Varaha Purana - Adhyaya 149
Varaha PuranaAdhyaya 14998 Shlokas

Adhyaya 149: The Sacred Geography and Merit of Dvārakā

Dvārakā-māhātmya

Ancient-Geography (Tīrtha-Māhātmya) and Ritual-Manual

अध्यायेऽस्मिन् धरणी पूर्वश्रुतस्तुतस्वामि-माहात्म्येन प्रशान्तचित्ता भूयः श्रेष्ठोपदेशं याचते। वराहः द्वापरयुगकथां प्रवर्तयन् यादववंशोत्थानं, देवकृतां द्वारकां, तथा दुर्वासशापेन भावि-संकटं वर्णयति। शापस्य निमित्तं साम्बस्य कूटगर्भ-प्रपञ्चः; ततो मुसल-भविष्यवाणी, वृष्ण्यन्धकभोजानां विनाशः, बलरामेण नगरस्य समुद्राभिमुखाकर्षणं च। अनन्तरं द्वारकायां तीर्थकुण्डवृक्षादीनां क्रमिकं माहात्म्यं, काले स्नानं, पिण्डदानादि, शौचाचार-निषेधाः, तथा पुण्येन स्वर्गं वराहलोकं वा फलमिति—देशाधिष्ठित-नियमिताचाररूपं पावनत्वं प्रतिपाद्यते।

Speakers

VarāhaPṛthivī (Dharaṇī)

Key Concepts

Dvārakā-kṣetra as sacred geography (tīrtha network)Durvāsas-śāpa and lineage dissolution (Vṛṣṇi–Andhaka–Bhoja)Ritual bathing (snāna/abhiṣeka) with vrata-like time requirementsPiṇḍa-offering logic and moral visibility (puṇya vs. pāpa)Environmental sanctity: groves, trees, springs, sea-shores as ethical landscapesTithi-based observance (caturviṁśati-dvādaśī, ekādaśī) and calendrical discipline
Sanskrit recitationVaraha Purana Adhyaya 149

Shlokas in Adhyaya 149

Verse 1

अथ द्वारकामाहात्म्यम्॥ सूत उवाच॥ श्रीस्तुतस्वामिमाहात्म्यं श्रुत्वा धर्मपरायणा॥ परितुष्टमना देवी वाक्यमेतदुवाच ह॥

अथ द्वारकामाहात्म्यम्। सूत उवाच—श्रीस्तुतस्वामिमाहात्म्यं श्रुत्वा धर्मपरायणा देवी परितुष्टमना वाक्यमेतदुवाच॥

Verse 2

धरण्युवाच॥ एतच्छ्रुत्वा तु माहात्म्यं देव देववर प्रभो॥ मम चित्तस्य परमा जाता शान्तिरनुत्तमा॥

धरण्युवाच—एतन्माहात्म्यं श्रुत्वा देवदेववर प्रभो, मम चित्ते परमा शान्तिरनुत्तमा जाता॥

Verse 3

नाराचधारावरणासिधारी सुररिपुवधकारी धरणीधरः ॥ धृतशङ्खगदाब्जचक्रपाणिः स्वयमिह शास्त्रमुदावहत्प्रधानम् ॥

नाराचधारावरणासिधारी सुररिपुवधकारी धरणीधरः। धृतशङ्खगदाब्जचक्रपाणिः स्वयमिह शास्त्रमुदावहत्प्रधानम्॥

Verse 4

एवं हि गुणमाहात्म्यं स्तुतस्वामिनि मच्छ्रुतम् ॥ अस्माच्छेदं परं श्रेष्ठं तन्मे वद कृपानिधे ॥

एवं हि स्तुतस्वामिन् मया तव गुणमाहात्म्यं श्रुतम्। अस्मादपि परं श्रेष्ठं यत् तन्मे वद कृपानिधे॥

Verse 5

श्रीवराह उवाच ॥ एवं भूमे वरं श्रेष्ठे फुल्लपङ्कजमालिनि ॥ कथयिष्यामि चान्यत्ते गुह्यं पापभयापहम् ॥

श्रीवराह उवाच—एवं भूमे वरं श्रेष्ठे फुल्लपङ्कजमालिनि। कथयिष्यामि चान्यत्ते गुह्यं पापभयापहम्॥

Verse 6

द्वापरं युगमासाद्य यादवाणां कुलोद्वहः ॥ शौरीति तत्र विख्यातो भविष्यति पिता मम ॥

द्वापरयुगमासाद्य यादवकुलोद्वहः। शौरीति तत्र विख्यातो भविष्यति पिता मम॥

Verse 7

द्वारकेति च विख्याता पुरी तत्र स्थिता अभवत् ॥ या च देवपुरी रम्या विश्वकर्मविनिर्मिता ॥

द्वारकेति च विख्याता पुरी तत्र स्थिता अभवत्। या च देवपुरी रम्या विश्वकर्मविनिर्मिता॥

Verse 8

पञ्चयोजनविस्तारा दशयोजनमायता ॥ वसाम्यत्र वरारोहे शतपञ्चसमास्तथा ॥

पञ्चयोजनविस्तारा दशयोजनमायता। वसाम्यत्र वरारोहे शतपञ्चसमास्तथा॥

Verse 9

भारावतरणं कृत्वा देवानां सुमहत्प्रियम् ॥ पुनरप्यागमिष्यामि स्वर्लोकं प्रति सुन्दरि ॥

भारावतरणं कृत्वा देवानां सुमहत्प्रियम् । पुनरप्यागमिष्यामि स्वर्लोकं प्रति सुन्दरि ॥

Verse 10

तस्य शापाभिसन्तापाद्द्वारकावासिनो धरे ॥ वृष्ण्यन्धकाश्च भोजाश्च गमिष्यन्ति यमक्षयम् ॥

तस्य शापाभिसन्तापाद् धरे द्वारकावासिनः । वृष्ण्यन्धकाश्च भोजाश्च गमिष्यन्ति यमक्षयम् ॥

Verse 11

चन्द्रपाण्डुरसङ्काशो वनमाली हलायुधः ॥ हलेनाकृष्य नगरं समुद्रं गमयिष्यति ॥

चन्द्रपाण्डुरसङ्काशो वनमाली हलायुधः । हलेनाकृष्य नगरं समुद्रं गमयिष्यति ॥

Verse 12

नारायणवचः श्रुत्वा धर्मकामा वसुन्धरा ॥ उभौ तौ चरणौ गृह्य पुनः पप्रच्छ माधवी ॥

नारायणवचः श्रुत्वा धर्मकामा वसुन्धरा । उभौ तौ चरणौ गृह्य पुनः पप्रच्छ माधवी ॥

Verse 13

धरण्युवाच ॥ लोकनाथोऽसि सर्वेषां देव मायाकरण्डक ॥ शपिष्यति कथं तत्र दुर्वासास्तद्वदस्व मे ॥

धरण्युवाच । लोकनाथोऽसि सर्वेषां देव मायाकरण्डक । शपिष्यति कथं तत्र दुर्वासास्तद्वदस्व मे ॥

Verse 14

श्रीवराह उवाच ॥ तत्र जाम्बवती नाम मम पत्नी भविष्यति ॥ रूपयौवनसम्पन्ना मम भोगसमन्विता ॥

श्रीवराह उवाच—तत्र जाम्बवती नाम मम पत्नी भविष्यति, सा रूपयौवनसम्पन्ना मम भोगसमन्विता च भविष्यति।

Verse 15

तस्याः पुत्रो महाभागो रूपयौवनदर्पितः ॥ साम्ब इत्यभिविख्यातो ममैव सततं प्रियः ॥

तस्याः पुत्रो महाभागो रूपयौवनदर्पितः; साम्ब इत्यभिविख्यातो ममैव सततं प्रियः भविष्यति।

Verse 16

तेनैव क्रीडमानेन कृत्वा गर्भमतथ्यतः ॥ स पृष्टः परमश्रेष्ठ ऋषिरेषा प्रसोष्यति ॥

तेनैव क्रीडमानेन गर्भं मिथ्यैव कृत्वा; ततः परमश्रेष्ठो मुनिः पृष्टः—एषा किं प्रसोष्यति इति।

Verse 17

पुत्रकामा त्वियं बाला मुने तत्प्रब्रवीहि मे ॥ साम्बोऽयमिति च ज्ञात्वा स मुनिः कोपमूर्च्छितः ॥

पुत्रकामा त्वियं बाला, मुने तत् प्रब्रवीहि मे इति; साम्बोऽयमिति ज्ञात्वा स मुनिः कोपमूर्च्छितः।

Verse 18

उवाच तर्हि ते गर्भान्मुसलं कुलनाशनम् ॥ येन वृष्ण्यन्धकाः सर्वे गमिष्यन्ति यमक्षयम् ॥

उवाच—तर्हि ते गर्भान् मुसलं कुलनाशनं निष्क्रास्यति; येन वृष्ण्यन्धकाः सर्वे यमक्षयं गमिष्यन्ति।

Verse 19

ततस्तानागतान्दृष्ट्वा कुमारान्पृष्टवानहम् ॥ ते च मामब्रुवन्सर्वे यथावृत्तं समुत्सुकाः ॥

ततः तान् आगतान् दृष्ट्वा कुमारान् अहं अपृष्टवान् । ते च सर्वे माम् अब्रुवन् यथावृत्तं समुत्सुकाः ॥

Verse 20

तच्च तेषां वचः श्रुत्वा प्रोक्तवानस्मि तच्छृणु ॥ भविष्यति न सन्देहो दुर्वासा यदुवाच ह ॥

तच्च तेषां वचः श्रुत्वा प्रोक्तवान् अस्मि तत् शृणु । भविष्यति न सन्देहः दुर्वासा यद् उवाच ह ॥

Verse 21

एवं ते कथितं भूमे वृष्ण्यादेः शापकाणम् ॥ तत्र स्थानानि मे भूमे कथ्यमानानि मे शृणु ॥

एवं ते कथितं भूमे वृष्ण्यादेः शापकाणम् । तत्र स्थानानि मे भूमे कथ्यमानानि मे शृणु ॥

Verse 22

द्वारकायां महाभागे वैष्णवानां सुखावहे ॥ अस्ति पञ्चसरो नाम गुह्यं क्षेत्रं परं मम ॥

द्वारकायां महाभागे वैष्णवानां सुखावहे । अस्ति पञ्चसरो नाम गुह्यं क्षेत्रं परं मम ॥

Verse 23

समुद्रतीरमुत्सृज्य मम कर्मसुखावहम् ॥ तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः ॥

समुद्रतीरम् उत्सृज्य मम कर्मसुखावहम् । तत्र स्नानं तु कुर्वीत षष्ठकालोषितो नरः ॥

Verse 24

मोदते नाकपृष्ठे तु अप्सरोगणसंकुले ॥ अथात्र मुञ्चते प्राणान्क्षेत्रे पञ्चसरे मम ॥

मोदते नाकपृष्ठे तु अप्सरोगणसंकुले; अथात्र मुञ्चते प्राणान् क्षेत्रे पञ्चसरे मम—तद् एव फलम् अवाप्नोति।

Verse 25

देवलोकं समुत्सृज्य मम लोके महीयते ॥ प्लक्षो वै तत्र सुश्रोणि शतशाखो महाद्रुमः ॥

देवलोकं समुत्सृज्य मम लोके महीयते; प्लक्षो वै तत्र सुश्रोणि शतशाखो महाद्रुमः।

Verse 26

सुफलैः शोभनैः कुम्भाकृतिभिर्बहुभिः फलैः ॥ बहवस्तत्र गच्छन्ति लाभलौल्‍येन मानवाः ॥

सुफलैः शोभनैः कुम्भाकृतिभिर्बहुभिः फलैः; बहवस्तत्र गच्छन्ति लाभलौल्‍येन मानवाः।

Verse 27

फलं न लभते कश्चिन्मुक्त्वा भागवतं नरम् ॥ लभन्ते ये फलं तत्र मुक्ताः पापेन कर्मणा ॥

फलं न लभते कश्चिन् मुक्त्वा भागवतं नरम्; लभन्ते ये फलं तत्र मुक्ताः पापेन कर्मणा।

Verse 28

मनुजा यं न पश्यन्ति रागलोभसमन्विताः ॥ तत्र स्नानं प्रकुर्वीत पञ्चभक्तोषितो नरः ॥

मनुजा यं न पश्यन्ति रागलोभसमन्विताः; तत्र स्नानं प्रकुर्वीत पञ्चभक्तोषितो नरः।

Verse 29

मोदते सप्तद्वीपेषु गुह्यानि च स गच्छति ॥ अथ चेन्मुञ्चते प्राणान्प्रभाते गतकिल्बिषः ॥

स सप्तद्वीपेषु मोदते, गुह्येषु च लोकान्तरेषु गच्छति। अथ चेत् प्रभाते गतकिल्बिषः प्राणान् मुञ्चति…

Verse 30

सर्वसङ्गं परित्यज्य मम लोकं स गच्छति ॥ तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥

सर्वसङ्गं परित्यज्य स मम लोकं गच्छति। तत्राश्चर्यं महाभागे मया कथ्यमानं शृणु।

Verse 31

प्रभासे यत्र शृण्वन्ति सागरे न म (ग) रं प्रति ॥ मकरास्तत्र दृश्यन्ते भ्रममाणा इतस्ततः ॥

प्रभासे सागरे यत्र श्रूयते न मकरं प्रति। तत्र मकराः दृश्यन्ते इतस्ततो भ्रममाणाः।

Verse 32

॥ न किञ्चिदपराध्यन्ति स्नायमाना जले ततः ॥ अथात्र प्रक्षिपेत्पिण्डान्प्रसन्ने सलिले नरः ॥

तत्र जले स्नायमानाः किञ्चिदपि नापराध्यन्ति। अथात्र नरः प्रसन्ने सलिले पिण्डान् प्रक्षिपेत्।

Verse 33

असम्प्राप्ते च गृह्णन्ति एवमेतन्न संशयः ॥ पापकर्मरतस्यापि न गृह्णन्ति जलं प्रति ॥

असम्प्राप्ते च गृह्णन्ति—एवमेतन्न संशयः। पापकर्मरतस्यापि जलं प्रति न गृह्णन्ति।

Verse 34

धर्मात्मनां च गृह्णन्ति पिण्डमेव न संशयः ॥ पञ्चपिण्डमिति ख्यातं तस्मिन्गुह्यं परं मम ॥

धर्मात्मनां तु पिण्डदानं गृह्णन्त्येव, नात्र संशयः। तत् ‘पञ्चपिण्ड’ इति लोके ख्यातं; तस्मिन्मम परमं गुह्यं निहितम्॥

Verse 35

अगाधस्याप्यपारस्य क्रोशविस्तार एव च ॥ तत्राभिषेकं कुर्वीत पञ्चकालोषितो नरः ॥

अगाधस्याप्यपारस्य जलस्य क्रोशविस्तार एव च। तत्र पञ्चकालोषितो नरः स्नानाभिषेकं समाचरेत्॥

Verse 36

मोदते शक्रलोके स एवमेतन्न संशयः ॥ अथात्र मुञ्चते प्राणान्पञ्चकुण्डे यशस्विनि ॥

स शक्रलोके मोदते—एवमेतन्न संशयः। अथात्र, यशस्विनि, पञ्चकुण्डे प्राणान् परित्यजति॥

Verse 37

न पश्येत्पापकर्मा वै शुभकर्मैव पश्यति ॥ चतुर्विंशतिद्वादश्यां मध्याह्ने च दिवाकरे ॥

पापकर्मा न तद् पश्येत्; शुभकर्मा एव पश्यति। चतुर्विंशतिद्वादश्यां च, मध्याह्ने दिवाकरे च॥

Verse 38

रौप्यं सुवर्णकं पद्मं दृश्यते नात्र संशयः ॥ क्षेत्रं संगमनं नाम तस्मिंस्तीर्थे परं मम ॥

रौप्यं सुवर्णकं पद्मं तत्र दृश्यते, नात्र संशयः। ‘संगमन’ इति ख्यातं क्षेत्रं; तस्मिंस्तीर्थे मम परं निहितम्॥

Verse 39

चतुर्धाराः पतन्त्यत्र मणिपूरगिरिं श्रिताः ॥ तत्राभिषेकं कुर्वीत चतुर्भक्तोषितो नरः ॥

अत्र मणिपूरगिरिं श्रिताः चतुर्धाराः पतन्ति। तत्र चतुर्भक्तिव्रतसम्पन्नो नरः अभिषेकं कुर्यात्॥

Verse 40

वैखानसेषु लोकेषु मोदते नात्र संशयः ॥ अथात्र मुञ्चते प्राणान्मम भक्तिपरायणः ॥

स वैखानसेषु लोकेषु मोदते, नात्र संशयः। अथ अत्र मम भक्तिपरायणः प्राणान् मुञ्चति॥

Verse 41

त्यक्त्वा वैखानसान् लोकान्मम लोकं स गच्छति ॥ तत्रापि परमाश्चर्यं कथ्यमानं शृणुष्व मे ॥

त्यक्त्वा वैखानसान् लोकान् स मम लोकं गच्छति। तत्रापि परमाश्चर्यं कथ्यमानं मे शृणु॥

Verse 42

दृश्यन्ते यानि कुण्डेषु मणिपूरगिरौ तथा ॥ प्रक्षीयमाणे पापे तु नयते तज्जलं भुवि ॥

मणिपूरगिरौ कुण्डेषु यानि दृश्यन्ते तानि। पापे प्रक्षीयमाणे तु तज्जलं भुवि नयति (फलम्)॥

Verse 43

स्नायमानेषु पापेषु न पतॆत्तद्यथा पुरा ॥ हंसकुण्डेति विख्यातं तस्मिन्क्षेत्रे परे मम ॥

पापेषु स्नायमानेषु यथा पुरा न पतति। मम परे तस्मिन् क्षेत्रे ‘हंसकुण्ड’ इति विख्यातम्॥

Verse 44

धारा चैका पतत्यत्र मणिपूरगिरौ श्रिता ॥ तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः ॥

धारा चैका पतत्यत्र मणिपूरगिरौ श्रिता। तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः॥

Verse 45

मुक्तसङ्गो महाभागे मोदते वरुणालये ॥ अथात्र मुंचते प्राणान् हंसकुण्डे वरानने ॥

मुक्तसङ्गो महाभागे मोदते वरुणालये। अथात्र मुंचते प्राणान् हंसकुण्डे वरानने॥

Verse 46

शुद्धाः पश्यन्ति मनुजाः पापकर्मा न पश्यति ॥ चतुर्विंशतिद्वादश्यां मध्याह्ने च दिवाकरे ॥

शुद्धाः पश्यन्ति मनुजाः पापकर्मा न पश्यति। चतुर्विंशतिद्वादश्यां मध्याह्ने च दिवाकरे॥

Verse 47

हंसाश्चैवात्र दृश्यन्ते चन्द्रकुण्डसमप्रभाः ॥ हंसान्पश्यति यस्तत्र भ्रममाणानितस्ततः ॥

हंसाश्चैवात्र दृश्यन्ते चन्द्रकुण्डसमप्रभाः। हंसान्पश्यति यस्तत्र भ्रममाणानितस्ततः॥

Verse 48

लभन्ते ते परां सिद्धिं धरे नास्त्यत्र संशयः ॥ कदम्बमिति विख्यातं तस्मिन्क्षेत्रे परं मम ॥

लभन्ते ते परां सिद्धिं धरे नास्त्यत्र संशयः। कदम्बमिति विख्यातं तस्मिन्क्षेत्रे परं मम॥

Verse 49

मोदते ऋषिलोकॆषु पुण्यात्मा वै न संशयः ॥ अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम् ॥

पुण्यात्मा ऋषिलोकॆषु मोदते, नात्र संशयः। अथात्र सुदुष्करं कर्म कृत्वा प्राणान् मुञ्चति।

Verse 50

वृष्णयो यत्र वै शुद्धाः संप्राप्ताश्च ममालयम् ॥ तत्राभिषेकं कुर्वीत चतुःकालोषितो नरः ॥

यत्र वृष्णयः शुद्धाः ममालयं संप्राप्ताः, तत्र चतुःकालोषितो नरः अभिषेकं कुर्वीत।

Verse 51

ऋषिलोकं परित्यज्य मम लोकं प्रपद्यते ॥ तत्राश्चर्यं महाभागे कथ्यमानं शृणुष्व मे ॥

ऋषिलोकं परित्यज्य मम लोकं प्रपद्यते। तत्र महाभागे मया कथ्यमानम् आश्चर्यं शृणु।

Verse 52

कदम्बात्पतते धारा तत्र पूर्वविनिःसृता ॥ स कदम्बो महाभागे माघमासस्य द्वादशी ॥

कदम्बात् धारा पतति, तत्र पूर्वविनिःसृता। स कदम्बो महाभागे माघमासस्य द्वादशी-सम्बद्धः।

Verse 53

पुष्पाणि वै प्रकटयत्युदयस्थे दिवाकरे ॥ ये वा लभन्ते तत्पुष्पं मम मार्गानुसारिणः ॥

उदयस्थे दिवाकरे पुष्पाणि प्रकटयति। ये तत्पुष्पं लभन्ते ते मम मार्गानुसारिणः।

Verse 54

ते लभन्ते परां सिद्धिमेवमेतन्न संशयः ॥ चक्रतीर्थमिति ख्यातं तस्मिन्क्षेत्रे परं मम ॥

ते लभन्ते परां सिद्धिम्—एवमेतन्न संशयः। चक्रतीर्थमिति ख्यातं तस्मिन्क्षेत्रे परं मम॥

Verse 55

दशवर्षसहस्राणि स्वर्गलोके स मोदते ॥ अथात्र मुञ्चते प्राणाँल्लोभमोहविवर्जितः ॥

दशवर्षसहस्राणि स्वर्गलोके स मोदते। अथात्र मुञ्चते प्राणान् लोभमोहविवर्जितः॥

Verse 56

सर्वान्स्वर्गान्समुत्सृज्य मम लोकं स गच्छति ॥ तत्राश्चर्यं प्रवक्ष्यामि कथ्यमानं शृणुष्व मे ॥

सर्वान् स्वर्गान् समुत्सृज्य मम लोकं स गच्छति। तत्राश्चर्यं प्रवक्ष्यामि कथ्यमानं शृणुष्व मे॥

Verse 57

अन्यथैतन्न पश्यन्ति मम कर्मपरायणाः ॥ चतुर्विंशतिद्वादश्यामर्द्धरात्रे यशस्विनि ॥

अन्यथा एतन्न पश्यन्ति मम कर्मपरायणाः। चतुर्विंशतिद्वादश्याम् अर्द्धरात्रे यशस्विनि॥

Verse 58

श्रूयते तत्र निर्घोषो मनःकर्णसुखावहः ॥ सुगन्धो वहते वायुर्बहुमाल्यसमन्वितः ॥

श्रूयते तत्र निर्घोषो मनःकर्णसुखावहः। सुगन्धो वहते वायुः बहुमाल्यसमन्वितः॥

Verse 59

दुर्ल्लभः पापिनां चैव सुलभः पुण्यकर्मिणाम् ॥ तस्य चोत्तरपार्श्वेन अशोकश्च महाद्रुमः ॥

दुर्लभं पापाचारिणां, सुलभं पुण्यकर्मिणाम्। तस्योत्तरपार्श्वे महाद्रुमोऽशोकः स्थितः॥

Verse 60

पुष्प्यते सोऽथ तत्रापि सूर्ये चाभ्युदिते सति ॥ ये तत्र लभते पुष्पं मम मार्गानुसारिणः ॥

सूर्येऽभ्युदिते सति स तत्रापि पुष्प्यते। ये तत्र पुष्पं लभन्ते मम मार्गानुसारिणः॥

Verse 61

ते लभन्ते परां सिद्धिं एवं भूमे न संशयः ॥ अस्ति रैवतकम् नाम तस्मिन्क्षेत्रे परं मम ॥

ते परां सिद्धिं लभन्ते, एवं भूमे न संशयः। अस्ति रैवतकम् नाम, तस्मिन्क्षेत्रे परं मम॥

Verse 62

सर्वलोकेषु विख्यातं यत्र विक्रीडितं मया ॥ बहुगुल्मलताकीर्णं बहुपुष्पैश्च शोभितम् ॥

सर्वलोकेषु विख्यातं यत्र मया विक्रीडितम्। बहुगुल्मलताकीर्णं बहुपुष्पैश्च शोभितम्॥

Verse 63

बहुवर्णशिलापङ्क्तिर्गुहाश्चापि दिशो दश ॥ वाप्यश्च कन्दराश्चैव देवानामपि दुर्लभाः

बहुवर्णशिलापङ्क्तिर्गुहाश्चापि दिशो दश। वाप्यः कन्दराश्चैव देवानामपि दुर्लभाः॥

Verse 64

अथात्र मुञ्चते प्राणान्मम कर्मसु निष्ठितः ॥ सोमलोकं समुत्सृज्य मम लोकं प्रपद्यते

अथात्र मम कर्मसु निष्ठितः प्राणान् मुञ्चति; सोमलोकं समुत्सृज्य मम लोकं प्रपद्यते।

Verse 65

तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥ पश्यन्ति मनुजाः सर्वे धर्मकामाः न संशयः

तत्राश्चर्यं महाभागे मया कथ्यमानं शृणु; धर्मकामाः सर्वे मनुजाः पश्यन्ति, न संशयः।

Verse 66

पतन्ति सर्ववृक्षाणां पत्राणि सुबहून्यपि ॥ एकं चापि न दृश्येत प्रसन्नं याति तज्जलम्

पतन्ति सर्ववृक्षाणां पत्राणि सुबहून्यपि; एकं चापि न दृश्येत, तज्जलं प्रसन्नं याति।

Verse 67

स च पूर्वेण पार्श्वेन शोभते वै महाद्रुमः ॥ अपरो मम पार्श्वेन देवानामपि दुर्लभः

स च पूर्वेण पार्श्वेन शोभते वै महाद्रुमः; अपरो मम पार्श्वेन देवानामपि दुर्लभः।

Verse 68

पञ्चक्रोशसुविस्तारः शोभते वै महाद्रुमः ॥ पद्मैश्चैवोत्पलैश्छन्नं सुगन्धिकुसुमैः सह

पञ्चक्रोशसुविस्तारः शोभते वै महाद्रुमः; पद्मैश्चैवोत्पलैश्छन्नं सुगन्धिकुसुमैः सह।

Verse 69

बहुमत्स्यजलाकीर्णं सर्वतस्तु फलान्वितम् ॥ शिलातलगुहाच्छन्नं सुगन्धिकुसुमैः सह

बहुमत्स्यजलाकीर्णं सर्वतः फलसमन्वितम् । शिलातलगुहाच्छन्नं सुगन्धिकुसुमैः सह ॥

Verse 70

तत्राभिषेकं कुर्वीत अष्टभक्तोषितो नरः ॥ मोदते नन्दने दिव्ये अप्सरोभिः समन्विते

तत्राभिषेकं कुर्वीत अष्टभक्तोषितो नरः । मोदते नन्दने दिव्ये अप्सरोभिः समन्विते ॥

Verse 71

अत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥ पश्यन्ति मनुजाः सर्वे धर्मकामाः न संशयः

अत्राश्चर्यं महाभागे कथ्यमानं मया शृणु । पश्यन्ति मनुजाः सर्वे धर्मकामाः न संशयः ॥

Verse 72

मध्याह्ने च पुनः पूर्णश्चार्धरात्रे समो वहेत् ॥ वर्धते क्षीयते चैव यथैव च महोदधिः

मध्याह्ने च पुनः पूर्णश्चार्धरात्रे समो वहेत् । वर्धते क्षीयते चैव यथैव च महोदधिः ॥

Verse 73

पश्येत् तु शुभकर्मा च पापकर्मा न पश्यति ॥ दृश्यते च महाभागे अस्तमेते दिवाकरे ॥

पश्येत् तु शुभकर्मा च पापकर्मा न पश्यति । दृश्यते च महाभागे अस्तमेते दिवाकरे ॥

Verse 74

यस्तत्र लभते पुष्पं मम मार्गानुसारकः ॥ स लभेत परां सिद्धिमेवं भूमे न संशयः ॥

यः तत्र मम मार्गानुसारकः पुष्पं लभते, स परां सिद्धिं प्राप्नोति; एवं हे भूमे, न संशयः।

Verse 75

विष्णुसंक्रमणं नाम तस्मिन्क्षेत्रे परे मम ॥ विद्धोऽस्मि यत्र व्याधेन स्वमूर्त्तिं चास्थितः पुनः ॥

तस्मिन् मम परे क्षेत्रे ‘विष्णुसंक्रमणम्’ इति नाम स्थानं; यत्र व्याधेन अहं विद्धः, ततः पुनः स्वमूर्तिं समास्थितवान्।

Verse 76

तत्र कुण्डं महाभागे मणिपूरगिरा श्रुतम् ॥ धारा चैका पतत्यत्र लाभालाभविवर्जितः ॥

तत्र महाभागे ‘मणिपूरगिरा’ इति श्रुतं कुण्डं; अत्रैका धारा पतति, लाभालाभविवर्जितः (भक्तः)।

Verse 77

सूर्यलोकं समुत्सृज्य मम लोके महीयते ॥ तत्राश्चर्यं प्रवक्ष्यामि विष्णुं शत्रुगणेश्वरम् ॥

सूर्यलोकं समुत्सृज्य मम लोके महीयते; तत्राश्चर्यं प्रवक्ष्यामि—विष्णुं शत्रुगणेश्वरम्।

Verse 78

पापिनां यस्तु दुर्दर्शः सुदृश्यः पुण्यचारिणाम् ॥ तस्य दक्षिणपार्श्वेन अश्वत्थो वै महाद्रुमः ॥

यत् पापिनां दुर्दर्शं, तत् पुण्यचारिणां सुदृश्यम्; तस्य दक्षिणपार्श्वे वै महाद्रुमः अश्वत्थः तिष्ठति।

Verse 79

चतुर्विंशतिद्वादश्यां मध्याह्ने तु दिवाकरे ॥ फलते स यथान्यायं सर्वभागवतप्रियम् ॥

चतुर्विंशतिद्वादश्यां मध्याह्ने दिवाकरस्थिते । स यथान्यायं फलं ददाति सर्वभागवतप्रियः ॥

Verse 80

उच्चश्चैव विशालश्च मनोज्ञश्चैव शीतलः ॥ ये लभन्ते फलं तत्र मम मार्गानुसारिणः ॥

उच्चो विशालो मनोज्ञः शीतलश्चैव स स्मृतः । तत्र फलं लभन्ते ये मम मार्गानुसारिणः ॥

Verse 81

ते लभन्ते परां सिद्धिमेवमेतन्न संशयः ॥ तस्मिन् क्षेत्रे महाभागे तिष्ठामि चोत्तरामुखः ॥

ते परां सिद्धिमाप्नुवन्त्येवमेतन्न संशयः । तस्मिन् क्षेत्रे महाभागे तिष्ठाम्यहमुत्तरामुखः ॥

Verse 82

त्रयस्तत्रैव तिष्ठामो द्वारकायां यशस्विनि ॥ तस्मिन् क्षेत्रे महाभागे त्रयो मोदामहे वयम् ॥

त्रय एव तत्र तिष्ठामो द्वारकायां यशस्विनि । तस्मिन् क्षेत्रे महाभागे त्रयो मोदामहे वयम् ॥

Verse 83

त्रिंशद्योजनविस्तारः सर्वतस्तु दिशो दश ॥ तत्र गत्वा वरारोहे ये मां द्रक्ष्यन्ति भक्तितः ॥

त्रिंशद्योजनविस्तारं सर्वतो दश दिग्भ्रमम् । तत्र गत्वा वरारोहे ये मां द्रक्ष्यन्ति भक्तितः ॥

Verse 84

अदीर्घेणैव कालेन प्राप्नुवन्ति परां गतिम् ॥ आख्यानानां महाख्यानं शान्तीनां शान्तिरुत्तमा ॥

अदीर्घेणैव कालेन ते परां गतिं प्राप्नुवन्ति। एष आख्यानानां महाख्यानं, शान्तीनां शान्तिरुत्तमा॥

Verse 85

धर्माणां परमो धर्मो द्युतिनां परमा द्युतिः ॥ लाभानां परमो लाभः क्रियाणां परमा क्रिया ॥

धर्माणां परमो धर्मोऽयं, द्युतिनां परमा द्युतिः। लाभानां परमो लाभः, क्रियाणां परमा क्रिया॥

Verse 86

यदीच्छेत्परमां सिद्धिं मम लोकं स गच्छति ॥ य एतत्पठते भद्रे कल्यमुत्थाय मानवः ॥

यः परमां सिद्धिमिच्छेत् स मम लोकं गच्छति। भद्रे, य एतत् पठति प्रातःकाले उत्थाय मानवः॥

Verse 87

सकुल्यास्तारितास्तेन सप्त सप्त च सप्त च ॥ एतत्ते कथितं भद्रे द्वारकायाः सुनिश्चितम् ॥

सकुल्यास्तारितास्तेन सप्त सप्त च सप्त च। एतत्ते कथितं भद्रे द्वारकायाः सुनिश्चितम्॥

Verse 88

उचितेनोपचारेण किमन्यत्परिपृच्छति ॥

उचितेनोपचारेण सादरं किमन्यत् परिपृच्छति॥

Verse 89

श्रुतीनां परमं श्रेष्ठं तपसा च परं तपः ॥ एतन्मरणकालेऽपि मा कदाचित्तु विस्मरेत् ॥

श्रुतीषु परमं श्रेष्ठं, तपसां च परं तपः। एतन्मरणकालेऽपि कदाचिन्मा विस्मरेत्॥

Verse 90

भविष्यति वरारोहे ईश्वरः सदृशो मम ॥ दुर्वासा इति विख्यातः शपिष्यति कुलं मम ॥

भविष्यति वरारोहे ईश्वरः सदृशो मम। दुर्वासा इति विख्यातः शपिष्यति कुलं मम॥

Verse 91

श्रुत्वा दुर्वाससः शापं ते च सर्वे कुमारकाः ॥ शापेन संतप्तधियो मामूचुर्भयसंयुताः ॥

श्रुत्वा दुर्वाससः शापं ते च सर्वे कुमारकाः। शापेन संतप्तधियो मामूचुर्भयसंयुताः॥

Verse 92

ते लभन्ते परां सिद्धिं मम कर्मणि संस्थिताः ॥ प्रभासमिति विख्यातं तस्मिंस्तीर्थे परे मम ॥

ते लभन्ते परां सिद्धिं मम कर्मणि संस्थिताः। प्रभासमिति विख्यातं तस्मिंस्तीर्थे परे मम॥

Verse 93

शक्रलोकं परित्यज्य मम लोकं स गच्छति ॥ तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु ॥

शक्रलोकं परित्यज्य मम लोकं स गच्छति। तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु॥

Verse 94

वारुणं लोकमुत्सृज्य मम लोके महीयते ॥ तत्राश्चर्यं प्रवक्ष्यामि हंसकुण्डे यशस्विनि ॥

वारुणं लोकं परित्यज्य मम लोके स महीयते । तत्र हंसकुण्डे यशस्विनि आश्चर्यं प्रवक्ष्यामि ॥

Verse 95

पञ्च धाराः पतन्त्यत्र मणिपूरसमाश्रिताः ॥ तत्राभिषेकं कुर्वीत पञ्चकालोषितो नरः ॥

अत्र पञ्च धाराः पतन्ति मणिपूरसमाश्रिताः । पञ्चकालोषितो नरस्तत्राभिषेकं कुर्यात् ॥

Verse 96

तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः ॥ गच्छेत्तु सोमलोकं तु कृतकृत्यो न संशयः ॥

षष्ठकालोषितो नरस्तत्राभिषेकं कुर्यात् । स कृतकृत्यो न संशयः सोमलोकं गच्छेत् ॥

Verse 97

तस्य पश्चिमपार्श्वे तु बिल्वश्चैव महाद्रुमः ॥ चतुर्विंशतिद्वादश्यां स पुष्यति च निष्कलम् ॥

तस्य पश्चिमपार्श्वे तु बिल्वो महाद्रुमः स्थितः । चतुर्विंशतिद्वादश्यां स निष्कलं पुष्यति ॥

Verse 98

सर्वभागवतप्रीतिं समुद्रतटमाश्रितः ॥ अहं रामेण सहितः सा चाप्येकादशी शुभा ॥

समुद्रतटमाश्रित्य सर्वभागवतप्रीतिं जनयति । अहं रामेण सहितस्तत्रास्मि; सा च शुभैवैकादशी ॥

Inside Adhyaya 149

How it unfolds

  1. Where it opens

    Pṛthivī (Dharaṇī), pacified and inwardly steady after hearing the prior praise of Stutasvāmin, requests from Varāha a still higher, more discriminating instruction—one that surpasses mere eulogy and becomes a guide to lived sanctity.

  2. Central event

    Varāha answers by placing Dvārakā within a Dvāpara-yuga narrative: the flourishing of the Yādava line, the divine construction of Dvārakā (with Viśvakarman as architect), and the approach of catastrophe through Durvāsas’ curse—triggered by Sāmba’s deception (false pregnancy) that yields the musala (club) prophecy and the unraveling of the Vṛṣṇi–Andhaka–Bhoja confederacies.

  3. Climax resolution

    The curse narrative resolves into the city’s liminal fate: the Yādava destruction is foreshadowed as inevitable karmic consequence, and Balarāma (Halāyudha) is depicted as drawing Dvārakā toward the sea—turning political grandeur into a coastal threshold where history collapses into tīrtha.

  4. Closing phalashruti

    No single, formal phalaśruti is foregrounded as a concluding verse-formula; instead, the chapter closes by distributing fruits site-by-site: timed snāna, piṇḍa, and restraint performed in Dvārakā’s tīrtha-ecology yield heaven and, for the ethically qualified (puṇyakarman), access to Viṣṇu/Varāha’s own loka, while pāpakarman are said to lack perceptibility and full fruition.

Geographical context

Dvārakā; samudra-tīra (sea-shore); Pañcasara (guhya-kṣetra); Prabhāsa-tīrtha; Maṇipūra-giri (hill/mountain locus for multiple dhārās); Haṁsakuṇḍa; Saṅgamana-kṣetra; Kadamba (sacred tree-site); Chakratīrtha; Raivataka (noted as a renowned site of play/vikrīḍita); Viṣṇu-saṅkramaṇa (site of being ‘pierced’ by a hunter in the narrative frame); groves/trees: plakṣa, aśoka, bilva, aśvattha; aquatic features: kuṇḍas, vāpīs, kandarās, sālila (calm waters), sāgara (sea).

Tirtha focus

  • Primary TirthaDvārakā-kṣetra (samudra-tīra network of kuṇḍas, dhārās, groves, and named kṣetras)
  • Associated RegionSaurāṣṭra / western seacoast (Gujarat littoral)
  • Pilgrimage MeritMerit is mapped as a disciplined itinerary: bathing at prescribed tithis and times (madhyāhna, ardharātra, sunset; caturviṁśati-dvādaśī; Māgha-dvādaśī; ekādaśī), coupled with piṇḍa and ethical restraint (freedom from rāga/lobha, bodily and mental purity), grants heavenly ascent and, in higher cases, Varāha-loka; the impure are described as unable to ‘see’ or fully obtain the promised fruits, making moral visibility a condition of sacred geography.

Ritual instructions

  • Primary RitualTīrtha-yātrā in Dvārakā with snāna/abhiṣeka, piṇḍa-offering, and vrata-like time discipline across named sites (kuṇḍa, dhārā, grove, sea-shore).
  • BenefitSite-specific merit culminating in svarga and, for the ethically qualified, attainment of Viṣṇu/Varāha’s loka; additionally, the pilgrim gains ‘darśana-capacity’—the ability to perceive sanctity—presented as a moral-ritual outcome rather than a mere sensory event.

The narrative frame

  • VarāhaPṛthivī (Dharaṇī) · Pedagogical and consoling, moving from mythic-historical warning (curse and dissolution) to practical instruction (itinerary and discipline), with an undercurrent of ethical seriousness.

The emotional journey

  • Dominant RasaŚānta (with a strong undercurrent of Karuṇa and Bhayānaka in the curse narrative)
  • Emotional ProgressionCalm receptivity (Pṛthivī) → awe at divine city and lineage grandeur → dread and sorrow as curse and annihilation are disclosed → sober acceptance of impermanence → renewed steadiness as sanctity is re-grounded in disciplined pilgrimage and ethical ecology.

Planning a pilgrimage

  • Visit FeasibilityHighly feasible as a modern pilgrimage: Dvārakā (Dwarka) remains a major coastal tirtha with accessible transport and established temple circuits; several named loci may be locally identified through regional tradition, while some (e.g., broader Prabhāsa) align with nearby Saurashtra sacred geography.
  • Best SeasonOctober–March (cooler coastal climate; Māgha observances fall within this window)
  • Modern Location NameDwarka, Gujarat, India (Dvārakā / Devbhumi Dwarka district); Prabhāsa commonly associated with Somnath/Prabhas Patan region in Saurashtra.
  • Related FestivalKārtika and Māgha month observances; Ekādaśī/Dvādaśī vrata days; Janmāṣṭamī is widely celebrated in Dvārakā (Krishna-centric), aligning with the chapter’s Yādava/Dvārakā sacrality even if not explicitly specified here.

Frequently Asked Questions

The text links moral disposition to ritual efficacy and perceptibility: those characterized as puṇyakarman (ethically disciplined) can access the chapter’s promised ‘visions’ and fruits of tīrtha practice, while pāpakarman are described as unable to perceive or obtain certain results. The instruction is framed as disciplined conduct expressed through regulated pilgrimage, restraint from raga/lobha, and correct performance of snāna/abhiṣeka and offerings within designated sacred ecologies (trees, kuṇḍas, sea-shores).

Multiple rites are keyed to caturviṁśati-dvādaśī (the 24th dvādaśī) and specific times such as madhyāhna (midday), ardharātra (midnight), and astamita divākara (sunset). A māsika marker appears with Māgha-māsa dvādaśī in connection with the Kadamba site. Ekādaśī is also mentioned in association with Varāha’s presence with Rāma (Balarāma) at the sea-shore.

Pṛthivī’s role as interlocutor frames sacred space as an ethical landscape: the narrative maps merit onto specific ecological features—springs (dhārā), ponds/kuṇḍas, groves and keystone trees (plakṣa, aśoka, bilva, aśvattha), and the sea margin—treating them as regulated zones where human action (bathing, offering, restraint) yields social and cosmic outcomes. The city’s movement toward the sea and the emphasis on clean, calm waters also encode a discourse of terrestrial vulnerability and place stewardship through disciplined use.

The chapter references the Yādava lineage and the groups Vṛṣṇi, Andhaka, and Bhoja; the sage Durvāsas as the agent of the curse; Jāmbavatī as Varāha’s future wife in the narrative frame; Sāmba as their son and the catalyst for the curse episode; and Balarāma (Halāyudha) as the figure who draws the city toward the sea. Viśvakarman is named as the divine architect associated with Dvārakā’s construction.

Ask anything about Adhyaya 149 of the Varaha Purana

Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.

Not sure where to start?

A free sign-in with Google or Apple keeps your chat saved across web and the app.

Read Varaha Purana in the Vedapath app

Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.

Continue reading in the Vedapath app

Open in App