Varaha Purana - Adhyaya 188
Varaha PuranaAdhyaya 188105 Shlokas

Adhyaya 188: Section on the Origin and Procedure of Piṇḍa-Rites and Śrāddha: Rules of Mourning Impurity (Aśauca)

Piṇḍakalpa-śrāddhotpatti-prakaraṇa (Aśauca-vidhi)

Ritual-Manual (Antyeṣṭi/Preta-saṃskāra and Śrāddha)

अस्मिन्नध्याये पृथिवी वराहं पृच्छति—मरणोत्तराशौचस्य विधिं तथा श्राद्ध-पिण्डदानयोः सम्यक्-प्रयोगं कथयेत् इति। वराहः दिनानुदिनं क्रमं निर्दिशति—नदीजले स्नानं, पिण्डोदकदानं, दशमे दिने वस्त्रप्रक्षालन-शुद्धिः, केशवपनादिकं, एकादशे दिने एकोद्दिष्टकर्म तथा योग्यब्राह्मणभोजनं प्रेतप्रतिनिधिरूपेण। प्रेतकार्यस्य देशान् शुद्धभूम्यादीन् प्रशंसति, मलिन-क्षुब्ध-प्रदूषितस्थानान् वर्जयति; पृथिवी साक्षिणी धरणी च इति भावेन निरूप्यते। अतिथिसत्कारविधिः, प्रेताह्वान-पूजनमन्त्राः, छत्र-पादुका-वस्त्र-भोजनादिदानं, उच्छिष्टव्यवहारः, मासिक-वार्षिकश्राद्धाद्यनुष्ठानं च कथ्यते। अन्ते एतेषां कर्मणां संस्थापनं नारदसाक्षिकं आत्रेयकृतम् इति निगद्यते।

Speakers

PṛthivīVarāha

Key Concepts

aśauca (mourning impurity) and purification by snānapiṇḍadāna and jalāñjali as preta-support ritesekoddiṣṭa-śrāddha as a transitional offering for the pretanivāpa/pretabhāga (allocated portion) and rules of commensalityśrāddha hospitality protocol (pādya, arghya, āsana, chatra)spatial purity and site-selection for rites (śuci-deśa, avoidance zones)later calendrical rites: monthly amāvāsyā tarpaṇa and saṃvatsarī kriyālineage transmission of ritual norms (Ātreya, Nārada, Nemi tradition)
Recitation with translationVaraha Purana Adhyaya 188

Shlokas in Adhyaya 188

Verse 1

अथ पिण्डकल्पश्राद्धोत्पतिप्रकरणम् ॥ धरण्युवाच ॥ देवदेवोऽसि देवानां लोकनाथोऽपरिग्रहः ॥ आशौचकर्म विधिवच्छ्रोतुमिच्छामि माधव ॥

अथ पिण्डकल्पश्राद्धोत्पत्तिप्रकरणम्। धरण्युवाच—देवदेवोऽसि देवानां लोकनाथोऽपरिग्रहः। आशौचकर्म विधिवच्छ्रोतुमिच्छामि माधव॥

Verse 2

श्रीवराह उवाच ॥ आशौचं शृणु कल्याणि यथा शुध्यन्ति मानवाः ॥ गतायुषस्तृतीयेन स्नानं कुर्यान्नदीजले ॥

श्रीवराह उवाच—आशौचं शृणु कल्याणि यथा शुध्यन्ति मानवाः। गतायुषस्तृतीयेन स्नानं कुर्यान्नदीजले॥

Verse 3

पिण्डं सञ्चूरणं दद्यात्रिंश्च दद्याज्जलाञ्जलीन् ॥ चतुर्थे पञ्चमे षष्ठे पिण्डमेकं जलाञ्जलिम् ॥

पिण्डं सञ्चूरणं दद्यात् त्रिंश्च दद्याज्जलाञ्जलीन्। चतुर्थे पञ्चमे षष्ठे पिण्डमेकं जलाञ्जलिम्॥

Verse 4

अन्यस्थानेषु दातव्यं स्नानात्त्वहनि सप्तमे ॥ एवं प्रतिदिनं कार्यं यावच्च दशमं दिनम् ॥

अन्यस्थानेषु दातव्यं स्नानानन्तरं सप्तमेऽहनि। एवं प्रतिदिनं कार्यं यावत् दशमं दिनम्॥

Verse 5

क्षारादिना वस्त्रशौचं दिने च दशमे तथा ॥ तिलामलकस्नेहेन गोत्रजः स्नानमाचरेत् ॥

क्षारादिभिः वस्त्रशौचं कुर्यात्, तथा दशमेऽहनि। गोत्रजोऽपि तिलामलकस्नेहेन स्नानमाचरेत्॥

Verse 6

पिण्डदानं विवर्त्याथ क्षौरकर्म तु कारयेत् ॥ स्नानं कृत्वा विधानॆन ज्ञातिभिः स्वगृहं व्रजेत् ॥

पिण्डदानं समाप्याथ क्षौरकर्म कारयेत्। विधानतः स्नात्वा ज्ञातिभिः सह स्वगृहं व्रजेत्॥

Verse 7

एकादशे च दिवसे एकोद्दिष्टं यथाविधि ॥ स्नात्वा चैव शुचिर्भूत्वा प्रेतं विप्रेषु योजयेत् ॥

एकादशे दिवसे चैकॊद्दिष्टं यथाविधि। स्नात्वा शुचिर्भूत्वा प्रेतं विप्रेषु योजयेत्॥

Verse 8

एकोद्दिष्टं मनुष्याणां चातुर्वर्ण्यस्य माधवि॥ यथैकं द्रव्यसंयुक्तं स्वं विप्रं भोजयेत् तदा

माधवि, चातुर्वर्ण्यस्य मनुष्याणाम् एकोद्दिष्टं यथाविधि। तत्रैकद्रव्यसंयुक्तेन स्वविप्रं तदा भोजयेत्॥

Verse 9

स्नात्वा चैव शुचिर्भूत्वा प्रेतं प्रेतेषु योजयेत्॥ एकोद्दिष्टं तु द्रव्याणां चातुर्वर्ण्यस्य माधवि

स्नात्वा शुचिर्भूत्वा प्रेतं प्रेतेषु योजयेत्। हे माधवि, चातुर्वर्ण्यस्य द्रव्याणामेकोद्दिष्टं विधीयते॥

Verse 10

शुश्रूषया विपन्नानां शूद्राणां च वरानने॥ त्रयोदशे दिने प्राप्ते सुपक्वैर्भोजयेद्द्विजान्

हे वरानने, विपन्नानां शूद्राणां च शुश्रूषया त्रयोदशे दिने प्राप्ते सुपक्वैर्भोजयेद्द्विजान्॥

Verse 11

मृतस्य नाम चोद्दिश्य यस्यार्थे च प्रयोजितः॥ स्वर्गतस्येति संकल्प्य कृत्वा ब्राह्मणमन्दिरम्

मृतस्य नामोद्दिश्य यस्यार्थे च प्रयोजितः। स्वर्गतस्येति संकल्प्य कृत्वा ब्राह्मणमन्दिरम्॥

Verse 12

गत्वा निमन्त्रितं विप्रं नम्रो भूत्वा समाहितः॥ मन्त्रेणानेन भो देवि मनस्येव पठन्ति तम्

निमन्त्रितं विप्रं गत्वा नम्रो भूत्वा समाहितः। हे देवि, मन्त्रेणानेन तं पठेत्, मनसैव च॥

Verse 13

गतोऽसि दिव्यलोके त्वं कृतान्तविहितेन च॥ मनसा वायुभूतस्त्वं विप्रमेनं समाश्रय

गतोऽसि दिव्यलोके त्वं कृतान्तविहितेन च। मनसा वायुभूतस्त्वं विप्रमेनं समाश्रय॥

Verse 14

पादसंवाहनं कार्यं प्रेतस्य हितकाम्यया॥ प्रेतभोगशरीरे तु ब्राह्मणस्य च सुन्दरि

प्रेतस्य हितकाम्यया पादसंवाहनं कार्यम्। अस्मिन् कर्मणि ब्राह्मणस्य शरीरं प्रेतस्य भोगशरीरत्वेन भवति, सुन्दरि॥

Verse 15

यावत्तु तिष्ठते तत्र प्रेतभोगमुदीक्षते॥ तावन्न संस्पृशेद्भूमे मम गात्रं प्रतिष्ठितम्

यावत्तु स तत्र तिष्ठति प्रेतभोगं निरीक्षते। तावन्मम गात्रे प्रतिष्ठिते भूमिं न संस्पृशेत्॥

Verse 16

प्रभातायां तु शर्वर्यामुदिते च दिवाकरे॥ श्मश्रुकर्म प्रकर्तव्यं विप्रस्य तु यथाविधि

प्रभातायां शर्वर्यां दिवाकरे चोदिते। विप्रस्य श्मश्रुकर्म यथाविधि प्रकर्तव्यम्॥

Verse 17

अस्तंगते तथादित्ये गत्वा ब्राह्मणमन्दिरम्॥ दत्त्वा तु पाद्यं विधिवन् नमस्कृत्य द्विजोत्तमम्

अस्तंगतेऽदित्ये ब्राह्मणमन्दिरं गत्वा। विधिवत् पाद्यं दत्त्वा द्विजोत्तमं नमस्कुर्यात्॥

Verse 18

स्नापनाभ्यञ्जनं कार्यं प्रेतसन्तोषदायकम्॥ गृहीत्वा भूमिभागं च स्थण्डिलं तत्र कारयेत्॥

स्नापनाभ्यञ्जनं कार्यं प्रेतसन्तोषदायकम्। भूमिभागं गृहीत्वा तत्र स्थण्डिलं कारयेत्॥

Verse 19

चतुःषष्ठिकृतं भागं यथावत्सुकृतं भवेत्॥ ततो दक्षिणपूर्वेषु दिग्विभागेषु सुन्दरी॥

चतुःषष्ठिभागेषु यथावद्विभागं कृत्वा सुकृतं विन्यासं कुर्यात्। ततः सुन्दरी, दक्षिणपूर्वादिदिग्विभागेषु क्रमशः प्रवर्तेत॥

Verse 20

छायायां कुञ्जरस्यापि नदीकूलद्रुमे तथा॥ चाण्डालादिप्रहीणे तु प्रेतकार्यं समाचरेत्॥

कुञ्जरस्यापि छायायां नदीकूलस्थद्रुमेऽपि तथा। चाण्डालादिभिः प्रहीणे देशे तु प्रेतकार्यं समाचरेत्॥

Verse 21

यं देशं च न पश्यन्ति कुक्कुटश्वानशूकराः॥ श्वा चापोहति रावेण गर्जितेन च शूकरः॥

यं देशं न पश्यन्ति कुक्कुटश्वानशूकराः। यत्र श्वा रावेणापोह्यते शूकरश्च गर्जितेन॥

Verse 22

कुक्कुटः पक्षवातेन चाण्डालश्च यथा धरे॥ तत्र कुर्वन्ति ये श्राद्धं पितॄणां बन्धनप्रदम्॥

यत्र कुक्कुटः पक्षवातेन प्रविशति चाण्डालश्च धरे यथा स्थितः। तत्र ये श्राद्धं कुर्वन्ति ते पितॄणां बन्धनप्रदाः॥

Verse 23

वर्जनीया बुधैरेते प्रेतकार्येषु सुन्दरी॥ देवतासुरगन्धर्वाः पिशाचोरगराक्षसाः॥

प्रेतकार्येषु बुधैरेते वर्जनीयाः सुन्दरी। देवतासुरगन्धर्वाः पिशाचोरगराक्षसाः॥

Verse 24

नागा भूतानि यज्ञाश्च ये च स्थावरजङ्गमाः॥ स्नानं कृत्वा यथा देवि तव पृष्ठे प्रतिष्ठिताः॥

नागा भूतानि यज्ञाश्च ये च स्थावरजङ्गमाः। स्नानं कृत्वा यथा देवि तव पृष्ठे प्रतिष्ठिताः॥

Verse 25

धारयिष्यामि सुश्रोणि विष्णुमायाततं जगत्॥ चण्डालमादितः कृत्वा नराणां तु शुभाशुभम्॥

धारयिष्यामि सुश्रोणि विष्णुमायाततं जगत्। चण्डालमादितः कृत्वा नराणां तु शुभाशुभम्॥

Verse 26

स्नानं कुर्वन्तु ते भूमे स्थण्डिले तदनन्तरे॥ अकृत्वा पृथिवीभागं निवापं ये तु कुर्वते॥

स्नानं कुर्वन्तु ते भूमे स्थण्डिले तदनन्तरे। अकृत्वा पृथिवीभागं निवापं ये तु कुर्वते॥

Verse 27

त्वदधीनं जगद्भद्रे तवोच्छिष्टं हतं भवेत्॥ न देवाः पितरस्तस्य गृह्णन्तीह कदाचन॥

त्वदधीनं जगद्भद्रे तवोच्छिष्टं हतं भवेत्। न देवाः पितरस्तस्य गृह्णन्तीह कदाचन॥

Verse 28

कृत्वा तु पिण्डसङ्कल्पं नामगोत्रेण माधवि ॥ पश्चादश्नन्ति गोत्राणि कुलजाश्चैकभोजनाः ॥

कृत्वा तु पिण्डसङ्कल्पं नामगोत्रेण माधवि। पश्चादश्नन्ति गोत्राणि कुलजाश्चैकभोजनाः॥

Verse 29

न दद्यादन्यगोत्रेभ्यो ये न भुञ्जन्ति तत्र वै ॥ चतुर्णामपि वर्णानां प्रेतकार्येषु सुन्दरी ॥

न दद्यादन्यगोत्रेभ्यो ये न भुञ्जन्ति तत्र वै । चतुर्णामपि वर्णानां प्रेतकार्येषु सुन्दरी ॥

Verse 30

एवं दत्तेन प्रीयन्ते प्रेतलोकगता नराः ॥ अदत्वा प्रेतभागं तु भुङ्क्ते यस्तत्र मानवः ॥

एवं दत्तेन प्रीयन्ते प्रेतलोकगता नराः । अदत्वा प्रेतभागं तु भुङ्क्ते यस्तत्र मानवः ॥

Verse 31

गत्वा महानदीं सोऽपि सचैलं स्नानमाचरेत् ॥ तीर्थानि मनसा गत्वा त्रिभिरभ्युक्षयेद्भुवम् ॥

गत्वा महानदीं सोऽपि सचैलं स्नानमाचरेत् । तीर्थानि मनसा गत्वा त्रिभिरभ्युक्षयेद्भुवम् ॥

Verse 32

एवं शुद्धिं ततः कृत्वा ब्राह्मणान् शीघ्रमानयेत् ॥ आगतांश्च द्विजान् दृष्ट्वा कर्त्तव्या स्वागतकिया ॥

एवं शुद्धिं ततः कृत्वा ब्राह्मणान् शीघ्रमानयेत् । आगतांश्च द्विजान् दृष्ट्वा कर्त्तव्या स्वागतकिया ॥

Verse 33

अर्घ्यं पाद्यं ततो दद्याद्धृष्टपुष्टेन माधवि ॥ आसनं चोपकल्पेत मन्त्रेण विधिपूर्वकम् ॥

अर्घ्यं पाद्यं ततो दद्याद्धृष्टपुष्टेन माधवि । आसनं चोपकल्पेत मन्त्रेण विधिपूर्वकम् ॥

Verse 34

मन्त्रः— इदं ते आसनं दत्तं विश्रामं क्रियतां द्विज ॥ कुरुष्व मे प्रसादं च सुप्रसीद द्विजोत्तम ॥

मन्त्रः— इदं ते आसनं दत्तं, विश्रामं क्रियतां द्विज। कुरुष्व मे प्रसादं च, सुप्रसीद द्विजोत्तम॥

Verse 35

उपवेश्यासने विप्रं छत्रं सङ्कल्पयेत्पुनः ॥ निवारणार्थमाकाशे भूता गगनचारिणः ॥

उपवेश्य आसने विप्रं छत्रं सङ्कल्पयेत् पुनः। निवारणार्थम् आकाशे भूता गगनचारिणः॥

Verse 36

देवगन्धर्व यक्षाश्च सिद्धसङ्घा महासुराः ॥ धारणार्थं तथाकाशे छत्रं तेजस्विनां कृतम् ॥

देवगन्धर्वयक्षाश्च सिद्धसङ्घा महासुराः। धारणार्थं तथाकाशे छत्रं तेजस्विनां कृतम्॥

Verse 37

छत्रमावरणार्थं तु दद्याञ्चैव द्विजातये ॥ आकाशे तत्र पश्यन्ति देवाः सिद्धपुरोगमाः ॥

छत्रम् आवरणार्थं तु दद्याच्चैव द्विजातये। आकाशे तत्र पश्यन्ति देवाः सिद्धपुरोगमाः॥

Verse 38

गन्धर्वा ह्यसुराः सिद्धा राक्षसाः पिशिताशिनः ॥ दृश्यामानेषु सर्वेषु प्रेतः संव्रीडितो भवेत् ॥

गन्धर्वा ह्यसुराः सिद्धा राक्षसाः पिशिताशिनः। दृश्यामानेषु सर्वेषु प्रेतः संव्रीडितो भवेत्॥

Verse 39

व्रीडमानं ततो दृष्ट्वा हसन्त्यसुरराक्षसाः ॥ एवं निवारणं छत्रमादित्येन कृतं पुरा ॥

तं तथा व्रीडमानं दृष्ट्वा असुरराक्षसाः हसन्ति। एवं पुरा आदित्येन निवारणार्थं छत्रं कृतम्॥

Verse 40

प्रेतलोकगतानां च सर्वदेवर्षिणां पुरा ॥ अग्निवर्षं शिलावर्षं तप्तं तत्र जलोदकम् ॥

पुरा प्रेतलोकगतानां सर्वदेवर्षीणां कृते अग्निवर्षं शिलावर्षं चाभवत्, तत्र जलमपि तप्तमासीत्॥

Verse 41

भस्मवर्षं ततो घोरमहोरात्रेण माधवि ॥ पादौ च ते न दह्येतां यमस्य विषयं गते ॥ तमोऽन्धकारविषमं दुर्गमं घोरदर्शनम् ॥

ततो माधवि, अहोरात्रेण घोरं भस्मवर्षं भवति। यमविषयं गते ते पादौ न दह्येताम्। तत् तमोऽन्धकारविषमं दुर्गमं घोरदर्शनम्॥

Verse 42

एकाकी दुःसहं लोके पथा येन स गच्छति ॥ कालो मृत्युश्च दूतश्च यष्टिमुद्यम्य पृष्ठतः ॥

स एकाकी लोके दुःसहं सहन् येन पथा गच्छति। पृष्ठतः कालो मृत्युश्च दूतश्च यष्टिमुद्यम्य अनुगच्छन्ति॥

Verse 43

अहोरात्रेण घोरेण प्रेतं नयति माधवि ॥ दद्यात्तदर्थं विप्राय पदत्रे च सुखावहे ॥

घोरेण अहोरात्रेण माधवि, स प्रेतं नयति। तदर्थं विप्राय सुखावहे पदत्रे युग्मं दद्यात्॥

Verse 44

पश्चाद्धूपं च दीपं च दद्याद्वै मन्त्रपूर्वकम् ॥ याति येन विजानीयात्पृथक्प्रेतेन योजयेत् ॥

ततः मन्त्रपूर्वकं धूपं दीपं च दद्यात्। येन मार्गेण प्रेतो याति तं विजानीयात्, प्रत्येकं प्रेतं पृथक् पृथक् योजयेत्॥

Verse 45

नामगोत्रमुदाहृत्य प्रेताय तदनन्तरम् ॥ शीघ्रमावाहयेद्भूमे दर्भपात्रे च भूतले ॥

नामगोत्रमुदाहृत्य ततः परं प्रेतं शीघ्रमावाहयेत्। भूमौ दर्भपात्रे भूतले स्थापयित्वा तत्रैव आवाहनं कुर्यात्॥

Verse 46

मन्त्रः— इह लोकं परित्यज्य गतोऽसि परमां गतिम् ॥ गृह्ण गन्धं मुदा युक्तो भक्त्या प्रेतोपपादितम् ॥

मन्त्रः— इह लोकं परित्यज्य गतोऽसि परमां गतिम्। गृह्ण गन्धं मुदा युक्तो भक्त्या प्रेतोपपादितम्॥

Verse 47

गन्धमन्त्रः— सर्वगन्धं सर्वपुष्पं धूपं दीपं तथैव च ॥ प्रतिगृह्णीष्व विप्रेन्द्र प्रेतमोक्षप्रदो भव ॥

गन्धमन्त्रः— सर्वगन्धं सर्वपुष्पं धूपं दीपं तथैव च। प्रतिगृह्णीष्व विप्रेन्द्र प्रेतमोक्षप्रदो भव॥

Verse 48

एवं वस्त्राणि विप्राय सर्वाण्याभरणानि च ॥ पुनः पुनश्च पक्वान्नं प्रयच्छेत् तु वसुन्धरे ॥

एवं विप्राय वस्त्राणि सर्वाण्याभरणानि च दद्यात्। वसुन्धरे, पुनः पुनश्च पक्वान्नं प्रयच्छेत्॥

Verse 49

एवमादीनि द्रव्याणि प्रेतभोग्यानि सर्वशः ॥ पादशौचादि त्रिः कृत्वा चातुर्वर्ण्यस्य माधवि ॥

एवमादीनि द्रव्याणि प्रेतभोग्यानि सर्वतः सम्यक् विन्यस्य, पादशौचादि शुद्धिं त्रिः कृत्वा, हे माधवि, चातुर्वर्ण्यस्य विधिः प्रवर्तते।

Verse 50

एवंविधः प्रयोक्‍तव्यः शूद्राणां मन्त्रवर्जितम् ॥ अमन्त्रस्य च शूद्रस्य विप्रो गृह्णाति मन्त्रतः ॥

एवंविधः शूद्राणां मन्त्रवर्जितः प्रयोगः कर्तव्यः; अमन्त्रस्य शूद्रस्य तु विप्रो मन्त्रतः गृह्णाति।

Verse 51

एतत्सर्वं विनिर्वर्त्य पक्वान्नं भोजयेद् द्विजम् ॥ भोक्ष्यमाणेन विप्रेण ज्ञानशुद्धेन सुन्दरि ॥

एतत्सर्वं विनिर्वर्त्य, पक्वान्नेन द्विजं भोजयेत्; भोक्ष्यमाणेन विप्रेण ज्ञानशुद्धेन, हे सुन्दरि।

Verse 52

प्रेताय प्रथमं दद्याद् न स्पृशेत परात्परम् ॥ सर्वं व्यञ्जनसंयुक्तं प्रेतभागं प्रकल्पयेत् ॥

प्रेताय प्रथमं भागं दद्याद्, ततः परं न स्पृशेत; सर्वव्यञ्जनसंयुक्तं प्रेतभागं प्रकल्पयेत्।

Verse 53

पितृस्थाने प्रदातव्यं विधानान्मन्त्रसंयुतम् ॥ एवं प्रेतेषु विप्रेषु एव कालो न विद्यते ॥

पितृस्थाने विधानात् मन्त्रसंयुतं प्रदातव्यम्; एवं प्रेतेषु विप्रेषु च काले विशेषो न विद्यते।

Verse 54

हस्तशौचं पुनः कृत्वा ह्युपस्पृश्य यथाविधि ॥ समन्त्रं प्रतिगृह्णाति पक्वान्नं भक्ष्यभोजनम् ॥

हस्तशौचं पुनः कृत्वा ह्युपस्पृश्य यथाविधि । समन्त्रं प्रतिगृह्णाति पक्वान्नं भक्ष्यभोजनम् ॥

Verse 55

भुज्यमानस्य विप्रस्य प्रेतभागं च नित्यशः ॥ ज्ञातिवर्गेषु गोत्रेषु सम्बन्धिस्वजनेषु च ॥

भुज्यमानस्य विप्रस्य प्रेतभागं च नित्यशः । ज्ञातिवर्गेषु गोत्रेषु सम्बन्धिस्वजनेषु च ॥

Verse 56

भागस्तत्र प्रदातव्यस्तस्यार्थे यस्य विद्यते ॥ विप्राय दीयमाने तु वारणीयं न केनचित् ॥

भागस्तत्र प्रदातव्यस्तस्यार्थे यस्य विद्यते । विप्राय दीयमाने तु वारणीयं न केनचित् ॥

Verse 57

निवारयति यो दत्तं गुरुघात्याफलं लभेत् ॥ न देवा प्रतिगृह्णन्ति नाग्नयः पितरस्तथा ॥

निवारयति यो दत्तं गुरुघात्याफलं लभेत् । न देवा प्रतिगृह्णन्ति नाग्नयः पितरस्तथा ॥

Verse 58

एवं विलुप्यते धर्मः प्रेतस्तत्र न तुष्यति ॥ एवं विचिन्त्यमानस्य यथा धर्मो न लुप्यते ॥

एवं विलुप्यते धर्मः प्रेतस्तत्र न तुष्यति । एवं विचिन्त्यमानस्य यथा धर्मो न लुप्यते ॥

Verse 59

ज्ञातिसम्बन्धिमध्ये तु यो दद्यात्प्रेतभोजनम् ॥ हृष्टेन मनसा विप्रे प्रेतभागं विशेषतः ॥

ज्ञातिसम्बन्धिमध्ये यः प्रेतभोजनं दद्यात्, स हृष्टमनसा विप्रे प्रेतभागं विशेषतः समर्पयति।

Verse 60

कूटवत्प्रतितिष्ठेत दृष्ट्वा तृप्तिं न गच्छति ॥ एवं तु प्रेतभावेन शीघ्रं मुञ्चति किल्बिषात् ॥

कूटवत् प्रतितिष्ठेत; दृष्ट्वा तृप्तिं न गच्छति। एवं तु प्रेतभावेन शीघ्रं किल्बिषात् मुच्यते।

Verse 61

तृप्तिं ज्ञात्वा तु विप्रस्य पक्वान्नेन तु माधवि ॥ दातव्यमुदके तस्य पाणावभ्युक्षणं ततः ॥

विप्रस्य तृप्तिं ज्ञात्वा पक्वान्नेन, हे माधवि, ततः तस्मै उदकं दातव्यम्; अनन्तरं पाणौ अभ्युक्षणं कर्तव्यम्।

Verse 62

दातव्यं तत्र चोच्छिष्टं येन हेतुमगर्हितम् ॥ उपस्पृश्य विधानेंन मम तीर्थगतेन च ॥

तत्रोच्छिष्टं दातव्यं येन हेतुरगर्हितः। विधानतः उपस्पृश्य, मम तीर्थगतेन च (कर्मणा)।

Verse 63

शुचिर्भूत्वा तु विधिवत्कृत्वा शान्त्युदकानि तु ॥ प्रणम्य शिरसा देवि निवापस्थानमागतः ॥ मन्त्रैः स्तुतिस्तु कर्त्तव्या तव भक्त्या । अवतिष्ठता ॥

शुचिर्भूत्वा विधिवत् शान्त्युदकानि कृत्वा, देवि, शिरसा प्रणम्य निवापस्थानम् आगतः। मन्त्रैः स्तुतिः कर्तव्या तव भक्त्या, तत्र अवतिष्ठता।

Verse 64

नमो नमो मेदिनी लोकमातरुर्व्यै महाशैलशिलाधरायै ॥ नमो नमो धारिणि लोकधात्रि जगत्प्रतिष्ठे वसुधे नमोऽस्तु ते ॥

नमो नमो मेदिनी लोकमातरि, महाशैलशिलाधरायै। नमो नमो धारिणि लोकधात्रि, जगत्प्रतिष्ठे वसुधे नमोऽस्तु ते॥

Verse 65

एवं निवापदानेन तव भक्तेन सुन्दरि ॥ दद्यात्तिलोदकं तस्य नामगोत्रमुदाहरेत् ॥

एवं निवापदानेन तव भक्तः सुन्दरि। तस्य तिलोदकं दद्यात् नामगोत्रं च कीर्तयेत्॥

Verse 66

जानुभ्यामवनीं गत्वा नमस्कृत्य द्विजोत्तमान् ॥ पाणिं संगृह्य हस्तेन मन्त्रेणोत्थापयेद्द्विजान् ॥

जानुभ्यामवनीं गत्वा नमस्कृत्य द्विजोत्तमान्। पाणिं संगृह्य हस्तेन मन्त्रेणोत्थापयेद्द्विजान्॥

Verse 67

दद्याच्छय्यानं देवि तथैवाञ्जनकङ्कणम् ॥ अञ्जनं कङ्कणं गृह्य शय्यामाक्रम्य स द्विजः ॥

दद्याच्छय्यानं देवि तथैवाञ्जनकङ्कणम्। अञ्जनं कङ्कणं गृह्य शय्यामाक्रम्य स द्विजः॥

Verse 68

मुहूर्तं तत्र विश्रम्य निवापस्थानमागतः॥ गवां लाङ्गूलमुद्धृत्य दद्याद्ब्राह्मणहस्तके

मुहूर्तं तत्र विश्रम्य निवापस्थानमागतः। गवां लाङ्गूलमुद्धृत्य दद्याद्ब्राह्मणहस्तके॥

Verse 69

पात्रेणोदुम्बरस्थेन कृत्वा कृष्णतिलोदकम्॥ उदाहरेत्तु मन्त्रान्वै सौरभेयान् द्विजातयः

उदुम्बरकाष्ठनिर्मितेन पात्रेण कृष्णतिलमिश्रितं जलं कृत्वा, द्विजातयः सौरभेयसम्बद्धान् मन्त्रान् ततः उच्चारयेत्।

Verse 70

मन्त्रपूतं तदा तोयं सर्वपापप्रणाशनम्॥ उद्धृत्य तच्च लाङ्गूलं तोयेनाभ्युक्ष्य वै ततः

तदा मन्त्रपूतं तोयं सर्वपापप्रणाशनं गृहित्वा, तल्लाङ्गूलम् उद्धृत्य ततः तेन तोयेन अभ्युक्ष्येत्।

Verse 71

गत्वा तु ब्राह्मणेभ्योऽपि स्वगृहं यत्र तिष्ठति॥ पक्वान्नं भोजयेत्सर्वं न तिष्ठेत् प्रतिवासिकम्

ततः ब्राह्मणान् समभ्यर्च्य, स्वगृहं यत्र तिष्ठति तत्र गत्वा, सर्वं पक्वान्नं भोजयेत्; प्रतिवासिकत्वेन न तिष्ठेत्।

Verse 72

पिपीलिकादिभूतानि प्रेतभागं च सर्वशः॥ कृत्वा तु तर्पणं देवि यस्यार्थे तस्य कल्पयेत्

पिपीलिकादिभूतानि प्रेतभागं च सर्वशः कृत्वा, तर्पणं देवि, यस्यार्थे तत् कृतं तस्यैव हिताय कल्पयेत्।

Verse 73

भुक्तेषु तेषु सर्वेषु दीनानाथान् प्रतर्प्य च॥ प्रेतराजपुरं गत्वा प्रयच्छति स माधवि

तेषु सर्वेषु भुक्तेषु, दीनानाथान् च प्रतर्प्य, सः माधवि प्रेतराजपुरं गत्वा तदनुरूपं फलं प्राप्नोति।

Verse 74

सर्वान्नमक्षयं तस्य दत्तं भवति सुन्दरि॥ कर्तव्य एवं संस्कारः प्रेतभावविशोधनः

सुन्दरि, तस्य दत्तं सर्वान्नम् अक्षयं पुण्यफलम् भवति। एवं प्रेतभावविशोधनः संस्कारः कर्तव्यः।

Verse 75

नेमिपभृतिभिः शौचं चातुर्वर्ण्यस्य सर्वतः॥ भविष्यति न सन्देहो दृष्टपूर्वं स्वयम्भुवा

नेमिप्रभृतिभिः सर्वतः चातुर्वर्ण्यस्य शौचं भविष्यति, न सन्देहः; तत् पूर्वं स्वयम्भुवा दृष्टम्।

Verse 76

कृत्वा तु धर्मसंकल्पं प्रेतकार्यं विशेषतः॥ न भेतव्यं त्वया पुत्र प्रेतकार्ये कृते सति

धर्मसंकल्पं कृत्वा विशेषतः प्रेतकार्यं कृत्वा, पुत्र, प्रेतकार्ये कृते सति त्वया न भेतव्यम्।

Verse 77

विस्तरेण मया प्रोक्तं प्रत्यक्षं नारदस्य च॥ त्वया वत्स सुतस्यार्थे क्रतुरेकः प्रतिष्ठितः

मया विस्तरेण प्रोक्तं, नारदस्य च प्रत्यक्षम्। वत्स, त्वया सुतस्यार्थे एकः क्रतुः प्रतिष्ठितः।

Verse 78

तस्मात्प्रभृति लोकेषु पितृयज्ञो भविष्यति ॥ एवं यास्यति वत्स त्वं न शोकं कर्त्तुमर्हसि ॥

तस्मात् प्रभृति लोकेषु पितृयज्ञो भविष्यति। एवं यास्यति वत्स; त्वं शोकं कर्तुं नार्हसि।

Verse 79

शिवलोकं ब्रह्मलोकं विष्णुलोकं न सशंयः ॥ एवमुक्त्वा तदात्रेयः पितृकर्म यथाविधि ॥

शिवलोकं ब्रह्मलोकं विष्णुलोकं न संशयः। एवमुक्त्वा तदात्रेयः पितृकर्म यथाविधि अकरोत्॥

Verse 80

प्रेतस्यावाहनं कृत्वा शुचिर्भूत्वा समाहितः ॥ पक्वान्नं भोजयेत्तत्र प्रेतभागं यथाविधि ॥

प्रेतस्यावाहनं कृत्वा शुचिर्भूत्वा समाहितः। पक्वान्नं भोजयेत्तत्र प्रेतभागं यथाविधि॥

Verse 81

मन्त्रयुक्तोपचारेण चातुर्वर्ण्यस्य सर्वतः ॥ वृषलानाममन्त्राणां प्रयोक्‍तव्यं यथाविधि ॥

मन्त्रयुक्तोपचारेण चातुर्वर्ण्यस्य सर्वतः। वृषलानाममन्त्राणां प्रयोक्‍तव्यं यथाविधि॥

Verse 82

प्रेतकार्ये निवृत्ते तु पूर्णे संवत्सरे तथा ॥ प्रयान्ति जन्तवः केचिद्गत्वा गच्छन्ति चापरे ॥

प्रेतकार्ये निवृत्ते तु पूर्णे संवत्सरे तथा। प्रयान्ति जन्तवः केचिद्गत्वा गच्छन्ति चापरे॥

Verse 83

पितामहः स्नुषा भार्या ज्ञातिसम्बन्धिबान्धवाः ॥ यद्येते बहवः सन्ति स्वप्नोपममिदं जगत् ॥

पितामहः स्नुषा भार्या ज्ञातिसम्बन्धिबान्धवाः। यद्येते बहवः सन्ति स्वप्नोपममिदं जगत्॥

Verse 84

स्वयं मुहूर्त्तं रोदित्वा ततो याति पराङ्मुखः ॥ स्नेहपाशेन बद्धो वै क्षणार्द्धान्मुच्यते ततः ॥

स्वयं मुहूर्त्तं रोदित्वा ततः पराङ्मुखो भूत्वा प्रयाति। स्नेहपाशेन बद्धोऽपि क्षणार्धात् ततः पाशात् प्रमुच्यते॥

Verse 85

कस्य माता पिता कस्य कस्य भार्या सुतास्तथा ॥ युगे युगे तु वर्त्तन्ते मोहपाशेन बध्यते ॥

कस्य माता पिता कस्य, कस्य भार्या सुतास्तथा? युगे युगे तु वर्तन्ते; मोहपाशेन जीवो बध्यते॥

Verse 86

स्नेहभावेन कर्त्तव्यः संस्कारो हि मृतस्य च ॥ मातापितृसहस्राणि पुत्रदारशतानि च ॥

स्नेहभावेन कर्तव्यः संस्कारो हि मृतस्य च। मातापितृसहस्राणि, पुत्रदारशतानि च॥

Verse 87

संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥ स्वयम्भुवा विधिः प्रोक्तः प्रेतसंस्कारलक्षणः ॥

संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्? स्वयम्भुवा विधिः प्रोक्तः प्रेतसंस्कारलक्षणः॥

Verse 88

प्रेतकार्ये निवृत्ते तु पितृत्वमुपजायते ॥ मासि मासि ह्यमायां वै कर्त्तव्यं पितृतर्पणम् ॥

प्रेतकार्ये निवृत्ते तु पितृत्वमुपजायते। मासि मासि ह्यमावास्यायां कर्तव्यं पितृतर्पणम्॥

Verse 89

एवमुक्त्वा स आत्रेयः पितृयज्ञविनिश्चयम् ॥ मुहूर्ते ध्यानमास्थाय तत्रैवान्तरधीयत ॥

एवमुक्त्वा स आत्रेयः पितृयज्ञविनिश्चयम् । मुहूर्तं ध्यानमास्थाय तत्रैवान्तरधीयत ॥

Verse 90

नारद उवाच ॥ श्रुत्वा तु मृतसंस्कारमात्रेयोक्‍तं यथाविधि ॥ चातुवर्ण्यस्य सर्वस्य त्वया धर्मः प्रतिष्ठितः ॥

नारद उवाच । श्रुत्वा तु मृतसंस्कारमात्रेयोक्‍तं यथाविधि । चातुवर्ण्यस्य सर्वस्य त्वया धर्मः प्रतिष्ठितः ॥

Verse 91

पितृयज्ञमुपश्राद्धे मासि मासि दिने तथा ॥ वर्त्तयन्ति यथान्यायमृषयश्च तपोधनाः ॥

पितृयज्ञमुपश्राद्धे मासि मासि दिने तथा । वर्त्तयन्ति यथान्यायमृषयश्च तपोधनाः ॥

Verse 92

निर्दिष्टं ब्राह्मणानां वै शूद्राणां मन्त्रवर्जितम् ॥ नेमिना च कृतं श्राद्धं ततः प्रभृति वै द्विजाः ॥

निर्दिष्टं ब्राह्मणानां वै शूद्राणां मन्त्रवर्जितम् । नेमिना च कृतं श्राद्धं ततः प्रभृति वै द्विजाः ॥

Verse 93

कुर्वन्ति सततं श्राद्धं नैमिश्राद्धं तदुच्यते ॥ स्वस्त्यस्तु ते महाभाग यास्यामि मुनिसत्तम ॥

कुर्वन्ति सततं श्राद्धं नैमिश्राद्धं तदुच्यते । स्वस्त्यस्तु ते महाभाग यास्यामि मुनिसत्तम ॥

Verse 94

एवमुक्त्वा मुनिश्रेष्ठो नारदो द्विजतत्तमः ॥ तेजसा द्योतयन्सर्वं गतः शक्रपुरं प्रति ॥

एवमुक्त्वा मुनिश्रेष्ठो नारदो द्विजतत्तमः । तेजसा द्योतयन्सर्वं गतः शक्रपुरं प्रति ॥

Verse 95

एवं च पिण्डसंकल्पं श्राद्धोत्पत्तिश्च माधवि ॥ आत्रेयेणैव मुनिना स्थापितं ब्राह्मणेषु च ॥

एवं च पिण्डसंकल्पं श्राद्धोत्पत्तिश्च माधवि । आत्रेयेणैव मुनिना स्थापितं ब्राह्मणेषु च ॥

Verse 96

अपाकद्रव्यं संगृह्य ब्रह्मणो वचनं यथा ॥ त्रिषु वर्णेषु कर्त्तव्यं पाकभोजनमित्युत ॥

अपाकद्रव्यं संगृह्य ब्रह्मणो वचनं यथा । त्रिषु वर्णेषु कर्त्तव्यं पाकभोजनमित्युत ॥

Verse 97

पिता पितामहश्चैव तथैव प्रपितामहः ॥ जुहुयाद्ब्राह्मणमुखे तृप्तिर्भवति शाश्वती ॥

पिता पितामहश्चैव तथैव प्रपितामहः । जुहुयाद्ब्राह्मणमुखे तृप्तिर्भवति शाश्वती ॥

Verse 98

निपातदेशं संगृह्य शुचिदेशे समाहितः॥ नदीकूले निखाते वा प्रेतभूमिं विनिर्देशेत्॥

निपातदेशं संगृह्य शुचिदेशे समाहितः । नदीकूले निखाते वा प्रेतभूमिं विनिर्देशेत् ॥

Verse 99

पतन्ति नरके घोरे तेनोच्छिष्टेन सुन्दरी॥ स्थण्डिले प्रेतभागं तु दद्यात्पूर्वाह्णिकं तु तम्॥

हे सुन्दरी, तेनोच्छिष्टेन (दोषेण) घोरे नरके पतन्ति; तस्मात् शुद्धस्थण्डिले पूर्वाह्णिककर्मरूपं प्रेतभागं दद्यात्।

Verse 100

प्रेतस्य च हितार्थाय धारयेत वसुन्धरे॥ पूर्वं संहृष्टतुष्टेन प्रेतभागं च दापयेत्॥

प्रेतस्य हितार्थाय, हे वसुन्धरे, विधिं सम्यक् धारयेत्; पूर्वं संहृष्टतुष्टचित्तेन प्रेतभागं दापयेत्।

Verse 101

तप्तवालुमयी भूमिः कण्टकैरुपसंस्तृता॥ तेन दुर्गाणि तरति दत्तयोपानहात्र वै॥

तप्तवालुकामयी भूमिः कण्टकैरुपसंस्तृता; तेन दत्तोपानहात्रेव स दुर्गाणि तरति वै।

Verse 102

देवत्वं ब्राह्मणत्वं च प्रेतपिण्डे प्रदीयते॥ मानुषत्वं निवापेषु ज्ञातव्यं सततं बुधैः॥

प्रेतपिण्डप्रदानेन देवत्वं ब्राह्मणत्वं च प्रदीयते; निवापप्रदानेन मानुषत्वं—इति बुधैः सततं ज्ञातव्यम्।

Verse 103

दृष्ट्वा तु प्रोषितं तेन उच्छिष्टं न विसर्जयेत्॥ ब्राह्मणे नाप्यनुज्ञातः शीघ्रं संरम्भयेत् ततः॥

प्रोषितं दृष्ट्वापि तेन हेतुनोच्छिष्टं न विसर्जयेत्; ब्राह्मणेनाननुज्ञातः सन् ततः शीघ्रं न संरम्भयेत्।

Verse 104

पश्चात्प्रेतं विसर्ज्यैवं दद्याद्दानं द्विजातये॥ निवापमन्नमशुचिं दद्याद्वायसतर्पणम्॥

पश्चात् प्रेतं विसृज्यैवं द्विजातये दानं दद्यात्। निवापमन्नम् अशुचिमपि वायसानां तर्पणार्थं दद्यात्॥

Verse 105

दातव्यं तु तृतीये च मासे सप्तनवेषु च॥ एकादशे तथा मासे दद्यात्सांवत्सरीं क्रियाम्॥

तृतीये तु मासे दातव्यं सप्तमे नवमे च। एकादशे तथा मासे सांवत्सरीं क्रियां दद्यात्॥

Inside Adhyaya 188

How it unfolds

  1. Where it opens

    Pṛthivī, as lokamātṛ and terrestrial witness, asks Varāha to define aśauca (mourning impurity) and to lay out the correct, socially binding procedure for preta-kārya, piṇḍadāna, and śrāddha so that the dead are supported and the living are purified without violating dharma or contaminating space.

  2. Central event

    Varāha delivers a practical, day-by-day manual: repeated snāna (preferably in river water), daily jalāñjali/tarpaṇa and piṇḍa offerings, strict site-selection on a prepared śuci-deśa/ sthaṇḍila, and regulated hospitality toward the ritual brāhmaṇa who functions as the preta’s proxy—culminating in the ekoddiṣṭa rite on the eleventh day.

  3. Climax resolution

    The regimen resolves into formal reintegration: tenth-day laundering and purification, shaving rites, and the eleventh-day ekoddiṣṭa with feeding of a qualified brāhmaṇa, careful handling of the preta’s portion (pretabhāga/nivāpa), and prescribed gifts (cloth, footwear, umbrella, food). The chapter stabilizes the rite by insisting on clean ground and avoidance of polluted/disturbed zones, explicitly tying ritual legitimacy to Pṛthivī’s purity and support.

Geographical context

General sacred-ecological settings rather than named toponyms are emphasized: nadī-jala (river water) for bathing; nadī-kūla (riverbank); śuci-deśa (clean ground); shade of a riverbank tree (nadīkūla-druma); avoidance of spaces associated with caṇḍāla presence and scavenging animals. No specific rivers or cities (e.g., Mathurā) are named in this excerpt.

Tirtha focus

  • Pilgrimage MeritMerit is framed less as visiting a named tīrtha and more as choosing a ritually and ecologically ‘clean’ locus—riverbank snāna and properly prepared ground are treated as enabling conditions for the preta’s support and the performer’s purification, thereby yielding dharmic fruit through correct place-making.

Ritual instructions

  • Primary RitualPreta-saṃskāra sequence with piṇḍadāna, jalāñjali/tarpaṇa, and ekoddiṣṭa-śrāddha under aśauca regulations.
  • BenefitSupports the preta’s transitional needs, regularizes grief into dharmic duty, restores the household’s purity after aśauca, and secures pitṛ-satisfaction through correctly allocated offerings and disciplined spatial/ethical conduct.

The narrative frame

  • VarāhaPṛthivī · Didactic, procedural, and norm-setting; simultaneously ethical (dharma/commensality) and ecological-spatial (purity of ground and avoidance zones).

The emotional journey

  • Dominant RasaŚānta (with undertones of Karuṇa)
  • Emotional ProgressionFrom anxiety about impurity and the dead’s unsettled state → disciplined, repetitive purification and offering → formal closure through ekoddiṣṭa and reintegration rites → long-term steadiness via monthly and annual observances.

Planning a pilgrimage

  • Visit FeasibilityNot tied to a single named tīrtha; the chapter is practice-oriented. Feasible ‘pilgrimage’ is to choose a locally accessible clean riverbank or sanctioned śuci-deśa and follow site-preparation and purity rules; consult local dharma/śrāddha specialists for region-specific constraints.
  • Related FestivalAmāvāsyā (new-moon) observance for monthly pitṛ-tarpaṇa; annual saṃvatsarī śrāddha (death-anniversary cycle).

Frequently Asked Questions

The text frames mortuary rites as a regulated social-ethical duty: disciplined purification (aśauca management), careful allocation of the pretabhāga (the preta’s portion), and non-obstruction of sanctioned gifts to ritual recipients. It also embeds a terrestrial ethic through Pṛthivī: rites should be performed on clean, properly prepared ground, avoiding spaces depicted as polluted or ecologically/ritually disturbed, thereby linking correct conduct with maintenance of terrestrial order.

A day-sequence is specified: third-day bathing and offerings; continued daily observances through the tenth day; tenth-day laundering/purification and subsequent shaving rite; eleventh-day ekoddiṣṭa; thirteenth-day feeding rites are mentioned. Longer-term markers include rites in the third month, at specified month-count intervals (saptanava as transmitted in the manuscript), an eleventh-month observance, and an annual (saṃvatsarī) ceremony. Ongoing monthly pitṛ-tarpaṇa is assigned to amāvāsyā (new-moon day).

Environmental/terrestrial balance is expressed through prescriptions for spatial purity: selecting a śuci-deśa, preparing a sthaṇḍila (smoothed ritual ground), and preferring riverbanks while avoiding areas associated with contamination or disruptive scavenger presence. Pṛthivī is explicitly invoked and praised as lokamātṛ and dhāriṇī, positioning the Earth as the supporting substrate whose cleanliness and proper partitioning (ritual ‘bhāga’) condition the legitimacy of offerings.

The chapter attributes the establishment and authoritative articulation of these rites to the sage Ātreya, with Nārada appearing as a later narrator/validator who reports the institutionalization of the piṇḍa-saṃkalpa and śrāddha origin. Nemi is referenced in connection with a named śrāddha tradition (naimi-śrāddha) as transmitted practice among dvijas.

Ask anything about Adhyaya 188 of the Varaha Purana

Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.

Not sure where to start?

A free sign-in with Google or Apple keeps your chat saved across web and the app.

Read Varaha Purana in the Vedapath app

Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.

Download on the App StoreGet it on Google Play

Continue reading in the Vedapath app

Open in App
Download on the App StoreGet it on Google Play