
善那特库玛罗继续教诲那罗陀,由辩才天女萨拉斯瓦蒂的诸显现,转入吉祥天女拉克希米为成就世间诸愿而降示的诸咒法。章首提出三种种子咒,并确立咒法传承资质(仙人:达克希那穆尔提;韵律:Paṅkti;本尊:特里普拉·巴拉)。继而详述多层次的安置法(身分部位、手印安置、nava-yonīpa 反复诵持)、安奉所用的圣号,以及以五种子为纲的 Kāmeśī 体系,连同爱神 Kāma 的名号与箭神诸尊。随后展开细密的坛城/咒轮(yantra)程序:九阴核、八瓣围轮、母音字母圈(Mātr̥kā)外缘、诸 pīṭha-śakti、pīṭha、怖畏尊(bhairava)与方护神(dikpāla),并以持诵与火供次数及求果法(言语自在、富饶、延寿、除病、摄召与制御)作结。文中亦含解咒破障(utkīlana)、点燃增益之 dīpinī 要求,以及礼敬上师法流。后半介绍安娜普尔那(Annapūrṇā)二十音节圣明(vidyā)及其仪轨图式与诸力(śakti)配置,继而转入巴伽拉穆姬(Bagalāmukhī)的“止动/缚制”(stambhana)系统:咒式结构、观想、咒轮类型、火供供品与专门作法(令敌不动、驱逐、护身、解毒、疾行、隐形),末以章末记(colophon)收束。
Verse 1
सनत्कुमार उवाच । सरस्वत्यवतारास्ते कथिताः सिद्धिदा नृणाम् । अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान् ॥ १ ॥
善住童子(Sanatkumāra)说道:赐予人间成就的萨拉斯瓦蒂(Sarasvatī)诸化身,已为汝宣说。今我将述说吉祥天女拉克什米(Lakṣmī)之诸化身,能成就一切所求。
Verse 2
वाणीमन्मथशक्त्याख्यं बीजत्रितयमीरितम् । ऋषिः स्याद्दक्षिणामूर्तिः पंक्तिश्छंदः प्रकीर्तितम् ॥ २ ॥
所宣说的三种种子真言(bīja)名为:Vāṇī、Manmatha 与 Śakti。此真言组之圣仙(ṛṣi)为 Dakṣiṇāmūrti,其韵律(chandas)被称为 Paṅkti。
Verse 3
देवता त्रिपुरा बाला मध्यांते शक्तिबीजके । नाभेरापादमाद्यं तु नाभ्यंतं हृदयात्परम् ॥ ३ ॥
主尊为三城童女(Tripurā Bālā)。应将圣力种子音(Śakti-bīja)安置于中段与末段。“初置”自脐下达于双足;而“止于脐”的安置则在上部进行——自心轮起而上。
Verse 4
मृर्ध्नो ह्रदंतं तर्तीयं क्रमाद्देहेषु विन्यसेत् । आद्यं वामकरे दक्षकरे तदुभयोः परम् ॥ ४ ॥
第三次的真言安置,应依次安于身上:自头顶(梵穴)下至心间为终点。第一安于左手,第二安于右手,其后再安于双手合并之处。
Verse 5
पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि । नव योन्पाभिधं न्यासे नवकृत्वो मनुं न्यसेत् ॥ ५ ॥
随后再安置三种种子音(bīja-traya),于头部、秘处与胸前行持安置(nyāsa)。在名为“九胎藏安置”(nava-yonīpa)的仪轨中,应将此真言安置九遍。
Verse 6
कर्णयोश्चिबुके न्यस्येच्छंखयोर्मुखपंकजे । नेत्रयोर्नासिकायां च स्कंधयोरुदरे तथा ॥ ६ ॥
应以安置(nyāsa)将真言之力置于双耳与下颌、双鬓与莲华般的面容、双眼与鼻端,并同样安于双肩与腹部。
Verse 7
न्यसेत्कूर्परयोर्नाभौ जानुनोर्लिंगमस्तके । पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः ॥ ७ ॥
应行安置(nyāsa):将真言诸分安于双肘与脐处,安于双膝与头顶;亦安于双足、秘处、身之两胁,并再一次安于心间。
Verse 8
स्तनयोः कंठदेशे च वामांगादिषु विन्यसेत् । वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां हृदि ॥ ८ ॥
应行安置法(nyāsa),于双乳、喉部及左侧诸肢。又当于隐秘处安置以“Vāgbhavā”为首之圣力“Rati”,并于心中安置“Prītimatī”等。
Verse 9
कामबीजादिकान्पश्येद्भूमध्ये तु मनोभवाम् । पुनर्वागकात्ममाद्यास्तिस्रएव च विन्यसेत् ॥ ९ ॥
当观想以“迦摩种子”(Kāma-bīja)为首的种子真言,安于坛城地面之中央,作为名为“Manobhavā”的圣力。随后再行安置法,仅安置三种本初之力:Vāk、Kā与Ātman。
Verse 10
अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम् । मूर्ध्निं वक्त्रे हृदि न्यस्येद्गुह्ये चरणयोरपि ॥ १० ॥
当以安置法将“Amṛteśī”“Yogeśī”“ViśvayonTṛtīyakāma”等名号/真言,安于头顶、面部与心间;并亦安于隐秘处及双足之上。
Verse 11
कामेशी पंचबीजाढ्यां स्मरात्पञ्चन्यसेत्क्रमात् । मायाकामौ च वाग्लक्ष्मी कामेशी पंचबीजकम् ॥ ११ ॥
当观想具足五种种子音的“Kāmeśī”,应依次行五重安置法。(其种子为:)Māyā与Kāma,其后为Vāk与Lakṣmī——此即Kāmeśī之五种子法。
Verse 12
मनोभवश्च मकरध्वजकंदर्पमन्मथाः । कामदेवः स्मरः पंच कीर्तितान्याससिद्धिदाः ॥ १२ ॥
Manobhava、Makaradhvaja、Kandarpa、Manmatha、Kāmadeva与Smara——此五大名号已被宣说;用于安置法(nyāsa)时,能赐予该仪轨之成就。
Verse 13
शिरःपन्मुखागुह्येषु हृदये बाणदेवताः । द्राविण्याद्याः क्रमान्न्यस्येद्वाणेशीबीजपूर्वकः ॥ १३ ॥
依次行持安置(nyāsa),当将(五)箭之诸神安立于头顶、双足足心、面部、隐秘处与心中——从“赐财者”德拉维尼等开始——并以前置“瓦涅希”(Vāṇeśī)之种子音(bīja)为先。
Verse 14
द्रांद्रीं क्लींजूंस इति वैबाणेशबीजकं च कम् । द्राविणी क्षोभिणी वशीकरण्यांकर्षणी तथा ॥ १४ ॥
“drāṃ”“drīṃ”与“klīṃ-jūṃ-sa”——如是被称为隶属“毗婆涅舍”(Vaibāṇeśa)之种子音(bīja),并且还有“kam”。这些咒力名为:德拉维尼(赐财)、克绍毗尼(扰动)、婆施迦罗尼(摄伏/迷摄)、阿ṃ迦尔沙尼(牵引吸引)。
Verse 15
संमोहनी च बाणानां देवताः पञ्च कीर्तिताः । तार्तीयवाग्मध्यगेन कामेन स्यात्षडंगकम् ॥ १५ ॥
(伽摩)之箭的主宰神祇被宣说为五位——其中亦有“桑摩诃尼”(Saṁmohanī,迷惑之力)。而当将伽摩安置为“行于中语”者——即言语的第三层次——此法便成“六支”。
Verse 16
षड्दीर्घस्वरयुक्तेन ततो देवीं विचिंतयेत् । ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनम् ॥ १६ ॥
随后,以具足六个长元音之真言,当观想女神;当禅思其相:端坐红莲之上,身披红衣,具三目。
Verse 17
उद्यदर्कनिभां विद्यां मालाभयवरोद्वहाम् । लक्षत्रयं जपेन्मंत्रं दशांशं किंशुकोद्भवैः ॥ १७ ॥
当观想“明咒”(Vidyā)如旭日初升般光辉,手持念珠,施无畏并赐诸愿。随后应诵持此真言三十万遍,并以其十分之一作火供,供以金舒迦(kiṃśuka)之花。
Verse 18
पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितैः । नवयोन्यात्मकं यंत्रं बहिरष्टदलावृतम् ॥ १८ ॥
亦当以花(或以hayārīja花)和甘美供品投入圣火而行供献。此坛城(yantra)具“九胎”(navayoni)之性,外以八瓣莲华之围护所环绕。
Verse 19
केसरेषु स्वरान्न्यस्येद्वर्गानष्टौदलेष्वपि । दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम् ॥ १९ ॥
当行安置(nyāsa):将诸元音安置于莲华之花丝(须蕊)上,又将八组辅音安置于八瓣之上;于瓣端安置三叉戟。如此,莲华为“母字”(Mātr̥kā,字母母神)所环绕。
Verse 20
एवं विलिखिते यंत्रे पीठशक्तीः प्रपूजयेत् । इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी ॥ २० ॥
如是绘成坛城之后,当如法礼敬诸“座处神力”(Pīṭha-Śakti):意愿(Icchā)、智知(Jñānā)、行力(Kriyā),以及 Kāminī 与 Kāmadāyinī——能成就所愿之力。
Verse 21
रती रतिप्रिया नंदा मनोन्मन्यपि चोदिताः । पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत् ॥ २१ ॥
如教奉祀诸座处神力——Ratī、Ratipriyā、Nandā 与 Manonmanī——之后,当以彼等各自之“摩奴”(manu,专属真言)来安置并确立此座处(Pīṭha)。
Verse 22
व्योमपूर्वे तु तार्तीयं सदाशिवमहापदम् । प्रेतपद्मासनं ङेंतं नमोंतः पीठमन्त्रकः ॥ २२ ॥
继而,于与“虚空”(Vyoma)相应之东方,宣说第三安置:常住吉祥者(Sadāśiva)之大座。此为“尸形”(Preta)之莲华座(padmāsana);以音节“ṅeṃ”并以“namo”作结,即为座处真言(pīṭha-mantra)。
Verse 23
षोडशार्णस्ततो मूर्तौ क्लृप्तायां मूलमंत्रतः । आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः ॥ २३ ॥
随后,以十六音节之真言,应依根本咒如法备成圣像,迎请女神入于其内;并以持诵(japa)及种种分别之供事(upacāra)而礼敬供养。
Verse 24
देवीमिष्ट्वा मध्ययोनौ त्रिकोणे रतिपूर्विकाम् । वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ॥ २४ ॥
既于中央之“阴门”三角中礼敬女神,当于其中安置并供奉罗提普尔维迦(Ratipūrvikā);左角安置罗提(Rati),右角安置普利蒂(Prīti),前方顶点安置摩诺婆婆(Manobhavā)。
Verse 25
योन्यन्तर्वह्निकोणादवंगान्यग्नेर्विदिक्ष्वपि । मध्ययोमेर्हहिः पूर्वादिषु चाग्रे स्मरानपि ॥ २५ ॥
由阴门之内的火焰角起,应于诸间方观想阿耆尼(Agni)之支分。于中央处忆念哈利(Hari);并于东方及其余诸方,亦先忆念斯摩罗(Smara,即迦摩 Kāma)。
Verse 26
वाणदेवीस्तद्वदेव शक्तीरष्टसु योनिषु । सुभगाख्या भागा पश्चात्तृतीया भगसर्पिणी ॥ २६ ॥
同样,与言语(Vāṇī)相应之诸力(Śakti),当知遍在于八类阴门(yoni)之中。其中名为苏婆迦(Subhagā)者即“婆迦”(Bhāgā);其后第三位为婆迦萨尔毗尼(Bhagasarpiṇī)。
Verse 27
भगमाला तथानंगा नगाद्या कुसुमापरा । अनंगमेखलानंगमदनेत्यष्टशक्तयः ॥ २७ ॥
婆迦摩罗(Bhagamālā)与阿难伽(Anaṅgā);那伽阿底耶(Nagādyā)与库苏摩阿帕罗(Kusumāparā);阿难伽梅卡拉(Anaṅgamekhalā)与阿难伽摩达那(Anaṅgamadanā)——此即八种圣力(śakti)。
Verse 28
पद्मकेशरगा ब्राह्मी मुखाः पत्रेषु भैरवाः । दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः ॥ २८ ॥
当于莲华花心(莲房)安置并礼敬梵摩伊(Brahmī);于诸花瓣安置怖畏尊(Bhairava)之诸面相。以长元音为首之诸母神当受供养;以短元音为首之八位怖畏尊亦当供养。
Verse 29
दलाग्रेष्वष्टपीठानि कामरूपाख्यमादिमम् । मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलांतकम् ॥ २९ ॥
于花瓣之尖端,有八处神圣座处(pīṭha):其首名迦摩卢波(Kāmarūpa),次为摩罗耶(Malaya),又有拘罗罗山(Kolla-giri),以及乔诃罗(Cauhāra)与库兰多迦(Kulāntaka)。
Verse 30
जालंधरं तथोन्नासं कोटपीठमथाष्टमम् । भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरांतकम् ॥ ३० ॥
亦当安置并礼敬阇兰陀罗(Jālandhara)与乌那萨(Unnāsa),并以拘吒毗吒(Koṭapīṭha)为第八座处。在地下圣室(bhūgṛha)中,当于十方供养诃都迦(Hetuka)与摧三城者(Tripurāntaka)。
Verse 31
वैतालमग्नि जिह्वं च कमलांतकालिनौ । एकपादं भीमरूपं विमलं हाटकेश्वरम् ॥ ३१ ॥
又复称说:吠多罗(Vaitāla)、火舌者(Agni-jihva)与莲终时母(Kamalānta-kālin);并有独足者(Ekapāda)、怖相者(Bhīmarūpa)、清净者(Vimala)与哈塔凯湿伐罗(Hāṭakeśvara)。
Verse 32
शक्राद्यानायुधैः सार्द्धं स्वस्वदिक्षु समर्चयेत् । तद्बहिर्दिक्षु बटुकं योगिनीं क्षेत्रनायकम् ॥ ३२ ॥
当于各自方隅,如法礼敬帝释(Śakra,因陀罗)及诸方位天,并与其各自兵器同供。于诸方之外,当礼敬童形尊(Baṭuka)、诸瑜伽女(Yoginī)及圣域之主——刹特罗那耶迦(Kṣetranāyaka)。
Verse 33
गणेशं विदिशास्वर्चेद्वसून्सूर्याच्छिवांस्तथा । भूतांश्चेत्थं भजन्बालामीशः स्याद्धनविद्ययोः ॥ ३३ ॥
在毗底舍(Vidiśā)应礼拜伽内沙(Gaṇeśa);在苏利亚(Sūryā)应礼拜诸婆苏(Vasu);同样也应敬拜湿婆(Śiva)。如是依仪礼敬诸部多(Bhūta),行者便能得巴拉圣明(Bālā-vidyā,真言)之主宰,并获财富与学识。
Verse 34
रक्तांभोजैर्हुतेर्नार्योवश्याः स्युः सर्षपैर्नृपाः । नंद्यावर्तै राजवृक्षैः कुंदैः पाटलचंपकैः ॥ ३४ ॥
以红莲投入供火(homa),女子便易于顺从(受摄持)。以芥子作供,君王与统治者便可被制御。同样,以难提耶瓦尔塔花、王树花(rājavṛkṣa)、昆达茉莉(kunda)、帕塔拉(pāṭala)与瞻波迦(campaka)作供,也能生起相似之效。
Verse 35
पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत् । अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया ॥ ३५ ॥
以花或以毕尔瓦果(bilva)作供而行护摩,则吉祥天女拉克希米(Lakṣmī)之福泽安住不动。持咒行者若以古杜奇(guḍūcī)和乳同制,便能战胜阿帕姆利提尤(apamṛtyu,非时之死)。
Verse 36
यथोक्तदूर्वाहोमेन नीरोगायुः समश्नुते । ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः ॥ ३६ ॥
依教而行都尔瓦草(dūrvā)护摩,便得无病长寿。又以供献奉于月神、师尊(布里哈斯帕提 Bṛhaspati)及诸天,则能获得智慧与诗才。
Verse 37
पलाशपुष्पैर्वाक्सिद्धिरन्नाप्तिश्चान्नहोमतः । सुरभिक्षीरदध्यक्ताँल्लाजान्हुत्वा रुजो जयेत् ॥ ३७ ॥
以帕拉沙花(palāśa)作供,则得语成就(vāk-siddhi),言辞具灵验之力。以熟食作护摩,则得食粮丰足。又以涂抹牛乳与凝乳的炒谷(lājā)作供,便能战胜诸病。
Verse 38
रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः । चन्दनं केशरं मांसीं क्रमाद्भागैनिंयोजयेत् ॥ ३८ ॥
取赤檀、龙脑(樟脑)、姜黄、沉香(阿伽卢)与牛黄(gorocanā);继而再加檀香、藏红花与玛ṁ西(甘松香)。应依次第调和,并按分量比例配制。
Verse 39
भूमिचंद्रैकनन्दाब्धिदिक्सप्तनिगमोन्मितैः । श्मशाने कृष्मभूतस्य निशि नीहारपाथसा ॥ ३९ ॥
依以隐语数名所示之量度——地(1)、月(1)、一、难陀(9)、海(4)、十方(10)、七,以及四吠陀(4)——于火葬场中,为已成黑暗之灵者,于夜间沿着寒雾之路而行(施作)。
Verse 40
कुमार्या पेषयेत्तानि मंत्रेणाथाभिमंत्र्य च । विदद्ध्यात्तिलकं तेन दर्शनाद्वशयेज्जनान् ॥ ४० ॥
应令未嫁之少女将诸香料细细研磨;复以真言加持使之成圣,然后以此点额作提拉迦(tilaka)。仅凭被人一见,便能摄伏众人之心。
Verse 41
गजसिंहादिभूतानि राक्षसाञ्छाकिनीरपि । प्रयोजनानां सिद्ध्यै तु देव्याः शापं निवर्त्य च ॥ ४१ ॥
象形、狮形之诸鬼灵,以及罗刹,乃至查吉尼等,皆可(召请/安抚)以成就所求之事——并且用以解除女神之诅咒。
Verse 42
विधायोत्कीलितां पश्चाज्जपमस्य समाचरेत् । यो जपेदादिमे बीजे वराहभृगुपावकान् ॥ ४२ ॥
先行作“解锁”之仪(utkīlana)后,方应如法修持此(真言)之持诵(japa)。凡复诵本初种子音节,并观念召请婆罗诃(Varāha)、婆利古(Bhṛgu)与婆瓦迦(Pāvaka,火神阿耆尼)者……
Verse 43
मध्यमादौ नभोहंसौ मध्यमांते तु पावकम् । आदावंते च तार्तूयक्रमात्स्वं धूम्रकेतनम् ॥ ४३ ॥
在中段之初安置“虚空天鹅”(nābho-haṃsa);在中段之末安置“火”(pāvaka)。又于起首与终末,依tārtūya次第,当安立或观照自身“烟旗之理”(dhūmraketu)。
Verse 44
एवं जप्त्वा शतं विद्या शापहीना फलप्रदा । यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत् ॥ ४४ ॥
如是持诵一百遍,此明咒(vidyā)便离诸诅咒而能赐果。并且在起始之音与末后种子音节中,切莫分离“ra”(repha)之字。
Verse 45
शापोद्धारप्रकारोऽन्यो यद्वायं कीर्तितो बुधैः । आद्यमाद्यं हि तार्तीयं कामः कामोऽथ वाग्भवम् ॥ ४५ ॥
智者所传另有除咒之法:先用第一种子音,再用第一种子音,继而第三种子音;随后诵“kāma”,再诵“kāma”,其后诵“vāgbhava”。
Verse 46
अंत्यमंत्थमनंगश्च नवार्णः कीर्तितो मनुः । जप्तोऽयं शतधा शापं बालाया विनिवर्तयेत् ॥ ४६ ॥
已宣说九音节真言——以“antya”“manttha”“anaṅga”为首。此咒若持诵百遍,能遣除加于少女之诅咒。
Verse 47
चैतन्याह्लादिनूमन्त्रौ जप्तौ निष्कीलताकरौ । त्रिस्वराश्चेतनं मन्त्री धरः शांतिरनुग्रहः ॥ ४७ ॥
持诵名为“Caitanya”与“Āhlādinū”的真言,能破除诸障。三种声调为真言之生机;诵持者为其承载;其果为寂静安和与神圣恩佑。
Verse 48
तारादिहृदयांतः स्यात्काम आह्लादिनीमनुः । तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः ॥ ४८ ॥
在咒心之中,应以“多罗”(Tāra,唵 Oṁ)为始,安置赐喜悦的“迦摩咒”(Kāma-mantra)。同样,对三种种子音(bīja),亦有三种“点燃咒”,以唤醒之,使其光耀。
Verse 49
सुदीप्तानि विधायादौ जपेत्तानीष्टसिद्धये । वदयुग्मं सदीर्घांबु स्मृतिवालावनंगतौ ॥ ४९ ॥
先令其炽然明耀之后,应诵持彼等以成就所愿。须以长元音“ā”发出成对音节,并依所忆之次第而诵,不可偏离规定的顺序。
Verse 50
सत्यः सनेत्रो नस्तादृग्वा वाग्वर्णाद्यदीपिनी । क्लिन्ने क्लेदिनि वैकुंठो दीर्घं स्वं सद्यगोंतिमः ॥ ५० ॥
“彼为真实;具眼者;其见不为凡常知觉所限者;照耀言语与诸音类、诸字母者。在湿润之中——在润湿之理中——彼为毗昆陀(Vaikuṇṭha);恒久者;其自性;以及其行至为即刻而究竟者。”
Verse 51
निद्रा सचंद्रा कुर्वीत शिवार्णा मध्यदीपिनी । तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी ॥ ५१ ॥
应将“Nidrā”与“月”(candra)相合而成;居中发光者为湿婆之音节。 “多罗”(tāra)赐予解脱(mokṣa);它并非仅是照亮口舌的字母,即不只是语音之声。
Verse 52
दीपिनीमंतरा बाला साधितापि न सिद्ध्यति । वागंत्यकामान् प्रजयेदरीणा क्षोभहेतवे ॥ ५२ ॥
若无(辅佐的)“提毗尼”(Dīpinī),则“婆罗”(Bālā)咒纵使修持亦难成就。且若失时或失法而诵,亦能招惹怨敌,引发扰动。
Verse 53
कामवागंत्यबीजानि त्रैलोक्यस्य वशीकृतौ । कामांत्यवाणीबीजानि मुक्तये नियतो जपेत् ॥ ५३ ॥
若欲摄伏三界,使之归于己之感召,当用以“kāma”与“vāk”为尾的种子真言;然为求解脱(mokṣa),持戒自律之行者应恒常持诵以“kāma”与“vāṇī”为尾的种子真言。
Verse 54
पूजारंभे तु बालायास्त्रिविधानर्चयेद्गुरून् । दिव्यौघश्चैव सिद्धौघो मानवौघ इति त्रिधा ॥ ५४ ॥
于礼拜之初,年少弟子当以三重方式礼敬诸师:为天圣之流(Divyaugha)、为成就者之流(Siddhaugha)、为人间师承之流(Mānavaugha)——三分如是。
Verse 55
परप्रकाशः परमे शानः परशिवस्तथा । कामेश्वरस्ततो मोक्षः षष्ठः कामोऽमृतोंऽतिमः ॥ ५५ ॥
彼为至上之光;为至上之主;亦为超越之湿婆(Paraśiva)。彼为爱主 Kāmeśvara;继而(名为)解脱 Mokṣa。第六为 Kāma,而最后为 Amṛta——不死甘露。
Verse 56
एते दप्तैव दिव्यौघा आनन्दपदपश्चिमाः । ईशानाख्यस्तत्पुरुषोऽघोराख्योवामदेवकः ॥ ५६ ॥
此等确为五种天圣之流,终归于安乐之境(ānanda):Īśāna、Tatpuruṣa、Aghora、Vāmadeva(并第五 Sadyojāta)。
Verse 57
सद्योजात इमे पंच सिद्धौधाख्याः स्मृता मुने । मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः ॥ ५७ ॥
噢牟尼,此五者被忆念为 Siddhaugha 诸群,并称为“Sadyojāta”(新现)。至于人间师承之流(Mānavaugha),当由自家上师所传之活的宗派传承(sampradāya)而了知。
Verse 58
नवयोन्यात्मके यन्त्रे विलिखेन्मध्ययोनितः । प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः ॥ ५८ ॥
在由九个“优尼”(yoni,似花瓣的分区)构成的坛城(yantra)上,最上等的修行者应从中央优尼起,按顺时针方向将种子音节(bīja)书写三遍。
Verse 59
त्रींस्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेत् । बहिर्मातृकयाऽवेष्ट्य तद्बहिर्भूपुरद्वयम् ॥ ५९ ॥
在八瓣之上,应将伽雅特丽(Gāyatrī)的音节每瓣书写三字;其外以“母字”(Mātṛkā,字母序列)环绕,再外绘制双重的“部普罗”(bhūpura,外方形围栏)。
Verse 60
कामबीजलसत्कोण व्यतिभिन्नं परस्परम् । पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम् ॥ ६० ॥
以“欲”(kāma)之种子真言所成的光耀三角,彼此交错相贯;安置于莲瓣图式之中,名为“特莱普拉”(Traipura),当以持诵(japa)与仪式灌注(saṃpāta)而加持成就。
Verse 61
बाहुना विधृते दद्याद्धनं कीर्तिं सुखं सुतान् । कामांते त्रिपुरा देवी विद्महे कविषं भहिम् ॥ ६१ ॥
若以臂力坚固护持(即恒常修习),则能赐予财富、名声、安乐与子嗣。于欲望之终(欲息之时),我等得知三城女神Tripurā;我等观想诗圣先知(kavi)之光明威力。
Verse 62
बकः खङ्गी समारूढः सनेत्रोऽग्निश्च धीमहि । तत्र क्लिन्ने प्रचोदांते यादित्येषा प्रकीर्तिता ॥ ६२ ॥
“我等观修(dhīmahi)鹭鸟(baka)、执剑而乘起者(samārūḍha),以及具一目之火。在此真言运用中——当其被‘润泽/柔化’之时——行动之推动力被引发;此被宣说为隶属阿底提耶(Āditya,太阳原理)。”
Verse 63
गायत्री त्रैपुरा सर्सिद्धिदा सुरसेविता । अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते सिद्धिदो नृणाम् ॥ ६३ ॥
伽耶特丽(Gāyatrī)亦被尊为三城女神(Tripurā),能赐予一切成就,为诸天所礼敬。今将宣说吉祥天女拉克什米(Lakṣmī)的另一种示现,能赐人间成功。
Verse 64
वेदादिर्गिरिजा पद्मा मन्यथो हृदयं भृगुः । भगवति माहेश्वरी ङेन्तेऽन्नपूर्णे दहनांगना ॥ ६४ ॥
吠陀为她之本始;吉利迦(Girijā)与莲华女神帕德玛(Padmā)为她之形相;婆利古(Bṛghu)被视为她的心。噢,至上女神(Bhagavatī)、大自在女(Mahēśvarī)——噢,安那普尔那(Annapūrṇā),火神阿耆尼(Agni)所钟爱的配偶——愿你恒常临在于我们的言辞与仪轨之中。
Verse 65
प्रोक्ता विंशतिवर्णेयं विद्या स्याद्द्रुहिणो मुनिः । धृतिश्छंदोऽन्नपूर्णेशी देवता परिकीर्तिता ॥ ६५ ॥
此一明咒(Vidyā)宣说为二十音节。其仙人(ṛṣi)为德鲁希那(Druhiṇa,即梵天 Brahmā);其韵律(chandas)为“持”(Dhṛti);其主宰本尊为安那普尔涅希(Annapūrṇeśī,即安那普尔那 Annapūrṇā),传统如是传述。
Verse 66
षड्दीर्घाढ्येन हृल्लेखाबीऽजेन स्यात्षडंगकम् । मुखनासाक्षिकर्णांसगुदेषु नवसु न्यसेत् ॥ ६६ ॥
以带“心印”之种子音(bīja),并具六个长元音,建立六支辅咒(ṣaḍaṅga)。随后当作安置法(nyāsa),安置于九处:口、鼻、眼、耳、肩,以及肛门等处。
Verse 67
पदानि नव तद्वर्णसंख्येदानीमुदीर्यते । भूमिचंद्रधरैकाक्षिवेदाब्धियुगबाहुभिः ॥ ६७ ॥
其词有九;今以记数譬喻宣示其字母/音节之数:地、月、山、一、眼、吠陀、海、劫(yuga)与臂。
Verse 68
पदसंख्यामिता वर्णैस्ततो ध्यायेत्सुरेश्वरीम् । स्वर्णाभांगां त्रिनयनां वस्त्रालंकारशोभिताम् ॥ ६८ ॥
随后,依照韵律步数所度量的音节,应观想女神苏雷湿瓦丽(Sureśvarī),诸天之主:肢体金辉,三目具足,衣饰庄严而光耀。
Verse 69
भूरमासं युतां देवीं स्वर्णामत्रकरांबुजाम् । लक्षं जपोऽयुतं होमो घृताक्तचरुणा तथा ॥ ६९ ॥
应当供奉女神整整一月,观想其莲华之手执持金器;诵持真言一“洛叉”(十万)遍,并以涂抹酥油的米供作火供一万次。
Verse 70
जयादिनवशक्तयाढ्ये पीठे पूजा समीरिता । त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके ॥ ७० ॥
供奉之法被规定在一座坛座(pīṭha)上进行,此坛座具足以“胜利”(Jayā)为首的九种神力(śakti);其形为三角,并以莲瓣之列构成:所谓“吠陀瓣”、八瓣与十六瓣的布置。
Verse 71
भूपुरेण युते यंत्रे प्रदद्यान्मायया मनुम् । अग्न्यादिकोणत्रितये शिववाराहमाधवान् ॥ ७१ ॥
在具足 bhūpura(外护方坛)的坛图(yantra)上,应依所规定的 māyā 仪轨安置真言;并于自火神方(Agni 角)起的三重三角之中,安立湿婆(Śiva)、野猪化身瓦拉哈(Vārāha)与摩达瓦(Mādhava)。
Verse 72
अचर्ययेत्स्वस्वमंत्रैस्तु प्रोच्यंते मनवस्तु ते । प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा ॥ ७२ ॥
应由师长以各自相应的真言加以教授;如是诸“manu”便被宣说。普罗那瓦(Praṇava,Oṁ)为真言;月冠之湿婆为 Manu;虚空为其座;而心为其住处——当于其中观想吉祥之力湿婆女神(Śivā)。
Verse 73
मारुतः शिवमंत्रोऽयं सप्तार्णः शिवपूजने । वाराहनारायणयोर्मंत्रौ पूर्वमुदीरयेत् ॥ ७३ ॥
在供奉湿婆之仪中,此七音节的湿婆真言名为“摩鲁塔”(风)真言。于其之前,应先诵婆罗诃与那罗延那之真言。
Verse 74
षडंगानि ततोऽभ्यर्च्य वामे दक्षे धरां रमाम् । यजेत्स्वस्वमनुभ्यां तु तावुच्येते मुनीश्वर ॥ ७४ ॥
随后,恭敬供养仪轨之六支分法已毕,当以各自真言礼拜左侧之大地女神达罗(Dharā),与右侧之罗摩(Ramā,吉祥天女)。此二者如是所定,噢诸牟尼之尊。
Verse 75
अन्नं मह्यन्नमित्युक्त्वा मे देह्यन्नाधिपोर्णकाः । नयेममन्नं प्राणांते दापयानलसुंदरी ॥ ७५ ॥
当诵曰:“食物——赐我食物。”噢食物之主的侍从们,请在我生命终末之时将此食物奉至我前;并愿火之丽者——消化之火——受纳而吞食之。
Verse 76
द्वाविंशत्यक्षरो मंत्रो भूमीष्टौ भूमिसंपुटः । लक्ष्मीष्टौ श्रीपुटो विप्र स्नृतिर्लभनुचंद्रयुक् ॥ ७६ ॥
婆罗门啊,此真言为二十二字。名为“布弥伊什塔”(Bhūmīṣṭā),并以“布弥三普塔”(Bhūmi-saṃpuṭa)作封护;亦名为“拉克什弥伊什塔”(Lakṣmīṣṭā),并以“室利普塔”(Śrī-puṭa)作封护。又忆念其与“Labhanu”及“Candra”相连而成。
Verse 77
भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाहृतम् । मंत्रादिस्थचतुर्बीजपूर्विकाः परिपूजयेत् ॥ ७७ ॥
“Bhuvaḥ”被宣说为种子音(bīja);而室利种子音(Śrī-bīja)先前亦已陈述。随后应当圆满行供养,从安置于真言开端的四种子音及其余诸分开始。
Verse 78
शक्तीश्चतस्रो वेदास्रे परा च भुवनेश्वरी । कमला सुभगा चति ब्राह्म्याद्या अष्टपत्रगाः ॥ ७८ ॥
在“吠陀之点”有四位圣力(Śakti):帕拉(Parā)与布瓦内湿瓦丽(Bhuvaneśvarī),以及卡玛拉(Kamalā)与苏婆伽(Subhagā)。她们以梵天母(Brāhmī)等为首,安住于八瓣莲华之上。
Verse 79
षोडशारे स्मृते चव मानदातुष्टिपुष्टयः । प्रीती रतिर्ह्नीः श्रीश्चापि स्वधा स्वाहा दशम्यथ ॥ ७९ ॥
观想十六辐之轮(坛城)时,其主宰之力为:玛那达(Mānadā)、图什提(Tuṣṭi)、普什提(Puṣṭi)、普利提(Prīti)、拉提(Rati)、赫利(Hrī)与室利(Śrī);并且还有斯瓦达(Svadhā)与斯瓦哈(Svāhā)。
Verse 80
ज्योत्स्ना हैमवती छाया पूर्णिमा संहतिस्तथा । अमावास्येति संपूज्या मंत्रेशे प्राणपूर्विका ॥ ८० ॥
“月光”(Jyotsnā)、“雪山之女”(Haimavatī)、“影”(Chāyā)、“满月”(Pūrṇimā)、“和合”(Saṃhati),以及“新月夜”(Amāvāsyā)——这些名相当在“真言之主”前如法供奉,先以调息奉献普拉那(prāṇa)为始。
Verse 81
भूपुरे लोकपालाः स्युस्तदस्त्राणि तदग्रतः । इत्थं जपादिभिः सिद्धे मंत्रेऽस्मिन्धनसंचयैः ॥ ८१ ॥
在bhūpura(坛图外层方形围界)中,应安置诸方护世者(Lokapāla),并将其兵器陈列于前。如此以持诵(japa)及诸助行令此真言成就时,它便成为积聚财宝之因缘。
Verse 82
कुबेरसदृशो मंत्री जायते जनवंदितः । अथ लक्ष्म्यवतारोऽन्यः कीर्त्यते मुनिसत्तम ॥ ८२ ॥
将诞生一位大臣,富饶可比俱毗罗(Kubera),并为众人所敬仰。如今,噢诸牟尼之最胜者,将再述说吉祥天女拉克什米(Lakṣmī)的另一种显现。
Verse 83
प्रणवः शांतिररुणाक्रियाढ्याचन्द्रभूषिताः । बगलामुखसर्वांते इंधिकाह्रादिनीयुता ॥ ८३ ॥
“Praṇava(圣音唵)”与“Śānti(寂静)”;“Aruṇā(赤辉)”,富于仪轨之行;“Candrabhūṣitā(月饰)”,以月为严饰;以及以“Bagalāmukhī(钳制之母)”而总摄终结一切之力——并同“Indhikā”与“Hrādinī”——此等名相,皆于此处列举。
Verse 84
पीताजरायुक्प्रतिष्ठा पुनर्दीर्धोदसंयुता । वाचं मुखं पदं स्तंभयांते जिह्वापदं वदेत् ॥ ८४ ॥
安立于微黄如膜之所依,又复具长久湿润之流;言语以口为座而被遏止;此时当诵出依于舌位之音/步(jihvā-pada)。
Verse 85
कीलयेति च बुद्धिं विनाशयांते स्वबीजकम् । तारोऽग्निसुंदरी मंत्रो बगलायाः प्रकीर्तितः ॥ ८५ ॥
(此咒)含“kīlaya(钉缚)”之诵声与“摧灭其智”之句,并具自身种子音。此即所宣说之巴伽拉(Bagalā)真言,名为“Tāro’gnisundarī”。
Verse 86
मुनिस्तु नारदश्छदो बृहती बगलामुखी । देवता नेत्रपंचेषुनवपंचदिगर्णकैः ॥ ८६ ॥
咒之圣见者(ṛṣi)为那罗陀(Nārada);韵律(chandas)为Bṛhatī;本尊为Bagalāmukhī。此咒当以“五眼”、九、五、诸方位与诸音节(arṇa)而安置/诵持。
Verse 87
अंगानि कल्पयित्वा च ध्यायेत्पीताम्बरां ततः । स्वर्णासनस्थां हेमाभां स्तंभिनीमिंदुशेखराम् ॥ ८७ ॥
先于心中安置诸支分与其位次,然后当观想黄衣女神——端坐金座,光辉如金,为令众动止息之力(Stambhinī),并以月轮为顶髻之冠。
Verse 88
दधतीं मुद्गरं पाशं वज्रं च रसनां करैः । एवं ध्यात्वाजपेल्लक्षमयुतं चंपकोद्भवैः ॥ ८८ ॥
如是观想(女神)于诸手执持木槌(mudgara)、绳索(pāśa)、金刚雷杵(vajra)与舌(rasanā);随后当以占波迦(campaka)花行持持诵(japa),满十万与一万遍。
Verse 89
कुसुमैर्जुहुयात्पीठे बालायाः पूजयेदिमाम् । चंदनागुरुचंद्राद्यैः पूजार्थं यंत्रमालिखेत् ॥ ८९ ॥
于坛座(pīṭha)上,当以花作供火供,并礼敬此巴拉女神(Bālā)。为供养之故,当以檀香、沉香(agaru)、龙脑(camphor)等诸香绘制坛城(yantra)。
Verse 90
त्रिकोणषड्दलाष्टास्रषोडशारे यजेदिमाम् । मंगला स्तंभिनी चैव जृंभिणी मोहिनी तथा ॥ ९० ॥
当于具三角、六瓣莲、八角形与十六辐轮之坛城(yantra)上礼拜彼女。(当称请为)吉祥者(Maṅgalā),亦为制止者(Stambhinī)、舒展者(Jṛmbhiṇī)与迷惑者(Mohinī)。
Verse 91
वश्या चला बलाका च भूधरा कल्मषाभिधा । धात्री च कलना कालकर्षिणी भ्रामिकापि च ॥ ९१ ॥
“(她名为)Vashyā、Chalā、Balākā、Bhūdharā,亦名Kalmaṣābhidhā;又名Dhātrī、Kalanā、Kālakārṣiṇī,以及Bhrāmikā。”
Verse 92
मंदगापि च भोगस्था भाविका षोडशी स्मृता । भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात् ॥ ९२ ॥
Mandagā、Bhogasthā、Bhāvikā与Ṣoḍaśī亦被忆念为(诸名相之形态)。于bhūgṛha(仪式地坛/土殿)中,当依次在四方礼拜之——自东方起,循序而行。
Verse 93
गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् । इंद्रादींश्च ततो बाह्ये निजायुधसमन्वितान् ॥ ९३ ॥
应当依仪安置伽内沙、巴图迦、诸瑜伽尼与护境神(Kṣetrapālaka);随后在外圈安置因陀罗等诸天,各各具足自有兵器。
Verse 94
इत्थं सिद्धे मनौ मंत्री स्तंभयेद्देवतादिकान् । पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः ॥ ९४ ॥
如是,当真言已得成就时,行者应对诸天及诸类众生行“制止/定住”(stambhana)之法;端坐于黄布之上,身着黄衣,佩黄花鬘,并涂抹黄色香膏。
Verse 95
पीतपुष्पैर्यजेद्देवीं हरिद्रोत्थस्रजा जपेत् । पीतां ध्यायन्भगवतीं पयोमध्येऽयुतं जपेत् ॥ ९५ ॥
当以黄花供养女神,并以姜黄所制念珠行持诵(japa)。观想吉祥的薄伽梵蒂呈黄色之相,于乳中端坐,诵持真言一万遍。
Verse 96
त्रिमध्वा ज्यतिलैर्होमो नॄणां वश्यकरो मतः । मधुरत्रितयाक्तैः स्यादाकर्षो लवर्णैर्ध्रुवम् ॥ ९६ ॥
以“三甜”同酥油与芝麻作火供(homa),被认为能令众人受其摄持;若将“三甜”调和而供,则生起吸引之力;若以盐供,则其效必定坚固不失。
Verse 97
तैलाभ्यक्तैर्निम्बपत्रैर्होमो विद्वेषकारकः । ताललोणहरिद्राभिर्द्विषां संस्तंभनं भवेत् ॥ ९७ ॥
以涂油的楝叶作火供,会招致怨憎与敌意;若以棕榈盐(palmyra-salt)与姜黄为供,则能令仇敌遭受“定住”(stambhana)——被阻滞而不得动。
Verse 98
आगारधूमं राजीश्च माहिषं गुग्गुलं निशि । श्मशाने पावके हुत्वा नाशयेदचिरादरीन् ॥ ९८ ॥
于夜间,当在火葬场之火中投供:屋中烟垢、芥子(rājī)、水牛所出之物与古古卢树脂;以此火供,能迅速摧灭怨敌。
Verse 99
गरुतो गृध्रकाकानां कटुतैलं विभीतकम् । गृहधूमं चितावह्नौ हुत्वा प्रोच्चाटयेद्रिपून् ॥ ९९ ॥
将秃鹫与乌鸦之羽、辛烈之油、毗毗多迦果(bahedā)及家中烟垢,投供于火葬柴火之中;以“proccāṭana”之法,可驱逐怨敌。
Verse 100
दूवार्गुडूचीलाजान्यो मधुरत्रितयान्वितान् । जुहोति सोऽखिलान् रोगान् शमयेद्दर्शनादपि ॥ १०० ॥
若于圣火中供献杜尔瓦草、粗糖(jaggery)、古杜奇与炒谷,并配以“三甜”之物,则能息灭一切疾病;甚至仅见其人,诸病亦得安息。
Verse 101
पर्वताग्रे महारण्ये नदीसंगे शिवालये । ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये ॥ १०१ ॥
于山巅、于大林、于诸河交汇处,或于湿婆神庙中;若安住梵行(brahmacarya),当持诵真言十万遍,以成就一切悉地。
Verse 102
एक वर्णगवीदुग्धं शर्करामधुसंयुतम् । त्रिशतं मंत्रितं पीतं हन्याद्विषपराभवम् ॥ १०२ ॥
取同一色之母牛乳,和以糖与蜜;以真言加持三百遍后饮之,能破除毒害与毒势之压制。
Verse 103
श्वेतपालशकाष्ठेन रचिते रम्यपादके । अलक्तरंजिते लक्षं मन्त्रयेन्मनुनामुना ॥ १०३ ॥
在以白帕罗娑木(śvetapālaśa)制成、并以红漆(lac)染润的雅致脚凳上,应依彼圣“摩奴”(manu)之法,将真言诵持加持十万遍。
Verse 104
तदारूढः पुमान् गच्छत्क्षणेन शतयोजनम् । पारदं च शिलां तालं पिष्टं मधुसमन्वितम् ॥ १०४ ॥
人若乘其上,顷刻之间可行百由旬。又当取水银、石与塔罗(tāla)研磨细和,以蜜调合(为法)。
Verse 105
मनुना मन्त्रयेल्लक्षं लिंपेत्तेनाखिलां तनुम् । अदृश्यः स्यान्नृणामेष आश्चर्य्यं दृश्यतामिदम् ॥ १०५ ॥
以摩奴之法诵持十万遍而加持红漆(lac),并以其遍涂全身;则此人于众目之前隐而不见——当观此奇妙之果。
Verse 106
षट्कोणं विलिखद्बीजं साध्यनामान्वितं मनोः । हरितालनिशाचूर्णैरुन्मत्तुरससंयुतैः ॥ १०६ ॥
当画六角之形,于其中书写种子音(bīja),并书写含有所求对象之名的真言;以雄黄(黄砷矿)与姜黄之粉,和以曼陀罗(dattūra,刺苹果)之汁而书之。
Verse 107
शेषाक्षरैः समानीतं धरागेहविराजितम् । तद्यंत्रं स्थापितप्राणं पीतसूत्रेण वेष्टयेत् ॥ १०७ ॥
再以其余诸字母布列圆满,使其在地上与屋内熠熠显现;随后为此坛城(yantra)安置其命气(prāṇa),并以黄色之线缠绕之。
Verse 108
भ्राम्यत्कुलालचक्रस्थां गृहीत्वा मृत्तिकां तथा । रचयेदृषभं रम्यं यंत्रं तन्मध्यतः क्षिपेत् ॥ १०८ ॥
取置于旋转陶轮上的泥土,塑成一头庄严美好的公牛(ṛṣabha),然后将此“延陀罗”(yantra)安置于其中心。
Verse 109
हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत् । स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम् ॥ १०९ ॥
以雄黄(haritāla)涂抹此牛,并日日供奉;由此可令敌人之言语止息,并阻断其行动与诸事谋划的延续。
Verse 110
आदाय वामहस्तेन प्रेतभूस्थितकर्परम् । अंगारेण चितास्थेन तत्र यंत्रं समालिखेत् ॥ ११० ॥
以左手取那与尸体相关、 леж于地上的头骨,再以火葬柴堆所取之炭,谨慎地在其上描绘延陀罗(yantra)。
Verse 111
मंत्रितं निहितं भूमौ रिपूणां स्तंभयेद्गतिम् । प्रेतवस्त्रे लिखेद्यंत्रं अंगारेणैव तत्पुनः ॥ १११ ॥
以真言加持后埋入大地,便能遏止敌人的行动。又当仅以炭笔,在裹尸之布上再绘此延陀罗(yantra)。
Verse 112
मंडूकवदने न्यस्येत्पीतसूत्रेण वेष्टितम् । पूजितं पीतपुष्पैस्तद्वाचं संस्तंभयेद्द्विषाम् ॥ ११२ ॥
当将其置于青蛙口中,并以黄色丝线缠绕;以黄花供奉之时,据说能令敌人之言语凝滞不发。
Verse 113
यद्भूमौ भविता दिव्यं तत्र यंत्रं समालिखेत् । मार्जितं तद्द्विषां पात्रैर्दिव्यस्तम्भनकृद्भवेत् ॥ ११३ ॥
在将行神圣仪轨之地,应谨慎绘制坛城(yantra)。若以敌对者之器皿拭净之,它便成为天授的“制止法”(stambhana),能束缚并令敌势停滞。
Verse 114
इन्द्रवारुणिकामूलं सप्तशो मनुमंत्रितम् । क्षिप्तं जले दिव्यकृतं जलस्तंभनकारकम् ॥ ११४ ॥
以摩奴真言(Manu-mantra)加持七遍的因陀罗伐鲁尼迦之根,投入水中,便得天成灵验,生起“止水之法”(水之stambhana),令水势停滞不动。
Verse 115
किं बहूक्त्या साधकेन मन्त्रः सम्यगुपासितः । शत्रूणां गतिबुद्ध्यादेः स्तंभनो नात्र संशयः ॥ ११५ ॥
又何必多言?修持者若如法供奉并成就此咒,必能对敌人施行“制止”(stambhana),令其行动、智谋等皆被止息;此无疑也。
Verse 116
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रसाधननिरूपणं नाम षडशीतितमोऽध्यायः ॥ ८६ ॥
至此,在《圣大那罗陀往世书》(Śrī Bṛhan-Nāradīya Purāṇa)之前分(Pūrva-bhāga)、大叙事(Bṛhad-upākhyāna)、第三品(Pada)中,名为《阐明夜叉女真言修法》的第八十六章圆满结束。
Nyāsa is treated as the operative bridge between mantra and embodied worship: by installing bījas, epithets, and śaktis onto specific body loci and diagrammatic loci, the sādhaka aligns speech-power (vāk), desire-power (kāma), and śakti into a ritually “activated” circuit that the text says yields siddhi and stability of results.
The nava-yoni structure functions as the central generative maṇḍala for Tripurā/Bālā worship: it hosts repeated mantra placement, is surrounded by lotus enclosures and Mātr̥kā letters, and becomes the spatial template for installing pīṭha-śaktis, guardians, and ancillary deities so that japa and homa are performed within a fully articulated ritual cosmos.
It indicates different bīja-endings for different aims: seed-mantras ending with ‘kāma’ + ‘vāk’ are prescribed for influence over the worlds (siddhi/vaśya), while ‘kāma’ + ‘vāṇī’ is recommended for liberation-oriented practice by a disciplined practitioner.
Bagalāmukhī is framed around stambhana (immobilization): yellow visualization, specific yantras (triangle/lotus/wheels), turmeric-based japa and homa, and targeted rites (speech-arrest, movement-obstruction, enemy-expulsion), presented as a complete operational toolkit once the mantra is ‘perfected’ (siddha).