摩希尼听闻迦尸的殊胜后,请瓦苏开示能成就人生目的之哈利圣地的伟大。瓦苏指出此刹在婆罗多界之乌特迦罗,临南海岸,为隐秘沙覆之解脱田地,广达十由旬。他以多种“诸中最胜”的譬喻确立普鲁绍塔玛为一切圣渡处(tīrtha)之至尊,并描绘此地为宇宙汇聚之所:诸天、圣贤、吠陀、史诗与往世书、江河、群山与大海皆在其中。章中赞叹于提尔塔罗阇沐浴与得见普鲁绍塔玛(darśana)之功德。又叙因陀罗迦摩那王具毗湿奴信奉(Vaiṣṇava)之德,寻觅合宜礼拜处,至普鲁绍塔玛行马祭(Aśvamedha),建造并安立桑迦尔沙那(婆罗摩)、奎师那与苏婆陀罗,设立五圣渡(pañca-tīrtha),并以日日供奉而证得解脱(mokṣa)。第二层叙事中,摩希尼问及更早的毗湿奴圣像;瓦苏引出吉祥天女拉克什米在须弥山向阇那尔达那的发问。毗湿奴揭示海滨榕树(nyagrodha)、凯沙瓦神祠与阎摩的赞颂;阎摩说明一尊因陀罗尼罗(蓝宝)圣像,能赐无欲奉献者往生白界(Śveta-loka),遂令毗湿奴以沙与藤蔓将其隐覆。章末预告后续主题:白摩达瓦(Śveta-Mādhava)、天门(Svargadvāra)、那罗辛哈瞻礼、阿难陀-瓦苏德瓦、海浴、塔尔帕那供水,以及五圣渡与特定戒行之功德。
Verse 1
मोहिन्युवाच । धन्योऽसि विप्रवर्य त्वं कृपालुः सर्वदेहिषु । यच्छ्रुतं ते मुखांभोजात्काशीमाहात्म्यमुत्तमम् ॥ १ ॥
摩希尼说道:“你真是有福啊,婆罗门中的最胜者——对一切有身众生怀大悲悯;因为从你莲华般的口中,我得闻迦尸(Kāśī)至上的功德与荣耀。”
Verse 2
अधुनाहं कृतार्थास्मि त्वया हि प्रतिबोधिता । कृपालुना निपतिताभ्युद्धता भवसागरात् ॥ २ ॥
如今我已得圆满,因为你真实地唤醒了我;凭你的慈悲,我这堕落之人被从轮回(saṃsāra)之海中提拔而出。
Verse 3
अधुना श्रोतुमिच्छामि हरेः क्षेत्रस्य मानद । माहात्म्यं यत्र गमनात्कृतार्थो जायते नरः ॥ ३ ॥
如今我愿聆听,噢赐予尊荣者,哈利(Hari)圣地(kṣetra)的伟大功德——人若前往其处,便能成就圆满。
Verse 4
पुरुषोत्तमविष्णोस्तु क्षेत्रं मुक्तिविधायकम् । श्रूयते हि पुराणेषु वर्णितं मुनिभिर्द्विजैः ॥ ४ ॥
至上人格普鲁绍塔玛·毗湿奴(Puruṣottama Viṣṇu)的圣域(kṣetra)能赐解脱。确实,在诸《往世书》(Purāṇa)中屡有传闻,由牟尼圣贤与博学的二次生者详加称述。
Verse 5
तत्कथ्यतां महाभाग शिष्याहं यदि ते प्रिया । साधवः सर्वलोकस्य सततोपकृतौ स्थिताः ॥ ५ ॥
因此,噢大福德者,请为我宣说。若我为你所爱,我便是你的弟子。诸善士(sādhu)恒常安住于不断利益一切世界之行。
Verse 6
वसुरुवाच । श्रृणु देवि प्रवक्ष्यामि तुभ्यं माहात्म्यमुत्तमम् । पुरुषोत्तमनाम्नस्तु क्षेत्रस्य ब्रह्मणोदितम् ॥ ६ ॥
瓦苏说道:“请听,女神啊。我将为你宣说名为‘普鲁绍塔玛’之圣域(kṣetra)的至上功德——此功德乃由梵天(Brahmā)所宣告。”
Verse 7
पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । तत्रास्ते भारते वर्षे दक्षिणोदधितीरगः ॥ ७ ॥
在大地之上,名为婆罗多界(Bhārata-varṣa)者,被宣说为业地(karma-bhūmi),即神圣行持之田。于此婆罗多界中,彼安住于南海之滨。
Verse 8
उत्कलेति समाख्यातः स्वर्गमोक्षप्रदायकः । समुद्रादुत्तरं तावद्यावद्विरजमंडलम् ॥ ८ ॥
此地名为乌特迦罗(Utkala),能赐予天界与解脱。其境自海而北,延展至毗罗阇曼荼罗(Viraja-maṇḍala)。
Verse 9
देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलंकृतः । सर्वतीर्थानि पुण्यानि पुण्यान्यायतनानि च ॥ ९ ॥
彼土为诸善行清净者之万德所庄严;其中具足一切赐福增德之圣渡处(tīrtha),亦具足一切本身即具功德的神圣住处。
Verse 10
उत्कले तु विशालाक्षि वेदितव्यानि तानि तु । समुद्रस्योत्तरे तीरे तस्मिन्देशेऽखिलोत्तमे ॥ १० ॥
噢,大目之女神啊,当知此诸事于乌特迦罗——在大海之北岸,于那一切国土中最胜之地。
Verse 11
आस्ते गुह्यं परं क्षेत्रं मुक्तिदं पापनाशनम् । सर्वत्र वालुकाकीर्णे पवित्रं धर्मकामदम् ॥ ११ ॥
彼处有一处隐秘而至上的圣域(tīrtha),能赐解脱并灭除罪业。遍地铺散细沙,却极其清净,能赐正法(dharma)与所愿成就。
Verse 12
दशयोजनविस्तीर्णं क्षेत्रंम परमदुर्लभम् । नक्षत्राणां यथा सोमः सरसां सागरो यथा ॥ १२ ॥
延展十由旬的圣域,极其难得;正如苏摩(明月)在群星中为首,亦如大海在诸水之中为尊。
Verse 13
तथा समस्ततीर्थानां वरिष्ठं पुरषोत्तमम् । वसूनां पावको यद्वद्रुद्राणां शंकरो यथा ॥ १३ ॥
同样,在一切圣地(提尔塔)之中,普鲁绍塔摩为最上;如帕瓦卡(火)在诸婆苏中为首,又如商羯罗在诸鲁陀罗中为首。
Verse 14
तथा श्रेष्ठं हि तीर्थानां सर्वेषां पुरुषोत्तमम् । वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम् ॥ १४ ॥
同样,在一切圣地之中,普鲁绍塔摩确为最胜;如诸种姓中婆罗门为首,如诸鸟中毗那底耶(迦楼罗)为尊。
Verse 15
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् । सेनानीनां यथा स्कंदः सिद्धानां कपिलो यथा ॥ १५ ॥
同样,在一切圣地之中,至上人格主(普鲁绍塔摩)最为卓绝;如斯坎达在诸统帅中为首,如迦毗罗在诸悉地者中为首。
Verse 16
ऐरावतो गजेंन्द्राणां महर्षीणां भृगुर्यथा । मेरुः शिखरिणां यद्वन्नगानां च हिमालयः ॥ १६ ॥
爱罗婆多在诸象王中为首;婆利古在诸大圣仙中为首;须弥在诸山中为首;而在诸山脉之中,喜马拉雅最为至尊。
Verse 17
उच्चैः श्रवा यथाश्वानां कवीनामुशना यथा । मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् ॥ १७ ॥
正如优迦伊赫施罗婆(Uccaiḥśravā)为马中之最,乌舍那(Śukrācārya)为诗人之冠,毗耶娑为牟尼之首,俱毗罗为夜叉与罗刹之王——同样,此处所赞颂者亦当知为其领域中最为卓越者。
Verse 18
इंद्रियाणां मनो यद्वद्भूतानामवनी यथा । अश्वत्थः सर्ववृक्षाणां पवनः पवतां यथा ॥ १८ ॥
正如诸根之中以心为先,万有之中以大地为尊;正如阿湿婆他(圣榕/圣无花果)为树中之最,风为诸吹动者之首——同样,那至上原理亦当被视为最为卓越。
Verse 19
अरुंधती यथा स्त्रीणां शस्त्राणां कुलिशं यथा । अकारः सर्ववर्णानां गायत्री छंदसां यथा ॥ १९ ॥
正如阿伦达蒂为妇女之最,金刚杵(vajra,kuliśa)为兵器之首;同样,字母“阿”(A)为一切音声之先,伽雅特丽(Gāyatrī)为吠陀韵律之冠。
Verse 20
सर्वांगेभ्यो यथा श्रेष्ठमुत्तमांगं विधातृजे । यथा समस्तविद्यानां मोक्षविद्या परा स्मृता ॥ २० ॥
噢,梵天之子啊,正如诸肢体之中以头为最胜;同样,在一切学问之中,引向解脱(mokṣa)的解脱之智被忆念为至上。
Verse 21
मनुष्याणां यथा राजा धेनूनां कामधुग्यथा । सुवर्णं सर्वधातूनां सर्पाणां वासुकिर्यथा ॥ २१ ॥
正如人中以王为首,牛中以如意神牛迦摩德奴(Kāmadhenu)为尊;诸金属以黄金为最,诸蛇以婆苏吉(Vāsuki)为首——同样,(此者)被宣说为最为卓越。
Verse 22
प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा । झषाणां मकरो यद्वन्मृगाणां मृगराड् यथा ॥ २२ ॥
正如普罗诃罗陀在一切代底耶中最为卓越,罗摩在持兵者中最为卓越;如摩迦罗为诸鱼之首,如狮子为百兽之王。
Verse 23
वरुणो यादसां यद्वद्यमः संयमिनां यथा । क्षीरोदः सागराणां च देवर्षिणां च नारदः ॥ २३ ॥
正如伐楼那在水族之中为最上,阎摩在持戒制御者之中为最上,乳海在诸海之中为最上——同样,纳罗陀在天仙圣者(devarṣi)之中为最上。
Verse 24
पुरोधसां यथा जीवः कालः कलयतां यथा । ग्रहाणां भास्करो यद्वन्मंत्राणां प्रणवो यथा ॥ २४ ॥
正如生命之气(jīva)在祭司中为最上,时间(kāla)在计量者中为最上,太阳在诸行星中为最上——同样,圣音“唵”(Praṇava, Oṁ)在一切真言中为最上。
Verse 25
कृत्यानां धर्मकार्यंच तद्वच्छ्रीपुरुषोत्तमम् । पुरुषाख्यं सकृद्दृष्ट्वा सागरांतः सकृन्मतः ॥ २५ ॥
同样,为成就应行之责与正法之业:凡在萨伽兰塔(Sāgarānta)仅一次得以瞻礼圣主室利·普鲁绍塔摩——亦名“普鲁沙”——者,便当下生起正定与正解。
Verse 26
ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते । एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम् ॥ २६ ॥
若仅一次证知梵智(Brahma-vidyā),便不再回到胎中居住(即不复再生)。因此,具足一切功德的圣地(kṣetra)极其难得。
Verse 27
आस्ते यत्र वरारोहे विख्यातं पुरुषोत्तमम् । जगव्द्यापी स विश्वात्मा देवेशः पुरुषोत्तमः ॥ २७ ॥
噢,丰臀的佳人,在那著名的至上人格——普鲁绍塔玛(Puruṣottama)安住之处:祂遍满宇宙,为一切众生之真我,是诸天之天主,正是普鲁绍塔玛。
Verse 28
जगद्योनिर्जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् । अजः शक्रश्च रुद्रश्च देवाश्चाग्निपुरोगमाः ॥ २८ ॥
祂是宇宙之胎藏(本源),亦是世界之主;一切万有皆稳固安立于祂之中。梵天、因陀罗、鲁陀罗,以及以火神阿耆尼为首的诸天,皆依止于那至上者。
Verse 29
निवसंति महाभागे तस्मिन्देशे सदैव हि । गंधर्वाप्सरसः सिद्धाः पितरो देवमानुषाः ॥ २९ ॥
噢,大福德者,在那国土中,乾闼婆与阿普萨拉、诸成就者(悉达)、祖灵(Pitṛ),以及天众与人类,确实恒常居住。
Verse 30
यक्षा विद्याघराश्चैव मुनयः शंसितव्रताः । ऋषयो वालखिल्याद्याः कश्यपाद्याः प्रजेश्वराः ॥ ३० ॥
夜叉与持明者(Vidyādhara)亦在其间;又有坚守可赞圣誓的牟尼圣者——如瓦拉奇利亚等诸仙,以及以迦叶波(Kaśyapa)为首的众生之主、诸生主(Prajāpati)。
Verse 31
सुपर्णाः किन्नरा नागास्तथान्ये स्वर्गवासिनः । सांगा वेदाश्च चत्वारो शास्त्राणि विविधानि च ॥ ३१ ॥
妙翅(苏帕尔那,即迦楼罗)、紧那罗、那伽,以及其他天界住民亦居于彼处;彼处亦有四部吠陀及其支分(吠陀支),并有种种圣典论著。
Verse 32
इतिहासपुराणानि यज्ञाश्च बहुदक्षिणाः । नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च ॥ ३२ ॥
诸《伊提哈萨》与《普拉那》,以及伴随丰厚祭礼布施(dakṣiṇā)的祭祀(yajña);种种圣河、诸圣地渡口(tīrtha)与诸神圣道场(āyatana)——这一切皆被宣说。
Verse 33
सागराश्च तथा शैलास्तस्मिन्देशे व्यवस्थिताः । एवं पुण्यतमे देशे देवर्षिपितृसेविते ॥ ३३ ॥
海洋与群山亦安立于彼方之境。如此,在那至为圣洁之地——为天界圣仙(devarṣi)与祖灵(pitṛ)所供奉、所往来——这一切皆已布置就绪。
Verse 34
सर्वोपभोगसहिते वासः कस्य न रोचते । श्रेष्ठत्वं तस्य देवस्य किं चान्यदधिकं ततः ॥ ३४ ॥
具足一切受用之居处,谁能不心生欢喜?仅凭此事,彼神祇之至上尊胜已然成立——还有什么能更高于此?
Verse 35
आस्ते यत्र जगद्देवो मुक्तिदः पुरुषोत्तमः । धन्यास्ते विबुधप्रख्या ये वसंत्युत्कले नराः ॥ ३४ ॥
在那世界之主——赐解脱者普鲁绍塔玛(Puruṣottama)—安住之处,居于乌特迦罗(Utkala)的人们实为有福,诚然如同天众。
Verse 36
तीर्थराजजले स्नात्वा पश्यंति पुरुषोत्तमम् । स्वर्गे वसंति ते मर्त्या न तु ते राजसालये ॥ ३६ ॥
在“圣地之王”(Tīrtharāja)之水中沐浴,并得瞻礼普鲁绍塔玛者,那些凡人便居于天界——而非住在世间君王的宫苑。
Verse 37
ये वसंत्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे । सफलं जीवितं तेषामौत्कलानां सुमेधसाम् ॥ ३७ ॥
凡居住于乌特迦罗圣域、在圣者室利·普鲁绍多摩圣所安住的智者,其生命确然圆满,功德成就。
Verse 38
ये पश्यंति सुताम्रौष्ठप्रसन्नायतलोचनम् । चारुभ्रूकेशमुकुटं चारुकर्णलतांचितम् ॥ ३८ ॥
凡得瞻仰彼圣者——唇色柔和如淡铜红,长目安宁而光耀;眉、发与宝冠极尽庄严秀美,双耳饰以雅丽耳环——皆蒙此吉祥圣观之加被。
Verse 39
चारुस्मितं चारुदंतं चारुकुंडलमंडितम् । सुनासं सुकपोलं च सुललाटं सुलक्षणम् ॥ ३९ ॥
其微笑可爱,齿列莹美;佩以雅致耳环;鼻梁端正,双颊清润;额相殊胜,具足一切吉祥相。
Verse 40
त्रैलोक्यानंदजननं कृष्णस्य मुखपंकजम् । पुरा कृतयुगे देवि शक्रतुल्यपराक्रमः ॥ ४० ॥
女神啊!在久远的克利多瑜伽时代,曾有一位英勇堪比因陀罗者,得以瞻礼并赞颂黑天那如莲华之面——令三界生喜之源。
Verse 41
बभूव नृपतिः श्रीमानिंद्रद्युम्न इति श्रुतः । सत्यवादी शुचिर्दक्षः सर्वशस्त्रभृतां वरः ॥ ४१ ॥
于是出现一位光辉的国王,名闻为因陀罗迦昙那(Indradyumna);他言行真实,身心清净,才干卓越,乃诸持兵者之最胜。
Verse 42
रूपवान्सुंभगः शूरो दाता भोक्ता प्रियंवदः । यष्टा समस्तयज्ञानां ब्रह्मण्यः सत्यसंगरः ॥ ४२ ॥
他容貌俊美、吉祥瑞相,英勇无畏,慷慨施与,欢喜受用,言辞甘美;能奉行一切祭祀,敬奉婆罗门与神圣法度,坚住真实与正义的誓愿。
Verse 43
धनुर्वेदे च वेदे च शास्त्रे च निपुणः कृती । वल्लभो नरनारीणां पौर्णमास्यां यथा शशी ॥ ४३ ॥
他精通并成就于《弓术吠陀》、诸吠陀与诸论典,因此为男女所爱——如同满月之夜的明月。
Verse 44
आदित्य इव दुष्प्रेक्ष्यो मधुरश्चंद्रमा इव । वैष्णवः सत्यसंपन्नो जितक्रोधो जितेंद्रियः ॥ ४४ ॥
真正的毗湿奴信徒如太阳——以灵性光辉而令人难以直视;又如明月——温柔甘美。他具足真实,降伏嗔怒,调御诸根。
Verse 45
अध्यात्मविद्यानिरतो युयुत्सुर्धर्मतत्परः । एवं स पालयेत्पृथ्वीं राजा सर्वगुणाकरः ॥ ४५ ॥
沉浸于内在灵知,必要时敢于应对争战,并全心奉持正法——如此,作为万德之藏的国王,应当护持并治理大地。
Verse 46
तस्य बुद्धिः समुत्पन्ना विष्णोराराधनं प्रति । कथमाराधयिष्यामि देवदेवं जनार्दनम् ॥ ४६ ॥
于是他的觉悟生起,转向对毗湿奴的礼敬:“我当如何奉事阇那尔达那——诸神之神?”
Verse 47
कस्मिन्क्षेत्रेऽथवा तीर्थे नदीतीरे तथाश्रमे । एवं चिंतापरः सोऽथ निरीक्ष्य मनसा महीम् ॥ ४७ ॥
他专注沉思,以心观照大地,自问:“我当往何处圣域(kṣetra),或何处朝圣圣地(tīrtha),或哪一条河岸,或哪一座隐修林(āśrama)而去?”
Verse 48
आलोक्य सर्वतीर्थानि यानि पापहराणि च ॥ । तानि सर्वाणि संचित्य जगाम मनसा पुनः ॥ ४८ ॥
他观见一切能除罪的诸圣地(tīrtha),仿佛尽皆收摄于心,随后又仅凭心念再度归返。
Verse 49
विख्यातं परमं क्षेत्रं मुक्तिदं पुरुषोत्तमम् । स गत्वा नृपतिस्तत्र समृद्धबलवाहनः ॥ ४९ ॥
那至上圣域——举世闻名、赐予解脱、属于至上人格主(Purushottama)——为国王所抵达;他到那里时,兵力与车乘器用皆极丰盛。
Verse 50
अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः । कारयित्वा महोत्सेधं प्रासादं भूरिदक्षिणम् ॥ ५० ॥
他依仪轨举行阿湿婆梅陀(Aśvamedha)大祭,广施丰厚祭礼之资(dakṣiṇā);又命建起高耸宏丽的宫殿,并以厚赐与供养作其资助。
Verse 51
तत्र संकर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् । पंचतीर्थं च विधिवत्कृत्वा तत्र महीपतिः ॥ ५१ ॥
在那里,英勇的国王安奉了桑卡尔沙那(Saṅkarṣaṇa)、克里希纳(Kṛṣṇa)与苏跋陀罗(Subhadrā);又依正仪建立“五圣渡处”(Pañca-tīrtha),大地之主遂住于彼处,圣事布置圆满。
Verse 52
स्नानं दानं जपं होमं देवताप्रेक्षणं तथा । भक्त्या चाराध्य विधिवत्प्रत्यहं पुरुषोत्तमम् । प्रसादाद्देवदेवस्य ततो मोक्षमवाप्तवान् ॥ ५२ ॥
他行沐浴净身、布施、持诵真言、火供,并以恭敬之心瞻礼神像;又以虔爱(bhakti)依正仪每日礼敬普鲁绍塔玛(Puruṣottama)。承蒙众神之神的恩赐,遂得解脱(mokṣa)。
Verse 53
मोहिन्युवाच । तस्मिन् क्षेत्रे वरे पुण्ये वैष्णवे पुरुषोत्तमे ॥ ५३ ॥
摩希尼说道:“在那殊胜而清净的圣域之中——其性为毗湿奴派(Vaiṣṇava),奉祀至上之普鲁绍塔玛(Puruṣottama)……”
Verse 54
किं तत्र प्रतिमा पूर्वं सुस्थिता वैष्णवी प्रभो । येनासौ नृपतिस्तत्र गत्वा सबलवाहनः ॥ ५४ ॥
主啊,那处先前稳固安立的是哪一尊毗湿奴圣像(Vaiṣṇava 之像),以致那位国王率军与乘骑一同前往那里?
Verse 55
स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम् । संशयोऽस्ति महांस्तत्र विस्मयश्च द्विजोत्तम ॥ ५५ ॥
他安立了黑天(Kṛṣṇa)与罗摩(Rāma)的圣像,并安立赐吉祥的婆陀罗(Bhadrā)。然而在此事上,噢最胜的两次生者啊,既生大疑,亦起深深惊异。
Verse 56
श्रोतुमिच्छामि तत्सर्वं ब्रूहि तत्कारणं च यत् । वसुरुवाच । श्रृणुष्व पूर्ववृत्तांतं कथां पापप्रणशिनीम् ॥ ५६ ॥
“我愿听闻这一切——请说出其缘由。”婆苏说道:“且听往昔之事,此一 कथा 能灭除罪垢。”
Verse 57
प्रवक्ष्यामि समासेन श्रिया पृष्टं च यत्पुरा । सुमेरोः कांचने श्रृंगे सर्वाश्चर्यसमन्विते ॥ ५७ ॥
我今将略述往昔圣母室利(吉祥天女拉克什米)在须弥山金色峰顶——万般奇妙充满之处——所曾请问之事。
Verse 58
तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययम् । प्रणम्य शिरसा देवी लोकानां हितकाम्यया ॥ ५८ ॥
在那里,女神为诸世界之安乐,俯首顶礼在座的Jagannātha——宇宙之主、世界之造化者、不朽不变者。
Verse 59
पप्रच्छेदं महाप्रश्नं भूमौ स्थानमनुत्तमम् । श्रीरुवाच । ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् ॥ ५९ ॥
她遂就大地上无与伦比的圣地提出至深之问。室利说道:“噢,一切世界之主,请为我开示,消除我心中所存的疑惑。”
Verse 60
मर्त्यलोके महाश्चर्ये भूमौ कर्मसुदुर्लभे । लोभमोहमहाग्राहे कामक्रोधमहार्णवे ॥ ६० ॥
在这奇妙的人间——于此大地上,正行善业极难成就——众生被贪与痴之巨鳄攫住,又被抛入欲望与嗔怒的浩瀚大海。
Verse 61
येन मुच्येत आत्मेश दुर्गसंसारसागरात् । त्वामृते नास्ति लोकेऽस्मिन्वक्ता संशयनिर्णये ॥ ६१ ॥
噢,自我之主啊,凭何法门方能解脱这艰难的轮回大海?除你之外,此世无人能作决定之言,断除疑网。
Verse 62
श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः । प्रोवाच परया प्रीत्या परं सारामृतोपमम् । सुखोपायं सुसाध्यं च निरायासं महाफलम् ॥ ६२ ॥
听闻她的话语后,阇那尔达那——诸神之神——以极深的慈爱开口,宣示至上教诲,犹如甘露精髓:此法安乐可行,易于成就,不劳其力,却得广大功德之果。
Verse 63
श्रीभगवानुवाच । आस्ते तीर्थवरं देवि विख्यातं पुरुषोत्तमम् ॥ ६३ ॥
世尊说道:“女神啊,有一处最胜圣地(tīrtha),以‘补鲁沙奥多摩’之名闻名于世。”
Verse 64
न तेन सदृशं किंचित्त्रिषु लोकेषु विद्यते । कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः ॥ ६४ ॥
三界之中,无有与彼处可比者。女神啊,凭借对那位主宰的颂扬(kīrtana)等行持,众生得以解脱一切罪垢。
Verse 65
न विज्ञातो नरैः सर्वैर्न दैत्यैर्न च दानवैः । मरीच्याद्यैर्मुनिवरैर्दर्शितोऽयं वरानने ॥ ६५ ॥
此事并非为一切世人所知,亦非诸代底耶与达那婆所知。唯有最胜牟尼——摩利支等诸圣——方将此道示现于你,端颜者。
Verse 66
दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति । यस्तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे ॥ ६६ ॥
在南方大海之滨,矗立着一株尼耶伽罗陀(榕树)。此树乃昔日一劫中所生,当时一颗巨大的火流星(ulkā)被摧灭、熄灭之际而现。
Verse 67
विनाशं नैव चाभ्येति स्वयं तत्रैव संस्थितः । दृष्टमात्रे वटे तस्मिञ्छायामाश्रित्य चासकृत् ॥ ६७ ॥
他并不遭受毁灭;自住于彼处。仅仅见到那株榕树,便屡屡依止其荫凉而得庇护。
Verse 68
ब्रह्मह्त्या प्रमुच्येत पापेष्वन्येषु का कथा । प्रदक्षिणं कृतं यैस्तु नमस्कारैस्तु जंतुभिः ॥ ६८ ॥
凡众生行右绕礼(pradakṣiṇā),并以恭敬顶礼(namaskāra)者,连婆罗门杀罪(brahmahatyā)亦得脱落;更何况其余诸罪,又何须多言?
Verse 69
सर्वे विधूतपापास्ते गता वै केशवालयम् । न्यग्रोधस्योत्तरे किंचिद्दक्षिणे केशवस्य तु ॥ ६९ ॥
他们众人罪垢尽除,确已前往凯沙瓦之殿(Keśavālaya)——凯沙瓦的圣居;其处在尼耶伽罗陀榕树(Nyagrodha)之北稍许,并在凯沙瓦之南。
Verse 70
प्रासादे तत्र तिष्ठेत्तु पदं धर्ममयं हि तत् । प्रतिमां तत्र तां दृष्ट्वा स्वयं देवेन निर्मिताम् ॥ ७० ॥
应当住于那座殿阁之中,因为此处确实充满法(dharma)。在彼处瞻仰那尊圣像——由神祇亲自造作——(便得安立于正法)。
Verse 71
अनायासेन वै यांति भवनं मे ततो नराः । गच्छन्नेव तु तं दृष्ट्वा एकदा धर्मराट् स्वयम् ॥ ७१ ॥
从那里起,人们确能不费辛劳而至我之居所。曾有一次,他行进途中,法王(Dharma-rāja)亲自见到了他。
Verse 72
मदंतिकमनुप्राप्य प्रणम्य शिरसाब्रवीत् । नमस्ते भगवन्देव लोकनाथाय तेजसे ॥ ७२ ॥
他走近我前,俯首顶礼而说道:“敬礼于您,噢具足福德的主(Bhagavān)、神圣天尊——诸世界之主,光辉炽盛者。”
Verse 73
क्षीरोदवासिनं देवं शेषभोगोरुशायिनम् । वरं वरेण्यं वरदं कर्तारं ह्यक्षयं प्रभुम् ॥ ७३ ॥
我礼敬那位居于乳海之中的神圣主宰,安卧在舍沙(Śeṣa)广大盘绕之上;至上而最堪礼赞者,赐福施愿者,真实的造化者——不坏不灭的至尊主(Prabhu)。
Verse 74
विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम् । नीलोत्पलदलश्यामं पुंडरीकनिभेक्षणम् ॥ ७४ ॥
我顶礼毗湿奴(Viṣṇu)——宇宙之主,不生不灭,全知且不可战胜;身色如青莲花瓣般幽深,双目如莲。
Verse 75
सर्वंगं निर्गुणं शांतं जगद्वातारमव्ययम् । सर्वलोकविधातारं लोकनाथं सुखावहम् ॥ ७५ ॥
祂遍满一切,超越三德(guṇa)而寂静安然;是不坏的宇宙维系者。祂制定诸世界之法度,为诸界之主,并赐予真实安乐。
Verse 76
पुराणपुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम् । पुरा पुराणं स्रष्टारं लोकतीर्थँ जगद्गुरुम् ॥ ७६ ॥
当知诸《往世书》所宣说的永恒普鲁沙(Puruṣa)——既显现亦不显现——为万古之古:造化之主,诸世界的圣渡口(tīrtha),亦是宇宙之师(Guru)。
Verse 77
श्रीवत्सवक्षसा युक्तं वनमाला विभूषितम् । पीतवस्त्रं चतुर्बाहुं शंखचक्रगदाधरम् ॥ ७७ ॥
祂胸前具圣吉祥的室利跋蹉(Śrīvatsa)印,佩林野花鬘,身着黄衣,具四臂,执螺、轮与杵。
Verse 78
हारकेयूरसंयुक्तं मुकुटांगदधारिणम् । सर्वलक्षणसंयुक्तं सर्वेन्द्रियविवर्जितम् ॥ ७८ ॥
祂佩项链与臂钏,戴宝冠与臂饰,具足一切吉祥相;然而超越诸根诸识。
Verse 79
कूटस्थमचलं सूक्ष्मं ज्योतीरूपं सनातनम् । भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् ॥ ७९ ॥
祂为库塔斯塔(Kūṭastha)不变不动,微妙而常住之光;超越有与无,遍一切处,且在普拉克里蒂(物质自然)之上。
Verse 80
तं नमस्ये जगन्नाथमीश्वरं सुखदं प्रभुम् । इत्येवं धर्मराजस्तु पुरा न्यग्रोधसन्निधौ ॥ ८० ॥
“我礼敬彼——宇宙之主阇甘那他(Jagannātha)、自在天主(Īśvara)、赐乐之主、至上大主。”昔日,法王(Dharmarāja)在神圣的尼耶伽罗陀(nyagrodha,榕树)前如是说道。
Verse 81
स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा । तं दृष्ट्वा च महाभागे प्रणतं प्राञ्जलिं स्थितम् ॥ ८१ ॥
以种种赞颂偈赞叹之后,他当即顶礼叩拜。又见那位大福德者立于其前,俯身合掌,恭敬而住——(对方亦随宜作答)。
Verse 82
स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम् । वैवस्वत महाबाहो सर्वदेवमयो ह्यसि ॥ ८२ ॥
噢女神,我曾向安塔迦(阎摩)询问此赞颂的缘由。噢毗婆斯伐多,臂力雄伟者——诚然,你由一切诸天之神性所成。
Verse 83
किमर्थं स्तुतवानित्थं संक्षेपाद् ब्रूहि तन्मम ॥ ८३ ॥
你为何如此赞颂?请将其缘由简要告诉我。
Verse 84
यम उवाच । अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे । इंद्रिनीलमयी सृष्टा प्रतिमा सार्वकामिकी ॥ ८४ ॥
阎摩说道:在这座神圣的圣所中——以“普鲁绍多摩”闻名——曾铸成一尊由因陀罗尼罗(蓝宝石)所制的圣像,能成就一切所愿。
Verse 85
तां दृष्ट्वा पुंडरीकाक्ष भावेनैकेन श्रद्धया । श्वेताख्यं भुवनं यांति निष्कामाश्चैव मानवाः ॥ ८५ ॥
噢莲眼之主,只要以一心的虔敬与信心瞻仰她,离欲之人确实能到达名为“白界”(Śveta)的世界。
Verse 86
अतश्चैवं न शक्नोमि व्यापारमरिसूदन । प्रसीदं त्वं महादेव संहर प्रतिमां विभो ॥ ८६ ॥
因此,噢灭敌者,我无法以此方式承担此事。愿你垂怜,噢大天(Mahādeva)、遍在之主——请收回这尊圣像之形,噢自在者。
Verse 87
श्रुत्वा वैवस्वतस्यैतद्वाक्यं तमहमुक्तवान् । यमैतां गोपयिष्यामि सिकताभिः समंततः ॥ ८७ ॥
听闻毗婆斯瓦塔(阎摩)此言,我答曰:“噢,阎摩,我将以沙土从四面将此事密密遮藏。”
Verse 88
ततः सा प्रतिमा देवि वल्लीभिर्गोपिता तथा । यथा तत्र न पश्यंति मनुजाः स्वर्गकांक्षिणः ॥ ८८ ॥
于是,女神啊,那尊圣像被蔓藤遮蔽得严严实实,使那些渴望天界的人也无法在彼处看见。
Verse 89
प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः । यमं प्रस्थापयामास तां पुरीं दक्षिणां दिशम् ॥ ८९ ॥
女神啊,她以蔓藤遮覆,又以金饰与金制陈设装点,随后遣阎摩前往南方那座城。
Verse 90
गुप्तायां प्रतिमायां तु इन्द्रनीलस्य वै तदा । तस्मिन्क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे ॥ ९० ॥
当时,在那至圣至胜、名闻遐迩的普鲁绍塔摩圣域中,有一尊被秘藏的因陀罗尼罗圣像。
Verse 91
यत्कृतं तत्र वृत्तान्ते देवदेवो जनार्दनः । तत्सर्वं कथयामास स तस्मै भगवान्पुरा ॥ ९१ ॥
在那段因缘中,诸天之天的阇那尔达那(毗湿奴)所行的一切,往昔的薄伽梵都已向他详尽宣说。
Verse 92
इंद्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा । क्षेत्रस्य वर्णनं चैव व्युष्टिं तस्य च मोहिनि ॥ ९२ ॥
噢,迷惑者啊,此处将叙述因陀罗昙那王的行旅——他得见神圣圣地(kṣetra)——并描绘该圣域,以及他在彼处所迎来的黎明。
Verse 93
दर्शनं बलदेवस्य कृष्णस्य च विशेषतः । सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः ॥ ९३ ॥
在那圣地,有吉祥的达尔沙那(darśana):巴拉德瓦,尤其是克里希纳(Kṛṣṇa),并有苏跋陀罗;这一切的伟大功德(māhātmya)亦将从各方面宣说。
Verse 94
दर्शनं नरसिंहस्य व्युष्टिसंकीर्तनं तथा । अनंतवासुदेवस्य दर्शनं गुणकीर्तनम् ॥ ९४ ॥
吉祥地瞻礼那罗辛哈(Narasiṃha),并在黎明时分共唱桑吉尔坦(saṅkīrtana);又得见阿难陀-婆苏提婆(Ananta-Vāsudeva),并以颂歌(kīrtana)称扬其德——皆为有功德的奉爱行持。
Verse 95
श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य वर्णनम् । उदधेर्दर्शनं चैव स्नानं तर्पणमेव च ॥ ९५ ॥
此章宣说白色摩陀婆(Śveta-Mādhava)的伟大功德,描绘名为“天门”(Svargadvāra)的圣地,并叙及观海、海浴,以及行塔尔帕那(tarpaṇa,献水祭供)。
Verse 96
समुद्रस्नानमाहात्म्यमिंद्रद्युम्नस्य चापि वै । पंचतीर्थफलं चैव महाज्यैष्ठ्यां तथैव च ॥ ९६ ॥
“将宣说海浴的伟大功德,也将叙述因陀罗昙那王的事迹;并说明五处圣浴地(pañca-tīrtha)的果报,以及大吉耶什提(Jyaiṣṭhī)法会/行持的功德。”
Verse 97
स्नानं कृष्णस्य हलिनः सर्वयात्राफलं तथा । वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः स्वयम् । पूर्वं कथितवांस्तथ्यं तस्यै स पुरुषोत्तमः ॥ ९७ ॥
随后,至上人格主(普鲁绍塔玛,Puruṣottama)亲自再次向她宣说真实之事——关于克里希纳与哈林(巴拉拉摩)的神圣沐浴,其功德等同一切朝圣之果,并对名为毗湿奴界(Viṣṇuloka)的圣域作了描述。
Verse 98
इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये द्विपंचाशत्तमोऽध्यायः ॥ ५२ ॥
至此,《圣大那罗陀往世书》后分(Uttara-bhāga)中,瓦苏与摩希尼之对话里,题为《普鲁绍塔玛之伟大》的第五十二章圆满结束。
Indradyumna provides a dharmic-political exemplar (a Vaiṣṇava king) whose pilgrimage culminates in ritual legitimacy: sacrifice (Aśvamedha), endowments, deity-installation (Saṅkarṣaṇa–Kṛṣṇa–Subhadrā), and establishment of pañca-tīrtha. The narrative links correct royal dharma with temple-centered devotion and frames liberation as attainable through sustained daily worship within the kṣetra.
It explains an earlier, extraordinary icon (Indranīla) whose darśana grants Śveta-loka to desireless devotees, and why it becomes concealed. By placing Yama as a witness and hymn-singer, the text intensifies the site’s authority and mystery, while preserving the notion that the kṣetra contains hidden layers of sanctity accessible through proper devotion rather than mere worldly seeking.