शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः । अशरीरं सदा सन्तमिदं ब्रह्मविदं क्वचित् ॥ प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे । तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ॥ ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् । तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ॥ पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् । अहिनिर्ल्वयनीवायं मुक्तदेहस्तु तिष्ठति ॥
शरीरी । अपि । अशरीरी । एषः । परिच्छिन्नः । अपि । सर्व-गः । अशरीरम् । सदा । सन्तम् । इदम् । ब्रह्म-विदम् । क्वचित् । प्रिया-अप्रिये । न । स्पृशतः । तथा । एव । च । शुभ-अशुभे । तमसा । ग्रस्त-वत् । भानात् । अग्रस्तः । अपि । रविः । जनैः । ग्रस्तः । इति । उच्यते । भ्रान्त्या । हि । अज्ञात्वा । वस्तु-लक्षणम् । तत्-वत् । देह-आदि-बन्धेभ्यः । विमुक्तम् । ब्रह्म-वित्-तमम् । पश्यन्ति । देहि-वत् । मूढाः । शरीर-आभास-दर्शनात् । अहि-निर्ल्वयनी-इव । अयम् । मुक्त-देहः । तु । तिष्ठति ।
śarīry apy aśarīry eṣa paricchinno 'pi sarvagaḥ | aśarīraṃ sadā santam idaṃ brahmavidaṃ kvacit || priyāpriye na spṛśatas tathaiva ca śubhāśubhe | tamasā grastavad bhānād agrasto 'pi ravir janaiḥ || grasta ity ucyate bhrāntyā hy ajñātvā vastulakṣaṇam | tadvad dehādibandhebhyo vimuktaṃ brahmavittamam || paśyanti dehivam mūḍhāḥ śarīrābhāsadarśanāt | ahinirlayanīvāyaṃ muktadehas tu tiṣṭhati ||
身を帯びているようでいて、これは無身である。限られているようでいて、遍満である。つねに無身なるこのブラフマン知者は、どこかにおいて、あたかも身を有するかのように現れる。愛すべきものも愛すべからざるものも彼に触れず、また吉も凶も同様に触れない。太陽は実は蝕まれないのに、闇のために人々は「蝕まれた」と言う。「蝕まれた」とは、事物の本性を知らぬ迷妄による呼称である。それと同じく、身体などを初めとする束縛から解き放たれた最上のブラフマン知者を、愚者は身体の影像を見て、あたかも身体者であるかのように見る。蛇の脱け殻のように、彼は解き放たれた身として立つ—身はただ残影にすぎない。
Though embodied, this one is bodiless; though limited, he is all-pervading—ever bodiless, this knower of Brahman (appears) somewhere (as if embodied). The dear and the not-dear do not touch him, nor likewise the auspicious and inauspicious. Though the sun is not eclipsed, because of darkness people speak of it as ‘eclipsed’. It is called ‘eclipsed’ through delusion, not knowing the nature of the thing. So too, the supreme knower of Brahman, freed from bonds beginning with the body—fools, seeing the appearance of a body, perceive him as if embodied. Like a snake’s sloughed skin, this one stands with the body freed (i.e., as a mere remnant-appearance).
Curious about the meaning, context, or a word? Ask, and continue the conversation in the Vedapath app.
A free Google sign-in keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.