洒灌所生的觉知,你的垢染将尽除;专一奉事哈利,你将证得至上的寂静安宁。

Verse 45

इत्युक्त्वाथर्वविद्भूपं वशिष्टः स्वाश्रमं ययौ । राजापि दुःखसंपन्नो राक्षसीं तानुमाश्रितः ॥ ४६ ॥

说罢,通晓《阿闼婆吠陀》的瓦西什塔便回到自己的林苑道场。国王亦因忧苦充塞,陷入如罗刹女般的境况(魔性之态)。

Verse 46

क्षुत्पपासाविशेषार्तो नित्यं क्रोधपरायणः । कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने ॥ ४७ ॥

他为饥渴所逼,常依怒火而行;毗摩肤色幽暗,如黑夜之光,徘徊于荒寂的林野。

Verse 47

मृगांश्च विविधांस्तत्र मानुषांश्च सरीसृपान् । विहङ्गमान्प्लवङ्गांश्च प्रशस्तांस्तानभक्षयत् ॥ ४८ ॥

在那里,他不食诸类鹿兽,不食人类,亦不食爬行之物;并且克制自己,不食飞鸟与猿猴——皆为可敬之生灵。

Verse 48

अस्थिभिर्बहुभिर्भूयः पीतरक्तकलेवरैः । रक्तान्तप्रेतकेशैशअच चित्रासीद्भूर्भयंकरी ॥ ४९ ॥

大地一次又一次显得恐怖——遍布白骨,尸体泛黄且血迹斑斑,鬼发纠结染血,景象骇人。

Verse 49

ऋतुत्रये स पृथिवीं शतयो जनविस्तृताम् । कृत्वातिदुःखितां पश्चाद्वनान्तरमुपागमत् ॥ ५० ॥

在三个季节的时间里,他让绵延数百由旬、人口众多的大地陷入极度的痛苦之中;随后,他进入了森林深处。

Verse 50

तत्रापि कृतवान्नित्यं नरमांसाशनं सदा । जगाम नर्मदातीरं मुनिसिद्धनिषेवितम् ॥ ५१ ॥

即使在那里,他也日复一日地不断吞食人肉。后来,他去了纳尔马达河岸,那是圣人和成就者(Siddhas)常去的地方。

Verse 51

विचरन्नर्मदातीरे सर्वलोकभयंकरः । अपश्यत्कंचन मुनिं रमन्तं प्रियया सह ॥ ५२ ॥

当他在令众生恐惧的纳尔马达河岸游荡时,看见一位圣人正与他的爱侣一同享乐。

Verse 52

क्षुधानलेन संतत्पस्तं मुनिं समुपाद्रवत् । जाग्राह चातिवेगेन व्याधो मृगशिशं यथा ॥ ५३ ॥

他被饥饿之火灼烧,猛冲向那位圣人,以极快的速度抓住了他,就像猎人抓住幼鹿一样。

Verse 53

ब्राह्मणी स्वपतिं वीक्ष्य निशाचरकरस्थितम् । शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वला ॥ ५४ ॥

她看见自己的丈夫被夜行的罗刹紧紧擒住,婆罗门女子惊惧战栗,合掌置于头顶,开口说道。

Verse 54

ब्राह्मण्युवाच । भो भो नृपतिशार्दूल त्राहि मां भयविह्वलाम् । प्राणप्रिय प्रदानेन कुरु पूर्णं मनोरथम् ॥ ५५ ॥

婆罗门女子说道:“噢,诸王之中如猛虎般的雄主啊,救我这因恐惧而战栗之人!若赐我那比生命更珍贵之物,便请圆满成就我的心愿。”

Verse 55

नाम्ना मित्रसहस्त्वं हि सूर्यवंशसमुद्भवः । न राक्षसस्ततोऽनाथां पाहि मां विजने वने ॥ ५६ ॥

诚然,你名为“弥多罗-萨哈”,乃千人之友,又出自太阳王族。你并非罗刹;因此请在这荒寂林中护佑我这无依之人。

Verse 56

या नारी भर्त्तृरहिता जीवत्यपि मृतोपमा । तथापि बालवैधव्यं किं वक्ष्याम्यरिमर्दन ॥ ५७ ॥

女子若失其夫,纵然活着也如同死去。更何况幼年便成寡妇——噢,摧敌者啊,我还能说什么呢?

Verse 57

न मातापितरौ जाने नापि बंधुं च कंचन । पतिरेव परो बंधुः परमं जीवनं मम ॥ ५८ ॥

“我既不识母亦不识父,也无任何亲族。唯有我的丈夫是我至上的亲人——确然,他就是我的生命。”

Verse 58

भवान्येत्त्यखिलान्धर्मान्योषितां वर्त्तनं यथा । त्रायस्व बन्धुरहितां बालापत्यां जनेश्वर ॥ ५९ ॥

噢,众民之主,愿你前来教我一切法义——女子应当如何依正道而行;护佑我这无亲无靠、又负担幼子的可怜人。

Verse 59

कथं जीवामि पत्यास्मिन्हीना हि विजने वने । दुहिताहं भगवतस्त्राहि मां पतिदानतः ॥ ६० ॥

“我怎能在这荒寂的森林里,失去丈夫而活下去?我乃主的女儿——请救我,尊者,并赐我得以归依一位夫君。”

Verse 60

प्रणदानात्परं दानं न भूतं न भविष्यति । वदन्तीति महाप्राज्ञाः प्राणदानं कुरुष्व मे ॥ ६१ ॥

大智者宣说:“过去未曾有,未来亦不会有,比护佑更高的布施。”因此,请赐我生命之施——救我脱难。

Verse 61

इत्युक्तावा सा पपातास्य राक्षसस्य पदाग्रतः । एवं संप्रार्थ्यमानोऽपि ब्राह्मण्या राक्षसो द्विजम् ॥ ६२ ॥

她说罢,便伏倒在那罗刹脚前。即使婆罗门女子苦苦哀求,那罗刹仍旧攫住那位“二次生”的婆罗门。

Verse 62

अभक्षयकृष्णसारशिशुं व्याघ्रो यथा बलात् ॥ ६२ ॥

正如猛虎凭恃蛮力,攫取黑羚幼崽(kṛṣṇasāra)为其猎物。

Verse 63

ततो विलप्य बहुधा तस्य पत्नी पतिव्रता । पूर्वशापहतं भूपमशपत्क्रोधिता पुनः ॥ ६३ ॥

随后,那位贞洁的妻子在多番哀悼后,再次愤怒地诅咒了那位早已身受前世诅咒的国王。

Verse 64

पतिं मे सुरतासक्तं यस्माद्धिंसितवान्बलात् । तस्मात्स्त्रीसङ्गमं प्रात्पस्त्वमपि प्राप्स्यसे मृतिम् ॥ ६४ ॥

既然你在我丈夫沉溺于欢爱之时强行加害于他,因此,当你与女子交合之时,你也必将迎来死亡。

Verse 65

शप्त्वैवं ब्राह्मणी क्रुद्धा पुनः शापान्तरं ददौ । राक्षसत्वं ध्रुवं तेऽस्तु मत्पतिर्भक्षितो यतः ॥ ६५ ॥

那位愤怒的婆罗门妇女在如此诅咒之后,又降下了另一个诅咒:“既然我的丈夫被吞食,愿你注定沦为罗刹(Rākṣasa)。”

Verse 66

सोऽपि शापद्वयं श्रुत्वा तया दत्तं निशाचरः । प्रमन्युः प्राहि विसृजन्कोपादङ्गारसंचयम् ॥ ६६ ॥

听到她所下的双重诅咒,那位夜行者——普拉曼尤(Pramanyu)——一边开口说话,一边抛出因愤怒而生的炽热炭火。

Verse 67

दुष्टे कस्मात्प्रदत्तं मेवृथा शापद्वयं त्वया । एकस्यैवापराधस्य शापस्त्वेको ममोचितः ॥ ६७ ॥

“噢,恶毒的女人,你为何徒劳地给我双重诅咒?对于单一的罪行,我只应承受一个诅咒。”

Verse 68

यस्मात्क्षिपसि दुष्टाग्येमयि शापन्तरं ततः । पिशाचयोनिमद्यैव याहि पुत्रसमन्विता ॥ ६८ ॥

因为你这恶女又向我投下另一道诅咒,所以——连同你的儿子——就在今日堕入毗舍遮(食尸鬼灵)之胎而生。

Verse 69

तेनैवं ब्रह्मणी शत्पा पिशाचत्वं तदा गता । क्षुधार्ता सुस्वरं भीमारुरोदापत्यसंयुता ॥ ६९ ॥

于是因那诅咒之力,沙特帕在梵天面前化为毗舍遮女。饥饿折磨之下,她形貌可怖、声如厉啸,携其子嗣放声哀号。

Verse 70

राक्षसश्च पिशाची च क्रोशन्तौ निर्जने वने । जग्मतुर्नर्मदातीरे वनं राक्षससेवितम् ॥ ७० ॥

一名罗刹与一名毗舍遮女在荒林中哭号,遂前往那尔摩陀河岸的一片林地——罗刹常出没之处。

Verse 71

औदासीन्यं गुरौ कृत्वा राक्षसीं तनुमाश्रितः । तत्रास्ते दुःखसंतत्पः कश्चिल्लोकविरोधकृत् ॥ ७१ ॥

因对师长心生冷漠,他便染上罗刹之性,寄于魔身;在那里他长受连绵苦恼所灼——乃一违逆世间与正法秩序之徒。

Verse 72

राक्षसं च पिशाचीं च दृष्ट्वा रववटमागतौ । उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः ॥ ७२ ॥

见罗刹与毗舍遮女来到榕树前,那栖居树上的婆罗门罗刹怒气充盈,开口说道。

Verse 73

किमर्थमागतौ भीमौ युवां मत्स्थानमीप्सितम् । ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम् ॥ ७३ ॥

“你们二人形貌可怖,为何来到此处,竟欲求我之住处?因何罪业而生于如此境地?务必如实明言。”

Verse 74

सौदासस्तद्वचः श्रुत्वातया यच्चात्मना कृतम् । सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह ॥ ७४ ॥

苏达萨听闻此言,便将她所作与自己所作的一切尽皆禀告于他,随后又说道如下。

Verse 75

सौदास उवाच । कस्त्वं वद महाभाग त्वया वै किं कृतं पुरा । सख्युर्ममाति स्नेहेन तत्सर्वं वक्तुमर्हसि ॥ ७५ ॥

苏达萨说道:“噫,福德深厚者,请告知我:你是谁?往昔你曾作何事?以你对我如友般深情,当将这一切尽数道来。”

Verse 76

करोति वञ्चनं मित्रे यो वा को वापि दुष्टधीः । स हि पापपालं भुंक्ते यातनास्तु युगायुतम् ॥ ७६ ॥

凡心怀恶念、欺诳朋友之人,必定受取罪业之果,历经万万劫之久而受诸苦刑。

Verse 77

जन्तूनां सर्वदुःखानि क्षीयन्ते मित्रदर्शनात् । तस्मान्मित्रेषु मतिमान्न कुर्याद्वंचनं कदा ॥ ७७ ॥

众生诸苦,见真友则渐消;是故智者于友,任何时候都不应欺诳。

Verse 78

कल्माषपादेनेत्युक्तो वटस्थो ब्रह्मराक्षसः । उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद ॥ ७८ ॥

被迦尔摩沙跋陀如此问及,那栖居于榕树上的梵罗刹心生欢喜,便对那罗陀宣说正法之语。

Verse 79

ब्रह्मराक्षस उवाच । अहमासं पुरा विप्रो मागधो वेदपारगः । सोमदत्त इति ख्यातो नाम्ना धर्मपरायणः ॥ ७९ ॥

梵罗刹说道:“往昔我乃摩揭陀国的婆罗门,通达吠陀。世人称我为苏摩达多,素来奉持正法。”

Verse 80

प्रमत्तोऽहं महाभाग विद्यया वयसा धनैः । औदासीन्यं गुरोः कृत्वा प्रात्पवानीदृशीं गतिम् ॥ ८० ॥

噢大福德者,我因学识、青春与财富而放逸;又以冷漠对待师长(古鲁),如今竟堕入这般境地。

Verse 81

नलभेऽहं सुखं किं चिज्जिताहारोऽतिदुःखितः । मया तु भक्षिता विप्राः शतशोऽथ सहस्रशः ॥ ८१ ॥

我全然得不到丝毫安乐;纵使节制饮食,仍痛苦至极。确实,我曾吞食婆罗门——成百,乃至成千。

Verse 82

क्षुत्पिपासापरो नित्यमन्तस्तापेन पीडितः । जगत्रासकरो नित्यं मांसाशनपरायणः ॥ ८२ ॥

他恒常为饥渴所驱,受内心灼痛所逼;常令世间生怖,且执著于食肉之行。

Verse 83

गुर्ववज्ञा मनुष्याणां राक्षसत्वप्रदायिनी । मयानुभूतमेतद्धि ततः श्रीमान्न चाचरेत् ॥ ८३ ॥

对自己的上师(Guru)不敬,会使人堕入罗刹般的魔性。我亲身经历过此真理;因此,贤智而有福之人切莫为之。

Verse 84

कल्माषपाद उवाच । गुरुस्तु कीदृशः प्रोक्तः कस्त्वयाश्लाघितः पुरा । तद्वदस्व सरवे सर्वं परं कौतूहलं हि मे ॥ ८४ ॥

迦尔摩沙跋陀说道:“所说的理想上师是何等之人?你从前曾赞叹的是谁?请将一切详尽告知我,因为我极其好奇。”

Verse 85

ब्रह्मराक्षस उवाच । गुरवः सन्ति बहवः पूज्या वन्द्याश्च सादरम् । यातानहं कथयिष्यामि श्रृणुष्वैकमनाः सरवे ॥ ८५ ॥

婆罗门罗刹说道:“师长众多,皆堪受恭敬供养与虔诚礼拜。我将述说我曾亲近求学的诸师——你们众人当一心专注聆听。”

Verse 86

अध्यापकश्च वेदानां वेदार्थयुतिबोधकः । शास्त्रवक्ता धर्मवक्ता नीतिशास्त्रोपदेशकः ॥ ८६ ॥

他是吠陀的导师,以正理阐明吠陀之义;是诸论典(śāstra)的宣说者、正法(dharma)的讲述者,并教授尼提论(nīti-śāstra)——治国与伦理之学。

Verse 87

मन्त्रोपदेशव्याख्याख्याकृद्वेदसदंहहृत्तथा । व्रतोपदेशकश्चैव भयत्रातान्नदो हि च ॥ ८७ ॥

他传授真言(mantra)及其释义,赐予神圣声名;即便是奉持吠陀者之罪亦能除灭;他亦教导誓戒(vrata),救人脱离恐惧,并确实施与饮食。

Verse 88

श्वशुरो मातुलश्चैव ज्येष्ठभ्राता पिता तथा । उपनेता निषेक्ता च संस्कर्त्ता मित्रसत्तम ॥ ८८ ॥

岳父、母舅、长兄与父亲;同样,授予入门礼(Upanayana,佩戴圣线)者、使人得生之父,以及主持净化仪式(saṃskāra)者——这些确是最尊贵的朋友。

Verse 89

एते हि गुरवः प्रोक्ताः पूज्या वन्द्यश्च सादरम् ॥ ८९ ॥

这些确被宣说为真正的师长;应当礼敬供养,并以至诚恭敬而顶礼致敬。

Verse 90

कल्माषपाद उवाच । गुरवो बहवः प्रोक्ता एतेषां कतमो वरः । तुल्याः सर्वेऽप्युत सरवे तद्यथावद्धि ब्रूहि मे ॥ ९० ॥

迦尔摩沙波陀说道:“已谈及多种师长。在他们之中,哪一位最为殊胜?还是说众师皆平等?请如实、准确地告诉我。”

Verse 91

ब्रह्मराक्षस उवाच । साधु साधु महाप्राज्ञ यत्पृष्टं तद्वदामि ते । गुरुमाहात्म्यकथनं श्रवणं चानुमोदनम् ॥ ९१ ॥

婆罗摩罗刹娑说道:“善哉,善哉,大智者!你所问者,我将告知:宣说上师的伟大、聆听其功德,以及以欢喜心赞同随喜(anumodana)。”

Verse 92

सर्वेषां श्रेय आधत्ते तस्माद्वक्ष्यामि सांप्रतम् । एते समानपूजार्हाः सर्वदा नात्र संशयः ॥ ९२ ॥

因为此事能为一切众生成就最高福祉,我现在将加以说明。这些师长恒常同等应受礼敬——对此毫无疑惑。

Verse 93

तथापि श्रुणु वक्ष्यामि शास्त्राणां सारनिश्चयम् । अध्यापकाश्च वेदानां मन्त्रव्याख्याकृतस्तथा ॥ ९३ ॥

即便如此,也请聆听:我将宣说诸经论(śāstra)所确立的精髓——即传授吠陀的师长,以及同样撰写吠陀真言释义之人。

Verse 94

पिता च धर्मवक्ता च विशेषगुरवः स्मृताः । एतेषामपि भूपाल श्रृणुष्व प्रवरं गुरुम् ॥ ९४ ॥

父亲与宣说达摩者,被忆念为特殊的上师。然而,噢国王,请听我说:即便在他们之中,也有最为卓越的上师。

Verse 95

सर्वशास्त्रार्थतत्वज्ञैर्भाषितं प्रवदामि ते । यः पुराणानि वदति धर्मयुक्तानि पणडितः ॥ ९५ ॥

我将向你宣说:这是通达一切经论(śāstra)真实旨趣与原则之诸贤所言——那位学者若能依达摩而宣讲《往世书》(Purāṇa),便是真正的班智达(paṇḍita)。

Verse 96

संसारपाशविच्छेदकरणानि स उत्तमः । देवपूजार्हकर्माणि देवतापूजने फलम् ॥ ९६ ॥

此道为最上,因为它能斩断轮回(saṃsāra)的系缚;而适于礼敬诸天(deva)之行,亦由对诸神的供奉而得其果报。

Verse 97

जायते च पुराणेभ्यस्तस्मात्तानीह देवताः । सर्ववेदार्थसाराणि पुराणानीति भूपते ॥ ९७ ॥

确然,诸天(以及对诸天的认识)由《往世书》(Purāṇa)而显现;因此,噢国王,诸《往世书》在此即是一切吠陀义理之精髓。

Verse 98

वदन्ति मुनयश्चैव तदूक्ता परमो गुरुः । यः संसारार्णत्वं तर्त्तुमुद्योगं कुरुते नरः ॥ ९८ ॥

诸牟尼亦如是宣说,至上导师亦如是教诲:凡以至诚精进,欲渡轮回之海者,实为堪受解脱之人。

Verse 99

श्रुणुयात्स पुराणानि इति शास्त्रविभागकृत् । प्रोक्तवान्सर्वधर्माश्च पुराणेषु महीपते ॥ ९९ ॥

“当令其聆听诸《普拉那》”——分判圣典之学者如是宣示;而在诸《普拉那》中,噢大王,他已圆满阐明一切法义与本分(dharma)。

Verse 100

तर्कस्तु वादहेतुः स्यान्नीतिस्त्वैहिकसाधनम् । पुराणानि महाबुद्धे इहामुत्र सुखाय हि ॥ १०० ॥

推理(tarka)乃辩论之根本,治道与伦理(nīti)乃世间成就之资;然诸《普拉那》,噢大慧者,实为今生与来世之安乐而说。

Verse 101

यः श्रृणोति पुराणानि सततं भक्तिसंयुतः । तस्य स्यान्निर्मला बुद्धिर्भूयो धर्मपरायणः ॥ १ ॥

凡恒常以虔敬之心(bhakti)聆听诸《普拉那》者,其心智得以清净,且更益归依法义(dharma)。

Verse 102

पुराणश्रवणाद्भक्तिर्जायते श्रीपतौ शुभा । विष्णुभक्तनृणां भूप धर्मे बुद्धिः प्रवर्त्तते ॥ २ ॥

由聆听《普拉那》,对室利主(Śrīpati,吉祥天女拉克什米之主)之吉祥奉爱(bhakti)便生起。噢大王,凡毗湿奴的奉爱者,其心智自会积极趋向法义(dharma)。

Verse 103

धर्मात्पापानि नश्यन्ति ज्ञानं शुद्धं च जायते । धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः ॥ ३ ॥

凭借正法(dharma),罪业消灭,清净智慧生起。凡希求正法之果——财富(artha)、欲乐(kāma)与解脱(mokṣa)者,当依止正法。

Verse 104

श्रुणुयुस्ते पुराणानि प्राहुरित्थं पुराविदः । अहं तु गौतममुनेः सर्वज्ञाद्ब्रह्यवादिनः ॥ ४ ॥

通晓古传者说:他们将以此方式聆听你的《普拉那》。而我则从圣贤乔达摩(Gautama)处受得——他全知无碍,宣说梵(Brahman)之理。

Verse 105

श्रुतवान्सर्वधर्मार्थ गङ्गातीरे मनोरमे । कदाचित्परमेशस्य पूजां कर्त्तुमहं गतः ॥ ५ ॥

我既已闻知并领会一切法义,在清丽的恒河岸边,曾有一次出行,为奉行对至上主的礼拜供养。

Verse 106

उपस्थितायापि तस्मै प्रणामं न ह्यकारिषम् । स तु शान्तो महाबुद्धिर्गौतमस्तेजसां निधिः ॥ ६ ॥

纵然他来到我面前站立,我却未向他顶礼。然乔达摩圣者安然不动——寂静、慧力宏大,乃灵性光辉之宝藏。

Verse 107

मन्त्रोदितानि कर्मणि करोतीतिमुदं ययौ । यस्त्वर्चितो मया देवः शिवः सर्वजगद्गुरुः ॥ ७ ॥

他心生欢喜,念道:“他正依照真言所宣示而行诸仪轨。”我所礼拜的神祇乃是湿婆主(Śiva),为一切世界之导师。

Verse 108

गुर्ववज्ञा कृतायेन राक्षसंत्वे नियुक्तवान् । ज्ञानतोऽज्ञानतो वापि योऽवज्ञां कुरुते गुरोः ॥ ८ ॥

凡轻慢上师(古鲁)者,便被判入罗刹之境。无论有意无意,凡对师长失敬之人,皆招致此等沉重果报。

Verse 109

तस्यैवाशु प्रणश्यन्ति धीविद्यार्थात्मजक्रियाः । शुश्रूषां कुरुते यस्तु गुरुणां सादरं नरः ॥ ९ ॥

对那样的人而言,慧解、学业、福裕、子嗣与业行之果,都会迅速消亡——若他只是外表侍奉诸位上师,以矫饰的恭敬作态。

Verse 110

तस्य संपद्भवेद्भूप इति प्राहुर्विपश्चितः । तेन शापेन दग्धोऽहमन्तश्चैव क्षधाग्निना ॥ १० ॥

智者们说:「大王啊,福财将临于他。」然而正因那诅咒,我被灼烧——内里亦然——为饥饿之火所焚。

Verse 111

मोक्षं कदा प्रयास्यामि न जाने नृपसत्तम । एवं वदति विप्रेन्द्र वटस्थेऽस्मिन्निशाचरे ॥ ११ ॥

「我何时才能得解脱(mokṣa)?我不知啊,诸王之最胜者。」那位最尊的婆罗门如是说道,当他夜里栖身于此榕树之下。

Verse 112

धर्मशास्त्रप्रसंगेन तयोः पापं क्षयं गतम् । एतस्मिन्नन्तरे प्राप्तः कश्चिद्विप्रोऽतिधार्मिकः ॥ १२ ॥

因他们谈论《法论》(Dharmaśāstra),二人的罪业遂至消尽。就在此间,一位极其持法的婆罗门来到此处。

Verse 113

कलिङ्गदेशसम्भूतो नान्म्रा गर्ग इति स्मृतः । वहन्गङ्गाजलं स्कंधे स्तुवन् विश्वेश्वरं प्रभुम् ॥ १३ ॥

他生于迦陵伽之地,被称为伽尔伽,亦以“难摩罗”之名为人所记。肩负恒河圣水,行走间赞颂主宰毗湿维湿瓦罗——至上的大主。

Verse 114

गायन्नामानि तस्यैव मुदा हृष्टतनू रुहः । तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ ॥ १४ ॥

他们欢喜地歌唱那位主的圣名,喜悦使身躯战栗。见到仙人到来,那两者——一位毗舍遮女与一名罗刹——便将注意转向他。

Verse 115

प्राप्तं नः पारणेत्युक्त्वा प्राद्ववन्नूर्ध्वबाहवः । तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थिताः । अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः ॥ १५ ॥

他们喊道:“我们得到了破斋之食(pāraṇa)!”便举臂冲来。然而一听到他所唱诵的圣名,便远远停住。无法加害于他,那些罗刹便说道:

Verse 116

अहो विप्र महाभाग नमस्तुभ्यं महात्मने । नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम् ॥ १६ ॥

噢,有福的婆罗门,大圣者,向你致敬。由于唱诵神圣之名(kīrtana)的威力与光辉,我们这些罗刹被迫远远退避。

Verse 117

अस्माभिर्भक्षिताः पूर्वं विप्राः कोटिसहस्रशः । नामप्रावरणं विप्र रक्षति त्वां महाभयात् ॥ १७ ॥

“往昔我们曾吞食婆罗门,成千上万,乃至亿万之数。然而,噢婆罗门,神圣之名的护覆守护你,使你免于大怖畏。”

Verse 118

नामश्रवणमात्रेण राक्षसा अपि भो वयम् । परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै ॥ १८ ॥

噢,圣者!即使我们是罗刹之类,仅凭聆听圣名,也因阿周多(不堕不失之主)的威德而证得至上安宁。

Verse 119

सर्वथा त्वं महाभाग रागादिरुहितोह्यसि । गंगाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात् ॥ १९ ॥

噢,大福德者!你在一切方面确已远离贪染等垢。然仍请以恒河圣水为我们行沐浴灌顶,护佑我们脱离这堆积的罪业。

Verse 120

हरिसे वापरो भूत्वा यश्चात्मानं तु तारयेत् । स तारयेज्जगत्सर्वमिति शंसन्ति सूरयः ॥ २० ॥

圣贤宣说:凡能全心归依哈利,并由此自度其身者,实亦能度脱整个世界。

Verse 121

अवहाय हरेर्नाम घोरसंसारभेषजम् । केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा ॥ २१ ॥

若舍弃哈利之名——医治轮回怖疾的良药——那么以何方便,才能获得处处难得的解脱呢?

Verse 122

लोहोडुपेन प्रतरन्निमजत्युदके यथा । ततैवाकृतपुण्यास्तु तारयन्ति कथं परान् ॥ २२ ॥

正如人欲乘铁舟渡水,反而沉没;同样,未积功德者又怎能渡他人过彼岸?

Verse 123

अहो चरित्रं महतां सर्वलोकसुखा वहम् । यथा हि सर्वलोकानामानन्दाय कलानिधिः ॥ २३ ॥

啊!伟大圣者的行持何其殊胜,能为一切世界带来安乐;正如明月,乃甘露般光辉之宝藏,为令众生欢喜而存在。

Verse 124

पृथिव्यां यानि तीर्थानि पवित्राणि द्विजोत्तम् । तानि सर्वाणि गङ्गायाः कणस्यापि समानि न ॥ २४ ॥

噢,最胜的二生者啊!大地上一切清净的圣地与渡口,皆不及恒河(Gaṅgā)哪怕一粒微尘。

Verse 125

तुलसीदलप्रदलसंम्मिश्रमपि सर्षपमात्रकम् । गङ्गाजलं पुनात्येव कुलानामेकविंशतिम् ॥ २५ ॥

即便只有芥子般微量的恒河水,掺入图拉西(Tulasi)叶与花瓣,也确能净化一家二十一代。

Verse 126

तस्माद्विप्र महाभाग सर्वशास्त्रार्थकोविद । गङ्गाजलप्रदानेन पाह्मस्मान्पापकर्मिणः ॥ २६ ॥

因此,噢有福的婆罗门、通达一切圣典旨趣者,请以布施恒河(Gaṅgā)之水来护佑我们这些造作罪业之人。

Verse 127

इत्याख्यातं राक्षसैस्तैर्गङ्गामाहात्म्यमुत्तमम् । निशम्य विस्मया विष्टो बभूव द्विजसतमः ॥ २७ ॥

就这样,那些罗刹讲述了恒河(Gaṅgā)至上的伟大。二生者中的最胜者听后,满怀惊异而震撼。

Verse 128

एषामपीद्दशी भक्तिर्गङ्गायां लोकमातरि । किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम् ॥ २८ ॥

若连这等人也能对恒河——诸世界之母——生起如此的虔敬(bhakti),那么那些以灵性智慧之力而成就、功德深厚的伟大圣者,更不必说了。

Verse 129

अथासौ मनसा धर्मं विनिश्चित्य द्विजोत्तमः । सर्वपूतहितो भक्तः प्राप्नोतीति परं पदम् ॥ २९ ॥

于是,那位最殊胜的再生者在心中坚定判定正法(dharma),成为以一切众生安乐为念的奉爱者(bhakta),由此证得至上的境地。

Verse 130

ततो विप्रः कृपाविष्टो गङ्गाजलप्रनुत्तममम् । तुलसीदलसंमिश्रं तेषु रक्षःस्वसेचयत् ॥ ३० ॥

随后,那位婆罗门为慈悲所感,将最殊胜的恒河水与图拉西叶相和,洒在那些罗刹身上。

Verse 131

राक्षसास्तेन सिक्तास्तु सर्षपोपमबिंदुना । विमृज्य राक्षसं भावमभवन्देवतोपमाः ॥ ३१ ॥

而那些罗刹被那一滴如芥子般微小的水点洒及,便拭去罗刹之性,化作宛如诸天的存在。

Verse 132

ब्राह्मणी पुत्र सम्यक्ते जग्मुर्हस्तथैव च । कोटिसूर्यप्रतीकाशा बभूवुर्विवुधर्पभाः ॥ ३२ ॥

那位婆罗门女子与其子随即离去。诸天的光辉在四方显现,灿然如千万日轮。

Verse 133

शंखचक्रगदाचिह्ना हरिसारुप्यमागताः । स्तुवंतो ब्राह्मणं सम्यक्ते जग्मुर्हरिमन्दिरम् ॥ ३३ ॥

他们身具海螺、神轮与神杵之圣徽,得成与哈利相似之相;又如法赞颂那位婆罗门,遂前往哈利之神庙。

Verse 134

राजा कल्माषपादस्तु निजरुपं समास्थितः । जगाम महतीं चिन्तां दृष्ट्वा तान्मुक्तिगानधान् ॥ ३४ ॥

然而迦尔摩沙波陀王既复归本真之形,见诸圣者专注于解脱(mokṣa)之歌,便生起深重忧虑。

Verse 135

तस्मिन् राज्ञि सुदुःखार्ते गूढरुपा सरस्वती । धर्ममूलं महावाक्यं बभाषेऽगाधया गिरा ॥ ३५ ॥

当那位国王为极重悲苦所逼时,形迹隐蔽的萨拉斯瓦蒂以深不可测之声,说出一则作为法(Dharma)根本的大箴言。

Verse 136

भो भो राजन्महाभाग न दुःखं गन्तुमर्हसि । राजस्तवापि भोगान्ते महच्छ्रेयो भविष्यति ॥ ३६ ॥

嗟乎大福之王,莫入忧悲。即便是你,王啊,当世间享乐终尽之时,亦将生起大善——真实的安稳与福祉。

Verse 137

सत्कर्मधूतपापा ये हरिभक्तिपरायणाः । प्रयान्ति नात्र संदेहस्तद्विष्णोः परमं पदम् ॥ ३७ ॥

凡以善业涤尽罪垢、并全心安住于对哈利的奉爱(bhakti)者,毫无疑问,必得至毗湿奴之至上境界。

Verse 138

सर्वभूतदयायुक्ता धर्ममार्गप्रवर्तिनः । प्रयान्ति परमं स्थानं गुरुपूजापरायणाः ॥ ३८ ॥

凡具足对一切众生的慈悲,能引导他人走上正法之道,并一心恭敬供奉上师者,必得至于至上圣境。

Verse 139

इतीरितं समाकर्ण्य भारत्या नृपसतमः । मनसा निर्वृत्तिं प्राप्यसस्मार च गुरोर्वचः ॥ ३९ ॥

如是听闻婆罗底所言,诸王之最者心中顿得安宁,继而忆念起师尊的教诲之语。

Verse 140

स्तुवन्गुरुं च तं विग्नं हरिं चैवातिहर्षितः । पीर्ववृत्तं च विप्राय सर्वं तस्मै न्यवेदयत् ॥ ४० ॥

他欢喜踊跃,赞颂其师,又赞颂除障之主哈利;随后将先前所发生的一切,尽皆禀告那位婆罗门。

Verse 141

ततो नृपस्तु कालिंगं प्रणम्य विधिर्वमुने । नामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ ॥ ४१ ॥

随后,迦陵伽王顶礼维地尔瓦牟尼仙人;口诵毗湿奴圣名,立刻启程前往婆罗那西。

Verse 142

षण्मासं तत्र गङ्गायां स्नात्वा दृष्ट्वा सदाशिवम् । ब्राह्मणीदत्तश पात्तु मुक्तो मित्रसहोऽभवत् ॥ ४२ ॥

他在那里于恒河沐浴六个月,并得瞻礼常住吉祥的萨达湿婆;于是脱离系缚而得解脱。又蒙婆罗门女所施之赠礼护持,遂成有友相伴之人。

Verse 143

ततस्तु स्वपुरीं प्राप्तो वसिष्ठेन महात्मना । अभिषिक्तो मुनुश्रेष्ट स्वकं राज्यमपालयत् ॥ ४३ ॥

随后,那位最胜牟尼与大心的婆悉吒同返本都;受灌顶加冕之后,便护持并治理自己的国土。

Verse 144

पालयित्वा महीं कृत्स्त्रां भुक्त्वा भोगान्स्त्रियं विना । वशिष्टात्प्राप्य सन्तानं गतो मोक्षं नृपोत्तमः ॥ ४४ ॥

他护持遍满大地,享受王者之乐而不染女色;那位最胜之王——由婆悉吒而得后嗣——终至解脱(mokṣa)。

Verse 145

नैतच्चित्रं द्विजश्रेष्ट विष्णोर्वाराणसीगुणान् । गृणञ्छृण्वन्स्मरन्गङ्गां पीत्वा मुक्तो भवेन्नरः ॥ ४५ ॥

这并不稀奇啊,最胜的二生者:在波罗奈,若人称赞、聆听并忆念毗湿奴之德,又饮恒河之水,便得解脱。

Verse 146

तस्मान्माहिम्ने विप्रेन्द्र गङ्गायाः शक्यते नहि । पारं गन्तुं सुराधीशैर्ब्रह्मविष्णुशिवरपि ॥ ४६ ॥

因此,婆罗门之最胜者啊,恒河的伟大不可穷尽、不可尽知——纵是诸天之主,乃至梵天、毗湿奴与湿婆,也难以彻底领会。

Verse 147

यन्नामस्मरणादेव महापातककोटिभिः । विमुक्तो ब्रह्मसदनं नरो याति न संशयः ॥ ४७ ॥

仅仅忆念她的圣名(恒河),人便能从亿万重罪中解脱,前往梵天之居所——毫无疑惑。

Verse 148

गङ्गा गङ्गेति यन्नाम सकृदप्युच्यते यदा । तदैव पापनिमुक्तो ब्रह्मलोके महीयते ॥ ४८ ॥

当人哪怕只一次称念“恒河、恒河”之名,于彼时彼刻便脱离罪垢,并在梵天界(Brahmā-loka)受尊崇。

Verse 149

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गा माहात्म्ये नवमोऽध्यायः ॥ ९ ॥

至此,圣典《广那罗陀往世书》(Bṛhan-Nāradīya Purāṇa)前分(Pūrva-bhāga)第一品(Pāda)中〈恒河功德〉第九章圆满结束。

Frequently Asked Questions

Gaṅgā-jala functions as a śāstric prāyaścitta and a bhakti-saturated purifier: even a mustard-seed-sized drop (with tulasī) reverses rākṣasa/piśāca identity, exhausts accumulated pāpa, and reorients the redeemed toward Hari. The narrative frames Gaṅgā not merely as a river but as a salvific medium that operationalizes mokṣa-dharma.

Guru-apacāra is presented as a root cause of spiritual and social collapse: it precipitates demonic rebirth (brahmarākṣasa state), destroys learning and prosperity, and distorts discernment. Conversely, guru-sevā and restraint of anger are shown as stabilizing forces that preserve dharma and enable purification.

The king’s restoration culminates in Vārāṇasī and Gaṅgā practice: bathing, remembrance/praise of Viṣṇu, and darśana of Sadāśiva are treated as convergent liberative acts. The text thus aligns tīrtha-yātrā with bhakti and inner purification as a complete mokṣa-dharma pathway.