Opening the text
सैषाष्टौ वसवः। सैषैकादश रुद्राः। सैषा द्वादशादित्याः। सैषा विश्वेदेवाः सोमपा असोमपाश्च। सैषा यातुधान्यः असुरा रक्षांसि पिशाचयक्षाः सिद्धाः। सैषा सत्त्व-रजस्-तमांसि। सैषा प्रजापतीन्द्रमनवः। सैषा ग्रहा नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी। तामहं प्रणौमि नित्यम्। तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम्। अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम्॥१८–१९॥
सा । एषा । अष्टौ । वसवः । सा । एषा । एकादश । रुद्राः । सा । एषा । द्वादश । आदित्याः । सा । एषा । विश्वे-देवाः । सोम-पाः । असोम-पाः । च । सा । एषा । यातुधान्यः । असुराः । रक्षांसि । पिशाच-यक्षाः । सिद्धाः । सा । एषा । सत्त्व-रजः-तमांसि । सा । एषा । प्रजापति-इन्द्र-मनवः । सा । एषा । ग्रहाः । नक्षत्र- ज्योतींषि । कला-काष्ठ-आदि-काल-रूपिणी । ताम् । अहम् । प्रणौमि । नित्यम् । ताप-अपहारिणीम् । देवीम् । भुक्ति-मुक्ति-प्रदायिनीम् । अनन्ताम् । विजयाम् । शुद्धाम् । शरण्याम् । शिव-दाम् । शिवाम् ॥
saiṣāṣṭau vasavaḥ | saiṣaikādaśa rudrāḥ | saiṣā dvādaśādityāḥ | saiṣā viśvedevāḥ somapā asomapāś ca | saiṣā yātudhānyaḥ asurā rakṣāṃsi piśācayakṣāḥ siddhāḥ | saiṣā sattva-rajas-tamāṃsi | saiṣā prajāpatīndramanavaḥ | saiṣā grahā nakṣatrajyotīṃṣi kalākāṣṭhādikālarūpiṇī | tām ahaṃ praṇau mi nityam | tāpāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm | anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ||18–19||
彼女こそ八ヴァスであり、彼女こそ十一ルドラであり、彼女こそ十二アーディティヤである。彼女こそヴィシュヴェデーヴァであり、ソーマを飲む者も飲まぬ者もまた彼女である。彼女こそヤートゥダーナ、アスラ、ラクシャサ、ピシャーチャ、ヤクシャ、そしてシッダである。彼女こそ三グナ—サットヴァ・ラジャス・タマスである。彼女こそプラジャーパティ、インドラ、そしてマヌである。彼女こそ惑星(グラハ)、星宿(ナクシャトラ)、諸光明であり、カーラー、カーシュター等として時の相を取る。われは常に彼女に礼拝する—苦悩を除き、享受と解脱を授ける女神に。無限にして勝利し、清浄にして帰依処、吉祥を与え、みずから吉祥なる御方に。
She indeed is the eight Vasus; she indeed is the eleven Rudras; she is the twelve Ādityas; she is the Viśvedevas—both the Soma-drinkers and the non–Soma-drinkers. She is the yātudhānas, the asuras, the rākṣasas, the piśācas, the yakṣas, and the siddhas. She is the (three) guṇas—sattva, rajas, and tamas. She is Prajāpati, Indra, and the Manus. She is the planets, the constellations, the luminaries, taking the form of time—kalā, kāṣṭhā, and the rest. Her I ever bow to— the Goddess who removes affliction, who bestows enjoyment and liberation; the infinite, the victorious, the pure, the refuge, the giver of auspiciousness, the auspicious one.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.