Adhyaya 129
Varaha PuranaAdhyaya 12960 Shlokas

Adhyaya 129: Initiation for the Four Social Orders, Sandhyā Mantra Procedure, and the Merit of Offering Water in a Copper Vessel

Caturvarṇa-dīkṣā, Sandhyā-mantra-vidhiḥ, Dīpa-dhūpa-tilaka-pūjā ca; Tāmra-pātra-prāpaṇaka-mahātmyam

Ritual-Manual (Bhāgavata dīkṣā, sandhyā, and offering protocols) with Etiological Narrative (origin-myth of copper’s ritual preference)

अध्यायेऽस्मिन् वसुधरा वराहं प्रति गुह्यं पृच्छति—वराह/वासुदेवपरायणेन भक्तेन सन्ध्योपासनायाः मन्त्रविधिः क्रमश्च कथं कर्तव्यः इति। वराहः दिक्षितोपवीतधारिणामेव अधिकारं निर्दिश्य सन्ध्याजलाञ्जलिं निर्दिष्टमन्त्रेण, तथा दीपार्पणं, ललाटतिलकं, सुमनःपुष्पार्पणं, धूपार्पणं च यथाविधि मन्त्रैः सह उपदिशति। अनन्तरं प्रापणकाय (जलदानाय) पात्रविचारं पृष्टा वसुधरा; वराहः सुवर्णरजतकांस्यानि निरस्य ताम्रपात्रस्यैव प्रशस्ततां वदति। तस्य पवित्रत्वं गुडाकेशासुरस्य तपः, वैशाखशुक्लद्वादश्यां विष्णुचक्रेण वध्यत्वव्रतं, तस्मात् ताम्रादिधातुनां उत्पत्तिकथां च निवेद्य प्रतिपादयति। एवं शुद्धि-नियम-संयम-यज्ञोपहाररक्षणैः सह भक्ति-शासनं भूम्याः व्यवस्थां च संयोजयति।

Primary Speakers

VarāhaPṛthivī (Vasundharā)

Key Concepts

Bhāgavata-dīkṣā and eligibility (dīkṣita, yajñopavīta)Sandhyā-vidhi with jalāñjali and mantra-recitationUpacāra offerings: dīpa, dhūpa, tilaka, puṣpaPrāpaṇaka (water-offering) and vessel-material hierarchyTāmra (copper) as ritually preferred metalEtiology of metals via Guḍākeśa and Viṣṇu-cakraMerit-transfer to pitṛs through correct offeringSecrecy/controlled transmission (guhya; not for the undīkṣita)

Shlokas in Adhyaya 129

Verse 1

अथ चतुर्वर्णदीक्षा ॥ श्रीवराह उवाच ॥ भूषितालङ्कृतं कृत्वा मम कर्मपरायणः ॥ शुक्लं यज्ञोपवीतं च देयं नवगुणं तथा ॥

अथ चतुर्वर्णदीक्षा। श्रीवराह उवाच— भूषितालङ्कृतं कृत्वा मम कर्मपरायणः, शुक्लं यज्ञोपवीतं च देयं नवगुणं तथा।

Verse 2

शिरसा चाञ्जलिं कृत्वा वसुधा पुनरब्रवीत् ॥ धरण्युवाच ॥ एतन्मां परमं गुह्यं तद्भक्तां वक्तुमर्हसि ॥ सन्ध्यां वै केन मन्त्रेण तव कर्मपरायणाम् ॥ वद भागवतीं शुद्धां तव कर्मविनिश्चिताम् ॥ ततॊ भूमिवचः श्रुत्वा भूतानां प्रभवोऽव्ययः ॥ वराहरूपो भगवान् प्रत्युवाच वसुन्धराम् ॥ श्रीवराह उवाच ॥ माधवि तत्त्वेन यन्मां त्वं परिपृच्छसि ॥ कथयिष्यामि ते भद्रे प्रवरं गुह्यमुत्तमम् ॥ यथावद्विदितं भूपैः पुण्या भागवताः शुभाः ॥ कृत्वा तु मम कर्माणि शुचिसंसारमोक्षणीम् ॥ कुर्वीतैव परां सन्ध्यां यथावदिति निश्चितम् ॥ जलाञ्जलिं ततो गृह्य मम भक्त्या व्यवस्थितः ॥ मुहूर्तध्यानमास्थाय इमं मन्त्रमुदाहरेत् ॥ मन्त्रः— भवोद्भवमादिव्यक्तरूपमात्रं सर्वे देवा ब्रह्मा रुद्रस्त्वादृक्सममासीद्ध्यानयोगस्थिताः ते सन्ध्यासंस्था वासुदेवं नमति वयं देवमादिव्यक्तरूपमात्मसप्तदिवसं तथापि संसारार्थं कर्म तत्करणमेव सन्ध्यासंस्था वासुदेव नमोऽस्तु ते ॥ मन्त्राणां परमो मन्त्रस्तपतां परमं तपः ॥ आचारं कुरुते ह्येवं मम लोकं स गच्छति ॥ गुह्यानां परमं गुह्यं रहस्यं परमुत्तमम् ॥ य एवं पठते नित्यं न स पापेन लिप्यते ॥ नादीक्षिताय दातव्यं नोपवीते कथंचन ॥ दीक्षितायैव दातव्यमुपपन्ने तथैव च ॥ पुनरन्यत्प्रवक्ष्यामि देवि तत्त्वेन मे शृणु ॥ न दीपमपि गृह्णाति दत्तं भागवतैः शुभैः ॥ कृत्वा तु मम कर्माणि गृह्य दीपकमुत्तमम् ॥ जानुसंस्थां ततः कृत्वा इमं मन्त्रमुदीरयेत ॥ मन्त्रः— ॐ नमो भगवतेऽनुग्रह तेजसे विष्णो सर्वदेवास्त्वाग्निसंस्थाः प्रविष्टा एवं चाग्निस्तव तेजसा भविष्यति स्वतेजसा मामाशु मन्त्रस्य तेजसा संसारार्थं देव गृह्यं दीपकं मन्त्रं मूर्त्तिमन्त्रं श्वो भूत्वा इमं कर्म निष्फलम् ॥ तत्करोति यथान्याय्यं दीपकं ददते नरः ॥ तारिताः पितरस्तेन निष्कलाश्च पितामहाः ॥ गन्धेन तिलकं दद्याल्ललाटे मम सुन्दरी ॥ अन्यच्च ते प्रवक्ष्यामि कर्म लोकसुखावहम्

शिरसा चाञ्जलिं कृत्वा वसुधा पुनरब्रवीत्— “एतन्मां परमं गुह्यं तद्भक्तां वक्तुमर्हसि। सन्ध्यां वै केन मन्त्रेण तव कर्मपरायणाम्? वद भागवतीं शुद्धां तव कर्मविनिश्चिताम्।” ततः श्रुत्वा वराहरूपो भगवान् प्रत्युवाच— “माधवि, तत्त्वेन यन्मां त्वं परिपृच्छसि, कथयिष्यामि ते गुह्यमुत्तमम्। मम कर्माणि कृत्वा शुचिसंसारमोक्षणीं परां सन्ध्यां कुर्यात्। जलाञ्जलिं गृहीत्वा भक्त्या मुहूर्तध्यानमास्थाय इमं मन्त्रमुदाहरेत्— ‘भवोद्भवमादिव्यक्तरूपमात्रं… सन्ध्यासंस्था वासुदेव नमोऽस्तु ते।’ एष मन्त्राणां परमो मन्त्रः, परमं तपः; नित्यपाठेन पापेन न लिप्यते। नादीक्षिताय दातव्यं, दीक्षितायैव दातव्यम्। पुनश्च दीपविधिं वक्ष्यामि— दीपकं गृहीत्वा जानुसंस्थां कृत्वा इमं मन्त्रमुदीरयेत्— ‘ॐ नमो भगवतेऽनुग्रहतेजसे विष्णो…’ ततः गन्धेन तिलकं ललाटे दद्यात्; अन्यच्च लोकसुखावहं कर्म प्रवक्ष्यामि।

Verse 3

येन मन्त्रेण दातव्यं ललाटे तिलकं मम ।

केन मन्त्रेण मम ललाटे तिलकं दातव्यम्?

Verse 4

मन्त्रः— मुखमण्डनं चिन्तय वासुदेव त्वया प्रयुक्तं च मयोपनीतम् ॥ एतेन चित्रं कुरु वासुदेव मम चैवं कुरु संसारमोक्षम् ॥

मन्त्रः— मुखमण्डनं चिन्तय वासुदेव, त्वया प्रयुक्तं च मयोपनीतम्। एतेन चित्रं कुरु वासुदेव, मम चैवं कुरु संसारमोक्षम्॥

Verse 5

एतेन मन्त्रेण चित्रकं मे दद्याल्ललाटे तिलकं धरित्री ॥ ततः सुमनसो गृह्य इमं मन्त्रमुदाहरेत् ॥

एतेन मन्त्रेण धरित्री, मे ललाटे चित्रकं तिलकं दद्यात्। ततः सुमनसो गृह्य इमं मन्त्रमुदाहरेत्॥

Verse 6

मन्त्रः— इमाः सुमनसः सौमनस्याय भगवन् सर्वं सुमनसं कुरु त्वयैते सौमनस्याय निर्मिता गृहीताः स्वाहा ।

मन्त्रः— इमाः सुमनसः सौमनस्याय भगवन्; सर्वं सुमनसं कुरु। त्वयैते सौमनस्याय निर्मिता गृहीताः स्वाहा॥

Verse 7

एवं सुमनसो दत्त्वा धूपं चैव निवेदयेत् ॥ ततो गृहीत्वा धूपं तु सुगन्धं सुमनोहरम् ॥

एवं सुमनसो दत्त्वा धूपं चैव निवेदयेत्। ततो गृहीत्वा धूपं तु सुगन्धं सुमनोहरम्॥

Verse 8

नमो नारायणेत्युक्त्वा इमं मन्त्रमुदीरयेत् ॥ मन्त्रः— सुगन्धानि तवाङ्गानि स्वभावेनैव केशव ॥

“नमो नारायण” इत्युक्त्वा इमं मन्त्रमुदीरयेत्— “हे केशव, तवाङ्गानि स्वभावेनैव सुगन्धीनि सन्ति।”

Verse 9

अमुना चैव धूपेन धूपितानि तवाऽनघ ॥ तवाङ्गानां सुगन्धेन सर्वं सौगन्धिकं कुरु ॥

“अनेन धूपेन, हे अनघ, तवाङ्गानि धूपितानि; तवाङ्गसुगन्धेन सर्वं सौगन्धिकं कुरु।”

Verse 10

यथावृत्तं तु गृह्णामि मम भक्तैः सुखावहम् ॥ कृत्वा तु मम कर्माणि गृह्य दीपमनुत्तमम् ॥

“यथावृत्तं तु गृह्णामि, मम भक्तैः सुखावहम्; मम कर्माणि कृत्वा, दीपमनुत्तमं गृह्यताम्।”

Verse 11

जानुसंस्थं ततः कृत्वा इमं मन्त्रमुदीरयेत् ॥

जानुसंस्थं ततः कृत्वा इमं मन्त्रमुदीरयेत्।

Verse 12

मन्त्रः— नमो भगवते तेजते विष्णो सर्वे देवास्त्वग्निसंस्थाः प्रतिष्ठा ॥ एवं चाग्निस्तव तेजसा प्रतिष्ठितो तेजश्चात्मा स्वयमेव ॥

मन्त्रः— “नमो भगवते तेजते विष्णो; सर्वे देवाः त्वग्निसंस्थाः प्रतिष्ठाः। एवं चाग्निः तव तेजसा प्रतिष्ठितः, तेजश्चात्मा स्वयमेव।”

Verse 13

मन्त्रश्च— तेजः संसारान्मोचयितुं देव गृह्णीष्व दीपं द्युतिमन्तश्च ॥ मूर्तिश्च भूत्वा इदं कर्म निष्कलम् ॥

मन्त्रश्च— हे देव! संसारात् मोचयितुं दीपं द्युतिमन्तं गृहाण। मूर्तिं भूत्वा चेदं कर्म निष्कलम् कुरु।

Verse 14

मां करोति यथान्यायं दीपकं ददते नरः ॥ तारिताः पितरस्तेन निष्कलाश्च पितामहाः ॥

यो नरः यथान्यायं मम दीपकं ददाति, तेन पितरः तारिता भवन्ति, पितामहाश्च निष्कलाः भवन्ति।

Verse 15

नारायणवचः श्रुत्वा विस्मिता च वसुन्धरा ॥ वराहरूपिणं देवं प्रत्युवाच वसुन्धरा ॥

नारायणवचः श्रुत्वा वसुन्धरा विस्मिता; वराहरूपिणं देवं प्रति वसुन्धरा प्रत्युवाच।

Verse 16

श्रुता मया भागवतास्तव कर्मपरायणाः ॥ शेषसंश्रवणार्थाय मनो धावति सत्पथे ॥

श्रुता मया भागवतास्तव कर्मपरायणाः; शेषसंश्रवणार्थाय मनो मे सत्पथे धावति।

Verse 17

तव प्रापणकं कृत्यं केषु पात्रेषु कारयेत् ॥ एतदाचक्ष्व तत्त्वेन येन तुष्यति माधवः ॥

तव प्रापणकं कृत्यं केषु पात्रेषु कारयेत्? एतत् तत्त्वेन आचक्ष्व येन माधवः तुष्यति।

Verse 18

ततो भूमेर्वचः श्रुत्वा लोकनाथोऽब्रवीदिदम् ॥ शृणु तत्त्वेन मे देवि यानि पात्राणि रोचते ॥

ततो भूमेर्वचः श्रुत्वा लोकनाथोऽब्रवीदिदम् । शृणु तत्त्वेन मे देवि यानि पात्राणि रोचते ॥

Verse 19

सर्वाणि तानि त्यक्त्वेह ताम्रं च मम रोचते ॥ एतन्नारायणाच्छ्रुत्वा धर्मकामा वसुन्धरा ॥

सर्वाणि तानि त्यक्त्वेह ताम्रं च मम रोचते । एतन्नारायणाच्छ्रुत्वा धर्मकामा वसुन्धरा ॥

Verse 20

उवाच मधुरं वाक्यं लोकनाथं जनार्द्दनम् ॥ एतन्मे परमं गुह्यं ताम्रं ते रोचते कथम् ॥

उवाच मधुरं वाक्यं लोकनाथं जनार्द्दनम् । एतन्मे परमं गुह्यं ताम्रं ते रोचते कथम् ॥

Verse 21

ततो भूमेर्वचः श्रुत्वा अनादिरपराजितः ॥ लोकानां प्रवरः श्रेष्ठः प्रत्युवाच वसुन्धराम् ॥

ततो भूमेर्वचः श्रुत्वा अनादिरपराजितः । लोकानां प्रवरः श्रेष्ठः प्रत्युवाच वसुन्धराम् ॥

Verse 22

शृणु तत्त्वेन मे भूमे कथ्यमानं मयाऽनघे ॥ एकाग्रं चित्तमाधाय येन ताम्रं मम प्रियम् ॥

शृणु तत्त्वेन मे भूमे कथ्यमानं मयाऽनघे । एकाग्रं चित्तमाधाय येन ताम्रं मम प्रियम् ॥

Verse 23

सप्तयुगसहस्राणि आदिकालेऽथ माधवि ॥ यथा ताम्रं समुत्पन्नं यथैव प्रियदर्शनम् ॥

हे माधवि, आदिकाले सप्तयुगसहस्राणि यथा ताम्रं समुत्पन्नं यथा च प्रियदर्शनं जातम्, तत् ते कथयामि।

Verse 24

पूर्वं कमलपत्राक्षि गुडाकेशो महासुरः ॥ ताम्ररूपं समादाय ममैवाराधने रतः ॥

पूर्वं कमलपत्राक्षि, गुडाकेशो नाम महासुरः ताम्ररूपं समादाय ममेवैकस्य आराधने रतः आसीत्।

Verse 25

तत आराधितस्तेन वर्षाणां तु चतुर्दश ॥ सहस्राणि विशालाक्षि धर्मकामेन निश्चलम् ॥

ततः स विशालाक्षि धर्मकामेन निश्चलः चतुर्दश सहस्राणि वर्षाणि ममाराधनं चकार।

Verse 26

अहं तु तपसा तुष्टस्तीव्रेण कृतनिश्चयात् ॥ ततस्ताम्रमये रम्ये यत्र ताम्रसमुद्भवः ॥

अहं तु तस्य तीव्रेण तपसा कृतनिश्चयात् तुष्टः; ततः ताम्रमयं रम्यं स्थानं अभवत्, यत्र ताम्रसमुद्भवः।

Verse 27

दृष्ट्वाश्रमं महादेवि किञ्चिदेव सुभाषितम् ॥ ततो जानुस्थितो भूत्वा मम एष विचिन्तयेत् ॥

“महादेवि, आश्रमं दृष्ट्वा किञ्चिदेव सुभाषितं श्रुत्वा, ततः जानुस्थितो भूत्वा ममेव चिन्तनं कुर्यात्।”

Verse 28

गुडाकेश महाभाग ब्रूहि किं करवाणि ते ॥ तुषितोऽस्म्यनया भक्त्या दुराराध्योऽपि सुव्रत ॥

हे गुडाकेश महाभाग, ब्रूहि—किं तेऽहं करवाणि? अनया तव भक्त्या अहं तुषितोऽस्मि; दुराराध्योऽपि, हे सुव्रत।

Verse 29

यत्त्वया चिन्तितं सौम्य कर्मणा मनसा गिरा ॥ वरं ब्रूहि महाभाग तुभ्यं यद्रोचतेऽनघ ॥

यत्त्वया सौम्य कर्मणा मनसा गिरा वा चिन्तितम्, तद् वरं ब्रूहि महाभाग; यद् रोचते तुभ्यं, हे अनघ, तत् ते ददामि।

Verse 30

एवं मम वचः श्रुत्वा गुडाकेशोऽब्रवीदिदम् ॥ कराभ्यामञ्जलिं कृत्वा विशुद्धेनान्तरात्मना ॥

एवं मम वचः श्रुत्वा गुडाकेशोऽब्रवीदिदम्; कराभ्यामञ्जलिं कृत्वा विशुद्धेनान्तरात्मना।

Verse 31

यदि तुष्टोऽसि मे देव समस्तेनान्तरात्मना ॥ जन्मनां तु सहस्राणि त्वयि भक्तिर्दृढा अस्तु मे ॥

यदि देव मे समस्तेनान्तरात्मना तुष्टोऽसि, तर्हि जन्मनां सहस्राणि त्वयि मे भक्तिर्दृढा अस्तु।

Verse 32

चक्रेण वधमिच्छामि त्वया मुक्तेन केशव ॥

हे केशव, त्वया मुक्तेन चक्रेण वधं मम इच्छामि।

Verse 33

चक्रेण पातितस्यैतद्वसामांसानि किं चन ॥ ताम्रं नाम भवेदेव पवित्रीकरणं शुभम् ॥

चक्रेण पातितस्यैतद्वसामांसानि यानि किञ्चन । ताम्रं नाम भवेदेव पवित्रीकरणं शुभम् ॥

Verse 34

तेन पात्रं ततः कृत्वा शुभधर्मविनिश्चितः ॥ तस्मिन् प्रापणकं कृत्वा शुद्धे वै ताम्रभाजने ॥

तेन पात्रं ततः कृत्वा शुभधर्मविनिश्चितः । तस्मिन् प्रापणकं कृत्वा शुद्धे वै ताम्रभाजने ॥

Verse 35

निवेदिते परा प्रीतिर्भवत्‍वेतन्मनोगतम् ॥ प्रसन्नो यदि मे देव ह्येष मे दीयतां वरः ॥

निवेदिते परा प्रीतिर्भवत्‍वेतन्मनोगतम् । प्रसन्नो यदि मे देव ह्येष मे दीयतां वरः ॥

Verse 36

यच्चिन्तितोऽसि देवेश उग्रे तपति तिष्ठता ॥ बाढमित्येव सोऽप्युक्तो यावल्लोकस्थितिर्मया ॥

यच्चिन्तितोऽसि देवेश उग्रे तपति तिष्ठता । बाढमित्येव सोऽप्युक्तो यावल्लोकस्थितिर्मया ॥

Verse 37

तत्ताम्रभाजने मह्यं दीयते यत्सुपुष्कलम् ॥ अतुला तेन मे प्रीतिर्भूमे जानीहि सुव्रते ॥

तत्ताम्रभाजने मह्यं दीयते यत्सुपुष्कलम् । अतुला तेन मे प्रीतिर्भूमे जानीहि सुव्रते ॥

Verse 38

माङ्गल्यं च पवित्रं च ताम्रं तेन प्रियं मम ॥ त्वं च द्रक्ष्यसि तच्चक्रं मध्यसंस्थे दिवाकरे ॥

माङ्गल्यं च पवित्रं च ताम्रं तेन प्रियं मम। त्वं च द्रक्ष्यसि तच्चक्रं मध्यसंस्थे दिवाकरे॥

Verse 39

वैशाखस्य तु मासस्य शुक्लपक्षे तु द्वादशी ॥ मम तेजोमयं चक्रं त्वां वधिष्यत्यसंशयम् ॥

वैशाखस्य तु मासस्य शुक्लपक्षे तु द्वादशी। मम तेजोमयं चक्रं त्वां वधिष्यत्यसंशयम्॥

Verse 40

एष्यसे मम लोकाय एवमेतन्न संशयः ॥ एवमुक्त्वा गुडाकेशं तत्रैवान्तरहितोऽभवम् ॥

एष्यसे मम लोकाय एवमेतन्न संशयः। एवमुक्त्वा गुडाकेशं तत्रैवान्तरहितोऽभवम्॥

Verse 41

चक्राद्वधमभीप्सन्वै सोऽपि मत्कर्मणि स्थितः ॥ दिने दिने विशिष्टं तु शुभं कुर्वंस्तपस्यति ॥

चक्राद्वधमभीप्सन्वै सोऽपि मत्कर्मणि स्थितः। दिने दिने विशिष्टं तु शुभं कुर्वंस्तपस्यति॥

Verse 42

विष्णुसंस्थो भविष्यामि कदाहमिति चिन्तयन् ॥ एवं स्थितस्य तस्याथ वैशाखस्य तु द्वादशी ॥

विष्णुसंस्थो भविष्यामि कदाहमिति चिन्तयन्। एवं स्थितस्य तस्याथ वैशाखस्य तु द्वादशी॥

Verse 43

शुक्लपक्षस्य सम्प्राप्ता तस्यां धर्मविनिश्चितः ॥ विष्णुपूजां ततः कृत्वा प्रार्थयामास मां प्रतिम् ॥

शुक्लपक्षे तस्यां तिथौ सम्प्राप्तायां स धर्मे दृढनिश्चयः सन् ततः विष्णोः पूजां कृत्वा मम प्रतिमाभिमुखः मां प्रार्थयामास।

Verse 44

मुञ्च मुञ्च प्रभो चक्रमपि वह्निसमप्रभम् ॥ आत्मा मे नीयतां शीघ्रं निकृत्त्याङ्गानि सर्वशः ॥

“मुञ्च मुञ्च प्रभो, वह्निसमप्रभं चक्रम्; मे आत्मा शीघ्रं नीयतां, सर्वशोऽङ्गानि निकृत्त्य।”

Verse 45

तदैव चक्रेण विपाटितोऽसौ प्राप्तोऽपि मां भागवतप्रधानः ॥ ताम्रं तु तन्मांसमसृक् सुवर्णमस्थीनि रूप्यं बहुधातवश्च ॥ रङ्गं च सीसं त्रपुधातुसंस्थं कांस्यं च रीतिश्च मलस्तु तेषाम् ॥

तदैव तेन चक्रेण स विपाटितः; स भागवतप्रधानो मां प्राप्तवान्। तस्य मांसं ताम्रं, असृक् सुवर्णं, अस्थीनि रूप्यं, बहुधातवश्चाभवन्। रङ्गं च सीसं च त्रपुधातुसंस्थं, कांस्यं च रीतिश्च; तेषां मलोऽपि भवति।

Verse 46

एतद्भागवतैः कार्यं मम प्रियकरैः सदा ॥ एवं ताम्रं समुत्पन्नमिति मे रोचते हि तत् ॥

एतन्मम प्रियकरैर्भागवतैः सदा कर्तव्यम्। एवं ताम्रं समुत्पन्नमिति मे तत् रोचते हि।

Verse 47

दीक्षितैर्वै भागवतैः पाद्यार्घ्यादौ च दीयते ॥ एवं दीक्षाविधिः प्रोक्त एवं ताम्रसमुद्भवः ॥

दीक्षितैर्भागवतैरेव पाद्यार्घ्यादीनि दीयन्ते। एवं दीक्षाविधिः प्रोक्तः; एवं ताम्रसमुद्भवविधिश्च निरूपितः।

Verse 48

देवि तत्त्वेन कथितः किमन्यत् परिपृच्छसि ॥ भूमिरुवाच ॥ देवदेव कथं सन्ध्यां दीक्षितः कुरुते वद ॥

देवि, तत्त्वतः सर्वं कथितम्; किमन्यत् परिपृच्छसि? भूमिरुवाच—देवदेव, दीक्षितः सन्ध्योपासनां कथं करोति, तत् वद।

Verse 49

केन मन्त्रेण वा भक्तस्तव कर्मपरायणः ॥ श्रीवराह उवाच ॥ शृणु माधवि तत्त्वेन सन्ध्यामन्त्रमनुत्तमम् ॥

केन मन्त्रेण वा भक्तः तव कर्मपरायणः सन्ध्यां कुर्यात्? श्रीवराह उवाच—शृणु माधवि, तत्त्वतः सन्ध्यामन्त्रमनुत्तमम्।

Verse 50

यथा वदन्ति वै सूर्यं सन्ध्यां पूर्वां परां तथा ॥ जलाञ्जलिं गृहीत्वा तु मम भक्त्या व्यवस्थितः ॥

यथा पूर्वापरयोः सन्ध्ययोः सूर्यं वदन्ति, तथा जलाञ्जलिं गृहीत्वा मयि भक्त्या व्यवस्थितः तिष्ठेत्।

Verse 51

मुहूर्त्तं ध्यानमास्थाय इमं मन्त्रमुदीरयेत् ॥ सिक्थानि तत्र यावन्ति ताम्रप्रापणके धरे ॥

मुहूर्तं ध्यानमास्थाय इमं मन्त्रमुदीरयेत्; ताम्रप्रापणकस्थले धरे यावन्ति सिक्थानि, तावद् फलमिति।

Verse 52

तावद्वर्षसहस्राणि मम लोके स मोदते ॥

तावद्वर्षसहस्राणि मम लोके स मोदते।

Verse 53

मन्त्रः — भवोद्भवमादिव्यक्तरूपमादित्यं सर्वे देवा ब्रह्मरुद्रेन्द्रास्त्वां च ॥ कृष्णे यथासीद्ध्यानयोगस्थितास्ते सन्ध्यासंस्था वासुदेवं नमन्ति ॥

मन्त्रः— त्वं भवोद्भवः, आदिव्यक्तरूपः आदित्यः। सर्वे देवाः ब्रह्मरुद्रेन्द्रैः सह त्वां च समाश्रिताः। कृष्णे यथा ध्यानयोगस्थिताः, तथा सन्ध्यासंस्थाः वासुदेवं नमन्ति॥

Verse 54

वयं देवमादिमव्यक्तरूपं कृत्वा चात्मनि देव संस्थास्तथापि ॥ संसारार्थं कर्म तत्करणमेव सन्ध्यासंस्था वासुदेव नमो नमः ॥

वयं देवम् आदिम् अव्यक्तरूपं कृत्वा चात्मनि, देव, संस्थाः तथापि। संसारार्थं कर्म तत्करणमेव; सन्ध्यासंस्थाः— ‘वासुदेव नमो नमः’॥

Verse 55

गृहाणेमं च मे धूपं सर्वसंसारमोक्षणम् ॥ पुनरन्यत्प्रवक्ष्यामि यथा दीपं निवेदयेत् ॥

गृहाणेमं च मे धूपं सर्वसंसारमोक्षणम्। पुनरन्यत् प्रवक्ष्यामि यथा दीपं निवेदयेत्॥

Verse 56

तानि ते कथयिष्यामि त्वया मे पूर्वपृच्छितम् ॥ सौवर्णं राजतं कांस्यं येषु दद्यात्प्रपाणकम् ॥

तानि ते कथयिष्यामि त्वया मे पूर्वपृच्छितम्। सौवर्णं राजतं कांस्यं येषु दद्यात् प्रपाणकम्॥

Verse 57

चतुर्बाहुं च मां दृष्ट्वा मम कर्मपरायणः ॥ प्रणतः प्राञ्जलिः प्राह शिरो भूमौ निधाप्य सः ॥ तं च दृष्ट्वा मया प्रोक्तं प्रसन्नेनान्तरात्मना ॥

चतुर्बाहुं च मां दृष्ट्वा मम कर्मपरायणः। प्रणतः प्राञ्जलिः प्राह शिरो भूमौ निधाप्य सः। तं च दृष्ट्वा मया प्रोक्तं प्रसन्नेनान्तरात्मना॥

Verse 58

तावत्ताम्रस्थितो भूत्वा मम संस्थो भविष्यसि ॥ ततः प्रभृति ताम्रात्मा गुडाकेशो व्यवस्थितः ॥

तावत्कालं ताम्रे स्थितो भूत्वा मम व्रते संस्थो भविष्यसि। ततः प्रभृति गुडाकेशः ताम्रात्मा सुदृढं व्यवस्थितः॥

Verse 59

ताम्रपात्रेण वै भूमे प्रापणं यत्प्रदीयते ॥ सिक्थे सिक्थे फलं तस्य शृणुष्व गदतो मम ॥

हे भूमे, ताम्रपात्रेण यत् प्रापणं प्रदीयते, तस्य फलं मे शृणुष्व। सिक्थे सिक्थे तदनुरूपं फलं भवति॥

Verse 60

अनेनैव हि मन्त्रेण सन्ध्यां कुर्यात्तु दीक्षितः ॥

अनेनैव मन्त्रेण दीक्षितः सन्ध्याकर्म कुर्यात्॥

Frequently Asked Questions

The chapter frames ethical discipline as regulated devotional practice: rites should be performed with purity (śauca), correct eligibility (dīkṣā and yajñopavīta), and controlled transmission of mantras (guhya). Material choice is also moralized—offerings should follow prescribed standards (notably the preference for copper), presenting ritual order as a means to sustain social and terrestrial stability.

The narrative specifies Vaiśākha māsa, śukla-pakṣa, dvādaśī as the decisive calendrical marker in the copper-origin episode (Guḍākeśa’s request to be struck by Viṣṇu’s cakra). Sandhyā is discussed as a daily discipline (nitya), with procedures centered on jalāñjali and mantra-recitation.

Through Pṛthivī’s questioning, the text links Earth’s welfare to disciplined handling of offerings: water (prāpaṇaka) is treated as a carefully administered resource, and vessel-material regulation (tāmra-pātra) functions as a normative ‘stewardship’ rule. By embedding these prescriptions in a Varāha–Pṛthivī dialogue, the chapter rhetorically presents terrestrial order as supported by standardized, non-excessive ritual consumption and purity protocols.

The principal named figure in the etiological narrative is Guḍākeśa, described as a mahāsura who performs extended tapas and requests death by Viṣṇu’s cakra. The chapter also references pitṛs and pitāmahas as recipients of merit through correct dīpa/prāpaṇaka offerings, but it does not provide dynastic royal genealogies in the supplied text.