न दण्डं न शिखां न यज्ञोपवीतं न चाच्छादनं चरति परमहंसः । न शीतं न चोष्णं न सुखं न दुःखं न मानावमानौ च; षडूर्मिवर्जं निन्दागर्वमत्सरदम्भमदर्पेच्छाद्वेषसुखदुःखकामक्रोधलोभमोहहर्षाहंकारादीन् च हित्वा स्ववपुः कुणपमिव दृश्यते । यतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानां यो हेतुः तेन नित्यनिवृत्तः; तन्नित्यबोधः; तत्स्वयमेवावस्थितिः । तं शान्तमचलमद्वयानन्दविज्ञानघन एवास्मि । तदेव मम परमं धाम; तदेव शिखा च; तदेवोपवीतं च । परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः; सा सन्ध्या ॥ २॥
न । दण्डम् । न । शिखाम् । न । यज्ञोपवीतम् । न । च । आच्छादनम् । चरति । परमहंसः । न । शीतम् । न । च । उष्णम् । न । सुखम् । न । दुःखम् । न । मानः । अवमानौ । च । षट्-ऊर्मि-वर्जम् । निन्दा-गर्व-मत्सर-दम्भ-मद-आर्प-इच्छा-द्वेष-सुख-दुःख-काम-क्रोध-लोभ-मोह-हर्ष-अहंकार-आदीन् । च । हित्वा । स्व-वपुः । कुणपम् । इव । दृश्यते । यतः । तत् । वपुः । अपध्वस्तम् । संशय-विपरीत-मिथ्या-ज्ञानानाम् । यः । हेतुः । तेन । नित्य-निवृत्तः । तत् । नित्य-बोधः । तत् । स्वयम्-एव । अवस्थितिः । तम् । शान्तम् । अचलम् । अद्वय-आनन्द-विज्ञान-घनः । एव । अस्मि । तत् । एव । मम । परमम् । धाम । तत् । एव । शिखा । च । तत् । एव । उपवीतम् । च । परम-आत्म-आत्मनोः । एकत्व-ज्ञानेन । तयोः । भेदः । एव । विभग्नः । सा । सन्ध्या ॥ २॥
na daṇḍaṃ na śikhāṃ na yajñopavītaṃ na cācchādanaṃ carati paramahaṃsaḥ | na śītaṃ na coṣṇaṃ na sukhaṃ na duḥkhaṃ na mānāvamānau ca; ṣaḍūrmivarjaṃ nindā-garva-matsara-dambha-madārpecchā-dveṣa-sukha-duḥkha-kāma-krodha-lobha-moha-harṣāhaṃkārādīn ca hitvā svavapuḥ kuṇapam iva dṛśyate | yatas tad vapur apadhvastaṃ saṃśaya-viparīta-mithyā-jñānānāṃ yo hetus tena nitya-nivṛttaḥ; tan nitya-bodhaḥ; tat svayam evāvasthitiḥ | taṃ śāntam acalam advayānanda-vijñāna-ghana evāsmi | tad eva mama paramaṃ dhāma; tad eva śikhā ca; tad evopavītaṃ ca | paramātmātmanoḥ ekatva-jñānena tayoḥ bheda eva vibhagnaḥ; sā sandhyā || 2 ||
パラマハンサは、杖も、シカー(髻)も、聖紐も、さらには覆いさえも携えて歩まない。彼には寒暑なく、楽苦なく、名誉と不名誉もない。六つの波(飢え・渇き・憂い・迷妄・老い・死)を離れ、非難・驕り・嫉み・偽り・酔い・慢心、欲望・憎悪、喜びと悲しみ、淫欲・怒り・貪り・迷い・昂揚・我執などを捨て、自身の身体を屍のように観る。疑いと倒錯した認識と虚偽の知の原因であるその身体が否定され尽くしたゆえ、彼は常にそこから退き、恒常の覚知であり、自らに安住する。わたしはまさに、その寂静にして不動、非二の歓喜=意識の凝塊である。それのみがわたしの最高の住処、それのみがわたしのシカー、それのみがわたしの聖紐である。至上のアートマンと自己(アートマン)の一如を知ることにより、両者の差別は断ち切られる—それがサンディヤー(薄明の礼拝)である。
The Paramahaṃsa does not go about with a staff, nor a topknot, nor a sacred thread, nor even a covering. For him there is neither cold nor heat, neither pleasure nor pain, neither honor nor dishonor; free from the six waves (hunger, thirst, sorrow, delusion, old age, death), abandoning blame, pride, envy, hypocrisy, intoxication, arrogance, desire, hatred, pleasure and pain, lust, anger, greed, delusion, elation, egoism and the rest, his own body is seen as though a corpse. Because that body—being the cause of doubt, perverted cognition, and false knowledge—has been sublated, he is ever withdrawn (from it); he is constant awareness; he is self-established. I am indeed that peaceful, unmoving, non-dual mass of bliss-consciousness. That alone is my supreme abode; that alone is my topknot; that alone is my sacred thread. By the knowledge of the oneness of the Supreme Self and the self, their difference is indeed cut asunder—this is the twilight worship (sandhyā).
A free Google sign-in keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.