Adhyaya 13
Mahesvara KhandaKaumarika KhandaAdhyaya 13

Adhyaya 13

本章以多重声音展开神学论述,由个人虔敬推进到圣地地理的神圣化与仪轨的规定。起初,国王决意常伴圣者罗摩沙(Loṃaśa),受持湿婆灌顶(Śiva-dīkṣā)以礼拜林伽;经文赞叹善友圣众之会(sat-saṅga)胜过朝礼诸渡口圣地(tīrtha)。一群受诅咒的众生,尤以鸟兽之形为显,祈求解脱,并求一处能得一切 tīrtha 之果报的所在。 那罗陀(Nārada)指引他们前往迦尸瓦拉纳西(Vārāṇasī)请问瑜伽行者三婆尔多(Saṃvarta),并告知夜行途中辨识其人的特殊举止。三婆尔多遂宣说摩希—大海合流处(Mahī–Sāgara-saṅgama)的至上功德,阐明摩希河的神圣,断言于彼处沐浴及相关仪式之福德,等同或超越普拉雅伽(Prayāga)与伽耶(Gayā)等名胜。章中亦载历法与仪轨细则:与沙尼(Śani)相应的无月日(amāvāsyā)、如 vyatīpāta 等殊胜瑜伽时;供奉沙尼与苏利耶(Sūrya);献水祈祷的 arghya 咒;以及一种带有“法度”意味的验真仪式——自水中举起右手以证其言。 又以耶若婆迦(Yājñavalkya)与那俱罗(Nakula)的问答,长篇训诫恶语与德行,强调无纪律之学不足恃。最终,安立林伽并命名为因陀罗丢摩涅湿伐罗(Indradyumneśvara,亦与摩诃迦罗 Mahākāla 相连);湿婆亲赐恩许,使信众得近似 sāyujya/sārūpya 之果,并以此重申此合流圣地卓绝的救度威力。

Shlokas

Verse 1

। नारद उवाच । इति तस्य मुनींद्रस्य भूपतिः शुश्रुवान्वचः । प्राह नाहं गमिष्यामि त्वां विहाय नरं क्वचित्

那罗陀曰:国王听罢那位大圣者之言,便答道:“尊者啊,不离开您,我决不往任何地方去。”

Verse 2

लिंगमाराधयिष्येऽद्य सर्वसिद्धिप्रदं नृणाम् । त्वयैवानुगृहीतोऽद्य यांतु सर्वे यथागतम्

今日我当礼敬林伽(湿婆圣相),赐予众生一切成就。既然今日蒙你垂恩,愿众人皆如来时一般,各自归去。

Verse 3

तद्भूपतिवचः श्रुत्वा बको गृध्रोऽथ कच्छपः । उलूकश्च तथैवोचुः प्रणता लोमशं मुनिम्

听闻国王之言,鹤、鹫、龟与鸮也同样开口,俯首顶礼于罗摩舍仙人之前。

Verse 4

स च सर्वसुहृद्विप्रस्तथेत्येवाह तांस्तदा । प्रणोद्यान्प्रणतान्सर्वाननुजग्राह शिष्यवत्

那位与众为善的婆罗门便对他们说道:“如是。”他认可了所有俯伏者,并以慈心收纳他们,如同收徒一般。

Verse 5

शिवदीक्षाविधानेन लिंगपूजां समादिशत् । तेषामनुग्रहपरो मुनिः प्रमतवत्सलः । तीर्थादप्यधिकं स्थाने सतां साधुसमागमः

依照湿婆灌顶(Śiva-dīkṣā)的正法,仙人教导他们礼拜林伽。为赐恩而来、慈爱诸奉侍者的牟尼宣示:“无论何处,与贤圣相会,比一处圣地(tīrtha)更为殊胜。”

Verse 6

पचेलिमफलः सद्यो दुरंतकलुपापहः । अपूर्वः कोऽपि सद्गोष्ठीसहस्रकिरणोदयः

其果报立现,能除尽深重久积之罪;宛如前所未有的黎明,从圣众相会中升起千道光辉。

Verse 7

य एकांततयात्यंतमंतर्गततमोपहः । साधुगोष्ठीसमुद्भूतसुखामृतरसोर्मयः

以一心专注,彻底驱散内在幽暗;由圣贤(sādhu)会众所生的甘露之味喜乐,层层波涌而起。

Verse 8

सर्वे वराः सुधाकाराः शर्करामधुषड्रसाः । ततस्ते साधुसंसर्गं संप्राप्ताः शिवशासनात्

一切福祉皆如甘露——甜若糖蜜与蜂蜜,具足六味。因此遵奉湿婆(Śiva)圣命,他们得以亲近圣贤(sādhu)之伴。

Verse 9

आरेभिरे क्रियायोगं मार्कंडनृपपूर्वकाः । तेषां तपस्यतामेवं समाजग्मे कदाचन । तीर्थयात्रानुषंगेन लोमशालोकनोत्सुकः

在马尔坎达王(Mārkaṇḍa)带领下,他们开始修行克里亚瑜伽(kriyā-yoga)的戒行之道。正当他们如此苦行之时,有一次,罗摩沙(Lomaśa)因渴望一见而来,亦是他巡礼诸圣地(tīrtha)行程中的一站。

Verse 10

मुख्या पुरुषयात्रा हि तीर्थयात्रानुषंगतः । सद्भिः समाश्रितो भूप भूमिभागस्तथोच्यते

“确然,最上等的‘旅程’乃是趋赴贤圣之旅;朝礼诸圣地(tīrtha)只是其次。大王啊,凡为善人所依止之地,方称真正蒙福之土。”

Verse 11

कृतार्हणातिथ्यविधिं विश्रांतं मां च फाल्गुन । प्रणम्य तेऽथ पप्रच्छुर्नाडीजंघपुरः सराः

噢,法尔古那(Phālguna),他们如法行毕敬客之礼,我亦歇息之后,那些那迪姜伽(Nāḍījaṅgha)之民先恭敬顶礼,继而向我发问。

Verse 12

त उचुः । शापभ्रष्टा वयं ब्रह्मंश्चत्वारोऽपि स्वकर्मणा । तन्मुक्तिसाधनार्थाय स्थानं किंचित्समादिश

他们说道:“噢,婆罗门啊,由于我们自身的业行,我们四人都因诅咒而从旧有境地堕落。请指示一处地方,可作为脱离此境、得解脱之资粮。”

Verse 13

इयं हि निष्फला भूमिः शपलं भारतं मुने

“因为此地于我们似乎无果,噢圣仙;这婆罗多之国仿佛被诅咒与过失所缠绕。”

Verse 14

तत्रापि क्वचिदेकत्र सर्वतीर्थफलं वद । इति पृष्टस्त्वहं तैश्च तानब्रवमिदं तदा

“即便在那里,也请告诉我们一处所在,能得一切圣渡(tīrtha)之果。”他们如此问我,我便在那时对他们说道如下。

Verse 15

संवर्तं परिपृच्छध्वं स वो वक्ष्यति तत्त्वतः । सर्वतीर्थफलावाप्तिकारकं भूप्रदेशकम्

“你们去请问三婆尔多(Saṃvarta);他将如实告知真义,显示那片土地,凭之可得一切圣渡之果。”

Verse 16

त उचुः । कुत्रासौ विद्यते योगी नाज्ञासिष्म वयं च तम् । संवर्तदर्शनान्मुक्तिरिति चास्मदनुग्रहः

他们说道:“那位瑜伽行者在何处?我们并不认识他。又有人说,只要得见三婆尔多便得解脱——愿这成为您赐予我们的恩慈。”

Verse 17

यदि जानासि तं ब्रूहि सुहृत्संगो न निष्फलः । ततोऽहमब्रवं तांश्च विचार्येदं पुनःपुनः

“若你们认识他,就请告诉我们——与善意的益友相交,绝不会徒然。”于是我反复思量此事,便对他们开口说道。

Verse 18

वाराणस्यामसावास्ते संवर्तो गुप्तलिंगभृत् । मलदिग्धो विवसनो भिक्षाशी कुतपादनु

“三跋多(Saṃvarta)住在婆罗奈(Vārāṇasī),暗中佩持林伽。身涂污垢,裸形无衣,以乞食为生,行走时仅以破布遮体。”

Verse 19

करपात्रकृताहारः सर्वथा निष्परिग्रहः । भावयन्ब्रह्म परमं प्रणवाभिधमीश्वरम्

他以手为钵而取食,彻底无所执取;并恒常观想至上梵——名为“普罗那瓦”(Pranava,唵 Oṃ)的自在天(Īśvara)。

Verse 20

भुक्त्वा निर्याति सायाह्ने वनं न ज्ञायते जनैः । योगीश्वरोऽसौ तद्रूपाः सन्त्यन्ये लिंगधारिणः

他用食之后,于傍晚时分出入林野,世人不识其真。此人乃瑜伽行者之主;并且还有其他持林伽者,形貌亦与他相似。

Verse 21

वक्ष्यामि लक्षणं तस्य ज्ञास्यथ तं मुनिम् । प्रतोल्या राजमार्गे तु निशि भूमौ शवं जनैः

“我将说出他的辨识之相,你们便能认出那位牟尼。夜间,在城门附近的王道大路上,应由众人把一具尸身安放于地。”

Verse 22

अविज्ञातं स्थापनीयं स्थेयं तदविदूरतः । यस्तां भूमिमुपागम्य अकस्माद्विनिर्वतते

应当把它放在那里而不为他人所识,你也应站在离它不远之处。凡来到那片地方却忽然转身退回的人——

Verse 23

स संवर्तो न चाक्रामत्येष शल्यमसंशयम् । प्रष्टव्योऽभिमतं चासावुपाश्रित्य विनीतवत्

——此人便是三婆尔多(Saṃvarta);他必不踏越其上——此事确凿无疑。随后当以谦恭之心趋近他,依所愿而问。

Verse 24

यदि पृच्छति केनाहमाख्यात इति मां ततः । निवेद्य चैतद्वक्तव्यं त्वामाख्यायाग्निमाविशत्

若他问:“是谁把我指示给你们的?”那么先向我禀告,然后当如此说道:“既已认出尊者,他便投入火中。”

Verse 25

तच्छ्रुत्वा ते तथा चक्रुः सर्वेपि वचनं मम । प्राप्य वाराणसीं दृष्ट्वा संवर्तं ते तथा व्यधुः

闻此言后,他们众人皆一一依我所说而行。及至婆罗痆斯(Vārāṇasī),见到三婆尔多,便照所嘱而作。

Verse 26

शवं दृष्ट्वा च तैर्न्यस्तं संवर्तो वै न्यवर्तत । क्षुत्परीतोऽपि तं ज्ञात्वा ययुस्तमनु शीघ्रगम्

三婆尔多见他们所置之尸,果然回身退去。众人虽为饥饿所逼,仍认出是他,便急急追随其后;他行走甚疾。

Verse 27

तिष्ठ ब्रह्मन्क्षणमिति जल्पंतो राजमार्गगम् । याति निर्भर्त्सयत्येष निवर्तध्वमिति ब्रुवन्

他们在王道上呼喊道:“婆罗门啊,请停留片刻!”他却继续前行,斥责他们说:“退回去!”

Verse 28

समया मामरे भोऽद्य नागंतव्यं न वो हितम् । पलायनमसौ कृत्वा गत्वा दूरतरं सरः । कुपितः प्राह तान्सर्वान्केनाख्यातोऽहमित्युत

“你们都与我立过约——今日不该来,这对你们并无益处。”他随即遁走,前往更远的湖泊。怒而对众人说:“是谁认出了我?”

Verse 29

निवेदयत शीघ्रं मे यथा भस्म करोमि तम् । शापाग्निनाथ वा युष्मान्यदि सत्यं न वक्ष्यथ

“快告诉我,好让我把他烧成灰烬;否则,若你们不说实话,我将以诅咒之火焚烧你们。”

Verse 30

अथ प्रकंपिताः प्राहुर्नारदेनेति तं मुनिम् । स तानाह पुनर्यातः पिशुनः क्व नु संप्रति

于是他们战栗着对那位牟尼说:“是那罗陀。”他又问他们:“那个好诽谤者又来了么——他如今在哪里?”

Verse 31

लोकानां येन सापाग्नौ भस्मशेषं करोमि तम् । ब्रह्मबंधुमहं प्राहुर्भीतास्ते तं पुनर्मुनिम्

“凭借谁的力量,我能在诅咒之火中使诸世界化为仅余灰烬——那人我宣称为‘婆罗门之亲’(仅具血统的婆罗门)。”他们惶恐,又再次对那位牟尼说道。

Verse 32

त ऊचुः । त्वं निवेद्य स चास्माकं प्रविष्टो हव्यवाहनम् । तत्कालमेव विप्रेंद्र न विद्मस्तत्र कारणम्

他们说:“噢,最尊贵的婆罗门啊,你宣告之后,他就在我们眼前进入祭火(阿耆尼)。就在那一刻,我们并不明白其中缘由。”

Verse 33

संवर्त उवाच । अहमप्येवमेवास्य कर्ता तेन स्वयं कृतम् । तद्ब्रूत कार्यं नैवात्र चिरं स्थास्यामि वः कृते

三跋多说:“我也曾这样想:‘这事必是我所为。’然而却是他亲自成就的。因此告诉我当做何事;即便为你们,我也不会久留于此。”

Verse 34

अर्जुन उवाच । यदि नारद देवर्षे प्रविष्टोऽसि हुताशनम् । जीवितस्तत्कथं भूय आश्चर्यमिति मे वद

阿周那说:“噢,那罗陀,天界圣仙啊——若你曾进入炽燃之火,何以仍然活着?请再为我说明这奇迹。”

Verse 35

नारद उवाच । न हुताशः समुद्रो वा वायुर्वा वृक्षपर्वतः । आयुधं वा न मे शक्ता देहपाताय भारत

那罗陀说:“无论是火、海、风,乃至树木与群山——也无论任何兵器——都无力使我此身败落,噢,婆罗多啊。”

Verse 36

पुनरेतत्कृतं चापि संवर्तो मन्यते यथा । अहं सन्मानितश्चेति वह्निं प्राप्याप्यगामहम्

又一次,当三跋多以为此事是他所为时,我——心想“我已得到了应有的礼敬”——即使到了火前,也仍继续前行。

Verse 37

यथा पुष्पगृहे कश्चित्प्रविशत्यंग फाल्गुन । तथाहमग्निं संविश्य यातवानुत्तरं श्रृणु

正如有人走入花之殿堂,亲爱的法尔古那啊,我也投入火中并穿越而过。如今请听接下来发生之事。

Verse 38

संवर्तस्तान्पुनः प्राह मार्कंडेयमुखानिति । विशल्यः पंथाः क्षुधितोऽहं पुनः पुरीम् । भिक्षार्थं पर्यटिष्यामि प्रश्रं प्रब्रूत चैव मे

萨ṃ瓦尔塔又对他们说,先对马尔坎德耶开口:“道路已无险阻;我饥饿,将再入城求施。也请把你们的疑问清楚地告诉我。”

Verse 39

त ऊचुः । शापभ्रष्टा वयं मोक्षं प्राप्स्यामस्तवदनुग्रहात् । प्रतीकारं तदाख्याहि प्रणतानां महामुने

他们说:“我们因诅咒而堕落;凭你的恩泽,我们将得解脱。大牟尼啊,请为我们这些俯首礼拜者宣说对治之法。”

Verse 40

यत्र तीर्थे सर्वतीर्थफलं प्राप्नोति मानवः । तत्तीर्थं ब्रूहि संवर्त तिष्ठामो यत्र वै वयम्

“请告诉我们,萨ṃ瓦尔塔啊,哪一处圣渡(tīrtha)能使人获得一切圣地之果报。请宣说那处tīrtha,因为我们愿意住在那里。”

Verse 41

संवर्त उवाच । नमस्कृत्य कुमाराय दुर्गाभ्यश्च नरोत्तमाः । तीर्थं च संप्रवक्ष्यामि महीसागरसंगमम्

萨ṃ瓦尔塔说:“诸位人中至善者,我先礼敬库玛拉与诸位杜尔迦女神,今当宣说那圣渡——摩希河与大海相会的汇合处。”

Verse 42

अमुना राजसिंहेन इंद्रद्युम्नेन धीमता । यजनाद्द्व्यंगुलोत्सेधा कृतेयं वसुधायदा

由那位诸王之狮、睿智的因陀罗迦昙那(Indradyumna)行祭(yajña)之时,此大地便上升了两指之高。

Verse 43

तदा संताप्यमानाया भुवः काष्ठस्य वै यथा । सुस्राव यो जलौघश्च सर्वदेवनमस्कृतः

当时,大地被炙热灼烧,如木投火将燃;遂涌出一股洪流之水,为诸天所共敬礼。

Verse 44

महीनाम नदी च पृथिव्यां यानिकानिचित् । तीर्थानि तेषां सलिलसंभवं तज्जलं विदुः

在大地之上,凡所有的圣渡处(tīrtha),以及名为摩希(Mahī)之河,当知其水皆源自那同一圣流。

Verse 45

महीनाम समुत्पन्ना देशे मालवकाभिधे । दक्षिणं सागरं प्राप्ता पुण्योभयतटाशिवा

名为摩希(Mahī)之河,起源于称作摩罗婆迦(Mālavaka)之地;流至南海,她吉祥殊胜——两岸皆为圣洁。

Verse 46

सर्वतीर्थमयी पूर्वं महीनाम महानदी । किं पुनर्यः समायोगस्तस्याश्च सरितां पतेः

伟大的摩希河(Mahī)自始即具一切圣渡处(tīrtha)之精髓;那么,她与诸河之主——大海——的汇合,又该何等殊胜!

Verse 47

वाराणसी कुरुक्षेत्रं गंगा रेवा सरस्वती

瓦拉纳西、库鲁克舍特拉、恒河、瑞瓦河(纳尔马达)以及萨拉斯瓦蒂河——

Verse 48

तापी पयोष्णी निर्विध्या चन्द्रभागा इरावती । कावेरी शरयूश्चैव गंडकी नैमिषं तथा

塔皮河、帕约什尼河、尼尔温迪亚河、旃陀罗婆伽河与伊罗伐底河;同样还有卡维里河、舍罗瑜河、甘达基河以及奈弥沙——

Verse 49

गया गोदावरी चैव अरुणा वरुणा तथा । एताः पुण्याः शतशोन्या याः काश्चित्सरितो भुवि

伽耶、戈达瓦里河,以及阿鲁那河与伐鲁那河;这些与世间其他数百条圣河——凡在大地之上的诸河——

Verse 50

सहस्रविंशतिश्चैव षट्शतानि तथैव च । तासां सारसमुद्भुतं महीतोयं प्रकीर्तितम्

二万一千,又加六百;由彼等圣处所凝成的精髓,被称颂为“摩希之水”。

Verse 51

पृथिव्यां सर्वतीर्थेषु स्नात्वा यत्फलमाप्यते । तन्महीसागरे प्रोक्तं कुमारस्य वचो यथा

凡在大地一切圣渡处(tīrtha)沐浴所获之福果——同等功德,依童子神库玛罗(斯甘达)之言,被宣说于摩希萨伽罗现起。

Verse 52

एकत्र सर्वतीर्थानां यदि संयोगमिच्छथ । तद्गच्छथ महापुण्यं महीसागरसंगमम्

若你愿一切圣地渡口(tīrtha)汇于一处,当往至功德无量之汇合处,名为“摩希萨伽罗”(Mahīsāgara)。

Verse 53

अहं चापि च तत्रैव बहून्वर्षगणान्पुरा । अवसं चागतश्चात्र नारदस्य भयात्तथा

我亦曾在彼处居住多年;其后也来到此地——确因惧怕那罗陀(Nārada)。

Verse 54

स हि तत्र समीपस्थः पिशुनश्च विशेषतः । मरुत्तः कुरुते यत्नं तस्मै ब्रूयादिदं भयम्

因他就在彼处近旁,且尤善搬弄是非;马鲁塔王正竭力筹谋——当将此惧告知于他。

Verse 55

अत्र दिग्वाससां मध्ये बहूनां तत्समस्त्वहम् । निवसाम्यतिप्रच्छन्नो मरुत्तादतिभीतवत्

在此处,于众多“披空者”(digvāsa)苦行人之间,我如同他们之一而住,深深隐匿——宛如极惧马鲁塔者。

Verse 56

पुनरत्रापि मां नूनं कथयिष्यति नारदः । तथाविधा हि चेष्टास्य पिशुनस्य प्रदृश्यते

即便在此处,想必那罗陀仍会谈及我;因为那搬弄是非者的行径,正是如此昭然可见。

Verse 57

भवद्भिश्च न चाप्यत्र वक्तानां कस्यचित्क्वचित् । मरुत्तः कुरुते यत्नं भूपालो यज्ञसिद्धये

你们也切莫在此处向任何人、在任何地方泄露此事。玛鲁塔王正竭力用功,只为令祭祀(yajña)圆满成就。

Verse 58

देवाचार्येण संत्यक्तो भ्रात्रा मे कारणां तरे । गुरुपुत्रं च मां ज्ञात्वा यज्ञार्त्विज्यस्य कारणात्

我因母亲之故,被诸天之师所弃,也被我亲兄弟所弃;而他明知我是其师之子,却仍如此行事,只为在祭祀(yajña)中担任祭官。

Verse 59

अविद्यांतर्गतैर्यज्ञकर्मभिर्न प्रयोजनम् । मम हिंसात्मकैरस्ति निगमोक्तैरचेतनैः

于我而言,被无明所包裹的祭祀之业毫无所用——纵引自吠陀,若只是无心机械地行持,且带有伤害之性,终非所求。

Verse 60

समित्पुष्पकुशप्रायैः साधनैर्यद्यचेतनैः । क्रियते तत्तथा भावि कार्यं कारणवन्नृणाम्

若一项行为主要凭借柴薪、花与库沙草等无知觉之物而行,那么对人而言,其果报也将相应而生,如同果依因而起。

Verse 61

तद्यूयं तत्र गच्छध्वं शीघ्रमेव नृपानुगाः । अस्ति विप्रः स्वयं ब्रह्मा याज्ञवल्क्यश्च तत्र वै

因此,你们这些王家随从,当即速速前往那里。彼处确有一位婆罗门:雅吉那瓦尔迦,宛如梵天(Brahmā)亲临。

Verse 62

स हि पूर्वं मिथेः पुर्यां वसन्नाश्रममुत्तमम् । आगच्छमानं नकुलं दृष्ट्वा गार्गीं वचोऽब्रवीत्

从前,他住在密他城一处殊胜的修行林苑中,见一只猫鼬走近,便对伽尔吉(Gārgī)说道如下之言。

Verse 63

गार्गि रक्ष पयो भद्रे नकुलोऽयमुपेति च । पयः पातुं कृतिमतिं नकुलं तं निराकुरु

“伽尔吉啊,贤善的你,护住这乳汁——这只猫鼬正走来。它善于偷饮乳汁,快把那猫鼬赶走。”

Verse 64

इत्युक्तो नकुलः क्रुद्धः स हि क्रुद्धः पुराऽभवत् । जमदग्नेः पूर्वजैश्च शप्तः प्रोवाच तं मुनिम्

听到这话,那猫鼬便发怒——它先前也早怀怒意。因受阇摩达格尼(Jamadagni)先祖的诅咒,它对那位牟尼说道。

Verse 65

अहो वा धिग्धिगित्येव भूयो धिगिति चैव हि । निर्लज्जता मनुष्याणां दृश्यते पापकारिणाम्

“唉!可耻,可耻!再说一次,实在可耻!作恶之人身上,显现出人类的无耻。”

Verse 66

कथं ते नाम पापानि प्रकुर्वंति नराधमाः । मरणांतरिता येषां नरके तीव्रवेदना

“那些卑劣之人怎还能造作罪业?须知死后在地狱中有剧烈的苦痛等待着他们。”

Verse 67

निमेषोऽपि न शक्येत जीविते यस्य निश्चितम् । तन्मात्रपरमायुर्यः पापं कुर्यात्कथं स च

既然连一刹那的生命都无法保证,寿命仅限于此的人又怎能仍去造罪呢?

Verse 68

त्वं मुने मन्यसे चेदं कुलीनोऽस्मीति बुद्धिमान् । ततः क्षिपसि मां मूढ नकुलोऽयमिति स्मयन्

噢牟尼,若你自以为聪慧且出身高贵,为何却愚昧地侮辱我,含笑说道:“这是一只獴”?

Verse 69

किमधीतं याज्ञवल्क्य का योगेश्वरता तव । निरपराधं क्षिपसि धिगधीतं हि तत्तव

噫,耶若阇那伐尔迦,你究竟学了什么?你的瑜伽自在之主的威德何在?你竟辱骂无辜之人——如此学问,真可耻!

Verse 70

कस्मिन्वेदं स्मृतौ कस्यां प्रोक्तमेतद्ब्रवीहि मे । परुषैरिति वाक्यैर्मां नकुलेति ब्रवीषि यत्

告诉我:在何种《吠陀》、何种《忆念书》中教过此事——要用粗厉之语称我为“獴”?

Verse 71

किमिदं नैव जानासि यावत्यः परुषा गिरः । परः संश्राव्यते तावच्छंकवः श्रोत्रतः पुनरा

你难道不明白吗:你让他人听到多少句尖刻之言,就有多少根刺一次又一次扎入耳中。

Verse 72

कंठे यमानुगाः पादं कृत्वा तस्य सुदुर्मतेः । अतीव रुदतो लोहशंकून्क्षेप्स्यंति कर्णयोः

对于那个恶毒的人,阎摩的侍从将踏住他的喉咙;当他痛苦哀号时,他们将把铁钉刺入他的双耳。

Verse 73

वावदूकाश्च ध्वजिनो मुष्णंति कृपणाञ्जनान् । स्वयं हस्तसहस्रेण धर्मस्यैवं भवद्विधाः

喋喋不休和虚荣的人掠夺穷人和无助者;像你这样的人,仿佛用一千只手,掠夺了正法本身。

Verse 74

वज्रस्य दिग्धशस्त्रस्य कालकूटस्य चाप्युत । समेन वचसा तुल्यं मृत्योरिति ममाभवत्

在我看来,死亡本身与巧言令色并无二致——就像雷电,像涂毒的武器,像致命的卡拉库塔毒药。

Verse 75

कर्णनासिकनाराचान्निर्हरंति शरीरतः । वाक्छल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः

射入耳或鼻的箭可以从身体拔出;但言语的荆棘无法移除,因为它深深嵌入心中。

Verse 76

यंत्रपीडैः समाक्रम्य वरमेष हतो नरः । न तु तं परुषैर्वाक्यैर्जिघांसेत कथंचन

宁愿一个人被刑具的酷刑折磨致死,也不要试图用恶毒的言语去伤害他。

Verse 77

त्वया त्वहं याज्ञवल्क्य नित्यं पंडितमानिना । नकुलोसीति तीव्रेण वचसा ताडितः कुतः

噢,雅若阇那伐迦呀,你自负为学者,为何屡屡以尖刻之语击我,说:“你是那库拉——一只獴”?

Verse 78

संवर्त उवाच । इति श्रुत्वा वचस्तस्य भृशं विस्मितमानसः । याज्ञवल्क्योऽब्रवीदेतत्प्रबद्धकरसंपुटः

三跋罗多说:听了他的话,雅若阇那伐迦心中大为惊异,便合掌恭敬,如是说道。

Verse 79

नमोऽधर्माय महते न विद्मो यस्य वै भवम् । परमाणुमपि व्यक्तं कोत्र विद्यामदः सताम्

礼敬伟大的阿达摩(Adharma,不法)——其威势我等莫能测知!连一微尘之真实尚未明了,贤者之中又何处容得下学识之傲?

Verse 80

विरंचिविष्णुप्रसमुखाः सोमेंद्रप्रमुखास्तथा । सर्वज्ञास्तेऽपि मुह्यति गणनास्मादृशं च का

即便以梵天与毗湿奴为首,又以苏摩与因陀罗为首——虽被称为“全知”——亦仍会陷入迷惑;那么像我们这样的人,又何足计数评量?

Verse 81

धर्मज्ञोऽस्मीति यो मोहादात्मानं प्रतिपद्यते । स वायुं मुष्टिना बद्धुमीहते कृपणो नरः

凡因迷妄而自以为“我知达摩(法)”者,实为可怜之人——他竟想以拳握缚住清风。

Verse 82

केचिदज्ञानतो नष्टाः केचिज्ज्ञानमदादपि । ज्ञानं प्राप्यापि नष्टाश्च केचिदालस्यतोऽधमाः

有人因无明而败亡;有人甚至因学识之醉、傲慢而覆灭。又有人虽得知识仍然沉沦——那些卑劣之人,皆由懒惰所致。

Verse 83

वेदस्मृतीतिहासेषु पुराणेषु प्रकल्पितम् । चतुःपादं तथा धर्मं नाचरत्यधमः पशुः

那在《吠陀》、诸《斯摩利提》、史诗与《往世书》中所制定的“四足之法”(圆满之法)——卑下如兽之人,并不奉行。

Verse 84

स पुरा शोचते व्यक्तं प्राप्य तच्चांतकं गृहम् । तथाहि गृह्यकारेण श्रुतौ प्रोक्तमिदं वचः

后来,当他抵达那“最后的居所”——死亡之宅时,必定哀恸;因为这句话,正是由《家祭》(Gṛhya)传统的作者在《圣闻》(Śruti)中所宣说。

Verse 85

नकुलं सकुलं ब्रूयान्न कंचिन्मर्मणि स्पृशेत् । प्रपठन्नपि चैवाहमिदं सर्वं तथा शुकः

当说无害而得体之语,不可触及他人心中敏感之处。纵使我诵尽这一切,我也不过如鹦鹉般复述而已。

Verse 86

आलस्येनाप्यनाचाराद्वृथाकार्येकमंग तत्

即便只是因懒惰,或因失德之行——此亦成为徒劳之业的一支(一个“肢分”)。

Verse 87

केवलं पाठ मात्रेण यश्च संतुष्यते नरः । तथा पंडितमानी च कोन्यस्तस्मात्पशुर्मतः

若有人仅以诵读为足,又自诩为学者;除他之外,还有谁更应被视为兽性之人?

Verse 88

न च्छंदांसि वृजिनात्तारयंति मायाविनं माययाऽवर्तमानम् । नीडं शकुंता इव जातपक्षाश्छंदास्येनं प्रजहत्यंतकाले

吠陀的韵律不能使那以欺诳为生的诡诈之人渡脱罪垢;如雏鸟羽翼既成便离巢,吠陀亦在其临终之时弃他而去。

Verse 89

स्वार्गाय बद्धकक्षो यः पाठमात्रेण ब्राह्मणः । स बालो मातुरंकस्थो ग्रहीतुं सोममिच्छति

那婆罗门仅凭诵读便束装求天界,犹如幼子坐在母亲怀中,却妄想攫取苏摩。

Verse 90

तद्भवान्सर्वथा मह्यमनयं सोढुमर्हसि । सर्वः कोऽपि वदत्येवं तन्मयैवमुदाहृतम्

因此,愿你全然宽恕我这番失礼。世人皆常如此言说,故我亦如是而言。

Verse 91

नकुल उवाच । वृथेदं भाषितं तुभ्यं सर्वलोकेन यत्समम् । आत्मानं मन्यसे नैतद्वक्तुं योग्यं महात्मनाम्

那俱罗说道:“你这番话徒然无益,与世间凡夫之言无异。若你自认高贵,此等言辞不配出自大心之人。”

Verse 92

वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामंतरं महदंतरम्

马、象与金属之间;木、石与布帛之间;以及女子、男子与水之间——皆有重大而根本的差别。

Verse 93

अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते । प्रधानपुरुषेणापि कार्यं तत्पृष्ठतोनु किम्

纵使别的凡夫造作多罪,又能如何?难道为首之人也要随其后而同样去做吗?

Verse 94

सर्वार्थं निर्मितं शास्त्रं मनोबुद्धी तथैव च । दत्ते विधात्रा सर्वेषां तथापि यदि पापिनः

经典(śāstra)为一切所需而制成;心与慧亦由造物主赐予众生。然若人仍堕为罪者……

Verse 95

ततो विधातुः को दोषस्त एव खलु दुर्भगाः । ब्राह्मणेन विशेषेण किं भाव्यं लोकवद्यतः

既如此,造物主又有何过?真正不幸的唯有他们自己。况且婆罗门——尤当——怎可如俗众一般行事?

Verse 96

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते

贤者所行,众人亦行其所行;他所立之准则,世间便随之而行。

Verse 97

तस्मात्सदा महद्भिश्च आत्मार्थं च परार्थतः । सतां धर्मो न संत्याज्यो न्याय्यं तच्छिक्षणं तव

因此,伟大之人应当恒常为自利与利他,永不舍弃贤善者之法(达摩)。你在此事上的教诲,确为正当。

Verse 98

यस्मात्त्वया पीडितोऽहं घोरेण वचसा मुने । तस्माच्छीघ्रं त्वां शप्स्यामि शापयोग्यो हि मे मतः

既然我被你可怖而刻薄的言辞所折磨,噢牟尼(圣者),因此我将立刻诅咒你;在我看来,你确实当受此咒。

Verse 99

नकुलोऽसीति मामाह भवांस्तस्मात्कुलाधमः । शीघ्रमुत्पत्स्यसे मोहात्त्वमेव नकुलो मुने

你称我为“那俱罗(Nakula)”,因此你成了家族的耻辱。不久,你将因迷妄而亲自投生为那俱罗——一只獴(mongoose),噢牟尼。

Verse 100

संवर्त उवाच । इति वाचं समाकर्ण्य भाव्यर्थकृतनिश्चयः । याज्ञवल्क्यो मरौ देशे विप्रस्याजायतात्मजः

三跋多(Saṃvarta)说道:“听闻此言,并已决意面对将来之事,阎若婆迦(Yājñavalkya)便在沙漠之地投生,为一位婆罗门之子。”

Verse 101

दुराचारस्य पापस्य निघृणस्यातिवादिनः । दुष्कुलीनस्य जातोऽसौ तदा जातिस्मरः सुतः

当时,他投生为一恶行之人之子——罪业深重、无悲悯、且好以恶言相向——出自卑贱家系;然而就在那一刻,这孩子却成为能忆念前生之人。

Verse 102

सोऽथ ज्ञानात्समालोक्य भर्तृयज्ञ इति द्विजः । गुप्तक्षेत्रं समापन्नो महीसागरसंगमम्

随后,那位名为婆尔特利耶阇那(Bhartṛyajña)的婆罗门凭内在智慧洞见其行程,抵达古普塔克舍特拉(Guptakṣetra)——圣地汇合处,摩希河(Mahī)在此与大海相接。

Verse 103

तत्र पाशुपतो भूत्वा शिवाराधनतत्परः । स्वायंभुवं महाकालं पूजयन्वर्ततेऽधुना

在那里,他成为帕舒帕塔(Pāśupata)行者,专心致志礼敬湿婆;直至今日仍持续供奉摩诃迦罗(Mahākāla)——自显之主(Svayambhū)。

Verse 104

यो हि नित्यं महाकालं श्रद्धया पूजयेत्पुमान् । स दौष्कुलीनदोषेभ्यो मुच्यतेऽहिरिव त्वचः

确实,凡以信心日日礼拜摩诃迦罗者,必从卑贱族类之过失中解脱,如蛇蜕去旧皮。

Verse 105

यथायथा श्रद्धयासौ तल्लिंगं परिपश्यति । तथातथा विमुच्येत दोषैर्जन्मशतोद्भवैः

人以信心观瞻彼灵伽至何等程度,便于同等程度中解脱由百生所生的诸过失。

Verse 106

भर्तृयज्ञस्तु तत्रैव लिंगस्याराधनात्क्रमात् । बीजदोषाद्विनिर्मुक्तस्तल्लिंगमहिमा त्वसौ

婆尔特利耶阇那(Bhartṛyajña)就在彼处,依次如法供奉那灵伽,遂彻底解脱其“种子”之过(根本因、族系业)。此即彼灵伽之大威德。

Verse 107

बभ्रुं च नकुलं प्राह विमुक्तो दुष्टजन्मतः । यस्मात्तस्मादिदं तीर्थं ख्यातं वै बभ्रु पावनम्

他对巴布鲁与那俱罗说道:“我已从恶劣之生中得解脱。”因此,此圣渡处(tīrtha)确实以“巴布鲁-净化者(Babhru-pāvana)”而闻名,能净化巴布鲁。

Verse 108

तस्माद्व्रजध्वं तत्रैव महीसागरसंगमम् । पंच तीर्थानि सेवन्तो मुक्तिमाप्स्यथ निश्चितम्

因此,你们就去那里——到摩希河与大海的汇合处。依止并奉事五处圣渡(五 tīrtha),必定获得解脱。

Verse 109

इत्येवमुक्त्वा संवर्तो ययावभिमतं द्विजः । भर्तृयज्ञं मुनिं प्राप्य ते च तत्र स्थिताभवन्

说完这些,婆罗门三婆尔多前往他心所愿之处。及至会见圣仙婆尔特利耶阇那,他们也都停留在那里。

Verse 110

ततस्तानाह स ज्ञात्वा गणाञ्ज्ञानेन शांभवान् । महद्वो विमलं पुण्यं गुप्तक्षेत्रे यदत्र वै

随后,他以商婆婆(Śāmbhava)之智识认出那些侍从众(gaṇa),便对他们说道:“此处——实在在隐秘圣域(Guptakṣetra)——所具功德广大而清净无垢。”

Verse 111

भवन्तोऽभ्यागता यत्र महीसागरसंगमः । स्नानं दानं जपो होमः पिंडदानं विशेषतः

你们已来到摩希河与大海的汇合处。在此处,应行沐浴、布施、持诵真言(japa)、火供(homa),尤其当奉献祭团(piṇḍa)以供养祖先。

Verse 112

अक्षयं जायते सर्वं महीसागर संगमे । कृतं तथाऽक्षयं सर्वं स्नानदानक्रियादिकम्

在摩希河与大海的汇合处,一切果报皆成“不坏”(akṣaya)。凡在彼处所行——沐浴、布施及诸般清净行持——皆得不竭之功德。

Verse 113

यदात्र स्तानकं चक्रे देवर्षिर्नारदः पुरा । तदा ग्रहैर्वरा दत्ताः शनिना च वरस्त्वसौ

往昔,天圣那罗陀在此修行清净誓行(vrata)之时,诸行星(graha)赐予恩愿;其中以沙尼(Śani,土星)尤为特别,亲赐一愿于他。

Verse 114

शनैश्चरेण संयुक्ता त्वमावास्या यदा भवेत् । श्राद्धं प्रकुर्वीत स्नानदानपुरः सरम्

当阿摩婆娑(Amāvāsyā,新月日)与善尼艾施恰罗(Śanaiścara,土星)相合之时,应行施行祭祖供养之礼(śrāddha),并以沐浴与布施为先导。

Verse 115

यदि श्रावणमासस्य शनैश्चरदिने शुभा । कुहूर्भवति तस्यां तु संक्रांतिं कुरुते रविः

若在室罗伐那月(Śrāvaṇa),吉祥的库胡(Kuhū)月相日恰逢沙尼之日(周六),且就在同一日太阳发生桑克兰提(saṅkrānti,入宫换座)……

Verse 116

तस्यामेव तिथौ योगो व्यतीपातो भवेद्यदि । पुष्करंनाम तत्पर्व सूर्यपर्वशताधिकम्

若在同一月相日又出现“维亚提帕塔”瑜伽(Vyatīpāta-yoga),则此节庆名为“补湿迦罗”(Puṣkara),其功德胜过百次太阳节。

Verse 117

सर्वयोगसमावापः सथंचिदपि लभ्यते । तस्मिन्दिने शनिं लोहं कांचनं भास्करं तथा

在那一日,诸多吉祥瑜伽之会合,亦可得其一分。故当于彼日,以铁敬奉沙尼(Śani),并以黄金敬奉日神。

Verse 118

महीसागरसंसर्गे पूजयीत यथाविधि । शनिमंत्रैः शनिं ध्यात्वा सूर्यमंत्रैर्दिवाकरम्

于摩希河与大海交汇之处,当依仪轨而礼拜:以沙尼真言观想沙尼,以苏利耶真言观想日耀者(Divākara)。

Verse 119

अर्घ्यं दद्याद्भाकरस्य सर्वपापप्रशांतये । प्रयागादिधिकं स्नानं दानं क्षेत्रात्कुरोरपि

当以阿尔伽(供水)奉献于日神,以息灭一切罪垢。据说在此沐浴胜于普拉亚伽,而在此布施亦胜于库鲁圣域。

Verse 120

पिंडदानं गयाक्षेत्रादधिकं पांडुनंदन । इदं संप्राप्यते पर्व महद्भिः पुण्यराशिभिः

噢般度之子啊,此处所行的供奉团食(piṇḍa)胜过迦耶之地。此一神圣节会,唯有积聚广大福德之人方能得遇。

Verse 121

पितॄणामक्षया तृप्तिर्जायते दिवि निश्चितम् । यथा गयाशिरः पुण्यं पितॄणां तृप्तिदं परम्

诚然,祖灵(Pitṛ)在天界得不竭之满足。正如圣地伽耶之顶(Gayāśiras)功德最胜、能令祖先极大欢喜,此处亦复如是(同显悦祖之福德)。

Verse 122

तथा समधिकः पुण्यो महीसागरसंगमः

同样,摩诃河(Mahī)与大海的汇合处,行诸圣仪之功德尤为殊胜。

Verse 123

अग्निश्च रेतो मृडया च देहे रेतोधा विष्णुरमृतस्य नाभिः । एवं ब्रुवञ्छ्रद्धया सत्यवाक्यं ततोऽवगाहेत महीसमुद्रम्

“阿耆尼为种子;在此身中,赖鲁陀罗之恩;毗湿奴承持其种,亦为不死甘露之脐。”如是以信心与真实之语宣说后,当于摩诃河与大海汇合处入水沐浴。

Verse 124

मुखं च यः सर्वनदीषु पुण्यः पाथोधिरंबा प्रवरा मही च । समस्ततीर्थाकृतिरेतयोश्च ददामि चार्घ्यं प्रणमामि नौमि

向诸河之中最为清净的“河口”,向大海——众水之母——并向最胜的摩诃河;彼二者形相具足一切圣地(tīrtha)。我奉献阿尔伽(arghya),我顶礼,我赞颂。

Verse 125

ताम्रा रस्याः पयोवाहाः पितृप्रीतिप्रदाः शभाः । सस्यमाला महासिन्धुर्दातुर्दात्री पृथुस्तुता । इन्द्रद्युम्नस्य कन्या च क्षितिजन्मा रावती

Tāmrā、Rasyā、Payovāhā、Pitṛprītipradā、Śabhā;Sasyamālā、Mahāsindhu、Dātṛ、Dātrī、Pṛthustutā;以及“因陀罗迦明那之女”、Kṣitijanmā、Rāvatī——此皆应当忆念的神圣名号。

Verse 126

महीपर्णा महीशृंगा गंगा पश्चिमवाहिनी । नदी राजनदी चेति नामाष्टाशमालिकाम्

Mahīparṇā、Mahīśṛṅgā、恒河(Gaṅgā)、Paścimavāhinī、“河”(Nadī)、“王河”(Rājanadī)——如是延续成八十八圣名之花鬘。

Verse 127

स्नानकाले च सर्वत्र श्राद्धकाले पठेन्नरः । पृथुनोक्तानि नामानि यज्ञमूर्तिपदं व्रजेत्

在沐浴之时——无论何处——以及行施罗陀(śrāddha)祭祖之时,人应诵念普利图(Pṛthu)所宣说的诸名;由此得至“祭祀之身”(Yajña化身)的境地,成就至上祭果。

Verse 128

महीदोहे महानंदसंदोहे विश्वमोहिनि । जातासि सरितां राज्ञि पापं हर महीद्रवे । इत्यर्घ्यमंत्रः

“噢,从大地被‘汲乳’而生的女神,汇聚大乐之藏,迷醉诸世界者;噢,众河之王后,你已显现——噢,奔流的摩希(Mahī),请除去罪垢!”——此即阿尔伽供水真言(arghya-mantra)。

Verse 129

कंकणं रजतस्यापि योऽत्र निक्षिपते नरः । स जायते महीपृष्ठे धनधान्ययुते कुले

凡在此处安置哪怕一只银手镯的人,必将再生于世,投生在富足、五谷丰盈之家。

Verse 130

महीं च सागरं चैव रौप्यकंकण पूजया । पूजयामि भवेन्मा मे द्रव्यानाशो दरिद्रता

以银手镯之供奉,我礼敬摩希(Mahī)与大海。愿我不遭财物损失,亦不陷贫乏。

Verse 131

कंकणक्षेपणम् । यत्फलं सर्वतीर्थेषु सर्वयज्ञैश्च यत्फलम् । तत्फलं स्नानदानेन महीसागरसंगमे

名为“投镯”(kaṅkaṇa-kṣepaṇa)之仪:在一切圣地沐浴所得之功德,以及一切祭祀所生之果报——皆可由在摩希河与大海交汇处沐浴并行布施而同得。

Verse 132

विवादे च समुत्पन्ने अपराधी च यो मतः । जलहस्तः सदा वाच्यो महीसागरसंगमे

当争讼生起而有人被判为有罪时,应在摩希河与大海的汇合处,常行“水手”之神圣试验(jala-hasta),以验其真伪。

Verse 133

संस्नाप्याघोरमंत्रेण स्थाप्य नाभिप्रमाणके । जले करं समुद्धृत्य दक्षिणं वाचयेद्द्रुतम्

以“阿伽罗”(Aghora)真言为其沐浴,使其立于水中至脐部;随后将手从水中举起,并迅速诵念右手的祈请真言。

Verse 134

यदि धर्मोऽत्र सत्योऽस्ति सत्यश्चेत्संगमस्त्वसौ । सत्याश्चेत्क्रतुद्रष्टारः सत्यं स्यान्मे शुभाशुभम्

“若此处之法(dharma)真实;若此汇合之地真实;若祭祀的圣仙与见证者真实——愿我善恶(无罪或有罪)之真相得以显现。”

Verse 135

एवमुक्त्वा करं क्षिप्य दक्षिणं सकलं ततः । निःसृतः पापकारी चेज्ज्वरेणापीड्यते क्षणात्

如是言毕,当将右手尽量伸出;随后出水之时,若其为造罪之人,顷刻之间便为热病所逼。

Verse 136

सप्ताहाद्दृश्यते चापि तावन्निर्दोषवान्मतः । अत्र स्नात्वा च जप्त्वा च तपस्तप्त्वा तथैव च

若至一周之后仍不见任何苦患之相,则至彼时当判为无过。于此处,既已沐浴,又已行持诵念(japa),亦复修苦行(tapas)……

Verse 137

रुद्रलोकं सुबहवो गताः पुण्येन कर्मणा । सोमवारे विशेषेण स्नात्वा योत्र सुभक्तितः

凭此等清净功德,许多人已往生至鲁陀罗之界。尤其是,若有人在此于星期一以真诚虔敬沐浴……

Verse 138

पंच तीर्थानि कुरुते मुच्यते पंचपातकैः । इत्याद्युक्तं बहुविधं तीर्थमाहात्म्यमुत्तमम्

他成就等同于五处圣渡(tīrtha)的功德,并解脱五大重罪。如此等等,以多种方式宣说了此圣地至上的殊胜与威德。

Verse 139

भर्तृयज्ञः शिवस्यो च तेषामाराधने क्रमम् । शिवागमोक्तमादिश्य पूजायोगं यथाविधि

他阐明“bhartṛ-yajña”与对湿婆的礼拜,并说明其奉事安抚的正当次第——依《湿婆阿伽摩》所说,准确教授祭拜之法。

Verse 140

शिवभक्तिसमुद्रैकपूरितः प्राह तान्मुनिः । न शिवात्परमो देवः सत्यमेतच्छिवव्रताः

那位圣者仿佛被对湿婆的信爱之海所充满,便对他们说道:“没有任何神祇高于湿婆——此乃真实不虚,噢,持守湿婆誓戒者!”

Verse 141

शिवं विहाय यो ह्यान्यदसत्किंचिदुपासते । करस्थं सोऽमृतं त्यक्त्वा मृगतृष्णां प्रधावति

凡舍弃湿婆而去崇拜别的虚妄之物者,便如同抛却手中已握的甘露,却奔逐于海市蜃楼。

Verse 142

शिवशक्तिमयं ह्येतत्प्रत्यक्षं दृश्यते जगत् । लिंगांकं च भगांकं च नान्यदेवांकितं क्वचित्

此世界在我们眼前分明可见,遍满湿婆与圣力(Śakti)。处处具足林伽与婆伽(yoni)的印记,绝无他神之印。

Verse 143

यश्च तं पितरं रुद्रं त्यक्त्वा मातरमं बिकाम् । वर्ततेऽसौ स्वपितरं त्यक्तोदपितृपिंडकः । यस्य रुद्रस्य माहात्म्यं शतरूद्रीयमुत्तमम्

凡舍弃父神鲁陀罗(Rudra)与母神安毗迦(Ambikā)者,便如弃绝己父之人,如不向祖先奉献供团(piṇḍa)者。鲁陀罗之伟大,由至上的《百鲁陀罗颂》(Śatarudrīya)宣说。

Verse 144

श्रृणुध्वं यदि पापानामिच्छध्वं क्षालनं परम् । ब्रह्मा हाटकलिंगं च समाराध्य कपर्दिनः

且听——若你们希求罪业的至上洗净:梵天(Brahmā)曾于金色林伽前如法供奉卡帕尔丁(Kapardin,湿婆),而得清净。

Verse 145

जगत्प्रधानमिति च नाम जप्त्वा विराजते । कृष्णमूले कृष्णलिंगं नाम चार्जितमेव च

诵持名号“Jagatpradhāna(世界之主)”,行者便光辉显现。又在Kṛṣṇamūla之地,名为“Kṛṣṇa-liṅga(黑天林伽)”的林伽确已建立/得获。

Verse 146

सनकाद्यैश्च तल्लिंगं पूज्याजयुर्जगद्गतिम् । दर्भांकुरमयं सप्त मुनयो विश्वयोनिकम्

由萨那迦(Sanaka)等人礼拜彼林伽,遂得世间之道途/至上归趣。七位牟尼亦供奉以达尔婆草芽制成的“Viśvayonika(宇宙之胎)”林伽。

Verse 147

नारदस्त्वंतरिक्षे च जदद्बीजमिदं गृणन् । वज्रमिद्रो लिंगमेवं विश्वात्मानं च नाम च

那罗陀在虚空中赞颂此(湿婆)为“世界之种”。因陀罗又礼拜金刚(雷霆/钻石)所成之林伽,并诵念圣名“毗湿瓦阿特曼(Viśvātman)”。

Verse 148

सूर्यस्ताम्रं तथा लिंगं नाम विश्वसृजं जपन् । चंद्रश्च मौक्तिकं लिंगं जपन्नाम जगत्पतिम्

苏利耶礼拜铜制林伽,诵念名号“毗湿瓦斯利吉(Viśvasṛj)”。月神旃陀罗礼拜珍珠林伽,诵念名号“阇伽特帕提(Jagatpati)”。

Verse 149

इंद्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन् । पुष्परागं गुरुलिंगं विश्वयोनिं जपन्हरम्

火神阿耆尼礼拜以因陀罗尼罗(蓝宝石)所成之林伽,诵念名号“毗湿韦湿伐罗(Viśveśvara)”。又礼拜以普湿帕罗伽(黄玉/托帕石)所成之师长林伽,诵念“毗湿瓦约尼(Viśvayoni)”,即哈罗(Hara)之圣名。

Verse 150

पद्मरागमयं शुक्रो विश्वकर्मेति नाम च । हेमलिंगं च धनदो जपन्नाम्ना तथेश्वरम्

舒克罗礼拜以钵摩罗伽(红宝石)所成之林伽,诵念名号“毗湿瓦羯摩(Viśvakarman)”。财主天达那陀(俱毗罗)礼拜金制林伽,同样诵念名号“伊湿伐罗(Īśvara)”。

Verse 151

रौप्यजं विश्वदेवाश्च नामापि जगतांपतिम् । वायवो रीतिजं लिंगं शंभुमित्येव नाम च

毗湿毗提婆众礼拜银制林伽,称之为“阇伽檀帕提(Jagatāṃpati)”,即诸世界之主。诸风神礼拜以里提(金属合金)铸成之林伽,称之为“商布(Śambhu)”,吉祥之主。

Verse 152

काशजं वसवो लिंगं स्वयंभुमिति नाम च । त्रिलोहं मातरो लिंगं नाम भूतेशमेव च

诸婆苏礼敬以迦舍草所成之林伽,称其为“Svayaṃbhu”(自现者)。诸母神(Mātṛkā)礼敬由三种金属铸成之林伽,名之为“Bhūteśa”(众生之主)。

Verse 153

लौहं च रक्षसां नाम भूतभव्यभवोद्भवम् । गुह्यकाः सीसजं लिंगं नाम योगं जपंति च

罗刹礼敬铁制林伽,称念“Bhūtabhavyabhavodbhava”(过去、未来与现在众生之源)。古希亚迦礼敬铅制林伽,并亦诵持名号“Yoga”(瑜伽)。

Verse 154

जैगीषव्यो ब्रह्मरंध्रं नाम योगेश्वरं जपन् । निमिर्नयनयोर्लिंगे जपञ्शर्वेति नाम च

耆吉沙毗耶礼敬名为“Brahmaraṃdhra”的林伽,诵念“Yogeśvara”(瑜伽之主)。尼弥王礼敬在其双眼中的林伽,诵念名号“Śarva”。

Verse 155

धन्वंतरिर्गोमयं च सर्वलोकेश्वरेश्वरम् । गंधर्वा दारुजं लिंगं सर्वश्रेष्ठेति नाम च

檀梵多利礼敬以牛粪所成之林伽,称颂湿婆为“Sarvalokeśvareśvara”——诸世界一切主宰之主。乾闼婆礼敬木制林伽,名之为“Sarvaśreṣṭha”(至上无比者)。

Verse 156

वैडूर्यं राघवो लिंगं जगज्ज्येष्ठेति नाम च । बाणो मारकतं लिंगं वसिष्ठमिति नाम च

罗伽婆礼敬以猫眼宝石(vaiḍūrya)所成之林伽,名之为“Jagajjyeṣṭha”(世间之长)。婆那礼敬以祖母绿(mārakata)所成之林伽,名之为“Vasiṣṭha”。

Verse 157

वरुणः स्फाटिकं लिंगं नाम्ना च परमेश्वरम् । नागा विद्रुमलिंगं च नाम लोकत्रयंकरम्

伐楼那礼拜水晶(sphāṭika)林伽,称其名为“帕拉梅湿伐罗”(至上主宰)。诸那伽礼拜珊瑚林伽,名之为“洛卡特拉扬迦罗”(三界施恩者)。

Verse 158

भारती तारलिंगं च नाम लोकत्रयाश्रितम् । शनिश्च संगमावर्ते जगन्नाथेति नाम च

婆罗底(萨拉斯瓦蒂)礼拜如星辉般的(tāra)林伽,名为“洛卡特拉雅施利塔”(三界所依)。而沙尼在汇流处的回旋水涡(saṃgamāvarta)礼拜林伽,称之为“贾甘纳塔”(宇宙之主)。

Verse 159

शनिदेशे मध्यरात्रौ महीसागरसंगमे । जातीजं रावणो लिंगं जपन्नाम सुदुर्जयम्

在沙尼的境域,于午夜之时,在陆地与大海相接之处,罗波那礼拜以阇提木(jāti)所制之林伽,口诵圣名“苏杜尔阇耶”(不可战胜者)。

Verse 160

सिद्धाश्च मानसं नाम काममृत्युजरातिगम् । उंछजं च बलिर्लिंगं ज्ञानात्मेत्यस्य नाम च

诸悉地者礼拜由心意所生的(mānasa)林伽,名为“迦摩·弥利底由·阇罗·阿底伽”(超越欲、死与老者)。而婆利礼拜以拾穗之谷(uṃchaja)所成的林伽,称为“智性者”(Jñānātman),其自性即智慧。

Verse 161

मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च । शकृताः शकृतं लिंगं ज्ञानज्ञेयेति नाम च

摩利支波众塑成花生之林伽,宣称其名为“智可达者”(Jñānagamya),以真知而可至。释迦利多众塑成粪制之林伽,宣称其名为“智所当知者”(Jñānajñeya),由智慧而得知。

Verse 162

फेनपाः फेनजं लिंगं नाम चापि सुदुर्विदम् । कपिलो वालुकालिंगं वरदं च जपन्हरम्

Phenapa 众以泡沫所生之林伽而造,其名亦极难领会。迦毗罗以沙成林伽,称之为“Varada”(赐福者)与“Japa-hara”(除去持诵之重、令持诵圆满者)。

Verse 163

सारस्वतो वाचिलंगं नाम वागीश्वरेति च । गणा मूर्तिमयं लिंगं नाम रुद्रेति चाब्रुवन्

娑罗娑伐多造“Vācila”林伽,并称其为“Vāgīśvara”(言语之主)。诸伽那造具形之林伽,宣告其名为“Rudra”(鲁陀罗)。

Verse 164

जांबूनदमयं देवाः शितिकण्ठेति नाम च । शंखलिंगं बुधो नाम कनिष्ठमिति संजपन्

诸天以阎浮那陀金造林伽,赐名“Śitikaṇṭha”(青喉者)。布陀以海螺成林伽,并在诵念之时名之为“Kaniṣṭha”(少者、幼者)。

Verse 165

अश्विनौ मृन्मयं लिंगं नाम्ना चैव सुवेधसम् । विनायकः पिष्टलिंगं नाम्ना चापि कपर्दिनम्

阿湿毗尼双子以泥土造林伽,名为“Suvedhasa”(至慧者)。毗那夜迦以糊团造林伽,亦名“Kapardin”(结发之主)。

Verse 166

नावनीतं कुजो लिंगं नाम चापि करालकम् । तार्क्ष्य ओदनलिंगं च हर्यक्षेति हि नाम च

俱阇(Kuja)以酥油造林伽,名“Karālaka”(可怖者)。塔尔克夏(Tārkṣya)以米饭供品造林伽,确然赐名“Haryakṣa”。

Verse 167

गौडं कामस्तथा लिंगं रतिदं चेति नाम च । शची लवणलिंगं तु बभ्रुकेशेति नाम च

伽摩(Kāma)以粗糖(jaggery)塑成一尊林伽,名为“Ratida”(赐喜乐者)。舍支(Śacī)以盐塑成一尊林伽,名为“Babhrukeśa”。

Verse 168

विश्वकर्मा च प्रासादलिंगं याम्येति नाम च । विभीषणश्च पांसूत्थं सुहृत्तमेति नाम च । वंशांकुरोत्थं सगरो नाम संगतमेव च

毗首羯磨(Viśvakarmā)造作如宫殿般的林伽,名为“Yāmya”。毗毗沙那(Vibhīṣaṇa)造作由尘土而生的林伽,名为“Suhṛttama”(至善之友)。娑伽罗(Sagara)造作由竹笋萌发的林伽,其名为“Saṅgata”(善合、合一)。

Verse 169

राहुश्च रामठं लिंगं नाम गम्येति कीर्तयन् । लेप्यलिंगं तथा लक्ष्मीर्हरिनेत्रेति नाम च

罗睺(Rāhu)造作“Rāmaṭha”林伽,称颂其名为“Gamya”(易亲近、易得者)。同样,吉祥天女拉克什弥(Lakṣmī)造作一尊涂覆之林伽,名为“Harinetra”(哈利之眼;或“其眼为哈利/毗湿奴之湿婆”)。

Verse 170

योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च । नानाविधं मनुष्याश्च पुरुषंनाम नाम च

诸瑜伽行者造作一尊遍住一切众生之林伽,并以其名号称为“Sthāṇu”(不动者)。世间人类以种种方式造作(诸)林伽,而称之为“Puruṣa”(至上之人、至尊神我)。

Verse 171

तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम् । किंनरा धातुलिंगं च सुदीप्तमिति नाम च

Ṛkṣas(天界众生)以纯净光辉造作林伽,号称“Bhaga”(光耀者)。Kiṃnaras(紧那罗)以矿石/金属造作林伽,名闻为“Sudīpta”(炽然辉煌者)。

Verse 172

देवदेवेति नामास्ति लिंगं च ब्रह्मराक्षसाः । दंतजं वारणा लिंगं नाम रंहसमेव च

婆罗摩罗刹萨众亦建立一尊林伽,其名为“天中天”Devadeva,即“诸神之神”。群象建立一尊以象牙所成之林伽,确实以“Raṃhasa(迅疾者/推动者)”之名而闻。

Verse 173

सप्तलोकमयं साध्या बहूरूपेति नाम च । दूर्वांकुरमयं लिंगमृतवः सर्वनाम च

萨提耶众建立一尊具摄七界之林伽,名为“Bahurūpa(多形者)”。诸季节(Ṛtu)以柔嫩的杜尔瓦草芽建立林伽,称为“Sarvanāman(具一切名者)”。

Verse 174

कौंकुममप्सरसो लिंगं नाम शंभोः प्रियेति च । सिंदूरजं चोर्वशी च नाम च प्रियवासनम्

诸天女(Apsaras)以藏红花建立林伽,名为“Śambhoḥ Priyā(商婆之爱者)”。乌尔瓦希(Urvaśī)以朱砂建立林伽,称“Priyavāsana(香衣可爱者)”。

Verse 175

ब्रह्मचारि गुरुर्लिंगं नाम चोष्णीषिणं विदुः । अलक्तकं च योगिन्यो नाम चास्य सुबभ्रुकम्

梵行师长们建立一尊林伽,智者称之为“Uṣṇīṣin(戴冠者)”。瑜伽女众以红漆(lac)建立林伽,其名为“Subabhruka(吉祥的金褐色者)”。

Verse 176

श्रीखंडं सिद्धयोगिन्यः सहस्राक्षेति नाम च । डाकिन्यो मांस लिंगं च नाम चास्य च मीढुषम्

成就瑜伽女众以檀香膏建立林伽,名为“Sahasrākṣa(千眼者)”。荼吉尼众建立一尊以肉所成之林伽,其名为“Mīḍhuṣa(施与者/慈惠赐予者)”。

Verse 177

अप्यन्नजं च मनवो गिरिशेति च नाम च । अगस्त्यो व्रीहिजं वापि सुशांतमिति नाम च

诸摩奴以粮谷立一林伽,名为“吉利沙”(Giriśa),意为“山之主”。阿伽斯提耶亦以米立一林伽,号“苏善陀”(Suśānta),即“至极安寂者”。

Verse 178

यवजं देवलो लिंगं पतिमित्येव नाम च । वल्मीकजं च वाल्मीकिश्चिरवासीति नाम च

德瓦罗以大麦立一林伽,名“钵底”(Pati),即“主宰”。伐罗弥吉以蚁丘所成立一林伽,号“支罗婆西”(Ciravāsī),意为“恒常安住者”。

Verse 179

प्रतर्दनो बाणलिंगं हिरण्यभुजनाम च । राजिकं च तथा दैत्या नाम उग्रेति कीर्तितम्

普罗多罗陀那以箭立一林伽,名“希兰尼耶布阇”(Hiraṇyabhuja),“金臂者”。同样,代底耶众以芥子立林伽,著称为“乌伽罗”(Ugra),“威烈者”。

Verse 180

निष्पावजं दानवाश्च लिंगनाम च दिक्पतिम् । मेघा नीरमयं लिंगं पर्जन्यपतिनाम च

达那婆众以尼湿婆瓦(豆类之一)立一林伽,名“迪克帕底”(Dikpati),“方隅之主”。诸云以水成林伽而立,号“帕尔阇尼耶帕底”(Parjanyapati),“雨之主”。

Verse 181

राजमाषमयं यक्षा नाम भूतपतिं स्मृतम् । तिलान्नजं च पितरो नाम वृषपतिस्तथा

夜叉礼敬以罗阇摩沙(豆类之一)所成之林伽,忆念其名“部多帕底”(Bhūtapati),“众生之主”。祖灵(Pitṛ)亦礼敬由芝麻饭供所生之林伽,亦称“弗利沙帕底”(Vṛṣapati)。

Verse 182

गौतमो गोरजमयं नाम गोपतिरेव च । वानप्रस्थाः फलमयं नाम वृक्षावृतेति च

乔达摩礼敬以牛尘所成之林伽,实名为“Gopati”(牛之主)。居林修行的林栖者(vānaprastha)礼敬以果实所成之林伽,名为“Vṛkṣāvṛta”(为树木所环覆者)。

Verse 183

स्कंदः पाषाणलिंगं च नाम सेनान्य एव च । नागश्चाश्वतरो धान्यं मध्यमेत्यस्य नाम च

斯坎达礼敬石制林伽,名为“Senānī”(统帅)。又有名为阿湿伐多罗(Aśvatara)的那伽,礼敬以谷粮所成之林伽,其名为“Madhyama”(居中者)。

Verse 184

पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च । यमः कालायसमयं नाम प्राह च धन्विनम्

行祭者(yajvā)礼敬以供祭饼(puroḍāśa)所成之林伽,名为“Sruvahasta”(手执祭勺者)。阎摩礼敬以黑铁所成之林伽,并称之为“Dhanvin”(持弓之射者)。

Verse 185

यवांकुरं जामदग्न्यो भर्गदैत्येति नाम च । पुरूरवाश्चाश्चान्नमयं बहुरूपेति नाम च

阇摩达格尼之子(Jāmadagnya)礼敬以大麦芽所成之林伽,名为“Bhargadaitya”。而普鲁罗婆娑(Purūravas)礼敬以熟食所成之林伽,名为“Bahurūpa”(多形多相者)。

Verse 186

मांधाता शर्करालिंगं नाम बाहुयुगेति च । गावः पयोमयं लिंगं नाम नेत्रसहस्रकम्

曼陀达特利(Māndhātṛ)礼敬以糖所成之林伽,名为“Bāhuyuga”(双臂具足者)。群牛礼敬以乳所成之林伽,名为“Netrasahasraka”(千眼者)。

Verse 187

साध्या भर्तृमयं लिंगं नाम विश्वपतिः स्मृतम् । नारायणो नरो मौंजं सहस्रशिरनाम च

萨迪亚众礼敬一尊体现主宰为夫君与主人之相的林伽,忆念其名为“毗湿婆波提”(宇宙之主)。那罗延那与那罗礼敬以穆恩阇草制成的林伽,名为“萨哈斯罗希罗”(千首者)。

Verse 188

तार्क्ष्यं पृथुस्तथा लिंगं सहस्रचरणाभिधम् । पक्षिणो व्योमलिंगं च नाम सर्वात्मकेति च

塔尔克夏(迦楼罗)与普利图礼敬名为“萨哈斯拉查罗那”(千足者)的林伽。诸鸟礼敬如虚空之林伽,名为“萨尔瓦特曼”(一切之我)。

Verse 189

पृथिवी मेरुलिंगं च द्वितनुश्चास्य नाम च । भस्मलिंगं पशुपतिर्नाम चास्य महेश्वरः

大地礼敬“梅鲁林伽”,其名为“德维塔努”(二身者)。以圣灰(bhasma)所成之林伽称为“帕舒帕提”;而其圣名为“摩诃伊湿伐罗”。

Verse 190

ऋषयो ज्ञानलिंगं च चिरस्थानेति नाम च । ब्राह्मणा ब्रह्मलिंगं च नाम ज्येष्ठेति तं विदुः

诸仙人礼敬“智慧之林伽”,名为“奇拉斯塔那”(久住之处)。婆罗门礼敬“梵天林伽”,并称其为“耶什塔”(最年长者)。

Verse 191

गोरोचनमयं शेषो नाम पशुपतिः स्मृतम् । वासुकिर्विषलिंगं च नाम वै शंकरेति च

舍沙被忆念为以“戈罗恰那”(明亮黄彩)所成之林伽,名为“帕舒帕提”。婆苏吉被说具毒性之相,而那林伽确实名为“商羯罗”。

Verse 192

तक्षकः कालकूटाख्यं बहुरूपेति नाम च । हालाहलं च कर्कोट एकाक्ष इति नाम च

Takṣaka被称为“迦罗俱吒(Kālakūṭa)”,亦名“多形(Bahurūpa)”。Karkoṭa被称为“哈罗哈罗(Hālāhala)”,亦名“独眼(Ekākṣa)”。

Verse 193

श्रृंगी विषमयं पद्मो नाम धूर्जटिरेव च । पुत्रः पितृमयं लिंगं विश्वरूपेति नाम च

Śṛṅgī为“毒性所成”。Padma名为“杜尔阇提(Dhūrjaṭi)”。“子”乃具“父之形”的林伽,亦称“毗湿瓦鲁帕(Viśvarūpa,宇宙之形)”。

Verse 194

पारदं च शिवा देवी नाम त्र्यम्बक एव च । मत्स्याद्याः शास्त्रलिंगं च नाम चापि वृषाकपिः

Pārada(汞、流银)称为“湿婆女神(Śivā Devī)”,亦名“三目者(Tryambaka)”。鱼形等诸相为“经典之林伽(Śāstra-liṅga)”,亦名“Vṛṣākapi”。

Verse 195

एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत् । जगत्यामस्ति तज्जातं शिवाराधनयोगतः

既如此,又何必多言?世间凡具光辉与威力之有情——当知皆由修持礼敬湿婆之道而生起。

Verse 196

भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात् । शिवभक्तिविहीनस्य ततोऽस्य फलमुच्यते

若连灰烬也能因浇灌而被知为化作树木,那么缺乏对湿婆虔敬者之果报亦如是宣说:徒然枯槁,终无结实。

Verse 197

धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः । ततो हरः समाराध्यस्त्रिजगत्याः प्रदो मतः

若心志在求得法(dharma)、利(artha)、欲(kāma)与解脱(mokṣa),当如法虔敬礼拜诃罗(Hara,湿婆),因为他被尊为赐予三界之主。

Verse 198

य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति । तस्य प्रीतः शिवो देवः प्रदास्यत्यखिलान्वरान्

凡人晨复一晨诵读此《娑多鲁陀利耶》(Śatarudrīya),天神湿婆欢喜悦纳,必将无一遗漏地赐予一切愿求之福。

Verse 199

नातः परं पुण्यतमं किंचिदस्ति महाफलम् । सर्ववेदरहस्यं च सूर्येणोक्तमिदं मम

再无比此更为殊胜之功德,亦无比此更为广大之果报。此乃一切吠陀之秘密精髓,为苏利耶(Sūrya,日神)亲口告我。

Verse 200

वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम् । पापं तन्नाशमायाति कीर्तिते शतरुद्रिये

凡以言语所造之罪,或于心念中积聚之罪,一经称诵《娑多鲁陀利耶》,彼罪即趋于灭尽。