Opening the text
सैषा अष्टौ वसवः । सैषा एकादश रुद्राः । सैषा द्वादश आदित्याः । सैषा विश्वेदेवाः सोमपाः असोमपाश्च । सैषा यातुधान्यः असुराः रक्षांसि पिशाचयक्षाः सिद्धाः । सैषा सत्त्व-रजस्-तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहाः नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् । तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥१८–१९॥
सा । एषा । अष्टौ । वसवः । सा । एषा । एकादश । रुद्राः । सा । एषा । द्वादश । आदित्याः । सा । एषा । विश्वे-देवाः । सोम-पाः । अ-सोम-पाः । च । सा । एषा । यातुधान्यः । असुराः । रक्षांसि । पिशाच-यक्षाः । सिद्धाः । सा । एषा । सत्त्व-रजस्-तमांसि । सा । एषा । प्रजापति-इन्द्र-मनवः । सा । एषा । ग्रहाः । नक्षत्र-ज्योतींषि । कला-काष्ठ-आदि-काल-रूपिणी । ताम् । अहम् । प्रणौमि । नित्यम् । ताप-अप-हारिणीम् । देवीम् । भुक्ति-मुक्ति-प्रदायिनीम् । अनन्ताम् । विजयाम् । शुद्धाम् । शरण्याम् । शिव-दाम् । शिवाम् ।
saiṣā aṣṭau vasavaḥ | saiṣā ekādaśa rudrāḥ | saiṣā dvādaśa ādityāḥ | saiṣā viśvedevāḥ somapā asomapāś ca | saiṣā yātudhānyaḥ asurā rakṣāṃsi piśācayakṣāḥ siddhāḥ | saiṣā sattva-rajas-tamāṃsi | saiṣā prajāpatīndramanavaḥ | saiṣā grahā nakṣatrajyotīṃṣi kalākāṣṭhādikālarūpiṇī | tām ahaṃ praṇaumī nityam | tāpāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm | anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ||18–19||
彼女こそ八ヴァスであり、彼女こそ十一ルドラであり、彼女こそ十二アーディティヤであり、彼女こそヴィシュヴェーデーヴァ—ソーマを飲む者も飲まぬ者も—である。彼女こそヤートゥダーナ、アスラ、ラークシャサ、ピシャーチャとヤクシャ、そしてシッダである。彼女こそ三グナ—サットヴァ・ラジャス・タマス—である。彼女こそプラジャーパティ、インドラ、そしてマヌである。彼女こそ惑星、月宿、星々の光であり、カラー、カーシュター等として時の姿を取る。われは常に彼女に礼拝する—苦悩と罪を除き、享受と解脱を授ける女神、無限にして勝利し、清浄にして帰依処、吉祥を与える吉祥なる御方に。
She indeed is the eight Vasus; she is the eleven Rudras; she is the twelve Ādityas; she is the Viśvedevas—both the Soma-drinkers and the non–Soma-drinkers. She is the yātudhānas, the asuras, the rākṣasas, the piśācas and yakṣas, and the siddhas. She is the (three) guṇas—sattva, rajas, and tamas. She is Prajāpati, Indra, and the Manus. She is the planets, the lunar mansions and the lights (stars), taking the form of time as kalā, kāṣṭhā, and the like. Her I ever bow to— the Goddess who removes affliction and sin, who bestows enjoyment and liberation; infinite, victorious, pure, a refuge, the giver of auspiciousness, the auspicious one.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.