
第32章以高度密集的战阵与神学叙事展开。因那罗陀的禀报,阿修罗王塔罗迦迅速筹谋:召集群臣,擂响战鼓,调集大军,进逼诸天。随即爆发大规模战斗,胜负屡有翻转;天众一度溃退,因陀罗被迦罗内弥击倒。因陀罗、商羯罗(湿婆)、毗湿奴及诸神分别迎战各路阿修罗首领,结成同盟共御强敌。 叙事继而转入教义与伦理的辩论。斯迦陀因塔罗迦被称为“鲁陀罗的奉者”(Rudra-bhakta)而迟疑不愿下手;毗湿奴则指出:伤害众生、敌对正法(dharma)者,不能称为真实的奉爱者。塔罗迦更为猖狂,竟攻击鲁陀罗的战车;湿婆以权宜之策暂退,引发更广泛的神军反击,并出现短暂的宇宙失衡。毗湿奴的怒火在劝诫中被收摄,斯迦陀也被提醒其本愿:护持善者,除灭为害者。 高潮处,一位人格化的“神力”(Śakti)自塔罗迦头顶显现,说明自己因其苦行(tapas)而得,但当其功德福分至极限时便将离去。旋即斯迦陀放出“神力之兵”,贯穿塔罗迦之心,宇宙秩序随之复归。章末以吉祥征象作结:和风起、四方宁、诸神赞颂;并命继续前往鸠槃迦山(Kraunca)迎战婆那(Bāṇa),将此胜利与延续中的鸠摩罗征战相衔接。
Verse 1
नारद उवाच । श्रुत्वैतं संस्तवं दैत्यः संघुष्टं देवबंदिभिः । सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम्
那罗陀说道:那罗刹听见诸天颂者高声宣唱此赞颂,便忆起梵天之言——他将死于神圣童子之手,而今死期已近。
Verse 2
श्रुत्वा स क्लिन्नसर्वांगो द्वाःस्थं राजा वचोऽब्रवीत् । अमात्यान्द्रष्टुमिच्छामि शीघ्रमानय मा चिरम्
听罢此言,国王因惊惶而遍体湿透,便对守门者说道:“我欲见诸大臣;速速召来,勿得迟延。”
Verse 3
ततस्ते राजवचनात्कालनेमि मुखागताः । प्राह तांस्तारको दैत्यः किमिदं वो विचेष्टितम्
随后,奉国王之命,他们来到迦罗内弥面前。阿修罗达伊提耶·塔罗迦对他们说:“你们这般行径,究竟为何?”
Verse 4
यैः शत्रुसंभवा वार्ता कापि न श्रीवितस्त्वहम् । मदिराकाममत्तानां मंत्रित्वं वो न युज्यते । हितं मन्त्रयते राज्ञस्तेन मंत्री निगद्यते
“因你们之故,凡敌方所起之消息,我竟毫无所闻。沉醉于酒与欲者,不配为谋臣。唯有为君王福祉而进谏者,方可称为大臣。”
Verse 5
अमात्या ऊचुः । को जानाति सुरान्दीनान्दैत्यानामिति नो मतिः
群臣说道:“谁能知晓诸天羸弱而达伊提耶强盛?这便是我们的见解。”
Verse 6
मा विषीद महाराज वयं जेष्यामहे सुरान् । बालादपि भयं किं वा लज्जायै चिंतितं त्विदम्
“大王莫要忧惧;我们必将战胜诸天。何必畏惧区区孩童?此忧虑只是为了颜面与名誉吗?”
Verse 7
सर्वमेतत्सुसाध्यं च भेरी संताड्यतां दृढम् । ततो दैत्येन्द्रवचनात्संनाहजननी तदा
“这一切皆易成就——当重击战鼓!”随即,奉达伊提耶之主的号令,整军备甲之集结立刻开始。
Verse 8
भृशं संताडिता भेरी कंपयामास सा जगत् । स्मरणाद्दैत्यराजस्य पर्वतेभ्यो महासुराः
战鼓被猛烈击打,震得世界颤动。仅凭对代底耶王的忆念与召唤,诸大阿修罗便自群山中涌出。
Verse 9
निम्नगाभ्यः समुद्रेभ्यः पातालेभ्योंऽबरादपि । सहसा समनुप्राप्ता युगांतानलसप्रभाः
他们从江河、从大海、从地下的钵多罗诸界,甚至从天空,骤然齐至——光焰如同劫末之火。
Verse 10
कोटिकोटिसहस्रैस्तु परार्धैर्दशभिः शतैः । सेनापतिः कालनेमिः शीघ्रं देवानुपाययौ
率领亿万亿万、千千无数、不可胜计的军阵,将帅迦罗内弥迅疾向诸天推进。
Verse 11
चतुर्योजनविस्तीर्णे नानाश्चर्यसमन्विते । रथे स्थितो मनाग्दीनस्तारकः समदृश्यत
只见塔罗迦立于一乘宽四由旬的战车之上,车具奇珍异饰无数——然而他神色间却隐现一丝沮丧。
Verse 12
एतस्मिन्नंतरे पार्थ क्रुद्धैः स्कन्दस्य पार्षदैः । प्राकारः पातितः सर्वो भग्नान्युपवनानि च
其间,哦帕尔塔,因愤怒而起的斯甘达侍从们倾覆了全部城垣,连园林胜境也被砸得粉碎。
Verse 13
ततश्चचाल वसुधा देवी सवनकानना । जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्
随后,大地女神与诸林诸苑一同震动;苍穹纵有群星,也仿佛燃烧起来,诸世界陷入极深的迷乱。
Verse 14
तमोभूतं जगच्चसीद्गृध्रैर्व्याप्तं नभोऽभवत् । ततो नानाप्रहरणं प्रलयांबुदसन्निभम्
世界化为黑暗,天空布满兀鹫;继而万般兵刃的混乱骤起,宛如劫末毁灭之云。
Verse 15
कालनेमिमुखं पार्थ अदृश्यत महद्बलम् । तद्धि घोरमसंख्येयं जगर्ज विविधा गिरः
噢,帕尔塔啊,以迦罗内弥为首的强大军势显现——可怖而无量——并以种种呼号轰然咆哮。
Verse 16
अभ्यद्रवद्रणे देवान्भगवंतं च शंकरम् । विनदद्भिस्ततो दैत्यैन्देवानीकं महायुधैः
随后在战场上,咆哮的达伊提耶众执持重兵,冲向诸天,甚至攻向圣尊商羯罗,猛击天军之阵。
Verse 17
पर्वतैश्च शतघ्नीभिरायसैः परिधैरपि । क्षणेन द्रावितं सर्वं विमुखं चाप्यदृश्यत
以群山为掷,以百杀器(śataghnī)与铁杵相加,一切顷刻溃散;只见众军转身背向,仓皇退却。
Verse 18
असुरैर्वध्यमाने तु पावकैरिव काननम् । अपतद्दावभूमिष्ठ महाद्रुमवनं यथा
当他们被阿修罗杀戮时,就像被大火吞噬的森林一样倒下,宛如在野火中轰然倒地的参天巨木林。
Verse 19
ते भिन्नास्थिशि रोदेहाः प्राद्रवंत दिवौकसः । न नाथमध्यगच्छंत वध्यमाना महासुरैः
天界的居民骨骼、头颅和身体支离破碎,四散奔逃。在被大阿修罗杀戮之际,他们找不到任何保护者。
Verse 20
अथ तद्विद्रुतं सैन्यं दृष्ट्वाः पुरंदरः । आश्वासयन्नुवाचेदं बलवद्दानवार्दितम्
普兰达拉(因陀罗)看见军队溃逃,便安抚他们,对这支被强大的达纳瓦恶魔逼迫的队伍说了这番话。
Verse 22
एष कालानलप्रख्यो मयूरं समुपस्थितः । रक्षिता वो महासेनः कथं भीतिस्तथापि वः
这位是大军神(Mahāsena),光辉如末劫之火,骑在孔雀之上。他是你们的保护者——既然如此,你们之中为何还存有恐惧?
Verse 23
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवोकसः । दानवान्प्रत्ययुध्यंत शक्रं कृत्वा व्यपाश्रयम्
听到释迦(帝释天)的话,天界的众神感到安心。他们以释迦为依靠,转身反击达纳瓦恶魔。
Verse 24
कालनेमिर्महेन्द्रेण संयुगे समयुज्यत । सहस्राक्षौहिणीयुक्तो जंभकः शंकरेण च
在战场上,迦罗内弥与摩诃因陀罗(因陀罗)交锋;而阎婆迦率领千军万马,也同样迎战商羯罗(湿婆)。
Verse 25
कुजंभो विष्णुना चैव तावत्य क्षौहिणीवृतः । अन्ये च त्रिदशाः सव मरुतश्च महाबलाः
俱阎婆同样被那般军阵环绕,迎战毗湿奴。其余诸天亦皆参战,并有威力无比的风神众(Marut)同赴战阵。
Verse 26
प्रत्ययुध्यंतं दैत्येंद्रेः साध्याश्च वसुभिः सह । ततो बहुविधं युद्धं कालनेमिर्विधायच
萨提耶众(Sādhyas)与八位婆苏(Vasus)一同反击那位阿修罗(Daitya)之主。随后迦罗内弥又发动多种多样的战斗,施展诸般计略。
Verse 27
उत्सृज्य सहसा पार्थ ऐरावणशिरःस्थितः । स तु पादप्रहारेण मुष्टिना चैव तं गजम्
随即,那勇士骤然跃出,立于爱罗婆多(Airāvata)之首,以脚踢又以拳击,猛击那头大象。
Verse 28
शक्रं च चघ्ने विनदन्पेततुस्तावुभौ भुवि । ततः शक्रं समादाय कालनेमिर्विचेतसम्
他怒吼着也击中了释迦(Śakra),二人遂同坠于地。随后迦罗内弥擒住了已然昏迷的释迦。
Verse 29
रथमाश्रित्य भूयोपि तारकाभिमुखो ययौ । अथ क्रुद्धं तदा देवैः सहसा चांतकादिभिः
他再次登上战车,面向塔罗迦(Tāraka)继续推进。此时诸天神祇与安塔迦(Antaka)等忽然震怒,立刻起身应战。
Verse 30
ह्रियते ह्रियते राजा त्राता कोऽपि न विद्यते । एतस्मिन्नंतरे शर्वं पिनाकधनुषश्च्युतैः
“国王被掳走了——被掳走了!竟无一人能救!”就在那一刻,舍尔瓦(Śarva,即湿婆Śiva)以从毗那迦(Pināka)神弓射出的箭矢……
Verse 31
भयं त्यजत भद्रं वः शुराः शस्त्राणि गृह्णत । कुरुध्वं विक्रमे बुद्धि मा च काचिद्व्यथास्तु वः
“舍弃恐惧——愿吉祥临于你们!诸位勇士,执起兵刃。将心安住于英勇,不要让任何忧苦留在你们之中。”
Verse 32
किमेतेन महेन्द्रेण मया युध्यस्व दानव । वीरंमन्य सुदुर्बुद्धे ततो ज्ञास्यसि वीरताम्
“何必劳烦摩诃因陀罗(Mahendra,因陀罗Indra)?与我一战吧,达那婆(Dānava)!自以为勇士的愚昧之徒——那时你将知晓何为真正的英勇。”
Verse 33
कानेमिरुवाच । नग्नेन सह को युध्येद्धतेनापि च येन वा । शंसत्सु दैत्यवीराणामुपहासः प्रजायते
迦内弥卢(Kānemiru)说道:“谁会与一个赤身之人交战——或与那被他击倒的人交战?若我们如此行事,当诸位阿修罗勇士在旁观望并夸耀之时,嘲笑必将落在我们身上。”
Verse 34
आत्मनस्तु समं किंचिद्विलोक्य सुदुर्मते । तदाकर्ण्य च सावज्ञं वचः शर्वो विसिष्मिये
然而,舍婆(湿婆)见到竟有可与自身相类之物——噫,极其迷妄者——听闻那轻蔑之言,心中大为惊异。
Verse 35
ततः कुमारः सहसा मयूरस्थोऽभ्यधावत । कुजंभं सानुगं हत्वा वासुदेवोप्यधावत
随后,俱摩罗(斯堪达)乘孔雀,骤然冲出。诛灭俱阇姆婆及其随从之后,婆苏提婆(毗湿奴)亦向前奋进。
Verse 36
ततो हरिः स्कंदमाह किमेतेन तव प्रभो । दैत्याधमेन पापेन मुहूर्तं पश्य मे बलम्
于是,哈利(毗湿奴)对斯堪达说道:“主啊,你何必理会这罪恶的下等魔族?且暂且一观我的神力。”
Verse 37
एवमुक्त्वा निवार्यैनं केशवो गरुडस्थितः । शार्ङ्गकोदंडनिर्मुक्तैर्बाणैर्दैत्यमवाकिरत्
说罢,端坐迦楼罗之上的计舍婆制止了他(斯堪达),并以从“沙尔恩伽”神弓放出的箭矢,如雨倾洒于那魔族。
Verse 38
स तैर्बाणैस्ताड्यमानो वज्रैरिव महासुरः । विमुच्य वासवं क्रुद्धो बाणांस्तान्व्यधमच्छरैः
那大阿修罗被诸箭击中,犹如雷霆加身;他怒火炽盛,遂放出如同婆娑婆(因陀罗)之神兵,并以自身箭矢击碎那些来箭。
Verse 39
यान्यान्बाणान्हरिर्दिव्यानस्त्राणि च मुमोच ह । निवारयति दैत्यस्तान्प्रहसंल्लीलयैव च
无论哈利(毗湿奴)放出何等神圣之箭与天界兵器,那魔族尽皆拦截,含笑而为,仿佛只是游戏。
Verse 40
ततः कौमोदकीं गृह्य क्षिप्रकारी जनार्दनः । मुमोच सैन्यनाथाय सारथिं च व्यचूर्णयत्
随后,行动迅疾的阇那尔达那执起“考摩达姬”神杵,掷向军旅统帅,并将御者一并碾碎。
Verse 41
ततो रथादवप्लुत्य विवृत्य वदनं महत् । गरुडं चंचुनादाय स विष्णुं क्षिप्तवान्मुखे
继而他从战车跃下,张开巨口,抓住迦楼罗的喙,将其掷向毗湿奴的口/面前。
Verse 42
ततोऽभूत्सर्वदेवानां विमोहो जगतामपि । चचाल वसुधा चेलुः पर्वताः सप्त चार्णवाः
于是,迷惘笼罩诸天,亦及一切世界。大地震颤,群山摇动,七海翻腾,动荡不已。
Verse 43
कालनेमिर्नश्चैव प्रानृत्यत महारणे । असंमूढस्ततो विष्णुस्त्वराकाल उपस्थिते
在那场大决战中,迦罗内弥亦被诛灭,倒下时扭曲踉跄。随后,毗湿奴不为所惑,神情安定;当决断之刻来临,便立刻施行。
Verse 44
कुक्षिं विदार्य चक्रेण भास्करोऽभादिवोदितः । बहिर्भूतो हरिश्चैनं महोयित्वा स्वनिन्दया
哈里用神轮剖开魔腹,如初升旭日般光芒四射。冲出之后,他以羞辱压倒了那恶魔。
Verse 45
पातालस्य तलं निन्ये तत्र शिश्ये स काष्ठवत् । ततश्चक्रेण दैत्यानां निहता दशकोट्यः
他被抛至帕塔拉地底,像木头一样躺在那里一动不动。随后,神轮诛杀了十千万达纳瓦魔众。
Verse 46
प्रमोदितास्तथा देवा विमोहास्तत्क्षणाद्बभुः । ततःशर्वस्तमालिंग्य साधुसाधु जनार्दन
诸神欢喜,却在刹那间惊愕不已。随后萨尔瓦拥抱了他,高呼:“善哉,善哉,佳那达那啊!”
Verse 47
त्वया यद्विहितं कर्म तत्कर्तान्यो न विद्यते । महिषाद्याः सुदुर्जेया देव्या ये विनिपतिताः
无人能像你这般完成此等伟业。即便是女神所诛杀的玛希沙等强敌,也是极难征服的。
Verse 48
तेषामतिबलो ह्येष त्वया विष्णो विनिर्जितः । तारकामयसंग्रामे वध्यस्तेसौ जनार्दन
毗湿奴啊,这恶魔在他们之中力大无穷,却被你征服。在塔拉卡玛雅之战中,他注定要死于你手,佳那达那啊。
Verse 49
कंसरूपः पुनस्तेऽयं हंतव्योऽष्टमजन्मनि । एवं प्रशंसमानास्ते वासुदेवं जगद्गुरुम्
他将再度化作迦ṃ萨之形,并在第八次投生时由你诛灭。于是他们赞颂婆苏提婆——世间之师。
Verse 50
शस्त्रजालैर्लब्धसंज्ञान्दैत्यसैन्याननाशयत् । तानि दैत्यशरीराणि जर्जराणि महायुधैः
在兵刃如雨之中他复得清明,摧灭了阿修罗军阵。那些魔众之躯,被大神兵击得粉碎破裂。
Verse 51
अपतन्भूतले पार्थ च्छिन्नाभ्राणीव सर्वशः । ततस्तद्दानवं सैन्यं हतनाथमभूत्तदा
他们坠落大地,噢帕尔塔,四处皆然——如被撕裂的云团。于是那达那婆军众因主将被诛而群龙无首。
Verse 52
देवैः स्कंदानुगैश्चैव कृतं शस्त्रैः पराङ्मुखम् । अथो क्रुष्टं तदा हृष्टैः सर्वैर्देवैर्मुदायुतैः
在诸天与斯坎达随众的兵刃之下,他们被击退而溃走。随即诸天众神欢喜踊跃,同声发出凯旋之呼。
Verse 53
संहतानि च सर्वाणि तदा तूर्याण्यवादयन् । अथ भग्नं बलं प्रेक्ष्य हतवीरं महारणे
其时他们合拢诸军,齐鸣战鼓与号角。然而当他们望见大军已溃、勇士尽殒于那场大战,局势便转为沉重。
Verse 54
देवानां च महामोदं तारकः प्राह सारथिम् । सारथे पश्य सैन्यानि द्राव्यमाणानि मे सुरैः
见诸天大欢喜,塔罗迦对御者说道:“御者,看哪——我的军队正被诸天驱退!”
Verse 55
येस्माभिस्तृणवद्दृष्टाः पश्य कालस्य चित्रताम् । तन्मे वाहय शीघ्रं त्वं रथमेनं सुरान्प्रति
“那些我们曾视若草芥者——看啊,时运所致的奇异翻转!因此,为我疾驱此车,直向诸天而去。”
Verse 56
पश्यंतु मे बलं बाह्वोर्द्रवंतु च सुराधमाः । ब्रुवन्नेवं सारथिं स विधुन्वन्सुमहद्धनुः
“让他们见识我双臂之力——让那些卑劣的天神奔逃!”他如此对御者说着,挥舞起他那极其巨大的神弓。
Verse 57
क्रोध रक्तेक्षणो राजा देवसैन्यं समाविशत् । आगच्छमानं तं दृष्ट्वा हरिः स्कंदमथाब्रवीत्
那王者怒目赤红,冲入诸天军阵。见他逼近,诃利(毗湿奴)便对斯堪达说道。
Verse 58
कुमार पश्य दैत्येंद्रं कालं यद्वद्युगात्यये । अयं स येन तपसा घोरेणाराधितः शिवः
诃利说道:“噢,俱摩罗,观此代底耶之主——宛如劫尽之时的时间本身。正是此人,以可怖的苦行而令湿婆欢喜受供。”
Verse 59
अयं स येन शक्राद्याः कृता मर्काः समार्बुदम् । अयं स सर्वशस्त्रैगैर्योऽस्माभिर्न जितो रणे
正是此魔让因陀罗及众神经历了无数岁月的苦难。正是此魔,虽经我等动用各种兵器围攻,却始终未曾在战场上被击败。
Verse 60
नावज्ञया प्रद्रष्टव्यस्तारकोऽयं महासुरः । सप्तमं हि दिनं तेऽद्य मध्याह्नोऽयं च वर्तते
切不可轻视这伟大的阿修罗塔拉卡(Tāraka)。今天是你的第七天,而且现在正值正午。
Verse 61
अर्वागस्तमनादेनं जहि वध्योऽन्यथा नहि । एवमुक्त्वा स शक्रादींस्त्वरितः केशवोऽब्रवीत्
务必在日落前将其斩杀,此时可杀,否则便无法诛灭。凯沙瓦(Keśava)说完此话,急切地对因陀罗及众神说道。
Verse 62
आयासयत दैत्येंद्रं सुखवध्यो यथा भवेत् । ततस्ते विष्णुवचनाद्विनदन्तो दिवौकसः
消耗那岱提亚(Daitya)之主的力量,以便轻易将其斩杀。于是,遵照毗湿奴的命令,天界的居民大声咆哮。
Verse 63
तमासाद्य शरव्रातैर्मुदिताः समवाकिरन् । प्रहसन्निव देवांस्तान्द्रावयामास तारकः
众神逼近他,欣喜地向他倾泻箭雨。然而塔拉卡仿佛在嘲笑一般,击溃了众神并将他们驱散。
Verse 64
यथा नास्तिकदुर्वृत्तो नानाशास्त्रोपदेशकान् । सोढुं शक्ता न ते वीरं महति स्यंदने स्थितम्
正如品行败坏的无神者不能忍受从诸多经典中教诲的师长,他们也同样无法承受那位英雄——立于其宏伟战车之上。
Verse 65
महापस्मारसंक्रांतं यथैवाप्रियवादिनम् । विधूय सकलान्देवान्क्षणमात्रेण तारकः
如同遭受剧烈癫痫之人抖落那不受欢迎的说话者,塔罗迦亦在刹那之间震荡并驱散了诸天。
Verse 66
आजगाम कुमाराय विधुवन्स महाधनुः । आगच्छमानं तं दृष्ट्वा स्कंदः प्रत्युद्ययौ ततः
随后,那执持大弓者一边驱散诸军,一边向鸠摩罗逼近。斯坎达见其来势,立刻上前迎战。
Verse 67
तस्यारक्षद्भवः पार्श्वं दक्षिणं चैव तं हरिः । पृष्ठे च पार्षदास्तस्य कोटिशोऽर्बदशस्तथा
婆伐守护其侧翼,诃利守护其右方;其后随从列阵,数量以亿计,乃至数十亿。
Verse 68
ततस्तौ सुमहायुद्धे संसक्तौ देवदैत्ययौः । धर्माधर्माविवोदग्रौ जगदाश्चर्यकारकौ
于是,在那场浩大战斗中,天神与魔族近身相搏——宛如法与非法相争——令整个世界为之惊叹。
Verse 69
ततः कुमारमासाद्य लीलया तारकोऽब्रवीत् । अहो बालातिबालस्त्वं यत्त्वं गीर्वाणवाक्यतः
随后,塔罗迦戏谑地走近库玛罗(斯坎达)说道:“嗟乎!你不过是个稚子,只因诸天之言催促,才来到此处。”
Verse 70
आसादयसि मां युद्धे पतंग इव पावकम् । वधेन तव को लाभो मम मुक्तोऽसि बालक
“你在战场上挑战我,犹如飞蛾扑火。杀了我对你有何益处?孩子啊,你将得解脱(卸下重担)。”
Verse 71
पिष क्षीरं गृहाणेमं कंदुकं क्रीड लीलया । एवमुक्तः प्रहस्याह तारकं योगिनां गुरुः
“去捣乳吧;拿着这球,随意嬉戏。”听罢此言,瑜伽行者之师——斯坎达——大笑着答复塔罗迦。
Verse 72
शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः । दुष्प्रेक्ष्यो भास्करो बालो दुःस्पर्शोऽल्पोऽपि पावकः
“莫轻视我的童身。幼蛇亦险;旭日虽‘幼’亦难直视;微火虽小,触之亦痛。”
Verse 73
अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते । एवमुक्त्वा दैत्यमुक्तं गृहीत्वा कंदुकं च तम्
“如此寥寥数音也称真言吗?为何这魔众竟似战栗?”言毕,他便夺取那罗刹所放之兵刃,宛如抓住一枚小球。
Verse 74
तस्मिञ्छक्त्यस्त्रमादाय दैत्याय प्रमुमोच ह । तस्य तेन प्रहारेम रथश्चूर्णिकृतोऽभवत्
于是他执起“沙克提”神兵,掷向那魔;受此一击,魔王战车碎作尘埃。
Verse 75
चतुर्योजनमात्रो यो नानाश्चर्यसमन्वितः । गरुडस्य सुता ये च शीर्यमाणे रथोत्तमे
那上妙战车,方圆四由旬,奇珍异象充盈其间;迦楼罗之子亦然,当那无上战车正在崩裂之时……
Verse 76
मुक्ताः कथंचिदुत्पत्य सागरांतरमाविशन् । ततः क्रुद्धस्तारकश्च मुद्गरं क्षिप्तवान्गुहे
他们艰难脱身,纵身跃起,遁入大海深处。随即,塔罗迦怒火炽盛,向古诃(斯甘达)掷出铁槌巨棒。
Verse 77
विंध्याद्रिमिव तं स्कंदो गृहीत्वा तं व्यताडयत् । स्थिरे तस्योरसि व्यूढे मुद्गरः शतधाऽगमत्
斯甘达如擎持温提耶山般将其攫住,猛然击落。那巨棒落在他坚固宽阔的胸膛上,竟碎裂成百段。
Verse 78
मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे । चिंतयामास बुद्ध्या च प्राप्तं तद्ब्रह्मणो वचः
于是那魔在战场上认定六面圣者(斯甘达)不可战胜,并在心中思量梵天之言,如今已然应验。
Verse 79
तं भीतमिव चालक्ष्य दैत्यवीराश्च कोटिशः । नदंतोऽतिमहासेनं नानाशस्त्रैरवाकिरन्
见他似乎心生畏惧,千万魔族勇士咆哮怒吼,以百般兵刃如雨倾洒,覆盖那浩大军阵。
Verse 80
क्रुद्धस्तेषु ततः स्कंदः शक्तिं घोरामथाददे । अभ्यस्यमाने शक्त्यस्त्रे स्कंदनामिततेजसा
斯坎达对他们震怒,遂执起可怖的“沙克提”神枪。当这沙克提神兵由光辉无量的斯坎达发动之时……
Verse 81
उल्काजालं महाघोरं पपात वसुधातले । चाल्यमाना तथा शक्तिः सुघोरा भवसूनुना
极其可怖的流星雨坠落大地。于是,那由婆伐之子(斯坎达)所发动的沙克提,愈发凛然可畏。
Verse 82
ततः कोट्यो विनिष्पेतुः शक्तीनां भर्तर्षभ । स शक्त्यस्त्रेण बलवान्करस्थेनाहनत्प्रभुः
随即,亿万支神枪迸射而出,噫,诸主之中如雄牛者!那大能的主宰以手中沙克提神兵猛然击杀。
Verse 83
अष्टौ पद्मानि दैत्वानां दशकोटिशतानि च । तथा नियुतसाहस्रं वाहनं कोटिरेव च
代底耶众多达八个“莲数”(padma),又复有“十俱胝百”(daśa-koṭi-śata,即十亿)。其坐骑亦不可胜数,至一俱胝(koṭi)而有余。
Verse 84
ह्रंदोदरं च दैत्येंद्रं निखर्वैर्दशभिर्वृतम् । तत्राकुर्वन्सुतुमुलं नादं वध्येषु शत्रुषु
岱提耶之王 Hraṃdodara 被十个 nikharvas 簇拥着,对着注定被诛杀的敌人发出了极其可怕的吼声。
Verse 85
कुमारानुचराः पार्थ पूरयंतो दिशो दश । शक्त्यस्त्रस्यार्चिः संभूतशक्तिभिः केऽपि सूदिताः
帕尔塔啊,鸠摩罗的追随者充满了十方;有些人被沙克蒂武器的火焰能量击倒——那是从该武器中诞生的力量。
Verse 86
पताकयावधूताश्च हताः केचित्सहस्रशः । केचिद्धंटारवत्रस्ताश्छिन्नभिन्नहृदोऽपतन्
有些像旗帜一样被驱散扫荡,成千上万地被杀;另一些被钟声吓坏,心胆俱裂而倒下。
Verse 87
केचिन्मयूरपक्षाभ्यां चरणाभ्यां च सूदिताः । कोटिशस्ताम्रचूडेन विदार्यैव च भक्षिताः
有些被孔雀的翅膀和脚压碎;还有数以千万计的人被 Tāmra-cūḍa 撕碎吞食。
Verse 88
पार्षदैर्मातृभिः सार्धं पद्मशो निहताः परे । एवं निहन्यमानेषु दानवेषु गुहादिभिः
其他人被侍从(Pārṣadas)和母神(Mātṛs)像莲花般成群结队地杀害;就这样,当达纳瓦人被古哈(Guha)和他的军队砍倒时……
Verse 89
अभाग्यैरिव लोकेषु तारकः स्कंदमाययौ । जग्राह च गदां दिव्यां लक्षघंटादुरासदाम्
如同厄运降临诸界,塔罗迦以幻力逼近斯坎达;并抓起一柄天界神槌,十万铃声轰鸣,令人难以抵挡。
Verse 90
तया मयूरमाजघ्ने मयूरो विमुखोऽभवत् । दृष्ट्वा पराङ्मुखं लोकेषु वासुदेवोऽब्रवीत्त्वरन्
他以那神槌击打孔雀,孔雀遂转身背向。见其在诸界之前竟然回避,婆苏提婆急忙开口说道。
Verse 91
देवसेनापते शीघ्रं शक्तिं मुंच महासुरे । प्रतिज्ञामात्मनः पाहि लंबते रविमंडलम्
噢,天军统帅啊,速将你的圣矛(Śakti)掷向那大阿修罗。守护你自己的誓愿——日轮已渐沉落。
Verse 92
स्कंद उवाच । त्वयैव रुद्रभक्तोऽयं जनार्दन ममेरितम् । वधार्थं रुद्रभक्तस्य बाहुः शक्तिं मुंचति
斯坎达说道:噢,阇那尔达那,正是你依我之言催动了这位鲁陀罗的奉者。为诛此鲁陀罗奉者,我之臂放出圣矛(Śakti)。
Verse 93
नारुद्रः पूजयेद्रुद्रं भक्तरूपस्य यो हरः । रुद्ररूपममुं हत्वा कीदृशं जन्मनो भवेत्
非鲁陀罗者怎能礼敬鲁陀罗,而哈罗(湿婆)自身却化作奉者之形?若杀此具鲁陀罗之相者,将招致何等来生?
Verse 94
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ताः प्रपीडिताः । रुद्रभक्ताः कुलं सर्वं निर्दहंति हताः किमु
若鲁德拉(Rudra)的信徒受到侮辱、欺骗、诅咒、击打或压迫,他们能焚毁整个家族——更何况是被杀害呢?
Verse 95
एष चेद्धंति तद्भद्रं हन्यतामेष मां रणे । रुद्रभक्ते पुनर्विष्णो नाहं शस्त्रमुपाददे
如果他真的攻击——那就这样吧;让他在战场上攻击我。但是,毗湿奴啊,面对鲁德拉的信徒,我绝不再拿起武器。
Verse 96
श्रीभगवानुवाच । नैतत्तवोचितं स्कंद रुद्रभक्तो यथा श्रृणु । द्वे तनू गिरिजाभर्तुर्वेदज्ञा मुनयो विदुः
世尊说道:斯坎达(Skanda)啊,这不适合你。且听何为真正的“鲁德拉信徒”。通晓吠陀的圣哲们宣称,吉里贾(Girijā)的配偶有两种形态。
Verse 97
एका जीवात्मिका तत्र प्रत्यक्षा च तथापरा । द्रोग्धा भूतेषु भक्तश्च रुद्रभक्तो न स स्मृतः
在这两者中,一种是存在于众生之内的形态,另一种是显现的形态。但是,若有人对生灵背信弃义——即使他自称虔诚——也不被视为鲁德拉的信徒。
Verse 98
भक्तो रुद्रो कृपावांश्च जंतुष्वेव हरव्रतः । तदेनं भूतमर्त्येषु द्रोग्धारं त्वं पिनाकिनः
鲁德拉的信徒慈悲为怀,坚定于哈拉(Hara)的誓言,尤其是对众生。因此,皮纳卡(Pināka)的持有者啊,你可以击打这个众生与凡人中的背信弃义者。
Verse 99
जहि नैवात्र पश्यामि दोषं कंचन ते प्रभो । श्रुत्वेति वाचं गोविंदात्सत्यार्थामपि भारत
“杀了他;主啊,我在此看不出你有任何过错。”婆罗多啊,听了哥文达这番真实的话语……
Verse 100
हंतुं न कुरुते बुद्धिं रुद्रभक्त इति स्मरन् । तारकस्तु ततः क्रुद्धो ययौ वेगेन केशवम्
想着“他是鲁陀罗的信徒”,他便没有下定决心去杀戮。然而塔拉卡愤怒不已,迅速冲向凯沙瓦。
Verse 101
प्राह चैवं सुदुर्बुद्धे हन्मि त्वां पश्य मे बलम् । देवानां चापि धर्माणां मूलं मतिमतां तथा । हत्वा त्वामद्य सर्वांस्तांश्छेत्स्ये पश्याद्य मे बलम्
他这样说道:“噢,邪恶的人,我要杀了你——看看我的力量!你是众神、正法以及智者的根源。今天杀了你,我就能铲除他们所有——今天就看看我的威力吧!”
Verse 102
विष्णुरुवाच । दैत्येंद्र तव चास्माभिः किमहो श्रृणु सत्यताम्
毗湿奴说道:“噢,达纳瓦人之主,你我之间这是为何?现在听听真相吧。”
Verse 103
रथे य एष शर्वोऽयं हतेऽस्मिन्सकलं हतम् । श्रुत्वेति तारकः क्रुद्धस्तूर्णं रुद्ररथं ययौ
听到“夏尔瓦(湿婆)就在战车上——如果杀了他,一切都会毁灭”,塔拉卡勃然大怒,迅速冲向鲁陀罗的战车。
Verse 104
अभिसृत्य स जग्राह रुद्रस्य रथकूबरम् । यदा स कूबरं क्रुद्धस्तारकः सहसाऽग्रहीत्
他猛然冲上前,抓住了鲁陀罗战车的车辕(kūbara)。当暴怒的塔罗迦忽然攫住那车辕之时——
Verse 105
रेसतू रोदसी तूर्णं मुमुहुश्च महर्षयः । व्यनदंश्च महाकाया दैत्या जलधरोपमाः
刹那间,天地两界震颤哀鸣;诸大圣仙皆为之迷惘。那些身躯魁伟的阿修罗族(Daitya),如暴风云团般,齐声咆哮。
Verse 106
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत । तार कस्याप्यभिप्रायं भगवान्वीक्ष्य शंकरः
于是他们心中笃定:“我们确已得胜。”然而世尊商羯罗洞察到塔罗迦的心意乃至其谋算——
Verse 107
उमया सह संत्यक्त्वा रथं वृषभमावहत् । ओमित्यथ जपन्ब्रह्मा आकाशं सहसाश्रितः
他与乌玛一同舍下战车,乘上圣牛(Vṛṣabha)。随后,梵天口诵“唵(Oṃ)”,顷刻间遁依于虚空。
Verse 108
ततस्तं शतसिंहं च रथं रुद्रेण निर्मितम् । उत्क्षिप्य पृथ्व्यामास्फोट्य चूर्णयामास तारकः
随后,塔罗迦举起那辆由鲁陀罗所造、号称“百狮”的战车,猛掷于大地之上,碾碎成尘。
Verse 109
शूलपाशुपतादीनि सहसोपस्थितानि च । वारयामास गिरिशो भवः साध्य इति ब्रुवन्
三叉戟、帕舒帕塔神兵等一齐现前;然而吉利沙——婆伐——将其制止,说:“此人当依既定之命运而处置。”
Verse 110
ततः स्ववंचितं ज्ञात्वा रुद्रेणात्मानमीर्ष्यया । विनदन्सहसाऽधावद्वृषभस्थं महेश्वरम्
随后,知自己被鲁陀罗所欺,塔罗迦满怀嫉怒,咆哮一声,猛然冲向乘坐神牛之上的大自在天。
Verse 111
ततो जनार्दनोऽधावच्चक्रमुद्यम्य वेगतः । वज्रमिंद्रस्तथोद्यम्य दंडं चापि यमो नदन्
于是阇那尔达那疾驰而出,高举神轮;因陀罗亦上前,擎起金刚雷霆;阎摩咆哮着举起刑杖。
Verse 112
गदां धनेश्वरः क्रुद्धः पाशं च वरुणो नदन् । वायुर्महांकुशं घोरं शक्तिं वह्निर्महाप्रभाम्
财主天(檀那伊湿伐罗)震怒执起钉锤;伐楼那咆哮着握住绳索。风神伐由举起可怖的大钩杖,火神阿耆尼持一柄光辉灿然、威耀无量的神矛。
Verse 113
निरृतिर्निशितं खड्गं रुद्राः शूलानि कोपिताः । धनूंषि साध्या देवाश्च परिघान्वसवस्तथा
尼利提执起锋利之剑;诸鲁陀罗忿怒握持三叉戟。萨提耶等诸天与众神各执弓矢,诸婆苏亦举起铁杵——众神皆自备兵刃,以迎战势汹涌而来的冲击。
Verse 114
विश्वेदेवाश्च मुसलं चंद्रार्कौ स्वप्रभामपि । ओषधीश्चाश्विनौ देवौ नागाश्च ज्वलितं विषम्
毗湿维天众执起钉槌;月与日甚至奉上自身的光辉。诸疗愈灵草齐集,阿湿毗尼双神亦来相助,诸那伽献出炽燃之毒——各各以本具之力,归于神圣大业。
Verse 115
हिमाद्रि प्रमुखाश्चापि समुद्यम्य महीधरान् । भृशमुन्नदतो देवान्धावतो वीक्ष्य तारकः
见诸天神以雷霆般的吼声奔涌而来,连喜马德里等群山也被举起作兵器;塔罗迦目睹其冲锋,挺身备战以迎之。
Verse 116
निवृत्तः सहसा पार्थ महागज इवोन्नदन् । स वज्रमुष्टि नाहत्य भुजे शक्रमपातयत्
随即塔罗迦骤然回身,吼如巨象;以坚若金刚的拳击打因陀罗之臂,使释迦(帝释)坠倒。
Verse 117
दंडं यमादुपादाय मूर्ध्न्याहत्य न्यपातयत् । उरसाहत्य सगदं धनदं भुव्यपातयत्
他夺过阎摩之杖,击其头顶使之仆倒;继而重击持钉锤的财主天(俱毗罗)胸膛,将其掷落于地。
Verse 118
वरुणात्पाशमादाय तेन बद्धा न्यपातयत् । महांकुशेन वायुं च चिरं मूर्ध्नि जघान सः
他取来伐楼那之绳索,以之缚住并掷倒;又执巨钩,久而久之反复击打风神伐由之首。
Verse 119
फूल्कारैरुद्धतं वह्निं शमयामास तारकः । निरृतिंखड्गमादाय हत्वा तेन न्यपातयत्
塔罗迦以猛烈的气息喷吐,熄灭了炽盛的火焰。继而执起宝剑,以剑斩倒尼利提,将她掷落于地。
Verse 120
शूलैरेव तथा रुद्राः साध्याश्च धनुषार्दिताः । परिघैरेव वसवो मुशलैरेव विश्वकाः
诸鲁陀罗被他们自己的三叉戟击倒;诸萨提耶为自身之弓所伤;诸婆苏被自身之棍棒所击;诸毗湿毗天亦为自身之槌所打——他们举起的兵器尽皆反转,回击其身。
Verse 121
रेणुनाच्छाद्य चंद्रार्कौ वल्मीकस्थाविवेक्षितौ । महोग्राश्चौषधीस्तालैरश्विभ्यां सोऽभ्यवर्तयत्
他以尘土遮蔽月与日,使之宛如沉没于蚁丘之中。又以棕榈杖击退那极其灵验的疗愈灵药,使其远离双阿湿毗,尽皆驱散。
Verse 122
सविषाश्च कृता नागा निर्विषाः पादकुट्टनैः । पर्वताः पर्वतैरेव निरुच्छ्वासा भृशं कृताः
诸那伽被脚下践踏之击,或被催生毒牙,或被夺去毒性。群山亦以山相撞,重重冲击之下,剧烈震眩,仿佛在战斗的挤压中气息尽绝。
Verse 123
एवं तद्देवसैन्यं च हाहाभूतमचेतनम् । कृत्वा मुहूर्तादाधावच्चक्रपाणिं तमुन्नदन्
于是顷刻之间,他令天军惊惶失措、神智昏乱,齐声呼号“哈!哈!”。继而他放声咆哮,猛然冲向执轮之主(毗湿奴)。
Verse 124
ततश्चांतर्दधे सद्यः प्रहसन्निव केशवः । कुयोगिन इव स्वामी सदा बुद्धिमतां वरः
随即,凯沙瓦刹那间隐没于视野,仿佛含笑——如同真正的导师,令修行失当的瑜伽者难以捉摸;他恒为智者之中最胜者。
Verse 125
अपश्यंस्तारको विष्णुं पुनर्वृषभवा हनम् । आधावत्कुपितो दैत्यो मुष्टिमुद्यम्य वेगतः
不见毗湿奴,塔罗迦又一次冲向那位以公牛为旗的主(湿婆);那愤怒的阿修罗疾驰而来,高举拳头猛扑。
Verse 126
अचिरांशुरिवालक्ष्यो लक्ष्योथ भगवान्हरिः । आबभाषे ततो देवान्बाहुमुद्यम्यचोच्चकैः
随后,圣尊哈利——片刻间如疾光般难以觉察,旋即又显现——举起手臂,高声对诸天说道。
Verse 127
पलायध्वमहो देवाः शक्तिश्चेद्वः पलायितुम् । विमूढा हि वयं सर्वे ये बालवचसागताः
“快逃吧,诸天——若你们尚有逃走之力!诚然我们都已迷惑:竟听从一个孩童之言而来到此处。”
Verse 128
किं न श्रुतः पुरा गीतः श्लोकः स्वायंभुवेन यः । यथा बालेषु निक्षिप्ताः स्त्रीषु षंडितकेषु च । अपस्मारीषु चैवापि सर्वे ते संशयं गताः
“你们难道没听过斯瓦扬布瓦(摩奴)昔日所唱的偈颂吗?‘若将事务托付给孩童、妇人、阉人,乃至癫痫之人,则众人皆陷于疑惧与纷乱。’”
Verse 129
प्रत्यक्षं तदिदं सर्वमाधुना चात्र दृस्यते
如今在此,一切皆在我们眼前分明显现,亲见无疑。
Verse 130
अज्ञासिष्म पुरैवैतद्रुद्रभक्तं न हंत्यसौ । यत्प्रतिज्ञां नाकरिष्यन्न स्यान्नः कदनं महत्
我们早已知晓:他不杀鲁陀罗的奉者。若非他立下那誓言,我们也不会遭此大劫与惨祸。
Verse 131
अथैष यदि दैत्येंद्रं न निहंति कुबुद्धिमान् । मा भयं वो महाभागा निहनिष्यामि वो रिपून्
如今若这愚昧之人不去诛灭魔众之主,诸位有福的天神莫要畏惧;我必为你们歼除仇敌。
Verse 132
अद्य मे विपुलं बाह्वोर्बलं पश्यत दैत्याधमं नाशयामि मुष्टिनैकेन पश्यत
今日且看我双臂广大之力!看吧——我以一拳便灭那最卑劣的魔类;看吧!
Verse 133
मया हि दक्षिणो बाहुर्दत्तश्च भवतां सदा । रिपून्वा निहनिष्यामि सत्यं तत्परिपालये
诚然,我常以右臂为汝等作誓与凭信。我必定击灭诸敌——此为真实;我将守护此誓愿。
Verse 134
येंऽबरे ये च पाताले भुवि ये च महासुराः । क्षणात्तान्नासयिष्यामि महावातो घनानिव
无论那些大阿修罗在天上、在地下的帕塔拉,还是在大地之上,我都将在刹那间灭尽他们——如同狂风吹散群云。
Verse 135
एवमुक्ता जगन्नाथो मुष्टिमुद्यम्य दक्षिणम् । निरायुधस्तार्क्ष्यपृष्ठादवप्लुत्याभ्यधावत
言罢,宇宙之主举起右拳;不持兵刃,从迦楼罗背上跃下,疾冲向前。
Verse 136
तस्मिन्धावति गोविंदे चचाल भुवनत्रयम् । विमूर्छितमभूद्विश्वं देवा भीतिं परां ययुः
当戈文达冲锋之时,三界震颤;宇宙仿佛昏厥,诸天陷入极度恐惧。
Verse 137
धावतश्चापि कल्पांतं रुद्रकल्पस्य तस्य याः । मुखात्समुद्यजुर्ज्वालास्ताबिः खर्वशतं हतम्
他奔袭之时,怒势如劫末之威——如同一周期终结时的鲁陀罗——烈焰自其口中喷涌;凭那火焰,数百“卡尔瓦”尽被焚灭。
Verse 138
ततोंऽतरिक्षे वाचश्च प्रोचुः सिद्धाः स्वयं तदा । जहि कोपं वासुदेव त्वयि क्रुद्धे क्व वै जगत्
随即,空中传来言语;诸位悉达亲自说道:“舍弃你的忿怒吧,婆苏提婆;若你震怒,这世界又将安住于何处?”
Verse 139
अनादृत्येव तद्वाक्यं ब्रुवन्नान्यत्करोम्यहम् । आह्वयंश्च महादैत्यं क्रुद्धो हरिरधावत
他不顾那番言辞,宣告道:“我别无他为。”随即呼唤那大阿修罗,忿怒的诃利疾驰向前。
Verse 140
उवाच वाचं साधूंश्च यत्नात्पालयतां फलम् । दुष्टान्विनिघ्नतां चैव तत्फलं मम जायताम्
他说:“谨慎护持善者者,其报当归于彼;而诛灭恶者者——愿那同一果报归于我。”
Verse 141
अथापश्यन्महासेनो रुद्रं यांतं च तारकम् । तारकं चान्वधावन्तं पुरामपुरुषं हरिम्
随后,摩诃军见鲁陀罗前进,也见到塔罗迦;又见诃利——太初之人——追逐塔罗迦。
Verse 142
जगच्च क्षुब्धमत्यर्थं स्वां प्रतिज्ञां पुरा कृताम् । पश्चिमां प्रतिलंबंतं भास्करं चापि लोहितम्
而世界剧烈震荡;(他看见)自己往昔所立的誓愿,又见太阳亦呈赤红,低垂于西方。
Verse 143
आकाशवाणीं श्रृण्वंश्च किं स्कन्द त्वं विषीदसी । पश्चात्तापो यदि भवेत्कृत्वा ब्रह्मवधं त्वयि
“纵已听闻自空中传来的天启之声,你为何仍忧伤,哦,斯坎陀?若你在犯下杀婆罗门之罪后生起悔恨,(当以此悔心作忏悔与赎罪)。 ”
Verse 144
स्थापयेर्लिगमीशस्य मोक्षो हत्याशतैरपि । आविवेश महाक्रोधं दिधक्षुरिव मेदिनीम्
若建立主宰伊湿伐罗之灵伽,即便犯下百般杀业,亦可得解脱。然而一股大怒侵入其心,仿佛欲焚尽大地。
Verse 145
अथोत्प्लुत्य मयूरात्स प्रहसन्निव केशवम् । बाहुभ्यामप्युपादाय प्रोवाच भवनंदनः
随后他自孔雀背上一跃而下,似笑非笑地对着凯舍瓦;又以双臂将凯舍瓦托起,婆伐(湿婆)之子便开口说道。
Verse 146
जानामि त्वामहं विष्णो महाबुद्धिपराक्रमम् । भूतभव्यविष्यांश्च दैत्यान्हंस्यपि हूंकृतैः
我知汝,噢毗湿奴,智慧广大、勇力无双。即使过去、未来与一切时际的代底耶诸魔,你也能仅凭一声威令之吼将其摧灭。
Verse 147
त्वमेव हंता दैत्यानां देवानां परिपालकः । धर्मसंस्थापकश्च त्वमेव ते रचितोंऽजलिः
唯汝是诛灭代底耶者,亦唯汝是护持诸天者。唯汝建立达摩;因此我以合掌恭敬(añjali)奉献于汝。
Verse 148
क्षणार्धं पश्य मे वीर्यं भास्करो लोहितायते । एवं प्रणम्य स्कन्देन वासुदेवः प्रसादितः
“仅半刹那,且观我威力——太阳亦化绯红!”如是礼拜之后,斯甘达令婆苏提婆心生欢喜。
Verse 149
विरोषोऽभूत्तमालिंग्य वचनं केशवोऽब्रवीत् । सनाथस्त्वद्य धर्मोऽयं सुराश्चैव त्वया गुह
于是,克舍婆欢喜地拥抱他,说道:“今日此法因汝而得护持,噢古诃;诸天亦由汝而安稳无虞。”
Verse 150
स्मरात्मानं यदर्थं त्वमुत्पन्नोऽसि महेश्वरात् । साधूनां पालनार्थाय दुष्टसंहरणाय च । सुरविप्रकृते जन्म जीवितं च महात्मनाम्
当忆念汝自身之本愿——汝何以由大自在天而生:为护持善人,亦为摧灭恶徒。为诸天与婆罗门之安乐,伟大灵者乃至其出生与生命,皆为此而承担。
Verse 151
रुद्रस्य देव्या गंगायाः कृत्तिकानां च तेजसा । स्वाहावह्नेश्च जातस्त्वं तत्तेजः सफलीकुरु । साधूनां च कृते यस्य धनं वीर्यं च संपदः
汝由鲁陀罗、圣母恒河、诸克利提迦,以及娑婆诃与阿耆尼之光辉而生;当使此光明结成果实。为诸善人之缘故,愿财富、勇力与昌盛皆得其真实归趣。
Verse 152
सफलं तस्य तत्सर्वं नान्यथा रुद्रनंदन
噢鲁陀罗之子啊,唯如此,一切方能对其真正结果;绝无他途。
Verse 153
अद्य धर्मश्च देवाश्च गावः साध्याश्च ब्राह्मणाः । नंदंतु तव वीर्येण प्रदर्शय निजं बलम्
今日,愿正法、诸天、群牛、萨提耶众与婆罗门,皆因汝之英勇而欢喜;显现汝自身之威力。
Verse 154
स्कन्द उवाच । या गतिः शिवत्यागेन त्वत्त्यागेन च केशव । तां गतिं प्राप्नुयां क्षिप्रं हन्मि चेन्न हि तारकम्
斯坎达说道:噢,凯沙瓦,若我确实不能诛灭塔拉卡,愿我迅速遭受那因舍弃湿婆、亦舍弃于你而得的同一厄运。
Verse 155
या गतिः श्रुतित्यागेन साध्वी भार्यातिपीडनात् । साधूनां च परित्यागाद्वृथा जीवितसाधनात् । निष्ठुरस्य गतिर्या च तां गतिं यामि केशव
噢,凯沙瓦,若我未能成就此任,愿我堕入同一结局:舍弃《闻启》(Śruti)者之报,应受重压贤妻者之报,遗弃圣者之报,徒然营生者之报,以及一切残忍之人所当得的报应。
Verse 156
इत्युक्ते सुमहान्नादः संप्रजज्ञे दिवौकसाम् । प्रशशंसुर्गुहं केचित्केचिन्नारायणं प्रभुम्
此言既出,天界诸神之间顿起震天的欢呼咆哮;有人赞颂古诃,有人赞颂主宰那罗延那。
Verse 157
ततस्तार्क्षअयं समारुद्य हरिस्तस्मिन्महारणे । ताम्रचूडं महासेन स्तारकं चाप्यधावताम्
于是,在那场大战中,哈利乘上塔尔克夏(迦楼罗)。大军统帅摩诃塞那冲向塔摩罗朱达,也冲向塔拉卡。
Verse 158
लोहितांबरसंवीतो लोहितस्रग्विभूषणः । लोहिताक्षो महाबाहुर्हिरण्यकवचः प्रभुः
那位威严的战士披着赤红衣裳,佩戴赤红花鬘,双目殷红,臂力雄伟,并着金色甲胄,光辉赫然。
Verse 159
भुजेन तोलयञ्छक्तिं सर्वभूतानि कम्पयन् । प्राप्य तं तारकं प्राह महासेनो हसन्निव
他将长枪平衡于臂上,震动一切众生;摩诃军(Mahāsena)抵达塔罗迦(Tāraka),仿佛含笑而语。
Verse 160
तिष्ठतिष्ठ सुदुर्बुद्धे जीवितं ते मयि स्थितम् । सुहृष्टः क्रियतां लोको दुर्लभः सर्वसिद्धिदः
“站住,站住,恶慧之徒——你的性命系于我手。令心欢喜;当使此世归于正道,虽难得,却能赐予一切成就。”
Verse 161
यत्ते सुनिष्ठुरत्वं च धर्मे देवेषु गोषु च । तस्य ते प्रहराम्यद्य स्मर शस्त्रं सुशिक्षितम्
“因你对达摩、对诸天、对圣牛的极端残酷——今日我必击你。纵然你武器娴熟,也当记起并使出来吧。”
Verse 162
एवमुक्ते गुहेनाथ निवृत्तस्यास्य भारत । तारकस्य शिरोदेशात्कापि नारी विनिर्ययौ
婆罗多啊,当古诃如此说罢,而塔罗迦退却之时,从塔罗迦头部之处竟现出一位女子。
Verse 163
तेजसा भासयंती तमध ऊर्ध्वं दिशो दश । दृष्ट्वा नारीं गुहः प्राह कासि कस्माच्च निर्गता
她以光辉照耀,上下十方皆被映明。古诃(鸠摩罗)见此女子,便问:“你是谁?从何处现出?”
Verse 164
नार्युवाच । अहं शक्तिर्गुहाख्याता भूतलेषु सदा स्थिता । अनेन दैत्यराजेन महता तपसार्ज्जिता
那女子说道:“我是沙克蒂(Śakti),被称为‘古哈(Guha)之力’,常驻于世间。这位阿修罗王通过伟大的苦行赢得了我。”
Verse 165
सुरेषु सर्वेषु वसामि चाहं विप्रेषु शास्त्रार्थरतेषु चाहम् । साध्वीषु नारीषु तथा वसामि विना गुणान्नास्मि वसामि कुत्रचित्
“我居住在众神之中;我也居住在专心研习经典的婆罗门之中。同样,我居住在贞洁的女子之中。但若没有美德,我便无处栖身。”
Verse 166
तदस्य पुण्यसंघस्य संप्राप्तोद्यावधिर्गुह । तदेनं त्यज्य यास्यामि जह्येनं विश्वहेतवे
“噢 古哈(Guha),支撑他的累积功德已达极限。因此,我将抛弃他离去。为了世界的福祉,杀了他吧。”
Verse 167
तस्यां ततो निर्गतायां दैत्यशीर्षं व्यकम्पयत् । कंपितं चास्य तद्देहं गतवीर्योऽभवत्क्षणात्
"当她离开他时,那个阿修罗的头开始颤抖;他的身体也随之摇晃,刹那间,他的英勇和力量消逝殆尽。"
Verse 168
एतस्मिन्नंतरे शक्तिं सोऽक्षिपद्गिरिजात्मजः । उल्काज्वाला विमुञ्चंतीमतिसूर्याग्निसप्रभाम्
"就在那一刻,吉里佳(Girijā)之子(库玛拉)投掷了他的沙克蒂(长矛),它像流星的火焰一样燃烧,光芒四射,仿佛超越了太阳和火焰。"
Verse 169
कल्पांभोधिसमुन्नादां दिधक्षंतीं जगद्यथा । तारकस्यांतकालाय अभाग्यस्य दशामिव
她轰鸣如劫末之海,仿佛将焚尽世界而来——她正是为塔罗迦所注定的末日,宛如不幸自身的终极境况。
Verse 170
दारणीं पर्वतानां च सर्वसत्त्वबलाधिकाम् । उत्क्षिप्य तां विनद्योच्चैरमुञ्चत्कुपितो गुहः
那柄神枪能裂开群山,威力胜过一切众生——愤怒的古诃举起它,伴随震天长啸将其掷出。
Verse 171
धर्मश्चेद्बलवांल्लोके धर्मो जयति चेत्सदा । तेन सत्येन दैत्योयं प्रलयं यात्वितीरयन्
“若正法(dharma)在世间确有大力,若正法恒常得胜——凭此真谛,愿此达伊提亚走向毁灭。”他如是宣告。
Verse 172
सा कुमारभुजोत्सृष्टा दुर्निवार्या दुरासदा । विभेद हृदयं चास्य भित्त्वा च धरणिं गता
那股力量自鸠摩罗之臂放出,势不可挡、不可逼近;它劈裂其心,穿透之后,没入大地。
Verse 173
निःसृत्य जलकल्लोलपूर्विका स्कंदमाययौ । स च संताडितः शक्त्या विभिन्नहृदयोसुरः । नादयन्वसुधां सर्वां पपातायोमुखो मृतः
阿约穆迦如水浪翻涌般冲出,直扑斯坎达;然而被神圣之枪“沙克蒂”(Śakti)击中,阿修罗之心被劈裂。其吼声震动大地,阿约穆迦铁面朝下倒地而亡。
Verse 174
एवं प्रताप्य त्रैलोक्यं निर्जित्य बहुशः सुरान् । महारणे कुमारेण निहतः पार्थ तारकः
帕尔塔啊!就这样,塔拉卡在灼烧三界并屡次战胜众神之后,终于在大战中被库玛拉(鸠摩罗)诛杀。
Verse 175
एतस्मिन्निहते दैत्ये प्रहर्षं विश्वमाययौ
当那个阿修罗被诛杀时,整个世界都充满了喜悦。
Verse 176
ववुर्वातास्तथा पुण्याः सुप्रभोभूद्दिवाकरः । जज्वलुश्चाग्नयः शांताः शांता दिग्जनितस्वनाः
吉祥的风开始吹拂,太阳散发出灿烂的光辉。火焰平静地燃烧,四方变得安宁,喧嚣声也就此平息。
Verse 177
ततः पुनः स्कंदमाह प्रहृष्टः केशवोऽरिहा । स्कंदस्कंद महाबाहो बाणोनाम बलात्मजः
随后,诛灭敌人的凯沙瓦(毗湿奴)满怀喜悦地再次对斯坎达说道:“斯坎达,斯坎达,臂力强大的英雄啊——有一个名叫巴纳的恶魔,他是巴拉之子。”
Verse 178
क्रौंचपर्वतमादाय देवसंघान्प्रबाधते । सोऽधुना ते भयाद्वीर पलायित्वा नगं गतः । जहि तं पापसंकल्पं क्रौंचस्थं शक्तिवेगतः
他盘踞在克劳恩查(Krauñca)山中,折磨着众神。英雄啊,如今他因惧怕你而逃往那座山。请速用你神矛的威力,诛杀那个藏身于克劳恩查山的邪恶之徒。
Verse 179
ततः क्रौंचं महातेजा नानाव्यालविनादितम् । शक्त्या बिभेद बहुभिर्वृक्षैर्जीवैश्च संकुलम्
于是,光辉炽盛的圣童军陀(Skanda)以神枪“Śakti”劈裂鸠槃遮山(Krauñca);那山回响着百般猛兽之声,林木繁密,众生充塞其间。
Verse 180
तत्र व्यालसहस्राणि दैत्यकोट्ययुतं तथा । ददाह बाणां च गिरं भित्त्वा शक्तिर्महारवा
在那里,神枪“Śakti”轰然长啸,既已贯穿山体,便焚尽千千猛兽与数以千万计的阿修罗(daitya);并且连同巴那(Bāṇa)及其山上堡垒也一并烧灭。
Verse 181
अद्यापि छिद्रं तत्पार्थ क्रौंचस्य परिवर्तते
噢,帕尔塔(Pārtha)啊,直到今日,鸠槃遮山上那道裂隙仍然留存。
Verse 182
येन हंसाश्च क्रौंचाश्च मानसाय प्रयांति च । हत्वा बाणं महाशक्तिः पुनः स्कंदं समागता । प्रत्यायाति मनः साधोराहृतं प्रहितं तथा
正由那条通道,天鹅与鸠槃遮鸟飞往摩那萨(Mānasā,玛那萨罗瓦湖)。诛灭巴那之后,伟大的神枪又回到军陀身边——正如圣者之心,既已放出并得其所求,终将回归本源。
Verse 183
ततो हरींद्रप्रमुखाः प्रतुष्टुवुर्ननृतुश्च रंभाप्रमुखा वरांगनाः । वाद्यानि सर्वाणि च वादयंतस्तं साधुसाध्वित्यमरा जगुर्भुशम्
于是,哈利(毗湿奴)、因陀罗及诸天众齐声赞颂他;以蓝婆(Rambhā)为首的天女起舞。百般乐器齐奏之时,不死者高声歌唱:“善哉!善哉!”