Adhyaya 46
Mahesvara KhandaKaumarika KhandaAdhyaya 46

Adhyaya 46

本章以圣地叙事赞颂巴胡达迦圣池(Bahūdaka-kuṇḍa)的功德,并开示三德(guṇa)、业(karma)与离贪(vairāgya)之道。难陀跋陀罗在巴胡达迦圣池岸边礼拜迦毗勒湿伐罗林伽(Kapileśvara-liṅga)后,发出对轮回似乎不公的诘问:为何清净、无执的主会创造充满苦痛、离散与命运不均(天界/地狱)的世界。 一位患病的七岁孩童到来,以伦理心理之理重释此疑:身苦与心苦皆有可辨之因;心苦之根在“sneha”(爱著、黏着),由此生起贪染(rāga)、欲(kāma)、嗔(krodha)与渴爱(tṛṣṇā)。当难陀跋陀罗问如何舍我慢、舍欲嗔而仍能奉行法(dharma)时,孩童阐述近于数论(Sāṃkhya)的宇宙论:自性(prakṛti)与灵我(puruṣa)、三德之显现、我执(ahaṃkāra)、微细境(tanmātra)与诸根(indriya)的生起,并强调以纯德(sattva)调炼激德(rajas)与暗德(tamas)的实践要义。 关于“信徒为何仍受苦”的问题,孩童说明礼拜之净与不净、业果成熟之必然,以及神恩如何使业报在多生中得以集中受用或迅速耗尽。最后他揭示自身前世因缘:曾为伪善说法者,堕地狱受罚,历经多种生类(yoni)转生,复蒙毗耶娑(Vyāsa)以娑罗湿伐多真言(Sārasvata mantra)相助;并制定仪轨:七日斋戒、诵念日神、于所名圣地火葬、沉骨入水、并在巴胡达迦安置婆斯迦罗(日神)圣像。功德品列举沐浴、供献、仪式、布施施食、妇女待客、修瑜伽与恭敬谛听之福报,终以趋向解脱的许诺作结。

Shlokas

Verse 1

नारद उवाच । बहूदकस्य कुंडस्य तीरस्थं लिंगमुत्तमम् । कपिलेश्वरमभ्यर्च्य नंदभद्रस्ततः सुधी

那罗陀说:智者南陀跋陀罗礼拜供奉了位于巴胡达迦池岸的至上林伽——迦毗利湿伐罗,随后(继续前行)。

Verse 2

प्रणम्य चाग्रतस्तस्थौ प्रबद्धकरसंपुटः । संसारचरितैः किंचिद्द्रुःखी गाथां व्यगायत

礼拜之后,他合掌恭敬,立于(主)前。因世间轮回之行略感忧苦,他唱出一首祈求的颂歌。

Verse 3

स्रष्टारमस्य जगतश्चेत्पश्यामि सदाशिवम् । नानापृच्छाभिरथ तं कुर्यां नाथं विलज्जितम्

若我得以瞻见萨达湿婆——此世界的创造者——我便会以种种问题追问他,竟至使那位主宰也感到难堪。

Verse 4

अपूर्यमाणं तव किं जगत्संसृजनं विना । निरीह बहुधा यत्ते सृष्टं भार्गववज्जगत्

若你的世界从不“欠缺”、无需填补圆满,又何必创造世间?噢,无欲之主,你为何将此宇宙塑成种种形相——如同传说归于婆尔伽瓦(Bhārgava)的造作?

Verse 5

सचेतनेन शुद्धेन रागादिरहितेन च । अथ कस्मादात्मसदृशं न सृष्टं निर्मितं जडम्

你具觉知、清净,远离贪染等垢;那么为何不创造与自性相似之物?为何反而造作这无知无觉的惰性世界?

Verse 6

निर्वैरेण समेनाथ सुखदुःखभवाभवैः । ब्रह्मादिकीटपर्यन्तं किमेव क्लिश्यते जगत्

噢主宰,你无怨无敌,对一切平等;然而因乐与苦、生与不生,何以世间受此煎迫——自梵天Brahmā以至最微小的虫蚁?

Verse 7

कांश्चित्स्वर्गेथ नरके पातयंस्त्वं सदाशिव । किं फलं समवाप्नोषि किमेवं कुरुषे वद

噢常住吉祥者(Sadāśiva),你令一些人堕入天界,另一些人坠入地狱;你得何果报?为何如此作为?请告知我。

Verse 8

इष्टैः पुत्रादिभिर्नाथ वियुक्ता मानवा ह्यमी । क्रंदंति करुणासार किं घृणापि भवेन्न ते

噢主宰——慈悲之精髓——这些人离散于所爱者,如子女与亲族,在苦难中哀号哭泣。难道你心中连一星半点的怜悯也不能生起吗?

Verse 9

अतीव नोचितं सर्वमेतदीश्वर सर्वथा । यत्ते भक्ताः समं पापैर्मज्जंते दुःखसागरे

噢,主宰伊湿伐罗,这实在全然不当——愿祢的奉献者竟与罪人一同沉没于忧苦之海。

Verse 10

एवंविधेन संसारचारित्रेण विमोहिताः । स्थानां तरं न यास्यामि भोक्ष्ये पास्यामि नोदकम्

被这般轮回世事的行径所迷惑,我不再前往他处;我既不进食,也不饮水。

Verse 11

मरणांतमेव यास्यामि स्थास्ये संचिंतयन्नदः । स एवं विमृशन्नेव नंदभद्रः स्वयं स्थितः

“我只走到死亡为止;我将留在此处。”他如此思量。这样反复省察,难陀跋陀罗独自站在那里。

Verse 12

ततश्चतुर्थे दिवसे बहूकतटे शुभे । कश्चिद्बालः सप्तवर्षः पीडापीडित आययौ

随后在第四日,于吉祥的婆呼迦河岸,有一名七岁男童来到——被沉重的痛苦所折磨。

Verse 13

कृशोतीव गलत्कुष्ठी प्रमुह्यंश्च पदेपेद । नंदभद्रमुवाचेदं कृच्छ्रात्संस्तभ्य बालकः

那孩子极其消瘦,麻风溃烂流脓,步步昏厥欲倒;他艰难支撑住身子,对难陀跋陀罗说出这些话。

Verse 14

अहो सुरूपसर्वांग कस्माद्दुःखी भवानपि । ततोस्य कारणं सर्वं व्याचष्ट नंदभद्रकः

“啊!噫,形体端严、肢体匀称者——你为何也如此忧苦?”于是难陀跋陀罗将自己苦恼的缘由尽皆陈说。

Verse 15

श्रुत्वा तत्कारणं सर्वं बालो दीनमना ब्रवीत् । अहो हा कष्टमत्युग्रं बुधानां यदबुद्धिता

听罢全部缘由,少年心中沉重,说道:“哀哉!何其惨痛——连智者也会堕入愚迷!”

Verse 16

संपूर्णोद्रियगात्रा यन्मर्तुमिच्छंति वै वृथा । मुहूर्ताद्ध्यत्र खट्वांगो मोक्षमार्गमुपागतः

纵然诸根完具、四肢无缺,人们仍妄求一死——实在徒然。因为就在此处,佉吒婆昂伽仅于刹那便得入解脱之道。

Verse 17

तदहो भारतं खंडं सत्यायुषि त्यजेद्धि कः । अहमेव दृढो मन्ये पितृभ्यां यो विवर्जितः

啊,那么——当真实的寿命尚在之时,谁会舍弃婆罗多之地?唯我一人,自以为坚定——因我已失双亲。

Verse 18

अशक्तश्चलितुं वापि मर्तुमिच्छामि नापि च । सर्वे लाभाः सातिमाना इति सत्या बतश्रुतिः

“我连行动的力气都没有;却也并不想死。哀哉——古训诚然不虚:一切所得,皆夹带其自身的傲慢与苦痛之重。”

Verse 19

संतोषोऽप्युचितस्तुभ्यं देहं यस्य दृढं त्विदम् । शरीरं नीरुजं चेन्मे भवेदपि कथंचन

知足确实适合于你——你的身躯坚固稳健。只愿不知以何法,我这身体也能脱离诸病!

Verse 20

क्षणेक्षणे च तत्कुर्यां भुज्यते यद्युगेयुगे । इंद्रियाणि वशे यस्य शरीरं च दृढं भवेत्

刹那复刹那,我愿行那使人世世得享之道——只要我的诸根得以调伏,身躯亦复坚固。

Verse 21

सोऽप्यन्यदिच्छते चेच्च कोऽन्यस्तस्मादचेतनः । शोकस्थानसहस्राणि हर्षस्थानशतानि च

纵使如此之人仍欲他求,谁还能比他更无明?悲苦之缘有千千,欢喜之缘不过百百。

Verse 22

दिवसे दिवसे मूढमावशंति न पंडितम् । न हि ज्ञानविरुद्धेषु बह्वबपायेषु कर्मसु

日复一日,灾厄压伏愚人,不压伏智者——因为智者不作违背正知、且多险患之业。

Verse 23

मूलघातिषु सज्जंते बुद्धिमंतो भवद्विधाः । अष्टांगां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम

具慧之人——如汝等——致力于击中(苦之)根本。他们宣说八支辨慧,由此一切真实之善皆得护持而不受损。

Verse 24

श्रुतिस्मृत्यविरुद्धा सा बुद्धिस्त्वय्यस्ति निर्मला । अथ कृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च

你具足清净的辨慧,不违背《闻传》(Śruti)与《忆传》(Smṛti)。在艰难、险境以及亲族遭逢灾厄之时,此慧亦能坚定不移。

Verse 25

शारीरमानसैर्दुःखैर्न सीदंति भवद्विधाः । नाप्राप्यमभिवांछंति नष्टं नेच्छंति शोचितुम्

如你这般的人,不为身苦与心苦所压倒;不贪求不可得之物,也不执意为已失之事而悲恸。

Verse 26

आपत्सु च न मुह्यंति नराः पंडितबुद्धयः । मनोदेहसमुत्थाभ्यां दुःखाब्यामर्पितं जगत्

遭逢灾难之时,具学识之慧者不致迷乱。世间为两类苦所逼迫:由心而起之苦,与由身而起之苦。

Verse 27

तयोर्व्याससमासाभ्यां शमोपायमिमं श्रृणु । व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविसर्जनात्

今当聆听平息此二苦之法,既详说亦略说:远离招致疾病的恶触,依所教诫舍弃劳顿及其他加重之因。

Verse 28

चतुर्भिः कारणैर्दुःखं शीरिरं मानसं च यत् । मानसं चाप्यप्रियस्य संयोगः प्रियवर्जनम्

苦有二种:身苦与心苦,而其生起有四因。其中心苦,实由与不悦之境相会,以及与所爱之境分离而来。

Verse 29

द्विप्रकारं महाकष्टं द्वयोरेतदुदाहृतम् । मानसेन हि दुःखैन शरीरमुपतप्यते

此大苦患被宣说为二种。由心中忧苦,身亦自被灼热而受折磨。

Verse 30

अयःपिंडेन तप्तेन कुंभसंस्थमिवोदकम् । तदाशु प्रति काराच्च सततं च विवर्जनात्

如壶中之水为赤热铁块所炙,若速施对治,并恒常远离其因,便能迅疾得解。

Verse 31

व्याधेराधेश्च प्रशमः क्रियायोगद्वयेन तु । मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवांबुना

疾病与内忧之止息,须由二重修持而成。故当以智慧安抚其心,如以水灭火。

Verse 32

प्रशांते मानसे ह्यस्य शारीरमुपशाम्ति । मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते

当其心寂静时,身之苦恼亦随之止息。并可了知:心苦之根,乃执著之爱(sneha)。

Verse 33

स्नेहाच्च सज्जनो नित्यं जन्तुर्दुःखमुपैति च । स्नेहमूलानि दुःखानि स्नेहजानि भायानि च

又因执著之爱,即便善人亦常堕于忧苦。诸苦以执著为根,诸惧亦由执著而生。

Verse 34

शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते

忧悲与欢喜,以及劳顿与辛苦——一切皆由执著之爱而起。

Verse 35

स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा । अश्रेयस्कावुभावतौ पूर्वस्तत्र गुरुः स्मृतः

由执著而生诸根染著,亦生对境界的贪欲。二者皆为不善之因;而于此事,先者——执著——被忆为主要的煽动者。

Verse 36

त्यागी तस्मान्न दुःखी स्यान्नर्वैरो निरवग्रहः । अत्यागी जन्ममरणे प्राप्नोतीह पुनःपुनः

因此,行舍离者不为忧苦——无怨无仇,亦无执取;而不舍离者,在此世间反复遭遇生与死。

Verse 37

तस्मात्स्नेहं न लिप्सेन मित्रेभ्यो धनसंचयात् । स्वशरीरसमुत्थं च ज्ञानेन विनिर्वतयेत्

因此,不应贪求执著——无论源于朋友,或源于聚敛财物。凡由自身之躯所生之系缚与苦恼,当以智慧之知而除遣。

Verse 38

ज्ञानान्वितेषु सिद्धेषु शास्त्रूज्ञेषु कृतात्मसु । न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्

对于诸成就者——具足正知,通达圣典(śāstra),自制其心——执著不复黏附;如水在莲叶上滑落。

Verse 39

रागाभिभूतः पुरुषः कामेन परिकृष्यते । इच्छा संजायते चास्य ततस्तृष्णा प्रवर्धते

当人被贪染之情(rāga)所压倒时,欲望(kāma)牵引他前行。由此生起意求(icchā),继而渴爱(tṛṣṇā)渐渐增长。

Verse 40

तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी मता । अधर्मबहुला चैव घोररूपानुबंधिनी

渴爱(tṛṣṇā)被认为是一切罪中最罪恶者,恒常引生不安与忧惧。它充满非正法(adharma),并伴随可怖的后果。

Verse 41

या दुस्त्यजा दुर्मतिभिर्या न जीर्यतः । यासौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखम्

那渴爱(tṛṣṇā)为迷妄者所难舍,永不衰老,且如断命之疾;舍离此渴爱者,便得安乐。

Verse 42

अनाद्यंता तु सा तृष्णा ह्यंतर्देहगता नृणाम् । विनाशयति संभूता लोहं लोहमलो यथा

那渴爱(tṛṣṇā)无始无终,潜居于人身之内;一旦生起,便毁坏其人,如锈蚀吞噬铁一般。

Verse 43

यथैवैधः समुत्थेन वह्निना नाशमृच्छति । तथाऽकृतात्मा लोबेन स्वोत्पन्नेन विनश्यति

正如柴薪被从柴薪中生起的火焰焚毁,同样,未调伏其心者也被自身生起的贪欲(lobha)所毁灭。

Verse 44

तस्माल्लोभो न कर्तव्यः शरीरे चात्मबंधुषु । प्राप्तेषु व न हृष्येत नाशो वापि न शोचयेत्

因此,不应滋长贪欲——无论对自身之身,还是对所谓“自己的人”。得之不应狂喜,失之亦不应哀伤。

Verse 45

नंदभद्र उवाच । अहो बाल न बालस्त्वं मतो मे त्वां नमाम्यहम् । त्वद्वाक्यैरतितृप्तोऽहं त्वां तु प्रक्ष्यामि किंचन

难陀跋陀罗说道:“啊,孩子——然而在我看来,你并非孩童。我向你顶礼。你的言语使我满足无量,我还想再请问一事。”

Verse 46

कामक्रोधावहंकारमिंद्रियाणि च मानवाः । निंदंति तत्र मे नित्यं विवक्षेयं प्रजायते

世人谴责欲望、嗔怒、我慢与诸根;然而在我心中,正关于这些事,常常生起一股欲言之迫切。

Verse 47

अहमेष ममेदं च कार्यमीदृशकस्त्वहम् । इत्यादि चात्मविज्ञानमहंकार इति स्मृतः

“我即是此;此为我有;此事当作;我乃如此之人”——这类指向自我的分别念,被称为我执(ahaṃkāra)。

Verse 48

परिहार्यः य चेत्तं च विनोन्मत्तः प्रकीर्यते । कामोऽभिलाष इत्युक्तः सं चेत्पुंसा विवर्ज्यते

那种心念之冲动,一经触发便使心神散乱、躁动不安者,应当远离。此名为“欲”(kāma)——贪求与渴望——求善之人当舍离之。

Verse 49

कथं स्वर्गो मुमुक्षा वा साध्यते दृषदा यथा । क्रोधो वा यदि संत्याज्यस्ततः शत्रुक्षयः कथम्

天界——乃至对解脱(mokṣa)的渴慕——怎能像用一块石头那样轻易成就?若愤怒确须舍弃,那么又如何达成灭除怨敌之事?

Verse 50

बाह्यानामांतराणां वा विना तं तृणवद्विदुः । इंद्रियाणि निगृह्यैव दुष्टानीति निपीडयेत्

若不降伏那“内在之要”,则外在与内在诸法皆如稻草般无价值。是故当摄持诸根,镇压那些邪悖者——即不驯的感官之力。

Verse 51

कथं स्याद्धर्मश्रवणं कथं वा जीवनं भवेत् । एतस्मिन्मे मनो विद्धंखिद्यतेऽज्ञानसंकटे

如何才能听闻正法(dharma),生命又如何得以维系?于此,我的心如受创伤,在无明的险恶丛林中受苦。

Verse 52

तथा कस्मादिदं सृष्टं जडं विश्वं चिदात्मना । एवं यद्बहुधा क्लेशः पीड्यते हा कुतस्त्विदम्

更进一步——为何这迟钝的宇宙竟由觉知之自我(真我)所造?为何苦恼以种种形态加诸其上——唉,这一切究竟从何而起?

Verse 53

बाल उवाच । सम्यगेतद्यथा पृष्टं यत्र मुह्यंति जंतवः । श्रृण्वेकाग्रमना भूत्वा ज्ञातं द्वैपायनान्मया

巴罗(Bāla)说道:你问得正当——众生正是在此处迷惑。请一心谛听;此理我从岛生者(Dvaipāyana,毗耶娑)处得知。

Verse 54

प्रकृतिः पुरुषश्चैव अनादी श्रृणुमः पुरा । साधर्म्येणावतिष्ठेते सृष्टेः प्रागजरामरौ

普拉克里蒂与普鲁沙确实无始——自古以来我们如是听闻。于造化未起之前,二者同住于一体相应之境,皆不老不死。

Verse 55

ततः कालस्वबावाभ्यां प्रेरिता प्रकृतिः पुरा । पुंसः संयोगमैच्छत्सा तदभावात्प्रकुप्यत

随后在久远之时,普拉克里蒂受“时”(迦罗)与自性所驱,渴望与普鲁沙相合;因未得其合,遂起扰动不安。

Verse 56

ततस्तमोमयी सा च लीलया देववीक्षिता । राजसी समभूद्दूष्टा सात्त्विकी समजायत

其后,她本为昏暗之性(怛摩所成),被神明以神圣游戏之意轻轻一瞥;遂成罗阇之动,躁扰而染垢,而萨埵之清明亦随之显现。

Verse 57

एवं त्रिगुणतां याता प्रकृतिर्देवदर्शनात् । तां समास्थाय परमस्त्रिमूर्तिः समजायत

如是,普拉克里蒂因神明之观照(目光)而得三德(triguṇa)之位。以她为依止,至上的三相神(Trimūrti)遂现于世。

Verse 58

तस्याः प्रोच्चारणार्थं च प्रवृत्तः स्वांशतस्ततः । असूयत महत्तत्त्वं त्रिगुणं तद्विदुर्बुधाः

随后,祂自自身之分而起作用,为使她得以发声显相、呈现于世。由此生出名为“大”(Mahat)之理,具足三德——智者如是宣说。

Verse 59

अहंकार स्ततो जातः सत्त्वराजसतामसः । तमो रजस्त्वमापद्य रजः सत्त्वगुणं नयेत्

随后生起阿含迦罗(我执之理),其性具足萨埵、罗阇、怛摩三德。怛摩趋向罗阇,而罗阇复引向萨埵之德。

Verse 60

शुद्धसत्त्वे ततो मोक्षं प्रवदंति मनीषिणः । तमसो रजसस्त स्मात्संशुद्ध्यर्थं च सर्वशः

贤者宣说:解脱(mokṣa)出自清净之萨埵。故为圆满净化,当以一切方便涤除怛摩与罗阇。

Verse 61

जीवात्मसंज्ञान्स्वीयांशान्व्यभजत्परमेश्वरः । तावंतस्ते च क्षेत्र्ज्ञा देहा यावंत एव हि

至上主帕拉梅湿伐罗将自身之分分配为所谓“吉瓦特曼”(个别我)。有多少“知田者”(kṣetrajña)之灵,即确有多少身躯。

Verse 62

निःसरंति यथा लोहात्तप्तल्लिंगात्स्फुलिंगकाः । तन्मात्रभूतसर्गोयमहंकारात्तु तामसात्

如同火热之铁迸射火花,如是,诸“唯量”(tanmātra)与粗大诸元素之流出,皆由怛摩性之阿含迦罗而起。

Verse 63

इंद्रियाणां सात्त्विकाच्च त्रिगुणानि च तान्यपि । एतैः संसिद्धयंत्रेण सच्चिदानन्दवीक्षणात्

又由萨埵分位生起诸根(indriya:知觉与作用之机能);彼等亦在三德之中运作。凭此成就之修持器具,由观照“萨特—契特—阿难陀”(有—觉—乐),而得圆满。

Verse 64

रजस्तमश्च शोध्यंते सत्त्वेनैव मुमुक्षुभिः । तस्मात्कामं च क्रोधं च इंद्रियाणां प्रवर्तनम्

求解脱者唯以萨埵净化罗阇与昏暗。故当摄持诸根,调伏其趋向欲与嗔的冲动,使之澄明。

Verse 65

अहंकारं च संसेव्य सात्त्विकीं सिद्धिमश्नुते । राजसास्तामसाश्चैव त्याज्याः कामादयस्त्वमी

修习具萨埵之我慢(我执),则得萨埵之成就;而罗阇与昏暗之诸冲动——以欲为首——当舍离。

Verse 66

सात्त्विकाः सर्वदा सेव्याः संसारविजिगीषुभिः । गुणत्रयस्य वक्ष्यामि संक्षेपाल्लक्षणं तव

欲战胜轮回(saṃsāra)者,当恒常修习萨埵之行。今我将略说三种古那(guṇa)的界定之相。

Verse 67

सास्त्राभ्यासस्ततो ज्ञानं शौचमिंद्रियनिग्रहः । धर्मक्रियात्मचिंता च सात्त्विकं गुण लक्षणम्

勤习圣典(śāstra),由此生起智慧(jñāna);清净;摄伏诸根;奉行法(dharma)之业;并观照自我(Ātman)——此皆萨埵古那之相。

Verse 68

अन्यायेन धनादानं तंद्री नास्तिक्यमेव च । क्रौर्यं च याचकाद्यं च तामसं गुणलक्षणम्

以不义之途施财,懈怠昏沉,公然不敬与不信,残酷,以及乞求成习等——此为昏暗(tāmasa)古那之相。

Verse 69

तस्माद्बुद्धिमुकैस्त्वतैः सात्त्विकैर्देवतां भजेत् । राजसैर्मानवत्वं च तामसैः स्थाणुयोनिता

因此,凭借由觉悟之智所引领的萨埵(sattva)性倾向,应当礼敬诸天而得天界之位;凭借罗阇(rajas)性倾向,得为人身;凭借昏暗(tamas)性倾向,则堕入不动众生(sthāṇu)之胎与境。

Verse 70

बुद्ध्याद्यैरेव मुक्तिः स्यादेतैरेव च यातना

正是凭借这些因素——以觉知之智为首——解脱得以生起;而也正是凭借这些同样的因素,痛苦与折磨亦随之生起。

Verse 71

अमीषां चाप्य भावे वै न किंचिदुपपद्यते । कलादो हि कलादीनां सुवर्णं शोधयेद्यथा

而若这些缺失,确实便无有任何成就得以如法完成。正如检验与精炼之法能净化黄金及其合金,如是亦有更高的原理,炼净较低的诸因素。

Verse 72

तथा रजस्तमश्चैव संशोध्ये सात्त्विकैर्गुणैः । अस्मादेव गुणानां च समवायादनादिजात्

同样,罗阇(rajas)与昏暗(tamas)应由萨埵(sattva)的德性彻底净化。因为正从这无始的和合之中,诸古那(guṇa)的杂糅才得以生起。

Verse 73

सुखिनो दुःखिनश्चैव प्राणिनः शास्त्रदर्शिनः । अष्टाविंशतिलक्षैश्च गुणमेकैकमीश्वरः

众生可见有乐者、有苦者,亦有能洞见诸《沙斯特拉》(śāstra)教诲者。主宰(Īśvara)又将每一种古那(guṇa)逐一分配,其量计至二十八拉克(28 lakhs),广布于一切生类之中。

Verse 74

व्यभजच्चतुरा शीतिलक्षास्ता जीवयोनयः । सकाशान्मनसस्तद्वदात्मनः प्रभवंति हि

他又将一切有情的生类分为八十四洛叉。它们由心之相近而生;同样确然,也由真我(阿特曼)而起。

Verse 75

ईश्वरांशाश्च ते सर्वे मोहिताः प्राकृतैर्गुणैः । क्लेशानासादयंत्येव यथैवाधिकृता विभोः

一切众生皆为自在天(Īśvara)之分,但被原质(Prakṛti)的诸功德(guṇa)所迷惑;他们必然遭遇诸苦恼(kleśa),随大能者的摄持与引导而定。

Verse 76

अन्नानां पयसां चापि जीवानां चाथ श्रेयसे । मानुष्यमाहुस्तत्त्वज्ञाः शिवभावेन भावितम्

为谷物、乳汁与一切有情之福祉,通达真理者宣说:人身最为殊胜——当其被湿婆之性情(Śiva-bhāva)所熏染时。

Verse 77

नंदभद्र उवाच । एवमेतत्किं तु भूयः प्रक्ष्याम्येतन्महामते । ईश्वराः सर्वदातारः पूज्यंते यैश्च देवताः

难陀跋陀罗说道:“诚然如此;然而,大慧者啊,我还要再问。诸自在主皆为一切施与者;那么,诸天又由谁来供奉礼拜呢?”

Verse 78

स्वभक्तांस्तान्न दुःखेभ्यः कस्माद्रक्षंति मानवान् । विशेषात्केपि दृश्यंते दुःखमग्नाः सुरान्रताः

为何诸天不护佑那些作为其自身信众的人类,使其免于苦难?确实还见到有人——奉事诸天、守持誓戒(vrata)——却沉没于忧苦之中。

Verse 79

इति मे मुह्यते बुद्धिस्त्वं वा किं बाल मन्यसे

因此我的理解陷入迷惘;孩子啊,你对此作何想法?

Verse 80

बाल उवाच । अशुचिश्च शुचिश्चापि देवभक्तो द्विधा स्मृतः । कर्मणा मनसा वाचा तद्रतो भक्त उच्यते

那孩子说道:奉敬神明的 भक्त 被记为两类——不净与清净。以身行、以心念、以言语皆归依于祂者,方称真正的奉信者。

Verse 81

अशुचिर्देवताश्चैव यदा पुजयते नरः । तदा भूतान्या विशंति स च मुह्यति तत्क्षणात्

当不净之人礼拜诸天时,诸灵便入其身,他就在那一刻陷入迷乱。

Verse 82

विमूढश्चाप्टयकार्याणि तानि तानि निषेवते । ततो विनश्यति क्षिप्रं नाशुचिः पूजयेत्ततः । शुचिर्वाभ्यर्चयेद्यश्च तस्य चेदशुभं भवेत्

既已迷乱,他便从事种种不当之行;由此迅速走向败亡。因此不净者不应礼拜。然若清净之人礼拜而仍遭不祥—

Verse 83

तस्य पूर्वकृतं व्यक्तं कर्मणां कोटि मुच्यते । महेश्वरो ब्रह्महत्याभयाद्यत्र ततस्ततः

对他而言,先前所作诸业的显现果报——纵有亿万之业——皆得消尽;而大自在天摩诃伊湿伐罗(湿婆)就在彼时彼地,解脱其对婆罗门杀罪等诸般恐惧。

Verse 84

सस्नौ तीर्थेषु कस्माच्च इतरो मुच्यते कथम् । अम्बरीषसुतां हृत्वा पर्वतान्नारदात्तथा

人虽在诸圣地渡口沐浴——为何苦恼仍不止息?而他人又如何得解脱?既从山中掳走安婆利沙之女,又如从那罗陀所闻——

Verse 85

सीतापहारमापेदे रामोऽन्यो मुच्यते कथम् । ब्रह्मापि शिरसश्छेदं कामयित्वा सुतामगात्

罗摩曾承受因悉多被掳而起的苦难考验;那么他人又怎能得解脱?甚至梵天也因贪欲而招致“断首”之报,竟追逐自己的女儿。

Verse 86

इंद्रचंद्ररविविष्णुप्रमुखाः प्राप्नुयुः कृतम् । तस्मादवश्यं च कृतं भोज्यमेव नरैः सदा

因陀罗、月神旃陀罗、日神罗毗、毗湿奴等诸尊,皆得其所作之业果。是故,人所造作,必定要亲身受报——恒常如此。

Verse 87

मुच्यते कोऽपि स्वकृतान्नैवेति श्रुतिनिर्णयः । किं तु देवप्रसादेन लभ्यमेकं सुरव्रतैः

无人能从自作之业中脱免——此乃《闻传》(Śruti)之定论。然而,凭借神明的恩典,守持天誓者仍可获得一事。

Verse 88

बहुभिर्जन्मभिर्भोज्यं भुज्येतैकेन जन्मना । तच्च भुक्त्वात तस्त्वर्थो भवेदिति विनिश्चयः

本当需历经多生方能受尽之报,亦可在一生之中承受;待其受报既尽,灵魂进程之真实旨趣便昭然显现——此为定论。

Verse 89

ये तप्यंते गतैः पापैः शुचयो देवताव्रताः । इह ते पुत्रपौत्रैश्च मोदंतेऽमुत्र चेह च

那些在罪业消除之后修行苦行者——身心清净,虔守奉事诸天的誓戒——于此世与子孙同享欢喜,于彼世亦复欢喜;此处彼处,皆得安乐。

Verse 90

तस्माद्देवाः सदा पूज्याः शुचिभिः श्रद्धयान्वितैः । प्रकृतिः शोधनीया च स्ववर्णोदितकर्मभिः

因此,清净而具信心者应当恒常礼敬诸天;并且应以依自身瓦尔那(种姓/阶分)所规定的本分之业,净化自身的性情与本性。

Verse 91

स्वनुष्ठितोऽपि धर्मः स्यात्क्लेशायैव विनाशिवम् । दुराचारस्य देवोपि प्राहेति भगवान्हरः

即便行持了法(dharma),若其人行恶无德,则此法也只成苦恼之因,不能带来吉祥;至尊哈罗(Hara)如是宣说。

Verse 92

भोक्तव्यं स्वकृतं तस्मात्पूजनीयः सदाशिवः । स्वाचारेण परित्याज्यौ रागद्वेषाविदं परम्

因此,人当自受自作之业果,并应礼敬萨达希瓦(Sadāśiva)。以自我持戒之行,舍离贪爱与憎恶——此乃至上教诲。

Verse 93

नन्दभद्र उवाच । शुद्धप्रज्ञ किमेतच्च पापिनोऽपि नरा यदा । मोदमानाः प्रदृश्यन्ते दारैरपि धनैरपि

难陀跋陀罗说道:噢,慧心清净者,这是怎么回事?为何连罪人有时也被看见欢喜快乐,既有妻室,又有财富?

Verse 94

बाल उवाच । व्यक्तं तैस्तमसा दत्तं दानं पूर्वेषु जन्मसु । रजसा पूजितः शंभुस्तत्प्राप्तं स्वकृतं च तैः

婆罗(Bāla)说道:显然,在往昔诸生中,他们即使受昏暗之性(tamas)所蔽,亦曾行布施;又在激动之性(rajas)影响下礼敬了商婆(Śambhu)。因此,他们得到了自作之业的果报。

Verse 95

किं तु यत्तमसा कर्म कृतं तस्य प्रभावतः । धर्माय न रतिर्भूयात्ततस्तेषां विदांवर

然而,由于那些行为是在昏暗之性(tamas)的势力下所作,其影响使他们的心不再生起对正法(dharma)的欢喜——因此啊,智者之最胜者。

Verse 96

भुक्त्वा पुण्यफलं याति नरकं संशयः । अस्मिंश्च संशये प्रोक्तं मार्कंडेयेन श्रूयते

享受完福德之果后,他却要堕入地狱——此即疑问。正因这疑问,人们聆听到马尔坎德耶(Mārkaṇḍeya)所宣说的权威教诲。

Verse 97

इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह । इह चामुत्र चैकस्य नामुत्रैकस्य नो इह

对某人而言,果报只在此世而不在彼世;对另一些人而言,只在彼世而不在此世。对某人而言,果报此世彼世皆有;对另一些人而言,彼世此世皆无。

Verse 98

पूर्वोपात्तं भवेत्पुण्यं भुक्तिर्नैवार्जयन्त्यपि । इह भोगः स वै प्रोक्तो दुर्भगस्याल्पमेधसः

过去所积的福德(puṇya)才是人所“受用”的;单纯享乐并不能再生新的福德。此世的受用,被说为属于不幸者与浅慧之人。

Verse 99

पूर्वोपात्तं यस्य नास्ति तपोभिश्चार्जयत्यपि । परलोके तस्य भोगो धीमतः स क्रियात्स्फुटम्

若有人先前并无积累的福德,却以苦行修得之,则此智者的受用必于来世显现——分明是其业行之果。

Verse 100

पूर्वोपात्तं यस्य नास्ति पुण्यं चेहापि नार्जयेत् । ततश्चोहामुत्र वापि भो धिक्तं च नराधमम्

若一人既无先得之福德,今生又不修福业,则无论此世或彼世,此人实当受谴,为人中最下者。

Verse 101

इति ज्ञात्वा महाभागत्यक्त्वा शल्यानि कृत्स्नशः । भज रुद्रं वर्णधर्मं पालयास्मात्परं न हि

既知如此,福德之人啊,当尽除心中诸刺,毫无遗余。应礼敬鲁陀罗,并守持与自身阶分相应之法——此上更无他道。

Verse 102

योहि नष्टेष्वभीष्टेषु प्राप्तेष्वपि च शोचति । तृप्येत वा भवेद्बन्धो निश्चितं सोऽन्यजन्मनः

凡所欲失而悲,得而亦悲者——无论自谓满足或仍被系缚——必定牵连于再生之身。

Verse 103

नन्दभद्र उवाच । नमस्तुभ्यमबालाय बालरूपाय धीमते । को भवांस्तत्त्वतो वेत्तुमिच्छामि त्वां शुचिस्मितम्

难陀跋陀罗说道:向你顶礼——你非童子而现童子之相,却具智慧。你究竟是谁?我愿知你真身,噢,含清净微笑者。

Verse 104

बहवोऽपि मया वृद्धा दृष्टाश्चोपासिताः सदा । तेषामीदृशका बुद्धिर्न दृष्टा न श्रुतामया

我曾见过许多长者,也常常侍奉他们;然而在他们之中,我未曾见过,也未曾听闻如此的智慧。

Verse 105

येन मे जन्मसंदेहा नाशिता लीलयैव च । तस्मात्सामान्यरूपस्त्वं निश्चितं न मतं मम

既然你轻而易举地消除了我对“出生”本身的疑惑,我便确信你绝非凡常之性——此乃我已定之见。

Verse 106

बाल उवाच । महदेतत्समाख्येयमेकाग्रः श्रृणु तत्त्वतः । इतः सप्ताधिके चापि सप्तमे जन्मनि त्वहम्

少年说道:此事重大,当如实叙说——请专心一意,依真理而听。再往后数,在第七次出生之时,我曾……

Verse 107

वैदिशे नगरे विप्रो नाम्नाऽसं धर्मजालिकः । वेदवेदांगतत्त्वत्रः स्मृतिशास्त्रार्थविद्वरः

在毗底沙城中,我曾为一名婆罗门,名曰达摩阇利迦,通晓吠陀及其支分(吠陀支),并精于《斯摩利提》与诸《沙斯特拉》之义。

Verse 108

व्याख्याता धर्मशास्त्राणां यथा साक्षाद्बृहस्पतिः । किं त्वहं विविधान्धर्माल्लोंकानां वर्णये भृशम्

我自诩为《法论》(Dharma-śāstra)的阐释者,仿佛天师布里哈斯帕提亲临;然而我却又高声向世人宣说种种不同的“宗教义务”。

Verse 109

स्वयं चातिदुराचारः पापिनामपि पापराट् । मंसाशी मद्यसेवी च परदाररतः सदा

诚然,我自身行径极其邪恶,乃罪人中之罪王。我食肉饮酒,且常沉溺于他人之妻。

Verse 110

असत्यभाषी दम्भीच सदा धर्मध्वजी खलः । लोभी दुरात्मा कथको न कर्ता कर्हिचित्क्वचित्

我曾是说谎者与伪善者——常举“达摩”旗号的恶徒。贪婪而心恶,我只会口头宣讲,从不实行——无论何时何地皆然。

Verse 111

यस्माज्जालिकवज्जालं लोकेभ्योऽहं क्षिपामि च । तत्त्वज्ञा मां ततः प्राहुर्धर्मजालिक इत्युत

因为我如撒网之人,将罗网抛覆于世人之上,知真者因此称我为“达摩·阇利迦”(Dharma-jālika)——以达摩之名织网之徒。

Verse 112

सोऽहं तैर्बहुभिश्चीर्णैः पातकैरंत आगते । मृतो गतो यमस्थानं पातितः कूटशाल्मलीम्

于是,我造作多种罪业;当末日来临,我死去,前往阎摩之所,被投下名为“Kūṭaśālmalī”的地狱。

Verse 113

यमदुतैस्ततः कृष्टः स्मार्यमामः स्वचेष्टितम् । खड्गैश्च कृत्यमानोऽहं जीवामि प्रमियामि च

被阎摩的使者拖拽至彼处,我被迫忆起自身所作所为;又被刀剑斩剁,我死而复生——一遍又一遍。

Verse 114

आत्मानं बहुधा निंदञ्छाश्वतीर्न्यवसं समाः । नरके या मतिर्भूयाद्धर्मं प्रति प्रपीडतः

我以种种方式自责,久居地狱,历经无尽岁月——凡压迫正法(Dharma)者,其归宿便是如此反复轮回的苦报。

Verse 115

सा चेन्मुहूर्तमात्रं स्यादपि धन्यस्ततः पुमान् । नमोनमः कर्मभूम्यै सुकृतं दुष्कृतं च वा

若趋向正法的觉醒哪怕只在一瞬(muhūrta)生起,此人亦真为有福。顶礼、顶礼于业地(karmabhūmi,人间),在此能行善功德,亦能造作罪业。

Verse 116

यस्यां मुहूर्तमात्रेण युगैरपि न नश्यति । ततो विपश्चिज्जनको मोक्षयामास नारकात्

在那业地(karmabhūmi)中,即便一瞬(muhūrta)所作之业,历经诸劫亦不磨灭。因此,睿智的先祖阇那迦(Janaka)成就了脱离地狱的解脱。

Verse 117

तैः सहाहं प्रमुक्तश्च कथंचिदवपीडितः । स्थाणुत्वमनुभूयाथ क्लेशानासाद्य भूरिशः

与他们一同得释,我亦获解脱——却不知何故仍受压迫。继而我经历了如木石般的凝滞不动,并遭逢种种繁多的苦恼。

Verse 118

कीटोहमभवं पश्चात्तीरे सारस्वते शुभे । तत्र मार्गे सुखमिव संसुप्तोहं यदृच्छया

其后,我化为一只昆虫,栖于吉祥的萨拉斯瓦蒂河岸。于彼处,因缘偶然,我卧在路上,宛如安然熟睡。

Verse 119

आगच्छतो रथस्यास्य शब्दमश्रौषमुन्नतम् । तं मेघनिनदं श्रुत्वा भीतोहं सहसा जवात्

我听见那辆逼近的战车发出高亢而渐起的巨响。听到那如雷霆般的轰鸣,我顿时惊惧,急速奔逃。

Verse 120

मार्गमुत्सृज्य दूरेण प्रपलायनमाचरम् । एतस्मिन्नंतरे व्यासस्तत्र प्राप्तो यदृच्छया

我离开大道,远远奔逃。就在那当口,毗耶娑因缘偶至,来到那里。

Verse 121

स मामपश्यत्त्रस्तं च कृपया संयुतो मुनिः । यन्मया सर्वलोकानां नानाधर्माः प्रकीर्तिताः

那位牟尼见我惊惶失措,便以慈悲之心怜悯我;他正是宣说诸世界种种法与义务(达摩)之人。

Verse 122

विप्रजन्मनि तस्यैव प्रभावाद्व्याससंगमः । ततः सर्वरुतज्ञो मां प्राहार्च्यः कीटभाषया

凭借同样的福德之力——昔日生为婆罗门所积——我得以与毗耶娑相遇。随后,那位可敬者、通晓一切声音与言语者,竟以昆虫之语对我开示。

Verse 123

किमेवं नश्यसे कीट कस्मान्मृत्योर्बिभेषि च । अहो समुचिता भीतिर्मनुष्यस्य कुतस्तव

“你这小虫,为何如此自取灭亡,又为何惧怕死亡?唉,这般恐惧原是人之所宜,你又怎会有呢?”

Verse 124

इत्युक्तो मतिमान्पूर्वपुण्याद्व्यासं तदोचिवान् । न मे भयं जगद्वंद्य मृत्योरस्मात्कथंचन

我既被如此问及,因往昔福德而得明慧,便答复毗耶娑道:“噢,为世间所敬仰者,我对这死亡毫无惧怖。”

Verse 125

एतदेव भयं मान्य गच्छेयमधमां गतिम् । अस्या अपि कुयोनेश्च संत्यन्याः कोटिशोऽधमाः

“唯有这一点令我畏惧,尊者:恐我堕入更为凄惨的境地。因为即便在这卑劣之胎之下,尚有千万种更下贱的生处。”

Verse 126

तासु गर्भादिकक्लेशभीतस्त्रस्तोऽस्मि नान्यथा

“在那些生处之中,我因从胎中受生起始的诸般苦恼而惊惶战栗;除此之外别无他因。”

Verse 127

व्यास उवाच । मा भयं कुरु सर्वाभ्यो योनिभ्यश्च चिरादिव । मोक्षयिष्यामि ब्राह्मण्यं प्रापयिष्यामि निश्चितम्

毗耶娑说道:“莫要恐惧——无论一切胎生诸趣(诸般生处),纵似历经长劫。我必解脱于你,并定然令你得至婆罗门之位。”

Verse 128

इत्युक्तोहं कालियेन तं प्रणम्य जगद्गुरुम् । मार्गमागत्य चक्रेण पीडितो मृत्युमागमम्

我既受迦利耶如此教诲,便顶礼那位世间导师;然而当我回到路上时,被车轮所击,痛苦煎迫,遂遭逢死亡。

Verse 129

ततः काकश्रृगालादियोनिष्वस्मि यदाऽभवम् । तदातदा समागम्य व्यासो मां स्मारयच्च तत्

其后,当我转生于乌鸦、豺狼等诸胎之中时,毗耶娑一次又一次前来,提醒我那能救度的真谛。

Verse 130

ततो बहुविधा योनीः परिक्रम्यास्मि कर्षितः । ब्राह्मणस्य च गेहेस्यां योनौ जातोऽतिदुःखितः

随后,我在多种生类中辗转流离,被苦难摧折;又生于婆罗门之家,然而即便在那一世,我仍极其受苦。

Verse 131

ततो जन्मप्रभृत्यस्मि पितृभ्यां परिवर्जितः । गलत्कुष्ठी महापीडामेतां योऽनुभवामि च

自出生起,我便为父母所弃;又患侵蚀之麻风,至今忍受此大苦恼。

Verse 132

ततो मां पंचमे वर्षे व्यास आगत्य जप्तवान् । कर्णे सारस्वतं मंत्रं तेनाहं संस्मरामि च

其后,在我五岁之时,毗耶娑前来,于我耳畔诵入“娑罗湿伐多”真言;凭此真言,我得以忆持圣教。

Verse 133

अनधीतानि शास्त्राणि वेदान्धर्मांश्च कृत्स्नशः । उक्तं व्यासेन चेदं मे गच्छ क्षेत्रं गुहस्य च । तत्र त्वं नंदभद्रं च आश्वासयमहामतिम्

纵然我未曾研习诸论典,亦未通达吠陀与法之全体,毗耶娑仍如此嘱我:“往诣古诃之圣域;在那里,抚慰那位大慧者难陀跋陀罗。”

Verse 134

त्यत्क्वा बहूदके प्राणानस्थिक्षेपं महीजले । काराय्य त्वं ततो भावी मैत्रेय इति सन्मुनिः

“舍身于深水之中,并将骸骨托付于大地之水;其后你将成为弥勒(Maitreya)。”真实的圣牟尼如是宣说。

Verse 135

गमिष्यसि ततो मोक्षमिति मां व्यास उक्तवान् । आगतश्च ततश्चात्र वाहीकेभ्योऽयोऽतिक्लेशतः

“随后你将证得解脱(mokṣa)。”毗耶娑如此告知我。其后我来到此处,曾在婆希迦人手中备受折磨。

Verse 136

इति ते कथितं सर्वमात्मनश्चरितं मया । पापमेवंविधं कष्टं नंदभद्र सदा त्यज

我已将自身的一切经历尽数告知于你。因此,南陀跋陀罗啊,当恒常远离罪业;如此沉重的苦难,正是由罪而生。

Verse 137

नंदभद्र उवाच । अहो महाद्भुतं तुभ्यं चरितं येन मे हृदि । भूयः शतगुणं जातं धर्मायदृढमानसम्

难陀跋陀罗说道:“啊!你的生平实在奇妙;听闻之后,我心中对正法(dharma)的志向坚固了百倍。”

Verse 138

किं तु त्वयोक्तधर्मस्य कर्तुकामोस्मि निष्कृतिम् । धर्मं स्मर भवांस्तस्मात्किंचिदादिश निश्चितम्

然而我愿依你所说之法而行赎罪净除(niṣkṛti)。因此,请你忆念正法,给我明确的教诫——指示一条确定可行的道路。

Verse 139

बाल उवाच । अत्र तीर्थे च सप्ताहं निराहारस्त्वहं स्थितः । सूर्यमंत्राञ्जमिष्यामि त्यक्ष्यामि च ततस्त्वसून्

婆罗说道:在此圣洁的渡口,我将断食住持一周。我将修持日神真言之诵念,随后舍弃我的生命气息。

Verse 140

ततो बर्करिकातीर्थे दग्धव्योहं त्वया तटे । अस्थीनि सागरे चापि मम क्षेप्याणि चात्र हि

随后,在巴尔卡里迦圣地的岸边,你应为我行火葬。我的遗骨也当投入大海——此处确应如此办理。

Verse 141

यदि सापह्नवं चित्तं मय्यतीव तवास्ति चेत् । ततस्त्वां गुरुकार्यार्थमादेक्ष्यामि श्रृणुष्व तत्

若你心中对我确有至诚的敬信,那么我将以师命托付你一项当行之事——且听其言。

Verse 142

अस्मिन्बहूदके तीर्थे यत्र प्राणांस्त्यजाम्यहम् । तत्र मन्नामचिह्नस्ते संस्थाप्यो भास्करो विभुः

在此巴胡达迦圣地,我将舍弃生命气息之处,你当于彼处安立威德的婆斯迦罗(日神),作为铭载我名的标记。

Verse 143

आरोग्यं धनधान्यं च पुत्रदारादिसंपदः । भास्करो भगवांस्तुष्टो दद्यादेतच्छ्रुतेर्वचः

健康、财宝与谷粮,以及子嗣、妻室等诸般福祉——蒙福的婆斯迦罗若心生欢喜,便依此圣言而赐予。

Verse 144

सविता परमो देवः सर्वस्वं वा द्विजन्मनाम् । वेदवेदांगगीतश्च त्वमप्येनं सदा भज

萨维特利(太阳神)为至上神祇,是二次生者的一切所依。诸《吠陀》与《吠陀支》皆颂扬他;故汝亦当恒常礼敬供奉。

Verse 145

बहूदकमिदं कुंडं संसेव्यं च सदा त्वया । माहात्म्यमस्य वक्ष्यामि संक्षेपाद्व्यास सूचितम्

此乃巴胡达迦圣池;汝当恒常前来依止修持。我将依毗耶娑所示,略说其殊胜功德。

Verse 146

बहूदके कुंडवरे स्नाति यो विधिवन्नरः । आरोग्यं धनधान्याद्यं तस्य स्यात्सर्वजन्मसु

凡依正法仪轨沐浴于殊胜的巴胡达迦圣池者,必于一切生中得健康、财富、五谷等诸福。

Verse 147

बहूदके च यः स्नात्वा सप्तम्यां माघमासके । दद्यात्पिंडं पितॄणां च तेऽक्ष्यां तृप्तिमाप्नुयुः

又若有人于摩伽月第七日(萨普塔弥)在巴胡达迦沐浴,并以团食(piṇḍa)供奉祖灵(pitṛ),则诸先祖得不坏之满足。

Verse 148

बहूदकस्य तीरे यः शुचिर्यजति वै क्रतुम् । शतक्रतुफलं तस्य नास्ति काचिद्विचारणा

凡于巴胡达迦岸边身心清净而行吠陀祭(kratu)者,必得百祭之果(Śatakratu);对此毫无疑虑。

Verse 149

अत्र यस्त्यजति प्राणान्बहूदकतटे नरः । मोदते सूर्यलोकेऽसौ धर्मिणां च सुतो भवेत्

凡人在此于巴胡达迦河岸舍身者,必于太阳神苏利耶之界欢喜安住;并将转生为持法正直之人的儿子。

Verse 150

बहूदकस्य तीरे च यः कुर्य्याज्जपसाधनम् । सर्वं लक्षगुणं प्रोक्तं जपो होमश्च पूजनम्

又凡在巴胡达迦河岸修持持诵(japa)之行者——于彼处所作之持诵、火供(homa)与供养(pūjā),皆被宣说为功德增至十万倍。

Verse 151

बहूदकस्य तीरे च द्विजमेकं च भोजयेत् । यो मिष्टान्नेन तस्य स्याद्विप्रकोटिश्च भोजिता

又若有人在巴胡达迦河岸供食哪怕一位婆罗门(brāhmaṇa)——以甘美之食供养之,于彼人则等同于供养一亿位婆罗门。

Verse 152

बहूदकस्य तीरे या नारी गौरिणिकाः शुभाः । संभोजयति तस्याश्च कुर्यात्सुस्वागतं ह्युमा

又凡吉祥之女,虔敬礼奉高丽(Gaurī),在巴胡达迦河岸施设款待与饮食者——乌玛(Umā)亲自赐予她慈和的欢迎。

Verse 153

बहूदकस्य तीरे च यः कुर्याद्योगसाधनम् । षण्मासाभ्यन्तरे सिद्धिर्भवेत्तस्य न संशयः

又凡在巴胡达迦河岸修习瑜伽之行者——不出六个月,必得悉地(siddhi,成就);此无疑也。

Verse 154

बहूदकस्य तीरे च प्रेतानुद्दिश्य दीयते । यत्किंचिदक्षयं तेषामुपतिष्ठेन्न चान्यथा

凡在婆呼陀迦(Bahūdaka)河岸所施之物,若以之回向诸饿鬼亡灵(preta),则于彼等成不坏之福;必定到达彼等,绝无他途。

Verse 155

स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् । कृतं बहूदकतटे सर्वं स्यात्सुमहात्फलम्

沐浴、布施、持诵(japa)、火供(homa)、自习诵读吠陀,以及祭献祖灵(pitṛ-tarpaṇa)——凡在婆呼陀迦河岸所行者,皆得极大之果报。

Verse 156

त्वयैतद्धृदि संधार्य फलं व्यासेन सूचितम् । बहूदकस्य कुंडस्य नंदभद्र महामते

大慧者难陀跋陀罗啊,当铭记于心:婆呼陀迦圣池之功德果报,已由毗耶娑开示。

Verse 157

इत्युक्त्वा सोऽभवन्मौनी स्नात्वा कुंडे ततः शुचिः । तीरे प्रस्तरमाश्रित्य स्वयं मंत्राञ्जाप ह

言毕,他便默然;继而在圣池中沐浴而得清净。依岸边磐石而坐,亲自开始反复诵持诸咒。

Verse 158

श्रीनारद उवाच । ततः स सप्तरात्रांते जहौ बालो निजानसून् । संस्कारितो यथोक्तं च नंदभद्रेण ब्राह्मणैः

圣那罗陀曰:其后,至七夜终了,那男孩舍离自身命息。随后,难陀跋陀罗与诸婆罗门依仪轨所说,丝毫不差地为他举行了丧葬祭仪。

Verse 159

यत्र बालः स च प्राणाञ्जहौ जपपरायणः । बालादित्यमिति ख्यातं तत्रास्थापयत प्रभुम्

就在那地方,那位恒常修持念诵(japa)的男孩舍弃了生命之息;他在彼处安立主神,主遂以“婆罗阿底提耶”(Bālāditya)之名闻名。

Verse 160

बहूदके च यः स्नात्वा बालादित्यं प्रपूजयेत् । तस्य स्याद्भास्करस्तुष्टो मोक्षोपायं च विंदति

凡在巴呼达迦(Bahūdaka)沐浴后礼敬婆罗阿底提耶(Bālāditya)者,日神婆斯迦罗(Bhāskara)必悦纳于他,并令其得见解脱(mokṣa)之道。

Verse 161

नंदभद्रो ऽप्यथान्यस्यां भार्यायामपरान्सुतान् । उत्पाद्यात्मसमन्धीमाञ्छिवसूर्यपरायणः

难陀跋陀罗亦然,在另一位妻子处又生诸子——皆为其本族血脉之亲——他一心归敬湿婆与苏利耶(太阳神)。

Verse 162

रुद्रदेहं ययौ पार्थ पुनरावृत्तिदुर्लभम् । एवमेतन्महाकुंडं बहूदकमिति स्मृतम्

噢,帕尔塔,他得成如鲁陀罗般之身,由此再返(入轮回 saṃsāra)极为难得。因此,这座伟大的圣池被称念为“巴呼达迦”(Bahūdaka)。

Verse 163

अस्य तीरे स्वमंशं च वल्लीनाथः प्रमेक्ष्यति । दत्तात्रेयस्य यो योगी ह्यवतारो भविष्यति

在此圣地(tīrtha)之岸,瓦利那他(Vallīnātha)将显现自身之一分;那位瑜伽行者将成为达多特雷耶(Dattātreya)的化身。

Verse 164

अर्चयित्वा च तं देवं योगसिद्धि मवाप्नुयात् । पशूनामृद्धिमाप्नोति गोशरण्यो ह्यसौ प्रभुः

礼敬彼神,则可得瑜伽成就;亦得牛群兴盛之福,因为彼主实为群牛之真依怙。

Verse 165

पश्चिमायां बुधसुतस्तथा क्षेत्रं स भारत । पुरूरवादित्यमिति स्थापयामास पार्थिवः

噢,婆罗多,在西方,布陀之子——那位国王——亦建立一处圣域,并于彼处安立(主)为“普鲁罗瓦阿底提耶”。

Verse 166

सर्वकामप्रदश्चासौ भट्टदित्यसमो रिवः । बहूदकक्षेत्रसमं तस्य क्षेत्रं च भारत

彼(普鲁罗瓦阿底提耶)能赐予一切所愿,堪比“跋吒阿底提耶”;其圣域亦然,噢婆罗多,与“多水”圣地(Bahūdaka kṣetra)等同。

Verse 167

अस्य तीर्थस्य माहात्म्यं जप्तव्यं कर्णमूलके । पुत्रस्य वापि शिष्यस्य न कथंचन नास्तिकः

此圣渡处(tīrtha)之功德,应当贴近耳根低声诵说。可传与子或弟子,但无论如何不可告于那无信者(nāstika)。

Verse 168

श्रृणोतीदं श्रद्धया यस्तस्य तुष्येश्च भास्करः । धारयन्हृदये मोक्षंमुच्यते भवसागरात्

凡以信心聆听此文者,日神(Bhāskara)必欢喜于彼。将此解脱之教持于心中,便得出离生死流转之大海(saṃsāra)。