Opening the text
अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच—भगवन्, संन्यासं ब्रूहीति । स होवाच याज्ञवल्क्यः—ब्रह्मचर्यं परिसमाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद्वा वनाद्वा । अथ पुनरव्रती वा व्रती वा स्नातको वा अस्नातको वा उत्सन्नाग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् । तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति । तदु तथा न कुर्यात्—आग्नेयीमेव कुर्यात् । अग्निर्ह वै प्राणः; प्राणमेव तथा करोति । त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति । “अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः । तं प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम्” इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् । एष ह वा अग्नेर्योनिर्यः प्राणः । “प्राणं गच्छ स्वाहा” इत्येवमेवैतदाह । ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् । यद्यग्निं न विन्देदप्सु जुहुयात् । आपो वै सर्वा देवताः । “सर्वाभ्यो देवताभ्यो जुहोमि स्वाहा” इति हुत्वोदकं गृहीत्वा प्राश्नीयात् । साज्यं हविरनामयं मोक्षमन्त्रः त्रयी—एवं वदेत् । एतद्ब्रह्म; एतदुपासितव्यम् । एवमेवैतद् भगवन्—इति वै याज्ञवल्क्यः ॥४॥
अथ । ह । एनम् । जनकः । वैदेहः । याज्ञवल्क्यम् । उपसमेत्य । उवाच । भगवन् । संन्यासम् । ब्रूहि । इति । सः । ह । उवाच । याज्ञवल्क्यः । ब्रह्मचर्यम् । परिसमाप्य । गृही । भवेत् । गृही । भूत्वा । वनी । भवेत् । वनी । भूत्वा । प्रव्रजेत् । यदि । वा । इतरथा । ब्रह्मचर्यात् । एव । प्रव्रजेत् । गृहात् । वा । वनात् । वा । अथ । पुनः । अव्रती । वा । व्रती । वा । स्नातकः । वा । अस्नातकः । वा । उत्सन्नाग्निकः । वा । यत् । अहः । एव । विरजेत् । तत् । अहः । एव । प्रव्रजेत् । तत् । ह । एके । प्राजापत्याम् । एव । इष्टिम् । कुर्वन्ति । तत् । उ । तथा । न । कुर्यात् । आग्नेयीम् । एव । कुर्यात् । अग्निः । ह । वै । प्राणः । प्राणम् । एव । तथा । करोति । त्रैधातवीयाम् । एव । कुर्यात् । एतया । एव । त्रयः । धातवः । यत् । उत । सत्त्वम् । रजः । तमः । इति । अयम् । ते । योनिः । ऋत्विजः । यतः । जातः । प्राणात् । अरोचथाः । तम् । प्राणम् । जानन् । अग्ने । आरोह । अथ । नः । वर्धय । रयिम् । इति । अनेन । मन्त्रेण । अग्निम् । आजिघ्रेत् । एषः । ह । वा । अग्नेः । योनिः । यः । प्राणः । प्राणम् । गच्छ । स्वाहा । इति । एवम् । एव । एतत् । आह । ग्रामात् । अग्निम् । आहृत्य । पूर्वम् । अग्निम् । आघ्रापयेत् । यदि । अग्निम् । न । विन्देत् । अप्सु । जुहुयात् । आपः । वै । सर्वाः । देवताः । सर्वाभ्यः । देवताभ्यः । जुहोमि । स्वाहा । इति । हुत्वा । उदकम् । गृहीत्वा । प्राश्नीयात् । साज्यम् । हविः । नाम । अयम् । मोक्ष-मन्त्रः । त्रयी । एवम् । वदेत् । एतत् । ब्रह्म । एतत् । उपासितव्यम् । एवम् । एव । एतत् । भगवन् । इति । वै । याज्ञवल्क्यः ।
atha hainaṃ janako vaideho yājñavalkyam upasametyovāca—bhagavan, saṃnyāsaṃ brūhīti | sa hovāca yājñavalkyaḥ—brahmacaryaṃ parisamāpya gṛhī bhavet | gṛhī bhūtvā vanī bhavet | vanī bhūtvā pravrajet | yadi vaitarathā brahmacaryādeva pravrajed gṛhādvā vanādvā | atha punar avratī vā vratī vā snātako vā asnātako vā utsannāgniko vā yad ahareva virajet tad ahareva pravrajet | taddhaike prājāpatyāmeveṣṭiṃ kurvanti | tadu tathā na kuryāt—āgneyīmeva kuryāt | agnir ha vai prāṇaḥ; prāṇameva tathā karoti | traidhātavīyāmeva kuryāt | etayaiva trayo dhātavo yaduta sattvaṃ rajastama iti | “ayaṃ te yonir ṛtvijo yato jātaḥ prāṇād arocathāḥ | taṃ prāṇaṃ jānann agna ārohāthā no vardhaya rayim” ity anena mantreṇāgnim ājighret | eṣa ha vā agner yonir yaḥ prāṇaḥ | “prāṇaṃ gaccha svāhā” ityevamevaitad āha | grāmād agnim āhṛtya pūrvam agnim āghrāpayet | yady agniṃ na vinded apsu juhuyāt | āpo vai sarvā devatāḥ | “sarvābhyo devatābhyo juhomi svāhā” iti hutvodakaṃ gṛhītvā prāśnīyāt | sājyaṃ havir nāmāyaṃ mokṣamantraḥ trayī—evaṃ vadet | etad brahma; etad upāsitavyam | evamevaitad bhagavan—iti vai yājñavalkyaḥ ||4||
そのとき、ヴィデーハの王ジャナカはヤージュニャヴァルキヤに近づいて言った。「尊師よ、サンニャーサ(出家・放棄)をお説きください。」ヤージュニャヴァルキヤは答えた。「梵行(学生期)を終えて家住者となり、家住者となって林住者となり、林住者となって遍歴の出家者として出立する。あるいは梵行から直ちに、また家から、また森から、直ちに出立してよい。さらに、誓戒の有無、卒業沐浴の有無、聖火が絶えたか否かにかかわらず、離欲が起こったその日その日に、ただちに出立すべきである。ある者はプラジャーパティへの供犠のみを行うが、そのようにしてはならない。アグニへの供犠を行うべきである。アグニはまさにプラーナ(生命息)であり、かくしてプラーナそのものを確立する。三要素供犠(トライダータヴィーヤ)を行うべきであり、それによってサットヴァ・ラジャス・タマスという三つの構成要素が象徴的に扱われる。『これは汝らの胎、祭官たちよ、そこから汝らは生まれ、プラーナから輝き出た。プラーナを知るアグニよ、昇りて我らの富を増せ』というこのマントラによって火の香を嗅ぐ。プラーナは実にアグニの胎である。『プラーナへ行け、スヴァーハー』と告げるのと同じである。村から火を持ち来たり、先の火に嗅がせる。もし火が得られなければ水に供えるべきである。水はすべての神々である。『すべての神々に供える、スヴァーハー』と供えて、その水を取り飲む。この澄ましバターの供物は解脱のマントラ、三ヴェーダ(トライー)と呼ばれる—このように宣言すべきである。これがブラフマンであり、これを観想すべきである。『まことにそのとおりです、尊師よ』—とヤージュニャヴァルキヤは言った。
Then Janaka of Videha approached Yājñavalkya and said: “Venerable sir, teach me renunciation (saṃnyāsa).” Yājñavalkya replied: “Having completed studentship, one may become a householder; having become a householder, one may become a forest-dweller; having become a forest-dweller, one may go forth as a wandering renunciant. Or else, one may go forth directly from studentship, or from the house, or from the forest. Moreover, whether one is without vows or with vows, whether one has performed the graduation bath or not, whether one’s sacred fires have lapsed—on the very day one becomes dispassionate, on that very day one should go forth. Some perform only the Prajāpati-offering; but one should not do it thus—one should perform the Agni-offering. For Agni indeed is prāṇa; thus one establishes prāṇa itself. One should perform the Traidhātavīya (three-constituent) offering; by it the three constituents—sattva, rajas, and tamas—(are symbolically addressed). With the mantra ‘This is your womb, O priests, from which you were born; from prāṇa you shone forth. Knowing that prāṇa, O Agni, ascend; and increase for us wealth,’ one should smell the fire. Prāṇa is indeed the womb of Agni; saying ‘Go to prāṇa, svāhā,’ this is what it declares. Having brought fire from the village, one should make it smell the former fire. If one does not find fire, one should offer into water; for waters are all the deities. Having offered with ‘To all the deities I offer, svāhā,’ taking that water one should drink it. This clarified-butter oblation—this is called the liberation-mantra, the triple Veda—thus one should say. This is Brahman; this is to be meditated upon. ‘So indeed it is, venerable sir,’ said Yājñavalkya.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.