Opening the text
इदमथर्वशीर्षं योऽधीते पञ्चाथर्वशीर्षजपफलमवाप्नोति ।
इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति ।
शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति ।
शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥
दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति महादेव्याः प्रसादतः ॥२९–३१॥
इदम् । अथर्व-शीर्षम् । यः । अधीते । पञ्च-अथर्व-शीर्ष-जप-फलम् । अवाप्नोति ।
इदम् । अथर्व-शीर्षम् । ज्ञात्वा । यः । अर्चाम् । स्थापयति ।
शत-लक्षम् । प्रजप्त्वा । अपि । सः । अर्चा-सिद्धिम् । च । विन्दति ।
शतम् । अष्ट-उत्तरम् । च । अस्याः । पुरश्चर्या-विधिः । स्मृतः ।
दश-वारम् । पठेत् । यः । तु । सद्यः । पापैः । प्रमुच्यते ।
महा-दुर्गाणि । तरति । महा-देव्याः । प्रसादतः ।
idam atharvaśīrṣaṃ yo'dhīte pañcātharvaśīrṣajapaphalam avāpnoti |
idam atharvaśīrṣaṃ jñātvā yo'rcāṃ sthāpayati |
śatalakṣaṃ prajaptvāpi so'rcāsiddhiṃ ca vindati |
śatam aṣṭottaraṃ cāsyāḥ puraśceryāvidhiḥ smṛtaḥ ||
daśavāraṃ paṭhed yas tu sadyaḥ pāpaiḥ pramucyate |
mahādurgāṇi tarati mahādevyāḥ prasādataḥ ||29–31||
このアタルヴァ・シールシャを学ぶ者は、五つのアタルヴァ・シールシャを誦する功徳を得る。このアタルヴァ・シールシャを知り、礼拝のために御像を स्थापितする者は、これを十万遍唱えても、その礼拝の成就を得る。さらに、百八遍が彼女の前行(プラシュチャラナ)の作法として伝えられる。だが十遍誦する者は、ただちに罪より解き放たれ、大女神の恩寵によって大いなる難関を渡り越える。
Whoever studies this Atharva-śīrṣa attains the fruit of reciting five Atharva-śīrṣas. Having known this Atharva-śīrṣa, whoever establishes an image for worship—having recited it a hundred thousand times, he also obtains success in that worship. One hundred and eight (recitations) is remembered as her rite of preparatory practice (puraścaraṇa). But whoever recites it ten times is immediately released from sins; by the grace of the Great Goddess he crosses great difficulties.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.