Adhyaya 13
Brahma KhandaBrahmottara KhandaAdhyaya 13

Adhyaya 13

スータは政治的危機を語る。マガダ国王ヘーマラタがダシャールナへ侵攻し、財宝を略奪し、家々を焼き、女性や王家の従属者を捕らえ去った。ヴァジュラバーフ王は抗戦するが圧倒され、武器を奪われ縛られ、都は組織的に掠め取られる。 王子バドラーユは父王の捕縛と国土の荒廃を聞き、クシャトリヤの決意をもって進軍し、敵陣へ踏み込む。シヴァヴァルマの守護と、殊勝な武器—とりわけ剣と法螺貝(シャンク)—により敵軍を潰走させ、法螺の響きは敵を無力化して失神させると描かれる。バドラーユは気絶した者や無武装の者を斬らず、戦いにおけるダルマの規範を守る。 彼は父王と捕虜を解放し、敵の財を確保し、ヘーマラタおよび同盟の首領たちを縛って民衆の前で都へ連行する。続いて身元が明かされ、バドラーユは病のため幼少時に捨てられたが、ヨーギンのリシャバにより蘇生された王の実子であり、その超人的武勇はシヴァ派ヨーガの恩寵によるとされる。章末ではキールティマーリニーとの婚姻同盟で政が安定し、後にブラフマ仙たちの前でヘーマラタを赦して友誼を結ぶ寛大さが語られ、バドラーユは比類なき活力をもって統治する。

Shlokas

Verse 1

सूत उवाच । दशार्णाधिपतेस्तस्य वज्रबाहोर्महाभुजः । बभूव शत्रुर्बलवान्राजा मगधराट् ततः

スータは語った。「ダシャールナの主にして大いなる腕をもつヴァジュラバーフには、そのとき強大な敵が起こった。すなわちマガダの王である。」

Verse 2

स वै हेमरथो नाम बाहुशाली रणोत्कटः । बलेन महतावृत्य दशार्णं न्यरुधद्बली

その王はヘーマラタと名づけられ、腕力に富み戦場に猛き者であった。大軍をもってダシャールナを取り囲み、その強勢により城国を包囲した。

Verse 3

चमूपास्तस्य दुर्धर्षाः प्राप्य देशं दशार्णकम् । व्यलुंपन्वसुरत्नानि गृहाणि ददहुः परे

その軍営の従者たちは抗しがたく、ダシャールナの国土に入り、財宝と珍宝を略奪し、また別の者たちは家々に火を放った。

Verse 4

केचिद्धनानि जगृहुः केचिद्बालान्स्त्रियोऽपरे । गोधनान्यपरेऽगृह्णन्केचिद्धान्यपरिच्छदान् । केचिदारामसस्यानि गृहोद्यानान्यनाशयत्

ある者は財を奪い、ある者は子らを、また別の者は女たちを連れ去った。ある者は牛の群れを奪い、ある者は穀物と家財を奪った。さらにある者は果樹園の作物や家に付属する庭園を打ち壊した。

Verse 5

एवं विनाश्य तद्राज्यं स्त्रीगोधनजिघृक्षवः । आवृत्य तस्य नगरीं वज्रबाहोस्तु मागधः

かくして彼らはその国を荒らし尽くし—女と牛財を貪り求めて—マガダの軍は金剛臂ヴァジュラバーフの都を包囲した。

Verse 6

एवं पर्याकुलं वीक्ष्य राजा नगरमेव च । युद्धाय निर्जगामाशु वज्रबाहुः ससै निकः

都が騒然となるのを見て、王ヴァジュラバーフは軍勢を従え、ただちに戦いのため城外へ進み出た。

Verse 7

वज्रबाहुश्च भूपालस्तथा मंत्रिपुरःसराः । युयुधुर्मागधैः सार्धं निजघ्नुः शत्रुवाहिनीम्

王ヴァジュラバーフは、臣下たちを先頭に立ててマガダ勢と戦い、敵の軍勢を打ち倒した。

Verse 8

वज्रबाहुर्महेष्वासो दंशितो रथमास्थितः । विकिरन्बाणवर्षाणि चकार कदनं महत्

大弓の名手ヴァジュラバーフは鎧をまとい戦車に乗り、矢の雨を降らせて大いなる殺戮をなした。

Verse 9

दशार्णराजं युध्यंतं दृष्ट्वा युद्धे सुदुःसहम् । तमेव तरसा वव्रुः सर्वे मागधसैनिकाः

ダシャールナの王が戦場で戦うのを見て—抗し難きほど恐るべき者と知り—マガダの兵は皆、力を尽くしてただ彼一人に殺到した。

Verse 10

कृत्वा तु सुचिरं युद्धं मागधा दृढविक्रमाः । तत्सैन्यं नाशयामासुर्लेभिरे च जयश्रियम्

久しく戦いをなしたのち、勇武に堅きマガダの者たちは、その王の軍勢を滅ぼし、勝利の光輝を得た。

Verse 11

केचित्तस्य रथं जघ्नुः केचित्तद्धनुराच्छिनम् । सूतं तस्य जघानैकस्त्वपरः खड्गमाच्छिनत्

ある者は彼の戦車を打ち砕き、ある者はその弓を断ち切った。ひとりは御者を討ち、またひとりは剣を断ち落とした。

Verse 12

संछिन्नखड्गधन्वानं विरथं हतसारथिम् । बलाद्गृहीत्वा बलिनो बबंधुर्नृपतिं रुषा

剣も弓も断たれ、戦車を失い御者も討たれた彼を、剛なる戦士たちは力ずくで捕らえ、怒りのままに王を縛り上げた。

Verse 13

तस्य मंत्रिगणं सर्वं तत्सैन्यं च विजित्य ते । मागधास्तस्य नगरीं विविशुर्जयकाशिनः

その大臣たちの一団と軍勢をことごとく打ち破り、マガダの者たちは勝利の輝きをまとってその都へと入った。

Verse 14

अश्वान्नरान्गजानुष्ट्रान्पशूंश्चैव धनानि च । जगृहुर्युवतीः सर्वाश्चार्वंगीश्चैव कन्यकाः

彼らは馬・人・象・駱駝・家畜・財宝を奪い、さらに若き女たちすべてと、肢体うるわしき乙女たちをも連れ去った。

Verse 15

राज्ञो बबंधुर्महिषीर्दासीश्चैव सहस्रशः । कोशं च रत्नसंपूर्णं जह्रुस्तेऽप्याततायिनः

彼らは王の妃たちと幾千の侍女を縛り、さらに宝玉に満ちた宝庫までも、その暴徒どもは奪い去った。

Verse 16

एवं विनाश्य नगरीं हृत्वा स्त्रीगोधनादिकम् । वज्रबाहुं बलाद्बद्ध्वा रथे स्थाप्य विनिर्ययुः

かくして都を滅ぼし、女たちや牛の富などを奪い、さらにヴァジュラバーフを力ずくで縛って戦車に載せ、立ち去った。

Verse 17

एवं कोलाहले जाते राष्ट्रनाशे च दारुणे । राजपुत्रोऽथ भद्रायुस्तद्वार्तामशृणोद्बली

かくのごとき騒乱が起こり、国の恐るべき滅亡が進むとき、剛勇の王子バドラーユはその報せを聞いた。

Verse 18

पितरं शत्रुनिर्बद्धं पितृपत्नीस्तथा हृताः । नष्टं दशार्णराष्ट्रं च श्रुत्वा चुक्रोश सिंहवत्

父が敵に縛られ、父の妃たちが奪われ、ダシャールナ国が滅びたと聞くや、彼は獅子のごとく咆哮した。

Verse 19

स खड्गशंखावादाय वैश्यपुत्रसहायवान् । दंशितो हयमारुह्य कुमारो विजिगीषया

その王子は商人の子を助力者として、剣の響きと法螺貝の音を鳴り渡らせ、武具を整えて馬にまたがり、勝利を求めて進んだ。

Verse 20

जवेनागत्य तं देशं मागधैरभिपूरितम् । दह्यमानं क्रंदमानं हृतस्त्रीसुतगोधनम्

彼は疾く駆けてその地に至った。そこはすでにマガダの軍勢に満ち、炎に焼かれ、嘆きの声がこだまし、女と子と牛と財宝が奪い去られていた。

Verse 21

दृष्ट्वा राजजनं सर्वं राज्यं शून्यं भयाकुलम् । क्रोधाध्मातमनास्तूर्णं प्रविश्य रिपुवाहिनीम् । आकर्णाकृष्टकोदंडो ववर्ष शरसंततीः

王の民すべてと国が空しく、恐れに揺れているのを見て、彼の心は怒りに膨れ上がった。たちまち敵陣へ踏み入り、弓を耳まで引き絞って、途切れぬ矢の雨を降らせた。

Verse 22

ते हन्यमाना रिपवो राजपुत्रेण सायकैः । तमभिद्रुत्य वेगेन शरैर्विव्यधुरुल्बणैः

王子の矢に討たれながらも、敵は勢いよく彼に駆け寄り、猛き矢で突き刺した。

Verse 23

हन्यमानोऽस्त्रपूगेन रिपुभिर्युद्धदुर्मदैः । न चचाल रणे धीरः शिववर्माभिरक्षितः

戦に狂った敵どもが武器の雨を浴びせても、堅忍の勇者は戦場で揺るがなかった。シヴァの鎧に守られていたからである。

Verse 24

सोऽस्त्रकर्षं प्रसह्याशु प्रविश्य गजलीलया । जघानाशु रथान्नागान्पदातीनपि भूरिशः

武器の密なる迫りを力で押し破り、彼はたちまち象のごとき歩みで突入した。そして瞬く間に戦車と戦象、さらに多くの歩兵を打ち倒した。

Verse 25

तत्रैकं रथिनं हत्वा ससूतं नृपनंदनः । तमेव रथमास्थाय वैश्यनंदनसारथिः । विचचार रणे धीरः सिंहो मृगकुलं यथा

そこで王子は、戦車の武者を御者もろとも討ち取り、その同じ戦車に乗り、商人の子を御者として馳せた。彼は揺るがぬ心で戦場を巡り、鹿の群れに入る獅子のごとくであった。

Verse 26

अथ सर्वे सुसंरब्धाः शूराः प्रोद्यतकार्मुकाः । अभिसस्रुस्तमेवैकं चमूपा बलशालिनः

そのとき、激怒して弓を高く掲げた勇士たち、すなわち軍勢の力ある将たちは、ただその一人の戦士めがけて一斉に突進した。

Verse 27

तेषामापततामग्रे खड्गमुद्यम्य दारुणम् । अभ्युद्ययौ महावीरान्दर्शयन्निव पौरुषम्

突進してくる者たちの先頭に向かい、彼は凄絶な剣を振り上げ、大勇士らへ躍りかかった。まるで己の武勇を示すかのように。

Verse 28

करालांतकजिह्वाभं तस्य खड्गं महोज्ज्वलम् । दृष्ट्वैव सहसा मम्रुश्च मूपास्तत्प्रभावतः

その剣は大いなる光を放ち、恐るべき死の舌のごとく見えた。それを見ただけで、軍の将たちはその威力に圧され、たちまち倒れて命を落とした。

Verse 29

येये पश्यंति तं खड्गं प्रस्फुरंतं रणांगणे । ते सर्वे निधनं जग्मुर्वज्रं प्राप्येव कीटकः

戦場でその剣がきらめくのを見た者は誰であれ、皆ことごとく死に至った。雷霆に打たれる虫けらのように。

Verse 30

अथासौ सर्वसैन्यानां विनाशाय महाभुजः । शंखं दध्मौ महारावं पूरयन्निव रोदसी

そのとき大いなる腕をもつ勇者は、全軍を滅ぼさんとして、法螺貝を轟然と吹き鳴らし、その響きは天地を満たすかのようであった。

Verse 31

तेन शंखनिनादेन विषाक्तेनैव भूयसा । श्रुतमात्रेण रिपवो मूर्च्छिताः पतिता भुवि

その法螺の響きは、いよいよ強き毒のごとく、ただ聞いただけで敵は気絶し、地に倒れ伏した。

Verse 32

येऽश्वपृष्ठे रथे ये च ये च दंतिषु संस्थिताः । ते विसंज्ञाः क्षणात्पेतुः शंखनादहतौजसः

馬上の者も、戦車の者も、象に乗る者も、法螺の音に気力を打たれ、たちまち意識を失って倒れた。

Verse 33

तान्भूमौ पतितान्सर्वान्नष्टसंज्ञा न्निरायुधान् । विगणय्य शवप्रायाननावधीद्धर्मशास्त्रवित्

地に倒れ、意識も武器も失った彼らを見て、ダルマ・シャーストラに通じる彼は、屍同然として顧みず、討ち取らなかった。

Verse 34

आत्मनः पितरं बद्धं मोचयित्वा रणाजिरे । तत्पत्नीः शत्रुवशगाः सर्वाः सद्यो व्यमोचयत्

戦場で縛られていた自らの父を解き放つと、敵の支配下に置かれていたすべての妻たちをも、ただちに解放した。

Verse 35

पत्नीश्च मंत्रिमुख्यानां तथान्येषां पुरौकसाम् । स्त्रियो बालांश्च कन्याश्च गोधनादीन्यनेकशः

また彼は、重臣たちや他の町人の妻たち—女たち、子ら、乙女たち—をも取り戻し、さらに牛をはじめとする多くの財宝を回収した。

Verse 36

मोचयित्वा रिपुभयात्तमाश्वासयदाकुलः । अथारिसैन्येषु चरंस्तेषां जग्राह योषितः

敵への恐れから彼を解き放つと、なお心騒ぐままに慰めて励ました。ついで敵軍の中を巡り歩き、彼らの女たちを保護のもとに置いた。

Verse 37

मरुन्मनोजवानश्वान्मातंगान्गिरिसन्निभान् । स्यंदनानि च रौक्माणि दासीश्च रुचिराननाः

彼は、風のごとく思いのごとく速い馬、山のような象、黄金の戦車、そして麗しい顔立ちの侍女たちを得た。

Verse 38

युग्मम् । सर्वमाहृत्य वेगेन गृहीत्वा तद्धनं बहु । मागधेशं हेमरथं निर्बबंध पराजितम्

(対句。)彼はすべてを速やかに集め、その多くの財を手にし、ついに敗れたマガダ国王ヘーマラタを縛り上げた。

Verse 39

तन्मंत्रिणश्च भूपांश्च तत्र मुख्यांश्च नायकान् । गृहीत्वा तरसा बद्ध्वा पुरीं प्रावेशयद्द्रुतम्

彼はその場で大臣たち、諸王、そして主だった将軍たちを捕らえ、たちまち縛して、速やかに都へと入れた。

Verse 40

पूर्वं ये समरे भग्ना विवृत्ताः सर्वतोदिशम् । ते मंत्रिमुख्या विश्वस्ता नायकाश्च समाययुः

かつて戦に敗れて四方に散った者たちは、いまや帰り来たり、重臣たち、信頼厚き同盟者、そして将たちが再び一つに集った。

Verse 41

कुमारविक्रमं दृष्ट्वा सर्वे विस्मितमानसाः । तं मेनिरे सुरश्रेष्ठं कारणादागतं भुवम्

若き勇者の武勇を見て、皆は心より驚嘆し、彼を諸天の中の最勝の神とみなし、何らかの神意により地上へ降り来た者と思った。

Verse 42

अहो नः सुमहाभाग्यमहो नस्तपसः फलम् । केनाप्यनेन वीरेण मृताः संजीविताः खलु

「ああ、我らの幸いは何と大いなることか。ああ、これぞ我らの苦行(タパス)の果報。此の勇者によって、死したも同然の者までも真に蘇らされたのだ。」

Verse 43

एष किं योगसिद्धो वा तपःसिद्धो ऽथवाऽमरः । अमानुषमिद कर्म यदनेन कृतं महत्

「彼はヨーガの成就者か、あるいは苦行の成就者か、それとも天なる神か。彼が成したこの大いなる業は、まことに人の域を超えている。」

Verse 44

नूनमस्य भवेन्माता सा गौरीति शिवः पिता । अक्षौहिणीनां नवकं जिगायानंतशक्तिधृक्

「まことにその母はガウリー、父はシヴァに違いない。無量の力を宿し、彼は九つのアクシャウヒニーの軍勢を打ち破ったのだから。」

Verse 45

इत्याश्चर्ययुतैर्हृष्टैः प्रशंसद्भिः परस्परम् । पृष्टोऽमात्यजनेनासावात्मानं प्राह तत्त्वतः

かくして驚嘆と歓喜に満ち、互いに称え合いながら、家臣たちは彼に問いかけた。すると彼は、自らの真実をありのままに語った。

Verse 46

समागतं स्वपितरं विस्मयाह्लादविप्लुतम् । मुंचंतमानंदजलं ववंदे प्रेमविह्वलः

自らの父が来るのを見て――驚きと歓喜に満たされ、至福の涙をこぼしつつ――彼は愛に打ち震え、深く礼拝した。

Verse 47

स राजा निजपुत्रेण प्रणयादभिवंदितः । आश्लिष्य गाढं तरसा बभाषे प्रेमकातरः

その王は、わが子に情深く礼を受けると、勢いよく固く抱きしめ、愛に胸を痛めつつ、すぐさま語り出した。

Verse 48

कस्त्वं देवो मनुष्यो वा गन्धर्वो वा महामते । का माता जनकः को वा को देशस्तव नाम किम्

「汝は誰ぞ――神か、人か、あるいはガンダルヴァか。大いなる心の者よ、母は誰、父は誰。汝の国はどこにあり、名は何という。」

Verse 49

कस्मान्न शत्रुभिर्बद्धान्मृतानिव हतौजसः । कारुण्यादिह संप्राप्य सपत्नीकान्मुमोच यः

「なぜ彼は――憐れみゆえにここへ来て――敵に縛られ、力を砕かれ、死せるがごとく横たわっていた者たちを、その妻たちとともに解き放ったのか。」

Verse 50

कुतो लब्धमिदं शौर्यं धैर्यं तेजो बलोन्नतिः । जिगीषसीव लोकांस्त्रीन्सदेवासुरमानुषान्

いかなるところより、この武勇—揺るがぬ勇気、この光輝、そして力の高まり—を得たのか。汝は、天(デーヴァ)・阿修羅・人をも含め、三界を征服せんとするかのようだ。

Verse 51

अपि जन्मसहस्रेण तवानृण्यं महौजसः । कर्तुं नाहं समर्थोस्मि सहैभिर्दारबांधवैः

たとえ千の生を重ねようとも、偉大なる力ある御方よ、私は—妻や親族と共にしても—あなたへの負い目を返し尽くすことはできません。

Verse 52

इमान्पुत्रानिमाः पत्नीरिदं राज्यमिदं पुरम् । सर्वं विहाय मच्चित्तं त्वय्येव प्रेमबंधनम्

これらの子ら、これらの妻たち、この王国、この都を捨て—すべてを後にして—我が心はただ汝にのみ、愛の絆によって結ばれている。

Verse 53

सर्वं कथय मे तात मत्प्राणपरिरक्षक । एतासां मम पत्नीनां त्वदधीनं हि जीवितम्

すべてを語ってくれ、愛しき者よ—我が命そのものの守護者よ。まことに、これら我が妻たちの命は汝に懸かっている。

Verse 54

सूत उवाच । इति पृष्टः स भद्रायुः स्वपित्रा तमभाषत । एष वैश्यसुतो राजन्सुनयो नाम मत्सखा

スータは語った。こうして実の父に問われ、バドラーユは答えた。「王よ、これはスナヤという名の者、我が友であり、ヴァイシャの子である。」

Verse 55

अहमस्य गृहे रम्ये वसामि सहमातृकः । भद्रायुर्नाम मद्वृत्तं पश्चाद्विज्ञापयामि ते

私は母とともに、彼の麗しい邸に住んでいる。名はバドラーユ(Bhadrāyu)。後ほど、わが身の次第を詳しく申し上げよう。

Verse 56

पुरं प्रविश्य भद्रं ते सदारः ससुहृज्जनः । त्यक्त्वा भयमरातिभ्यो विहरस्व यथासुखम्

都に入れ――汝に吉祥あれ――妻と友とともに。敵を恐れる心を捨て、望むままに安らかに住み、楽しむがよい。

Verse 57

नैतान्मुंच रिपूंस्तावद्यावदागमनं मम । अहमद्य गमिष्यामि शीघ्रमात्मनिवेशनम्

我が帰還まで、これらの敵を放つな。私は今日、急ぎて我が住まいへ赴く。

Verse 58

इत्युक्त्वा नृपमामंत्र्य भद्रायुर्नृपनंदनः । आजगाम स्वभवनं मात्रे सर्वं न्यवेदयत्

かく語りて王に暇を告げ、バドラーユ(Bhadrāyu)—王子—は自邸に帰り、すべてを母に告げた。

Verse 59

सापि हृष्टा स्वतनयं परिरेभेऽश्रुलोचना । स च वैश्यपतिः प्रेम्णा परिष्वज्याभ्यपूजयत्

母もまた歓び、涙をたたえた眼でわが子を抱きしめた。さらにそのヴァイシャ(Vaiśya)の家長も、愛をもって抱擁し、恭敬をもって彼を礼拝した。

Verse 60

वज्रबाहुश्च राजेंद्रः प्रविष्टो निजमंदिरम् । स्त्रीपुत्रामात्य सहितः प्रहर्षमतुलं ययौ

ヴァジュラバーフ王は自らの宮殿に入った。妃と王子、そして大臣たちを伴い、比類なき歓喜に満たされた。

Verse 61

तस्यां निशायां व्युष्टायामृषभो योगिनां वरः । चंद्रांगदं समागत्य सीमंतिन्याः पतिं नृपम्

その夜が明けて暁が訪れると、瑜伽行者の中で最勝なるリシャバが、淑女シーマンティニーの夫であるチャンドラーンガダ王のもとへ来た。

Verse 62

भद्रायुषः समुत्पत्तिं तस्य कर्माप्यमानुषम् । आवेद्य रहसि प्रेम्णा त्वत्सुतां कीर्तिमालिनीम्

ひそかに、そして慈愛をもって、彼はバドラーユシャの出生とその非凡なる(人ならぬ)業を告げ、さらに汝の娘キールティマーリニーについて語った。

Verse 63

भद्रायुषे प्रयच्छेति बोधयित्वा च नैषधम् । ऋषभो निर्जगामाथ देशकालार्थतत्त्ववित्

ナイシャダ王に「彼女をバドラーユシャに与えよ」と諭すと、場所・時・目的の真理を知るリシャバは、やがて立ち去った。

Verse 64

विशेषकम् । अथ चंद्रांगदो राजा मुहूर्त्ते मंगलोचिते । भद्रायुषं समाहूय प्रायच्छत्कीर्त्तिमालिनीम्

それからチャンドラーンガダ王は、吉祥にふさわしい時刻にバドラーユシャを召し、キールティマーリニーを妻として授けた。

Verse 65

कृतोद्वाहः स राजेंद्रतनयः सह भार्यया । हेमासनस्थः शुशुभे रोहिण्येव निशाकरः

婚儀を終えた王子は、妃とともに黄金の玉座に座し、ローヒニーに寄り添う月のごとく輝いた。

Verse 66

वज्रबाहुं तत्पितरं समाहूय स नैषधः । पुरं प्रवेश्य सामात्यः प्रत्युद्गम्याभ्यपूजयत्

ナイシャダの王は、バドラーユシャの父ヴァジュラバーフを召し、都へ迎え入れ、群臣とともに出迎えて敬い奉った。

Verse 67

तत्रापश्यत्कृतोद्वाहं भद्रायुषमरिंदमम् । पादयोः पतितं प्रेम्णा हर्षात्तं परिषस्वजे

そこで彼は、婚儀を終えた敵砕きのバドラーユシャを見た。愛ゆえにその足もとに伏し、ヴァジュラバーフは歓喜して抱きしめた。

Verse 68

एष मे प्राणदो वीर एष शत्रुनिषूदनः । अथाप्यज्ञातवंशोऽयं मयानंतपराक्रमः

「この勇士は我が命の恩人、また敵を討つ者である。されどその家系は知られぬ—我が見たところ、その武勇は無量である。」

Verse 69

एष ते नृप जामाता चंद्रांगद महाबलः । अस्य वंशमथोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः

「大力の王チャンドラーンガダよ、この者はいまや汝の婿となった。真実として、その家系と出生の由来を聞きたい。」

Verse 70

इत्थं दशार्णराजेन प्रार्थितो निषधाधिपः । विविक्त उपसंगम्य प्रहसन्निदमब्रवीत्

かくしてダシャールナ王に請われたニシャダの主は、人目を避けて近づき、微笑みつつ次の言葉を語った。

Verse 71

एष ते तनयो राजञ्छैशवे रोगपीडितः । त्वया वने परित्यक्तः सह मात्रा रुजार्तया

「これは汝の子である、王よ――幼き頃より病に悩まされていた。汝は彼を、痛みに苦しむ母とともに森に捨てたのだ。」

Verse 72

परिभ्रमंती विपिने सा नारी शिशुनामुना । दैवाद्वैश्यगृहं प्राप्ता तेन वैश्येन रक्षिता

その女は幼子を伴い森をさまよっていたが、宿業の導きにより商人の家に至り、そのヴァイシャに守られた。

Verse 73

अथासौ बहुरोगार्तो मृतस्तव कुमारकः । केनापि योगिराजेन मृतः संजीवितः पुनः

やがて汝の幼子は多くの病に苦しみ死んだ。だがある大いなるヨーギーが、死せる彼を再び生き返らせた。

Verse 74

ऋषभाख्यस्य तस्यैव प्रभावाच्छिवयोगिनः । रूपं च देवसदृशं प्राप्तौ मातृकुमारकौ

リシャバ(Ṛṣabha)と名づけられたそのシヴァのヨーギーの霊威により、母子はともに神々(デーヴァ)に似た姿を得た。

Verse 75

तेन दत्तेन खड्गेन शंखेन रिपुघातिना । जिगाय समरे शत्रूञ्छिववर्माभिरक्षितः

シヴァの鎧に守られ、彼はそのヨーギーより授かった剣と法螺貝――敵を討ち滅ぼす武器――によって戦場で仇敵を征した。

Verse 76

द्विषट्सहस्रनागानां बलमेको बिभर्त्यसौ । सर्वविद्यासु निष्णातो मम जामातृतां गतः

彼ひとりで一万二千頭の象に等しい力を担い、あらゆる学芸に通達して、わが婿となった。

Verse 77

अत एनं समादाय मातरं चास्य सुव्रताम् । गच्छस्व नगरीं राजन्प्राप्स्यसि श्रेय उत्तमम्

ゆえに彼を、その善き誓いを守る母とともに連れて、都へ帰りなさい、王よ。あなたは最上の福徳を得るであろう。

Verse 78

इति चंद्रांगदः सर्वमाख्यायांतर्गृहे स्थिताम् । तस्याग्र पत्नीमाहूय दर्शयामास भूषिताम्

かくしてチャンドラ―ンガダは一切を語り終えると、奥の間にいた第一の妃を呼び寄せ、飾り整えた姿で示した。

Verse 79

इत्यादि सर्वमाकर्ण्य दृष्ट्वा च स महीपतिः । व्रीडितो नितरां मौढ्यात्स्वकृतं कर्म गर्हयन्

これら一切を聞き、また目の当たりにして、その地上の主は自らの愚かさを深く恥じ、己がなした行いを厳しく責めた。

Verse 80

प्राप्तश्च परमानन्दं तयोर्दर्शनकौतुकात् । पुलकांकितसर्वांगस्तावुभौ परिषस्वजे

二人にまみえる歓喜は量り知れず、全身に鳥肌が立つほど震え、彼はその二人をともに抱きしめた。

Verse 81

युग्मम् । एवं निषधराजेन पूजितश्चाभिनन्दितः । स भोजयित्वा तं सम्यक्स्वयं च सह मंत्रिभिः

このようにニシャダの王に礼拝され、ねんごろに迎えられると、彼は大臣たちとともに、しかるべく食を設けてその人をもてなし、自らもまた食した。

Verse 82

तामात्मनोग्रमहिषीं पुत्रं तमपि तां स्नुषाम् । आदाय सपरीवारो वज्रबाहुः पुरीं ययौ

ヴァジュラバーフは、自らの高貴なる王妃と、その子、さらにその嫁を伴い、従者の列を率いて都へと向かった。

Verse 83

स संभ्रमेण महता भद्रायुः पितृमंदिरम् । संप्राप्य परमानंदं चक्रे सर्वपुरौकसाम्

大いなる急ぎ心をもってバドラーユは父の宮殿に到り、到着するや、都の人々すべてに無上の歓喜をもたらした。

Verse 84

कालेन दिवमारूढे पितरि प्राप्तयौवनः । भद्रायुः पृथिवीं सर्वां शशासाद्भुतविक्रमः

やがて父が天に昇ったのち、青春の力みなぎるバドラーユは、驚くべき武威をもって全地を治めた。

Verse 85

मागधेशं हेमरथं मोचयामास बंधनात् । संधाय मैत्रीं परमां ब्रह्मर्षीणां च सन्निधौ

彼はマガダ国の主ヘーマラタを幽閉の縛めから解き放ち、ブラフマリシたちの御前において、彼と至上の友誼を結んだ。

Verse 86

इत्थं त्रिलोकमहितां शिवयोगिपूजां कृत्वा पुरातनभवेऽपि स राजसूनुः । निस्तीर्य दुःसहविपद्गणमाप्तराज्यश्चंद्रांगदस्य सुतया सह साधु रेमे

かくして、その前生においても王子は、三界に讃えられるシヴァのヨーギーたちを礼拝供養した。耐え難い災厄の群れを乗り越えて国を取り戻し、チャンドラ―ンガダの娘とともに、正しく安らかに暮らした。