Uttara BhagaAdhyaya 3269 Verses

Saṃdhyāvalī-ākhyāna (Mohinī-parīkṣā; Dvādaśī-vrata-mahattva)

婆悉吒讲述:摩希尼(梵天之女)怀着迷惑之心,以残酷要求逼迫三昧耶婆梨:为证明她明了正法与为妻之施舍,她须献出“比生命更可爱之物”——若儿子达摩昂伽陀因进食而破坏哈利/十二日斋戒(Dvādaśī),便要奉上其首级。三昧耶婆梨虽战栗,旋即镇定,援引《普罗那》权威申明:守十二日斋能得天界与解脱(mokṣa),不可为财富、亲缘乃至性命而舍弃;她许诺令摩希尼满意,却坚守真实(satya)与誓愿。继而她举古例:阿修罗族的毗罗遮那与妻毗舍罗阿克希,虔敬供养婆罗门并饮足水。诸天因阿修罗势盛而忧惧,遂以长篇赞颂(stotra)称扬毗湿奴诸相;毗湿奴化作老年婆罗门至毗罗遮那家,终而索取其寿命。夫妇以信爱(bhakti)受毗湿奴足水,得神圣之身而升天,毗湿奴亦解除诸天之苦。三昧耶婆梨最后表明:即使为夫君鲁克芒伽陀也不偏离真实;真实为至上归趣,背离真实则卑下堕落。

Shlokas

Verse 1

वसिष्ठ उवाच । संध्यावलीवचः श्रुत्वा मोहिनी दुहिता विधेः । उवाच तत्परा स्वीये कार्ये मोहकरंडिका ॥ १ ॥

瓦西什塔说道:听了桑迪亚瓦利的话后,梵天之女、幻象之匣莫希尼,专注于自己的目的,开口说道。

Verse 2

यद्येवं त्वं विजानासि धर्माधर्मगतिं शुभे । भर्तुरर्थे प्रदात्री च धनजीवितयोरपि ॥ २ ॥

吉祥的女士啊,如果你真懂正法(Dharma)与非法(Adharma)的因果,你就应该为了丈夫牺牲财富甚至生命。

Verse 3

तदाहं याचये वित्तं जीवितादधिकं शुभे । देहि पुत्रशिरों मह्यं यदिष्टटं हृदयाधिकम् ॥ ३ ॥

因此,吉祥的女士啊,我乞求那比生命更珍贵的财富:把你儿子的头给我——那是你心中最挚爱之物。

Verse 4

यदि नो भोजनं कुर्यात्संप्राप्ते हरिवासरे । तदा स्वहस्ते संगृह्य खङगं राजा पतिस्तव ॥ ४ ॥

如果在哈里(Hari)的圣日到来时,他不肯禁食,那么你的丈夫——国王,应该亲手拿起宝剑。

Verse 5

धर्मांगदशिरश्चारु चंद्रबिंबोपमं शुभम् । अजातश्मश्रुकं चैव कुंडलाभ्यां विभूषितम् ॥ ५ ॥

他那可爱的头颅戴着冠冕,吉祥且光芒四射,宛如月轮;他面无胡须,还佩戴着一对耳环,更显庄严。

Verse 6

छित्वा शीघ्रं पातयतु ममोत्संगे सुलोचने । एतद्वा कुरुतद्भद्रे यदान्नं न भुनक्ति च ॥ ६ ॥

砍下头后,让他迅速将其扔进我的怀里,美丽的女子啊。或者,吉祥的女士,当他拒绝进食时就这样做。

Verse 7

दिने माधवदेवस्य पापसंघविनाशने । तच्छ्रुत्वा वचनं तस्या मोहिन्याः कटुकाक्षरम् ॥ ७ ॥

在主摩达婆(Mādhava)那能摧灭罪业堆积的神圣之日,听闻迷惑人心的摩希尼(Mohinī)所说的尖刻之语后,[他/他们] 便继续行事。

Verse 8

प्रचकंपे क्षणं देवी शीतार्ता कदली यथा । संध्यावली ततो धैर्यमास्थाय वरवार्णिनी ॥ ८ ॥

女神桑迪娅瓦丽(Sandhyāvalī)刹那间颤抖,如芭蕉受寒而战。随后那位肤色莹美的女子重拾勇气,安定其心。

Verse 9

उवाच मोहिनीं वाक्यं सुमुखी प्रहसंत्यपि । श्रूयंते हि पुराणेषु गाथाः सुभ्रु समीरिताः ॥ ९ ॥

那位面容姣好的女子含笑对摩希尼说道:“美人啊,在诸《往世书》(Purāṇa)中,确有被宣说的偈颂与传记。”

Verse 10

द्वादशी प्रति संबद्धाः स्वर्गमोक्षप्रदायिकाः । धनं त्यजेत्त्यजेद्दाराञ्जीवितं च गृहं त्यजेत् ॥ १० ॥

与十二日斋(Dvādaśī)相系的修持,能赐予天界与解脱。宁可舍弃财富;舍弃配偶;舍弃生命——乃至离弃家宅——也不可舍弃此神圣之行。

Verse 11

त्यजेद्देशं तथा भूपं स्वर्गं मित्रं गुरुं त्यजेत् । त्यजेत्तीर्थं त्यजेद्धर्मं त्यजेदत्यंतसुप्रियम् ॥ ११ ॥

当其阻碍至上之善时,亦当舍弃故土与君王;舍弃天界、友人乃至师长;舍弃圣地朝圣处(tīrtha)与惯行之法(dharma)——甚至舍弃最为珍爱的事物。

Verse 12

त्यजेद्योगं त्यजेद्दानं ज्ञानं पुण्यक्रिया त्यजेत् । तपस्त्यजेत्त्यजेद्विद्यां सिद्धिं मोक्षं त्यजेच्छुभे ॥ १२ ॥

吉祥者啊,人可以舍弃瑜伽,舍弃布施,舍弃知识与诸般功德之行;也可以舍弃苦行乃至学问——甚至连神通成就(悉地)与解脱(摩克沙)本身亦可舍弃。

Verse 13

न त्यजेद्द्वादगशीं पुण्यां पक्षयोरुभयोरपि । इह संबंधिनः सर्वे पुत्रभ्रातृसुहृत्प्रियाः ॥ १३ ॥

在上弦与下弦两半月中,都不应舍弃神圣的十二日斋(Dvādaśī)。因为在此世间,凡与己相关者——子女、兄弟、善友与所爱之人——皆与此守斋之功德相系。

Verse 14

ऐहिकामुष्मिके देवि साधनी द्वादशी स्मृता । द्वादश्यास्तु प्रभावेण सर्वं क्षेमं भविष्यति ॥ १४ ॥

女神啊,十二日(Dvādaśī,月相第十二日)被忆念为成就现世与来世诸愿的有力修持;凭十二日之威德,诸般安泰、吉祥与护佑将处处圆满而生。

Verse 15

दापये तव तुष्ट्यर्थं धर्मांगदशिरः शुभे । विश्वासं कुरु मे वाक्ये सुखिनी भव शोभने ॥ १५ ॥

吉祥而美丽者啊,为使你欢喜,我将命人把“达摩-安伽达之首”献与你。请信我之言,安然喜乐吧,光辉的佳人。

Verse 16

इहार्थं श्रूयते भद्रे इतिहासः पुरातनः । कथयिष्यामि ते भद्रे सावधाना श्रुणुष्व मे ॥ १६ ॥

在此事上,亲爱的啊,人们传闻有一则古老的圣传。亲爱的,我将为你叙说——请专心聆听我。

Verse 17

आसीद्विरोचनः पूर्वं दैत्यो धर्मपरायणः । तस्य भार्या विशालाक्षी द्विजपूजनतत्परा ॥ १७ ॥

往昔有一位名为毗罗遮那的阿修罗(代底耶),笃守达摩。他的妻子毗舍罗阿克希,恒常致力于恭敬供养二次生者(婆罗门)。

Verse 18

नित्यमेकमृषिं प्रातः पूजयित्वा यथाविधि । पादोदकं तस्य सुभ्रु भक्त्या पिबति हृष्टधीः ॥ १८ ॥

每日清晨,她依仪轨恭敬礼拜一位圣仙(ṛṣi);那眉目秀美者以虔敬之心欢喜饮用洗净圣仙足部之水。

Verse 19

प्राह्लादिशंकिता देवा आसन्पूर्वं मृते सति । हिरण्यकशिपौ राज्यं शासति ह्युग्रतेजसि ॥ १९ ॥

往昔,当(希兰尼亚克沙)已死,而凶猛威炽的希兰尼亚迦湿布统治国度之时,诸天因惧怕普罗诃罗陀而忧惶不安。

Verse 20

प्राह्लादौ ह्लादसंयुक्ते चेरुर्व्यग्रा महीतले । एकदा शक्रमुख्यास्ते देवाः समंत्र्य वाक्पतिम् ॥ २० ॥

当普罗诃罗陀与赫罗陀结盟之时,诸天在大地上忧惧流离。其后有一次,以释迦(因陀罗)为首的众神共议,并召请语主(婆罗诃斯波提)前来。

Verse 21

प्रोचुः किं कार्यमधुनास्माभिः शत्रु प्रतापितैः । तच्छ्रुत्वा वचनं तेषां देवानां गुरुरब्रवीत् ॥ २१ ॥

他们说:“如今我们被敌人的威势所压制,当作何计?”听罢诸天之言,天众之师便开口答道。

Verse 22

विष्णुर्विज्ञापनीयोऽद्य दुःखं प्राप्तैः सुरव्रजैः । तच्छ्रुत्वा भाषितं तस्य गुरोरमिततेजसः ॥ २२ ॥

“今日,陷于苦难的诸天众应当禀告毗湿奴。”闻此,那位光辉无量的上师便开口说道。

Verse 23

विरोचनप्राणहत्यै जग्मुर्वैकुंठमंतिके । तत्र गत्वा सुरश्रेष्ठं वैकुंठं तुष्टुवुः स्तवैः ॥ २३ ॥

他们怀着诛灭毗罗遮那之意,前往毗昆陀近前。到达彼处后,诸天以赞颂之偈歌咏毗昆陀——诸神中最尊胜者。

Verse 24

देवा ऊचुः । नमो देवाधिदेवाय विष्णवेऽमिततेजसे । भक्तविघ्नविनाशाय वैकुण्ठाय नमो नमः ॥ २४ ॥

诸天说道:“礼敬毗湿奴,诸神之神,光辉无量!再三礼敬毗昆陀,祂能摧破加诸奉献者的一切障碍。”

Verse 25

हरयेऽद्भुतसिंहाय वामनाय महात्मने । क्रोडरूपाय मत्स्याय प्रलयाब्धिनिवासिने ॥ २५ ॥

礼敬哈利——祂曾示现为奇妙的人狮(那罗辛哈)、为侏儒化身婆摩那、为大心之野猪(婆罗诃),又为末次鱼,在宇宙溶解之时安住于大海。

Verse 26

कूर्माय मन्दरधृते भार्गवायाब्धिशायिने । रामायाखिलनाथाय विश्वेशाय च साक्षिणे ॥ २६ ॥

礼敬龟化身俱尔摩,曾承载曼陀罗山;礼敬婆尔伽婆;礼敬卧于大海之上的主;礼敬罗摩,万有之主;礼敬宇宙之主;并礼敬遍观一切的见证者。

Verse 27

दत्तात्रेयाय शुद्धाय कपिलायार्तिहारिणे । यज्ञाय धृतधर्माय सनकादिस्वरूपिणे ॥ २७ ॥

礼敬清净的达多特雷耶;礼敬迦毗罗,除苦除患者;礼敬耶阇那,护持正法者;并礼敬其身相显现为萨那迦等诸原初圣仙的至尊。

Verse 28

ध्रुवस्य वरदात्रे च पृथवे भूरिकर्मणे । ऋषभाय विशुद्धाय हयशीर्षभृतात्मने ॥ २८ ॥

礼敬赐福于德鲁瓦者;礼敬化现为普利图、成就广大功业者;礼敬清净的利沙婆;并礼敬具马首之相的海耶希尔沙、至上真我。

Verse 29

हंसायागमरूपायामृतकुम्भविधारिणे । कृष्णांय वासुदेवाय संकर्षणवपुर्धृते ॥ २९ ॥

礼敬至上之天鹅哈ṃ萨,其身相即诸阿伽摩圣典;礼敬执持甘露宝壶者;礼敬克里希纳、瓦苏戴瓦,示现为桑卡尔沙那之身者。

Verse 30

प्रद्युम्नायानिरुद्धाय ब्रह्मणे शंकराय च । कुमाराय गणेशाय नन्दिने भृंगिणे नमः ॥ ३० ॥

礼敬普拉丢姆那与阿尼鲁达;礼敬梵天与商羯罗;礼敬库玛罗(斯甘达);礼敬象头神伽内沙;礼敬南迪与布林吉。

Verse 31

गन्धमादनवासाय नरनारायणाय च । जगन्नाथाय नाथाय नमो रामेश्वराय च ॥ ३१ ॥

礼敬住于甘达摩陀那山的那罗—那罗延;礼敬贾甘纳塔,统御万有之主;并亦礼敬罗摩伊湿伐罗。

Verse 32

द्वारकावासिने चैव तुलसी वनवासिने । नमः कमलनाभाय नमस्ते पंकजांघ्रये ॥ ३२ ॥

顶礼住于德瓦拉卡的主,亦顶礼安住于图拉西林中的主。顶礼莲脐者;顶礼于你,莲华般的圣足。

Verse 33

नमः कमलहस्ताय कमलाक्षाय ते नमः । कमलाप्रतिपालाय केशवाय नमो नमः ॥ ३३ ॥

顶礼于你,莲华般的双手;顶礼于你,莲华般的双眼。我一次又一次俯伏于凯沙瓦,护持并养育卡玛拉(拉克希米)者。

Verse 34

नमो भास्कररूपाय शशिरूपधराय च । लोकपालस्वरूपाय प्रजापतिवपुर्धृते ॥ ३४ ॥

顶礼于以太阳之相显现者,亦顶礼于持月亮之相者。顶礼于化现为护世诸神者,亦顶礼于取具生主(Prajāpati)之身者。

Verse 35

भूतग्रामस्वरूपाय जीवरूपाय तेजसे । जयाय जयिने नेत्रे नियमाय क्रियात्मने ॥ ३५ ॥

顶礼于其本性为一切众生之总集者,示现为个体灵魂(jīva)者,亦为清净光辉者。顶礼于胜利本身与常胜者;顶礼于遍观之眼;顶礼于自制之法与圣行之魂。

Verse 36

निर्गुणाय निरीहाय नीतिज्ञायाक्रियात्मने । बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च ॥ ३६ ॥

顶礼于超越一切 गुण(德性)者,无欲无为者;顶礼于通达正法之理者,其自性无作。顶礼于示现为佛陀与迦尔吉者;顶礼于知田者(内在见证)与不坏不灭的阿克沙拉(Akṣara)。

Verse 37

गोविंदाय जगद्भर्त्रेऽनन्तायाद्याय शार्ङ्गिणे । शंखिने गदिने चैव नमश्चक्रधराय च ॥ ३७ ॥

顶礼于戈文达,护持宇宙之主——无尽者、原初者、执持沙尔恩伽神弓者;顶礼于持螺号与神杵者,并亦顶礼于持神轮(查克拉)者。

Verse 38

खड्गिने शूलिने चैव सर्वशस्त्रास्त्रघातिने । शरण्याय वरेण्याय पराय परमात्मने ॥ ३८ ॥

顶礼于执剑与持三叉戟者,摧毁一切兵器与神箭者;顶礼于众生归依处、最可敬爱者、至上者——即至上我(Paramātman)。

Verse 39

हृषीकेशाय विश्वाय विश्वरूपाय ते नमः । कालनाभाय कालाय शशिसूर्य्यदृशे नमः । पूर्णाय परिसेव्याय परात्परतराय च ॥ ३९ ॥

顶礼于你,赫利希凯沙,诸根之主——你即是宇宙本身,你的形相遍满一切世界。顶礼于你:以时间之轮为脐者,亦即时间本身;你的目光如月与日。顶礼于圆满具足者,恒常值得以奉爱(bhakti)侍奉者,以及超越至高之上的至上者。

Verse 40

जगत्कर्त्रे जगद्भर्त्रे जगद्धात्रेंऽतकाय च । मोहिने क्षोभिने कामरूपिणेऽजाय सूरिणे ॥ ४० ॥

顶礼于创造宇宙者、护持宇宙者、承载宇宙者,亦为其终结者;顶礼于迷惑者、激荡者、随意示现诸形者;顶礼于不生者(Aja)、睿智之主。

Verse 41

भगवंस्तव संप्राप्ताः शरणं दैत्यतापिताः । तद्विधत्स्वाखिलाधार यथा हि सुखिनो वयम् ॥ ४१ ॥

噢吉祥的主啊!我们被代底耶(Daitya)所逼迫,今来投靠于你。噢一切之依止者,愿你安排周全,使我们确得安乐与稳固。

Verse 42

पुत्रमित्रकलत्रादिसंयुता विहरामहे । तच्छ्रुत्वा स्तवनं तेषां वैकुंठः प्रीतमानसः ॥ ४२ ॥

“我们与儿子、朋友、妻室等相伴,欢喜而住。”听到他们所唱的赞颂之歌,毗昆塔(主毗湿奴)心中大悦。

Verse 43

प्रददौ दर्शनं तेषां दैत्यसं संतापितात्मनाम् । ते दृष्ट्वा देवदेवेशं वैकुंठं स्निग्धमानसम् ॥ ४३ ॥

他赐予那些受苦的阿修罗族(代提耶)得以觐见。见到毗昆塔——诸天之主、心怀柔慈与恩泽者——他们的心念便得安抚。

Verse 44

विरोचनवधायाशु प्रार्थयामासुरादरात् । तच्छ्रुत्वा शक्रमुख्यानां कार्यं कार्यविदां वरः ॥ ४४ ॥

他们怀着恭敬与急切,迅速祈求诛灭毗罗遮那(Virocana)。听闻此请,最通达应行之事的尊者便为因陀罗及诸位主神着手办理此事。

Verse 45

समाश्वास्य सुरान्प्रीत्या विससर्ज मुदान्वितान् । गतेषु देववर्गेषु सर्वोपायविदांवरः ॥ ४५ ॥

他以慈爱安慰诸天,并欢喜地遣他们归去。待天众离去之后,那位通晓一切方便之最胜者仍留在彼处。

Verse 46

वृद्धब्राह्मणरूपेण विरोचनगृहं ययौ । द्विजपूजनकाले तु संप्राप्तः कार्यसाधकः ॥ ४६ ॥

他化作一位年迈的婆罗门,前往毗罗遮那的家。正当礼敬“二次生”(dvija)之时,那位成就所办之事者恰好到达。

Verse 47

तं तु दृष्ट्वा विशालाक्षी ब्राह्मणं हृष्टमानसा । अपूर्वं भक्तिभावेन ददौ सत्कृत्य चासनम् ॥ ४७ ॥

见到那位婆罗门,明眸大眼的毗舍罗阿叉喜悦盈心;她以未曾有的虔敬(bhakti)恭敬礼遇,并依礼奉上座位。

Verse 48

सोऽनंगीकृत्य तद्दत्तमासनं प्राह तां शुभे । नाहं समाददे देवि त्वद्दत्तं परमासनम् ॥ ४८ ॥

他不受她所献之座,对她说道:“吉祥的女士,天女(Devī)啊,我不接受你所赐的这至上座位。”

Verse 49

श्रृणु मे कार्यमतुलं यदर्थमहमागतः । यन्मे मनोगतं कार्यं तद्विज्ञाय च मानिनि ॥ ४९ ॥

请听我无比的来意——我为何而来。骄矜的女士啊,既已明了我心中所怀之事,便当依之而行。

Verse 50

योंऽगीकरोति तत्पूजां ग्रहीष्यामि वरानने । तच्छ्रुत्वा वृद्धविप्रस्य वाक्यं वाक्यविशारदा ॥ ५० ॥

“美颜者啊,谁若接受那供奉,我便接受它。”听到年迈婆罗门这番话,她这位善于言辞者便作出相应回答。

Verse 51

मायया मोहिता विष्णोः स्त्रीत्वाच्चाहातिहर्षिता । विशालाक्ष्युवाच । यत्ते मनोगतं विप्र तद्दास्यामि गृहाणमे ॥ ५१ ॥

被毗湿奴的摩耶所迷惑,又因(他)取女身而极其欢喜,毗舍罗阿叉说道:“婆罗门啊,你心中所愿,我皆当赐予;请从我这里领受。”

Verse 52

आसनं पादसलिलं देहि मे वांछितार्थदम् । इत्युक्तः स द्विजः प्राह न प्रत्येमि स्त्रिया वचः ॥ ५२ ॥

“请赐我座位与洗足之水——能成就所愿之物。”那位二生者闻言答道:“我不信女子之言。”

Verse 53

तव भर्ता यदि वदेत्तदा मे प्रत्ययो भवेत् । तदाकर्ण्य द्विजेनोक्तं विरोचनगृहेश्वरी ॥ ५३ ॥

“若由你丈夫亲口说出,我才会信。”听罢,婆罗门对毗罗遮那的主母说道。

Verse 54

पतिमाकारयामास तत्रैव द्विजसन्निधौ । स प्राप्तो दूतवाक्येन प्राह्लादिर्हृष्टमानसः ॥ ५४ ॥

就在那儿,在诸婆罗门面前,她召来其夫。普罗诃罗陀得闻使者之报,心怀欢喜而至。

Verse 55

अंतःपुरं यत्र भार्या विशालाक्षी समास्थिता । तमागतं समालोक्य पतिं धर्मपरायणा ॥ ५५ ॥

在内宫之中,那位大眼的妻子端坐其间;见丈夫到来,她以奉持法为志,凝望着他。

Verse 56

उत्थाय नत्वा विप्राग्र्यमासनं पुनरर्पयत् । यदा तु जगृहे नैव दत्तमासनमादरात् ॥ ५६ ॥

他起身礼拜,再次奉上上等婆罗门之座。然而那婆罗门出于恭敬的克制,并未接受所献之座。

Verse 57

राजानं कथयामास दैत्यानां पतिमात्मनः । तद्दृत्तांतमुपाज्ञाय दैत्यराट् स विरोचनः ॥ ५७ ॥

随后他将此事禀告国王——自己的主君、代提耶族之王。代提耶王毗罗遮那得知全部经过后,便依情势作出回应。

Verse 58

भार्यास्नेहेन मुग्धात्मा तत्तदांगीचकार ह । अंगीकृते तु दैत्येन तद्विज्ञाय च मानसम् ॥ ५८ ॥

因对妻子的爱恋,他的心被迷惑,便事事应允。待那代提耶一旦接受,他也觉察到其心中所藏的意图。

Verse 59

उवाच ब्राह्मणो हृष्टः स्वमायुर्मम कल्पय । ततस्तु दंपती तत्र मुग्धौ स्वकृतया शुचा ॥ ५९ ॥

那婆罗门欢喜地说:“把你自己的寿命赐给我吧。”于是那对夫妻迷惘地停在原处,为自己招致的忧苦而哀伤。

Verse 60

मुहूर्तं ध्यानमास्थाय करौ बद्धोचतुर्द्विजम् । गृहाण जीवितं विप्र देहि पादोदकं मम ॥ ६० ॥

他片刻入定,继而合掌对那“二生者”(婆罗门)说道:“尊贵的婆罗门啊,请受我此命;并赐我你足所洗之水(足水)。”

Verse 61

त्वयोक्तं वचनं सत्यं कुर्वः प्रीतिमवाप्नुहि । ततस्तु विप्रः प्रोतात्मा तदंगीकृत्य चासनम् ॥ ६१ ॥

“你所说的话确是真实;依此而行,便得心满意足。”于是那婆罗门深受感动,接受了此事,并就座于座席。

Verse 62

पादोदकं ददौ तस्यै भक्त्या प्रीतो जनार्दनः । प्रक्षाल्य पादौ विप्रस्य विशालाक्षी मुदान्विता ॥ ६२ ॥

因她的虔敬而欢喜的阇那尔达那赐给她足下之水(pādodaka)。那位大眼女子满怀喜悦,洗净了婆罗门的双足。

Verse 63

पत्या सह दधौ मूर्ध्नि अपः पादावनेजनीः । ततस्तु सहसा सुभ्रु दंपती दिव्यरूपिणौ ॥ ६३ ॥

那位秀眉女子与丈夫一同把洗足之水顶戴于首。随即,这对夫妇忽然显现出神圣的形相。

Verse 64

विमानवरमारुह्य जग्मतुर्वैष्णवं पदम् । ततः प्रसन्नो भगवान् देवशल्यं विमोच्य सः ॥ ६४ ॥

二人登上殊胜的天车,前往毗湿奴至上的归处。于是,蒙福的主因欢喜而除去了诸天的“刺”(苦患)。

Verse 65

ययौ वैकुंठभवनं सर्वैर्देवगणैः स्तुतः । एवं मयापि दातव्यं तव देवि प्रतिश्रुतम् ॥ ६५ ॥

他受诸天众神齐声赞颂,前往毗昆塔的宫殿。亦复如是,女神啊,我对你所许之诺,也必由我亲自成就赐予。

Verse 66

न सत्याच्चालये देवि पतिं रुक्मांगदाभिधम् । सत्तयमेव मनुष्याणां गतिदं परिकीर्तितम् ॥ ६६ ॥

“女神啊,即便为了我名为鲁克芒伽达的丈夫,我也绝不偏离真谛。唯有真谛被宣说为赐予人类最高归宿者。”

Verse 67

सत्याच्च्चुतं मनुष्यं हि श्वपाकादधमं विदुः ॥ ६७ ॥

确实,背离真理之人,被认为比煮狗者(贱民、弃民)还要卑下。

Verse 68

इत्येवमुक्त्वा कनकावदाता सा मोहिनीं पंकजजन्मजाताम् । जग्राह भर्तुश्चरणौ सुताम्नौ रक्तांगुली पाणियुगेन सुभ्रूः ॥ ६८ ॥

说罢,那位金色光辉、秀眉端丽的女子——指尖微红——以双手捧持其夫之足:摩希尼,出自莲华所生者(梵天)之裔。

Verse 69

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते संध्यावलीकथनं नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥

至此,《圣·大那罗陀往世书》后分(Uttara-bhāga)之“摩希尼事迹”中,名为《桑迪雅瓦丽叙述》的第三十二章圆满结束。

Frequently Asked Questions

Saṃdhyāvalī frames Dvādaśī as a vow that grants both svarga and mokṣa and therefore outweighs ordinary social and personal attachments; the chapter explicitly ranks it above wealth, relationships, and even life when those obstruct the highest good.

It serves as a precedent-legend demonstrating that extreme giving and brāhmaṇa-sevā, when aligned with Viṣṇu’s presence and grace (pāda-tīrtha), leads to divine transformation and resolves cosmic disorder—supporting Saṃdhyāvalī’s vow-centered reasoning.

The stotra acts as a theological ‘catalog’ of Viṣṇu’s forms and functions—creator, sustainer, refuge, avatāra—reinforcing that vrata and truth are ultimately oriented toward the supreme Lord who responds to devotion and restores dharma.