
第二章以一段偏技术性的问答展开:诸位圣仙(ṛṣi)请求判别 kathā(叙事讲说)之标准——其标志、优点与过失,以及如何辨识具权威的著述。苏多(Sūta)答以简要的《往世书》(Purāṇa)体系:吠陀与往世书的原初出现,往世书原本浩瀚的观念,以及毗耶娑(Vyāsa)在不同时期加以编订、分为十八部《大往世书》(Mahāpurāṇa)。 随后,本章列举重要的往世书与副往世书(Upapurāṇa),常配以大致偈颂数,并附与布施(dāna)相关的规制——抄写、赠施经本及其随行仪轨——以将经典流传与功德修持相连。又明确往世书的“五相”定义(pañcalakṣaṇa:sarga、pratisarga、vaṃśa、manvantara、vaṃśānucarita),并提出按三德(guṇa:sāttvika/rājasa/tāmasa)取向分类,分别强调相应的神祇崇奉。 章末重申:往世书依托史传—往世书(itihāsa–purāṇa)传统,能稳固并阐明吠陀之义;并指出《司建陀往世书》(Skanda Purāṇa)内部七分之中“普罗婆娑分”(Prābhāsika)的定位,为后续以圣地为中心的神圣地理铺垫。
Verse 1
ऋषय ऊचुः । कथाया लक्षणं ब्रूहि गुणदोषान्सविस्तरान् । आर्षेयपौरुषेयाणां काव्यचिह्नपरीक्षणम् । कथं ज्ञेयं महाबुद्धे श्रोतुमिच्छामहे वयम्
诸仙人说道:“请为我们宣示圣传之相:其功德与过失,详尽分别;并说明检验先见所传(ārṣeya)与人作者成(pauruṣeya)之作的诗文标志与准则。噢大智慧者,此事当如何如实了知?我们愿闻其详。”
Verse 2
सूत उवाच । अथ संक्षेपतो वक्ष्ये पुराणानामनुक्रमम् । लक्षणं चैव संख्यां च उक्तभेदांस्तथैव च
苏多说道:“今我将略说诸《往世书》(Purāṇa)之正次第,并述其相、其数,以及传统所传之分类。”
Verse 3
पुरा तपश्चचारोग्रममराणां पितामहः । आविर्भूतास्ततो वेदाः सषडंगपदक्रमाः
在远古之时,诸天之祖父梵天(Brahmā)修行极严苦行。于是诸吠陀显现——具足六支辅学,并具诵读次第与文句之序。
Verse 4
ततः पुराणमखिलं सर्वशास्त्रमयं ध्रुवम् । नित्यशब्दमयं पुण्यं शत कोटिप्रविस्तरम्
随后,全部《普罗那》之藏显现而出——坚固而具权威,含摄一切经典之精髓;清净吉祥,由永恒圣言所成,广大无边——铺展至百俱胝(偈颂)。
Verse 5
निर्गतं ब्रह्मणो वक्त्राद्ब्राह्मं वैष्णवमेव च । शैवं भागवतं चैव भविष्यं नारदीयकम्
从梵天(Brahmā)之口流出诸《普罗那》:即《梵摩》《毗湿奴》《湿婆》《薄伽梵》《未来》与《那罗陀》。
Verse 6
मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च । लैङ्गं तथा च वाराहं स्कांदं वामनमेव च
又有《摩尔甘德耶》《阿耆尼耶》《梵天转变》《林伽》《野猪》《斯甘达》与《侏儒》(诸《普罗那》)相继而出。
Verse 7
कौर्म्यं मात्स्यं गारुडं च वायवीयमनन्तरम् । अष्टादशं समुद्दिष्टं सर्वपातकनाशनम्
(并有)《龟》《鱼》《迦楼罗》,继而《风》——如是宣说十八部《大普罗那》,能灭除一切罪垢。
Verse 8
एकमेव पुरा ह्यासीद्ब्रह्माण्डं शतकोटिधा
往昔诚然,《梵卵》(Brahmāṇḍa,宇宙之卵/同名普罗那)本为一部;然其篇幅广大,达百俱胝之量。
Verse 9
ततोऽष्टादशधा कृत्वा वेदव्यासो युगेयुगे । प्रख्यापयति लोकेऽस्मिन्साक्षान्नारायणांशजः
随后,毗耶娑将其分为十八部,并于每一劫在此世间宣扬——他乃那罗延(Nārāyaṇa)亲自化现之分身。
Verse 10
अन्यान्युपपुराणानि मुनिना कथितानि तु । तानि वः कथयिष्यामि संक्षेपादवधार्यताम्
其他诸支《副往世书》(Upapurāṇa)亦由圣贤传说。我将为诸位略述其要——当谨慎聆记。
Verse 11
आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् । तृतीयं स्कान्दमुद्दिष्टं कुमारेणानुभाषितम्
“第一部是由善达库玛罗(Sanatkumāra)所说;其次是那罗辛诃(Nārasiṃha)之教。第三部被宣称为《斯甘达》(Skānda),并由库玛罗(Kumāra)再度讲述。”
Verse 12
चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् । दुर्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम्
“第四部名为《湿婆法》(Śivadharma),由难提沙(Nandīśa)亲口宣说。其后是杜尔婆娑(Durvāsas)所说的《奇妙》(Āścarya);再后是那罗陀(Nārada)所说者。”
Verse 13
कापिलं मानवं चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चान्यत्कालिकाह्वयमेव च
“(还有)《迦毗罗》(Kāpila)、《摩奴》(Mānava),以及由乌沙那(Uśanas)所传者;又有《梵卵》(Brahmāṇḍa)、《伐楼那》(Vāruṇa),并另有一部名为《迦利迦》(Kālikā)。”
Verse 14
माहेश्वरं तथा सांबं सौरं सर्वार्थसंचयम् । पराशरोक्तं परमं मारीचं भार्गवाह्वयम्
此外,还有《摩醯湿伐罗》《娑摩婆》与《娑罗》——汇聚一切人生旨趣之总集;又有波罗舍罗所宣说的至上之本、《摩利遮》,以及名为《婆伽婆》的经典。
Verse 15
एतान्युपपुराणानि कथितानि द्विजोत्तमाः
这些副《往世书》(Upapurāṇa)已为诸位宣说,噢,最胜的二生者啊。
Verse 16
ऋषय ऊचुः । पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात् । दानधर्ममशेषज्ञ यथावदनुपूर्वशः
诸仙人说道:“噢,苏多啊,请依次详尽说明诸《往世书》的数目——循序渐进,合乎正法——噢,通达布施(dāna)之法的一切义者。”
Verse 17
सूत उवाच । इदमेव पुराणेऽस्मिन्पुराणपुरुषस्तदा । यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत
苏多说道:“就在这部《往世书》中,往昔那位往世之人(Purāṇa-Puruṣa)——宇宙之灵——曾对摩奴宣说。请聆听并领悟那教诲。”
Verse 18
पुराणं सर्वशास्त्राणां ब्रह्माण्डं प्रथमं स्मृतम् । अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः
在一切论典(śāstra)之中,《梵卵往世书》(Brahmāṇḍa Purāṇa)被忆念为最初。其后,诸吠陀从他的诸口中流出而生。
Verse 19
पुराणमेकमेवासीत्तस्मिन्कल्पान्तरेतथा । त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्
在那久远的劫轮之中,普罗那(Purāṇa)确实唯有一部。它神圣清净,能成就人生三义(trivarga),其篇幅浩瀚,广布至百俱胝(koṭi)。
Verse 20
विनिर्दग्धेषु लोकेषु कृष्णेनानन्तरूपिणा । साङ्गांश्च चतुरो वेदान्पुराणन्यायविस्तरम्
当诸世界在毁灭时尽被焚尽之际,具无量形相的黑天(Kṛṣṇa)复兴了四部吠陀及其诸支分,并使普罗那依正当方法与理则而展开弘广。
Verse 21
मीमांसां धर्मशास्त्रं च परिगृह्यात्मसात्कृतम् । मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे
他摄受弥曼萨(Mīmāṃsā)与诸法论(Dharma-śāstra),使之尽归己有;又在劫初,于宇宙大海之中,示现为鱼身——摩蹉(Matsya)。
Verse 22
अशेषमेव कथितं ब्रह्मणे दिव्यचक्षुषे । ब्रह्मा जगाद च मुनींस्त्रिकालज्ञानदर्शनः
其中一切,毫无遗余,都教示给具天眼的梵天(Brahmā)。随后,具三世智见的梵天便将其宣说于诸牟尼圣贤。
Verse 23
प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः
由此,一切论典(śāstra)以及普罗那传承的弘布,遂得兴起。
Verse 24
ततः कालक्रमेणासौ व्यासरूपधरो हरिः । अष्टादशपुराणानि संक्षेप्स्यति युगेयुगे
随后随时间推移,圣者诃利(毗湿奴)将示现为毗耶娑,于每一时代、每一劫中,略摄并节要十八部《往世书》。
Verse 25
चतुर्लक्षप्रमाणानि द्वापरेद्वापरे सदा । तदाष्टादशधा कृष्णा भूर्लोकेऽस्मिन्प्रभाषते
这些《往世书》在每一“二劫”(Dvāpara-yuga)恒有四十万偈之规模;其后,克里希纳在此人间宣说,将之分为十八部。
Verse 26
अद्याऽपि देवलोके तु शतकोटिप्रविस्तरम् । तदर्थोऽत्र चतुर्लक्षः संक्षेपेण निवेशितः
即便在今日,于诸天之界,其全本仍广至百俱胝(百亿)之浩瀚;而在此处,其义理被简要安置为四十万偈。
Verse 27
पुराणानि दशाष्टौ च सांप्रतं तदिहोच्यते । नामतस्तानि वक्ष्यामि संख्यां च मुनिसत्तमाः
如今此处将宣说十八部《往世书》。我将逐一陈述其名号,并说明其偈颂数目,噢诸位最胜牟尼。
Verse 28
ब्रह्मणाऽभिहितं पूर्वं यावन्मात्रं मरीचये । ब्राह्मं तद्दशसाहस्रं पुराणं तदिहोच्यते
昔日梵天曾向摩利支所宣说者——无论其篇幅如何——在此称为《梵天往世书》(Brāhma Purāṇa),共一万偈。
Verse 29
लिखित्वा तच्च यो दद्याज्जलधेनुसमन्वितम् । वैशाख्यां पौर्णमास्यां च ब्रह्मलोके महीयते
凡令此文誊写成卷,并于毗舍佉月满月日,连同“水牛供”(jaladhenu)一并布施者,必在梵天界受尊崇。
Verse 30
एतदेव यदा पद्ममभूद्धैरण्मयं जगत् । तद्वृत्तांताश्रयांतं तत्पाद्ममित्युच्यते बुधैः
此即关乎莲华初生、宇宙化为金色之时的记述;因依止于此段因缘,智者称之为《莲华》(Pādmā/Padma)《往世书》。
Verse 31
पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह पठ्यते । तत्पुराणं च यो दद्यात्सुवर्णकमलान्वितम् । ज्येष्ठे मासि तिलैर्युक्तं सोऽश्वमेधफलं लभेत्
此处所诵《莲华往世书》共五万五千颂。凡布施此往世书,并以金莲相随,于阇耶湿吒月复献芝麻供者,得与马祭(Aśvamedha)同等之功德。
Verse 32
वाराहकल्पवृत्तान्तमधिकृत्य परात्परः । यत्राह धर्मानखिलांस्तदुक्तं वैष्णवं विदुः
凡以“野猪劫”(Vārāha Kalpa)之事为宗,而至上中的至上者于其中宣说一切法(dharma)之教说,世人称之为《毗湿奴往世书》(Vaiṣṇava)。
Verse 33
चरितैरञ्चितं विष्णोस्तल्लोके वैष्णवं विदुः । त्रयोविंशतिसाहस्रं पुराणं तत्प्रकीर्तितम्
以毗湿奴之行迹功业为庄严者,世间称为《毗湿奴往世书》(Vaiṣṇava);并宣说其共有二万三千颂。
Verse 34
तदाषाढे च यो दद्याद्घृतधेनुसमन्वितम् । पौर्णमास्यां विशुद्धायां सं पदं याति वैष्णवम्
凡于阿沙陀月(Āṣāḍha)在清净满月日,施与此供养并奉献“酥油之牛”,即得至上毗湿奴派(Vaiṣṇava)之圣住处。
Verse 35
श्रुतकल्पप्रसङ्गेन धर्मान्वायुरथाब्रवीत् । यत्र तद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम्
因缘于《Śruta Kalpa》之事,风神伐由(Vāyu)遂宣说诸法之义。凡载此段并与鲁陀罗(Rudra)功德赞叹相连之典籍,名为《Vāyavīya》普拉那。
Verse 36
चतुर्विंशतिसाहस्रं नाना वृत्तान्तसंयुतम् । धर्मार्थकाममोक्षैश्च साधुवृत्तसमन्वितम्
据说此典有二万四千颂,汇集种种事迹,并具足关于法(dharma)、利(artha)、欲(kāma)、解脱(mokṣa)的教诲,兼述贤善之行。
Verse 37
श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् । यो दद्याद्दधिसंयुक्तं ब्राह्मणाय कुटुम्बिने । शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः
于室罗伐那月(Śrāvaṇa)之室罗伐尼满月日(Śrāvaṇī),凡依仪轨施与供品,兼奉“红糖之牛”并以酸乳供养一位居家婆罗门者,其心灵净化,得住湿婆之界一整劫(kalpa)。
Verse 38
पुनः संजायते मर्त्यो ब्राह्मणो वेदवित्तमः । वेदविद्यार्थतत्त्वज्ञो व्याख्यातत्त्वार्थवित्तमः
他将再生为婆罗门,成为诸吠陀知者中最卓越者——洞悉吠陀之真义与原理,善于辨析并阐明其真实旨趣。
Verse 39
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमुच्यते
凡以伽雅特丽(Gāyatrī)为根本,广说法(dharma)之广大,并含诛灭弗利特罗阿修罗(Vṛtrāsura)之事者,名为《薄伽梵多》(Bhāgavata)《往世书》。
Verse 40
सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः । तद्वृत्तान्तोद्भवं पुण्यं पुण्योद्वाहसमन्वितम्
在娑罗湿伐多劫(Sārasvata Kalpa)之中存在的众生——人与天——由其事迹流出清净增福之圣传,并伴随吉祥的婚仪与神圣的戒行。
Verse 41
लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम्
若有人誊写此经,并于Prauṣṭhapada月望日(满月日)连同金狮座一并布施供养,彼将证得至上归趣。
Verse 42
अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम्
此《往世书》被宣说为共有一万八千(18,000)颂。
Verse 43
यत्राह नारदो धर्मान्बृहत्कल्पाश्रयांस्त्विह । पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते
凡此处那罗陀(Nārada)依《大劫》(Bṛhat-kalpa)而宣说诸法(dharma)之要义者,名为《那罗陀往世书》(Nāradiya),共二万五千(25,000)颂。
Verse 44
तदिषे पञ्चदश्यां तु यो दद्याद्धेनुसंयुतम् । उत्तमां सिद्धिमाप्नोति इह लोके परत्र च । सर्वान्कामानवाप्नोति नात्र कार्या विचारणा
在Iṣe(阿湿毗那月)之第十五日,凡以牛相随而行布施者,于此世与来世皆得最上成就。其所愿皆圆满;于此无需疑虑,更不必再作思量。
Verse 45
यत्राधिकृत्य शकुनीन्धर्माधर्मविचारणम् । पुराणं नवसाहस्रं मार्कण्डेयं तदुच्यते
那部以鸟类为依托而考察正法与非法(dharma与adharma)的《普拉那》,名为《摩尔甘德耶》(Mārkaṇḍeya),共九千颂。
Verse 46
परिलिख्य च यो दद्यात्सौवर्णकरिसंयुतम् । कार्तिक्यां पौण्डरीकस्य यज्ञस्य फलभाग्भवेत्
又有一人,若将此经如法誊写,并于迦尔提迦月与金象同施,则得分受“普安达利迦”祭(Pauṇḍarīka yajña)之果报。
Verse 47
यत्तदीशानकल्पस्य वृत्तान्तमधिकृत्य च । वशिष्ठायाऽग्निना प्रोक्तमाग्नेयं तत्प्रचक्षते
那部以“伊湿那劫”(Īśāna-kalpa)之事迹为宗旨、由火神阿耆尼(Agni)传授给婆悉吒(Vasiṣṭha)的《普拉那》,称为《阿耆尼耶》(Āgneya)。
Verse 48
लिखित्वा तच्च यो दद्याद्धेमपद्मसमन्वितम् । मार्गशीर्षे विधानेन तिलधेनुयुतं तथा । तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम्
凡将此经书写成卷而施舍,并以金莲相伴;又依仪轨,于摩伽尸尔沙月(Mārgaśīrṣa)再奉“芝麻牛供”(tiladhenu,芝麻与牛之供养)者——此经据说有一万六千颂,能赐一切祭祀之果。
Verse 49
यत्राधिकृत्य माहात्म्यमादित्यस्य चतुर्मुखः । अघोरकल्पवृत्तान्तप्रसंगेन जगत्पतिः । मनवे कथयामास भूतग्रामस्य लक्षणम्
在那部《往世书》中,四面梵天——世间之主——提起阿底提耶(日神)的伟大,并在阿伽罗劫的叙事脉络中,向摩奴开示一切众生群类的特征。
Verse 50
चतुर्दशसहस्राणि तथा पञ्चशतानि च । भविष्यचरितप्रायं भविष्यं तदिहोच्यते
共一万四千,又加五百(颂):此处称为《未来》(Bhaviṣya),多以叙述尚未到来的事迹为主。
Verse 51
तत्पौषमासि यो दद्यात्पौर्णमास्यां विमत्सरः । गुडकुम्भसमायुक्तमग्निष्टोमफलं लभेत्
凡于波沙月满月之日,心无嫉妒而施与一罐盛满粗糖(jaggery)者,此施主所得功德等同于阿耆尼什托摩祭。
Verse 52
रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च । सावर्णिना नारदाय कृष्णमाहात्म्यसंयुतम् । प्रोक्तं ब्रह्मवराहस्य चरितं वर्ण्यतेऽत्र च
又以罗檀多罗劫(Rathaṃtara Kalpa)的事迹为题,萨婆尔尼向那罗陀宣说,并兼赞颂黑天(Kṛṣṇa)的伟大;此处亦叙述梵天-野猪(Brahma-Varāha)的行迹。
Verse 53
तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते । पुराणं ब्रह्मवैवर्तं यो दद्याद्ब्राह्मणोत्तमे । माघमासे पौर्णमास्यां ब्रह्मलोके महीयते
彼文共一万八千(颂),名为《梵天转变》(Brahma-vaivarta)。若有人于摩伽月满月之日,将《梵天转变往世书》施与德行卓越的婆罗门,便在梵天界(Brahma-loka)受尊崇。
Verse 54
यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः । धर्मार्थकाममोक्षार्थानाग्नेयमधिकृत्य च
在那里,主大自在天(摩诃湿婆)安坐于火灵林伽之中,宣说以《阿耆尼耶》为宗的教法,导向法、利、欲与解脱。
Verse 55
कल्पं तल्लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम्
那一劫章由梵天亲自命名为“来因伽”(Laiṅga),即《林伽往世书》。
Verse 56
तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति । तिलधेनुसमायुक्तं स याति शिवसात्म्यताम्
凡于法尔古那月布施那部一万一千颂之圣典,并随施“芝麻之牛”(tiladhenu)者,必得与湿婆相应,融入湿婆之境。
Verse 57
महावराहस्य पुनर्माहात्म्यमधिकृत्य च । विष्णुनाऽभिहितं क्षोण्यै तद्वाराहमिहोच्यते
又复举说大野猪(摩诃婆罗诃)的伟大功德:毗湿奴对大地女神所宣说者,在此称为《婆罗诃》(往世书/教法)。
Verse 58
मानवस्य प्रसंगेन धन्यस्य मुनिसत्तमाः । चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते
噢,最胜仙贤!就那吉祥的摩那婆(与摩奴相关)叙事而言,此处说该往世书共有二万四千颂。
Verse 59
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम् । पौर्णमास्यामथो दद्याद्ब्राह्मणाय कुटुम्बिने । वाराहस्यप्रसादेन पदमाप्नोति वैष्णवम्
铸作金色迦楼罗,并配以“芝麻母牛”之施(tiladhenu),当于满月之日布施与居家梵志;蒙野猪化身瓦拉哈之恩,得至毗湿奴信众之境与归处。
Verse 61
स्कांदं नाम पुराणं तदेकाशीति निगद्यते । सहस्राणि शतं चैकमिति मर्त्येषु पठ्यते
名为《斯甘达》的普拉那被宣称为八万一千;而在人间却传诵为“十万一千”(偈颂)。
Verse 62
परिलेख्य च यो दद्याद्धेमशूलसमन्वितम् । शैवं स पदमाप्नोति मकरोपगमे रवेः
凡先如法刻画形像或铭记,又与金三叉戟同施者,当太阳入摩羯(摩伽罗)之时,得至至上的湿婆归处。
Verse 63
त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः । त्रिवर्गमभ्यधात्तत्तु वामनं परिकीर्तितम्
论及三步遍行者特里维克拉玛之伟大,四面梵天开示人生三义(trivarga);而此开示被称颂为“婆摩那”(Purāṇa/教说)。
Verse 64
पुराणं दशसाहस्रं कौर्मकल्पानुगं शिवम्
此为一部一万偈之普拉那,吉祥而属湿婆,且契合“龟劫”(Kaurma-kalpa)之宇宙周期。
Verse 65
यः शरद्विषुवे दद्याद्धेमवस्त्रसमन्वितम् । क्षौमावृतं युतं धेन्वा स पदं याति वैष्णवम्
凡于秋分之日布施,奉献配以金色衣帛,并施以一头以亚麻覆身之牛者,必得至至上的毗湿奴信众(Vaiṣṇava)之圣境。
Verse 66
यच्च धर्मार्थकामानां मोक्षस्य च रसातले । माहात्म्यं कथयामास कूर्मरूपी जनार्दनः
而关于法(dharma)、利(artha)、欲(kāma)以及解脱(mokṣa)之功德与威光——在罗萨塔拉(Rasātala)所宣说者——乃由阇那尔达那以龟身(库尔摩,Kūrma)而叙述。
Verse 67
इन्द्रद्युम्नप्रसंगेन ऋषीणां शक्रसन्निधौ । सप्तदशसहस्राणि लक्ष्मीकल्पानुषङ्गिकम्
因因陀罗迦昙那(Indradyumna)之事缘起,在释迦罗(Śakra)之前、诸仙(ṛṣi)在座之中,曾宣说一段与“吉祥天女劫”(Lakṣmī-kalpa)相连、长达一万七千偈的叙述。
Verse 68
यो दद्यादयने कौर्मं हेमकूर्मसमन्वितम् । गोसहस्रप्रदानस्य स फलं प्राप्नुयान्नरः
凡于阿耶那(至日转折)之时,行“库尔摩”之施,且以金龟相伴者,此人所得功德等同于布施千头牛。
Verse 69
श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः । मत्स्यरूपी च मनवे नरसिंहोपवर्णनम्
于彼处,在一劫之初,为使诸“闻传”(Śruti,吠陀)得以开显流行,阇那尔达那化为鱼身(摩蹉,Matsya),并向摩奴讲述那罗辛哈(Narasiṃha)之事。
Verse 70
अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनिव्रताः । तन्मात्स्यमिति जानीध्वं सहस्राणि चतुदर्श
噢,持清净誓戒的圣贤们,他宣说了七个劫(kalpa)中的诸般事迹;当知此即名为《摩蹉》(Mātsya)之说,凡一万四千颂。
Verse 71
विषुवे हैममत्स्येन धेन्वा क्षौमयुगान्वितम् । यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला
凡于昼夜平分之日(equinox),以金鱼为供,并施与披有一对麻布的乳牛者——彼人如同已布施整个大地一般。
Verse 72
यदा वा गरुडे कल्पे विश्वाण्डाद्गरुडोऽभवत् । अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते
在名为“迦楼罗劫”(Garuḍa-kalpa)之时,当迦楼罗自宇宙之卵而生,黑天(Kṛṣṇa)因其而宣说一段教诲;此处称之为《迦楼罗》(Gāruḍa)。
Verse 73
तदष्टादश चैकं च सहस्राणीह पठ्यते । स्वर्णहंससमायुक्तं यो दद्यादयने परे । स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम्
此处诵为一万八千又一颂(18,001)。凡于吉祥的日行转折(solstice,ayana)之时,施与并以金天鹅相伴者,得最上成就(悉地),并安住于湿婆之界。
Verse 74
ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्पुनः । तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम्
复次,梵天(Brahmā)又宣说梵卵(Brahmāṇḍa)之伟大;而此《梵卵》共一万二千颂,另加二百颂。
Verse 76
यो दद्यात्तु व्यतीपात ऊर्णायुगसमन्वितम् । राजसूयसहस्रस्य फलमाप्नोति मानवः
凡于“Vyatīpāta(凶会时)”之际行布施,并奉上一双羊毛衣裳者,必得等同于一千次罗阇苏耶(Rājasūya)大祭之功德果报。
Verse 77
हेमधेन्वायुतं तच्च ब्रह्मलोकफलप्रदम् । चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा
而此布施,等同于一万头金牛,能赐予得生梵天界(Brahmaloka)之果报。此四十万(偈颂)之教说,乃由行迹奇妙的毗耶娑(Vyāsa)所宣说。
Verse 78
इदं लोकहितार्थाय संक्षिप्तं द्वापरे द्विजाः
噢,诸位二生者(婆罗门等),此文于兜婆罗时代为利乐世间而加以撮要。
Verse 79
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः । तद्ब्रह्माण्डं पुराणं तु ब्रह्मणा समुदाहृतम्
凡其中可闻未来诸劫(kalpa)之详尽叙述者,此即《梵卵宇宙往世书》(Brahmāṇḍa Purāṇa),由梵天(Brahmā)所宣告。
Verse 80
पाद्मे पुराणे यत्प्रोक्तं नारसिंहोपवर्णनम् । तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते
《莲华往世书》(Padma Purāṇa)中所宣说的那段那罗辛哈(Narasiṃha)圣迹叙述,共一万八千(偈),在此称为《那罗辛哈》(往世书/篇章)。
Verse 81
नन्दिने यत्र माहात्म्यं कार्तिकेयेन वर्णितम् । लोके नन्दिपुराणं वै ख्यातमेतद्द्विजोत्तमाः
噢,最胜二生者!迦尔蒂凯亚向难丁宣说其圣迹功德(māhātmya)的那部著作,世间皆称为《难丁往世书》(Nandi Purāṇa)。
Verse 82
यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् । प्रोच्यते तत्पुनर्लोके सांबमेव मुनिव्रताः
噢,持戒坚固的牟尼们!那将以三婆(Sāmba)为首而宣说的故事,在世间又仅以《三婆》(Sāmba)之名流传。
Verse 83
एवमादित्यसंज्ञं तु तत्रैव परिपठ्यते । अष्टादशभ्यस्तु पृथक्पुराणं यच्च दृश्यते । विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम्
因此,被称为“阿底提耶”(Āditya)的篇章也在彼处诵读。凡见有别于十八部的大往世书者——当知,噢,最胜二生者!它亦唯从这十八部中流出而成。
Verse 84
पञ्चाङ्गानि पुराणस्य चाख्यानमितरत्स्मृतम् । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम्
往世书(Purāṇa)具五支;其余诸般叙事,皆忆为附属。即:创生、再创生、族系谱牒、诸摩奴时代(Manvantara),以及宗族之中复有宗族的王朝事迹——此为往世书之五相。
Verse 85
ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च । संहारश्च प्रदृश्येत पुराणं पञ्चलक्षणम्
其中亦可见对梵天、毗湿奴、日神与鲁陀罗之圣德威光的称扬,并述诸世界之体性及其坏灭(saṃhāra)——由此,往世书以五相而得名。
Verse 86
धर्मश्चार्थश्च कामश्च मोक्षश्च परिकीर्त्यते । सर्वेष्वपि पुराणेषु तद्विरूढे च यत्फलम्
在一切《普拉那》中,皆宣说达摩、阿尔塔、迦摩与解脱(莫克沙),并阐明当这些教诲被如法培育与践行时所生起的功德果报。
Verse 87
सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः
在萨特维卡(清净)之劫中,更大的荣耀归于哈利;在拉贾萨(激动)之劫中,更大的荣耀被知为归于梵天。
Verse 88
तद्वदग्रे च माहात्म्यं तामसेषु शिवस्य हि । संकीर्णे च सरस्वत्याः पितॄणां च निगद्यते
同样,在塔玛萨(昏暗)之劫中,最先的荣耀确属湿婆;而在杂糅的“桑基尔纳”类型中,也宣说辩才天女萨拉斯瓦蒂以及诸祖灵(Pitṛ)的伟大。
Verse 89
चतुर्भिर्भगवान्विष्णुर्द्वाभ्यां ब्रह्मा तथा रविः । अष्टादशपुराणेषु शेषेषु भगवाञ्छिवः
在十八部《普拉那》中,毗湿奴主要在四部中受赞颂;梵天与太阳神(拉维)各在两部中受赞颂;其余诸部则赞扬具福德的主宰湿婆。
Verse 90
वेदवन्निश्चलं मन्ये पुराणं वै द्विजोत्तमाः । वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः
噢,最胜的两次生者啊,我认为《普拉那》如同《吠陀》一般稳固而具权威。一切《吠陀》皆建立于《普拉那》之中——对此毫无疑惑。
Verse 91
बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति । इतिहासपुराणैस्तु निश्चलोऽयं कृतः पुरा
吠陀心生忧惧:“此人学识浅薄,必将扰乱于我。”然而凭借《伊提哈萨》与《往世书》,它早在古时便被确立得坚固不动。
Verse 92
यन्न दृष्टं हि वेदेषु न दृष्टं स्मृतिषु द्विजाः । उभयोर्यत्र दृष्टं च तत्पुराणेषु गीयते
凡不见于吠陀、亦不见于《忆念书》(Smṛti)者,噢二次生者;而凡在二者之中皆可见者,便在《往世书》中被歌咏并宣说。
Verse 93
यो वेद चतुरो वेदान्सांगोपनिषदो द्विजः । पुराणं नैव जानाति न च स स्याद्विचक्षणः
纵使一位二次生者通晓四部吠陀,连同诸支分与奥义书;若不知《往世书》,亦不可真正称为明辨之人。
Verse 94
अष्टादशपुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमकरोद्वेदार्थैरुपबृंहितम्
在撰成十八部《往世书》之后,萨蒂亚瓦蒂之子(毗耶娑)又编纂了名为《婆罗多》的大叙事,以吠陀的精要义理加以充实。
Verse 95
लक्षेणैकेन तत्प्रोक्तं द्वापरान्ते महात्मना । वाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम्
那部大叙事由圣贤在兜婆罗时代末期宣说,篇幅为一“洛叉”(十万颂);而至上的罗摩传亦由蚁垤仙(伐楼弥迦,Vālmīki)宣示。
Verse 96
ब्रह्मणा विहितं यच्च शतकोटिप्रविस्तरम् । आह तन्नारदायैव तेन वाल्मीकये पुनः
凡由梵天(Brahmā)所安立者,广大至百俱胝之量——他告之那罗陀(Nārada),那罗陀又复转告婆罗弥迦(Vālmīki)。
Verse 97
वाल्मीकिना च लोके तु धर्मकामार्थसाधकम्
而婆罗弥迦(Vālmīki)为世间宣说此义,称其能成就法(dharma)、欲(kāma)与利(artha)。
Verse 98
एवं सपादाः पञ्चैते लक्षाः पुण्याः प्रकीर्तिताः । पुरातनस्य कल्पस्य पुराणे तु विदुर्बुधाः
如是,这五十万又四分之一被宣称为圣善;智者于《往世书》(Purāṇa)中知其属于古老之劫(kalpa)。
Verse 99
इतिहासपुराणानि भिद्यन्ते काल गौरवात् । स्कान्दं तथा च ब्रह्माण्डं पुराणं लैङ्गमेव च
诸《伊提哈萨》(Itihāsa)与《往世书》(Purāṇa)因岁月之重而分裂成部;故《斯甘达往世书》、 《梵卵往世书》(Brahmāṇḍa)以及《林伽往世书》(Liṅga)亦见诸不同分卷。
Verse 100
वाराहकल्पे विप्रेन्द्रास्तेषां भेदः प्रवर्तते । अष्टादशप्रकारेण ब्रह्माण्डं भिन्नमेव हि
噢,婆罗门中之最胜者,于野猪劫(Vārāha-kalpa)中诸部之分卷遂行;诚然,《梵卵往世书》(Brahmāṇḍa)被见为以十八种方式分立。
Verse 101
अष्टादशपुराणानि तेन जातानि भूतले । लैङ्गमेकादशविधं प्रभिन्नं द्वापरे शुभम्
由他之力,十八部《往世书》降世于人间;而吉祥的《林伽往世书》(Laiṅga)在兜婆罗时代广为分判为十一种形态。
Verse 102
स्कान्दं तु सप्तधा भिन्नं वेद व्यासेनधीमता । एकाशीतिसहस्राणि शतं चैकं तु संख्यया
至于《斯坎达往世书》(Skānda),智者毗耶娑知其分为七部;按数目计,为八万一千一百。
Verse 103
तस्याऽद्यो यो विभागस्तु स्कन्दमाहात्म्यसंयुतः । माहेश्वरः समाख्यातो द्वितीयो वैष्णवः स्मृतः
于此全体之中,第一分部具足斯坎达之大威德,称为“摩醯湿伐罗”(湿婆派)分部;第二分部则被忆念为“毗湿奴派”分部。
Verse 104
तृतीयो ब्रह्मणः प्रोक्तः सृष्टिसंक्षेपसूचकः । काशीमाहात्म्यसंयुक्तश्चतुर्थः परिपठ्यते
第三分部被说为属梵天,指示对创世之事的简要叙述;第四分部与迦尸之大功德相应,也同样被诵持传读。
Verse 105
रेवायाः पञ्चमो भागः सोज्जयिन्याः प्रकीर्तितः । षष्ठः कल्पो नागरश्च तीर्थमाहात्म्यसूचकः
第五部分被宣说为属于瑞瓦河(那尔摩陀)与邬阇衍尼;第六部分为“那伽罗劫”(Nāgara Kalpa),用以指示诸多提尔塔——圣地渡口——之伟大功德。
Verse 106
सप्तमो यो विभागोऽयं स्मृतः प्राभासिको द्विजाः । सर्वे द्वादशसाहस्रा विभागाः संप्रकीर्तिताः
噢,二生的圣贤们,此第七分部被忆念为“普罗婆娑迦”(Prābhāsika);由是诸分部——合计一万二千颂——皆已如法宣列。
Verse 107
अस्मिन्प्राभासिकः सर्वो वर्ण्यते क्षेत्रविस्तरः । तीर्थानां चैव माहात्म्यं माहात्म्यं शंकरस्य च
在此“普罗婆娑迦”篇中,详述圣域的全部广袤,并宣说诸圣渡处(tīrtha)的大功德,亦复称扬商羯罗(Śaṅkara,湿婆)之大威德。
Verse 108
अन्येषां चैव देवानां माहात्म्यं च प्रकीर्त्यते । इति भेदः पुराणानां संक्षेपात्कथितो द्विजाः
此处亦宣扬其他诸天之大功德。由是,噢二生者,诸《往世书》之间的差别,已略说而毕。
Verse 109
इममष्टादशानां तु पुराणानामनुक्रमम् । यः पठेद्धव्यकव्येषु स याति भवनं हरेः
凡于供奉诸天与祖灵(pitṛ)之祭献时,诵读此十八《往世书》之次第者,必得往诣哈利(Hari,毗湿奴)之居处。