Opening the text
ॐ अथाङ्गिरास्त्रिविधः पुरुषोऽजायत—आत्मा, अन्तरात्मा, परमात्मा चेति। त्वक्-चर्म-मांस-रोम-अङ्गुष्ठ-अङ्गुल्यः, पृष्ठ-वंश-नख-गुल्फ-उदर-नाभि-मेढ्र-कटि-ऊरु-कपोल-श्रोत्र-भ्रू-ललाट-बाहु-पार्श्व-शिरः-अक्षीणि भवन्ति; जायते म्रियत इत्येष आत्मा। अथान्तरात्मा नाम—पृथिव्यापस्तेजोवायुराकाशम्, इच्छाद्वेषसुखदुःखकाममोहविकल्पानादिस्मृतिलिङ्गोदात्तानुदात्तह्रस्वदीर्घप्लुतः, खलितगर्जितस्फुटितमुदितनृत्तगीतवादित्रप्रलयविजृम्भितादिभिः श्रोता घ्राता रसयिता नेता कर्ता विज्ञानात्मा पुरुषः; पुराणन्यायमीमांसाधर्मशास्त्राणीति श्रवणघ्राणाकर्षणकर्मविशेषणं करोत्येषोऽन्तरात्मा। अथ परमात्मा नाम यथाक्षर उपासनीयः। स च प्राणायामप्रत्याहारधारणाध्यानसमाधियोगानुमानात्मचिन्तकवटकणिका वा श्यामाकतण्डुलो वा वालाग्रशतसहस्रविकल्पनाभिः स लभ्यते; नोपलभ्यते; न जायते न म्रियते; न शुष्यति न क्लिद्यते न दह्यते; न कम्पते न भिद्यते न च्छिद्यते; निर्गुणः साक्षिभूतः शुद्धो निरवयवात्मा केवलः सूक्ष्मो निर्ममो निरञ्जनो निर्विकारः; शब्दस्पर्शरूपरसगन्धवर्जितो निर्विकल्पो निराकाङ्क्षः सर्वव्यापी; सोऽचिन्त्यो निर्वर्ण्यश्च; पुनात्यशुद्धान्यपूतानि। निष्क्रियस्तस्य संसारो नास्ति। आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा। ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते॥१॥
ॐ । अथ । अङ्गिराः । त्रि-विदः । पुरुषः । अजायत । आत्मा । अन्तर-आत्मा । परम-आत्मा । च । इति । त्वक्-चर्म-मांस-रोम-अङ्गुष्ठ-अङ्गुल्यः । पृष्ठ-वंश-नख-गुल्फ-उदर-नाभि-मेढ्र-कटि-ऊरु-कपोल-श्रोत्र-भ्रू-ललाट-बाहु-पार्श्व-शिरः-अक्षीणि । भवन्ति । जायते । म्रियते । इति । एषः । आत्मा । अथ । अन्तर-आत्मा । नाम । पृथिवी-आपः-तेजः-वायुः-आकाशम् । इच्छा-द्वेष-सुख-दुःख-काम-मोह-विकल्प-अनादि-स्मृति-लिङ्ग-उदात्त-अनुदात्त-ह्रस्व-दीर्घ-प्लुतः । खलित-गर्जित-स्फुटित-मुदित-नृत्त-गीत-वादित्र-प्रलय-विजृम्भित-आदिभिः । श्रोता । घ्राता । रसयिता । नेता । कर्ता । विज्ञान-आत्मा । पुरुषः । पुराण-न्याय-मीमांसा-धर्म-शास्त्राणि । इति । श्रवण-घ्राण-आकर्षण-कर्म-विशेषणम् । करोति । एषः । अन्तर-आत्मा । अथ । परम-आत्मा । नाम । यथा-अक्षरः । उपासनीयः । सः । च । प्राणायाम-प्रत्याहार-धारण-ध्यान-समाधि-योग-अनुमान-आत्म-चिन्तकः । वट-कणिका । वा । श्यामाक-तण्डुलः । वा । वाल-अग्र-शत-सहस्र-विकल्पनाभिः । सः । लभ्यते । न । उपलभ्यते । न । जायते । न । म्रियते । न । शुष्यति । न । क्लिद्यते । न । दह्यते । न । कम्पते । न । भिद्यते । न । छिद्यते । निर्गुणः । साक्षि-भूतः । शुद्धः । निर-अवयव-आत्मा । केवलः । सूक्ष्मः । निर्-ममः । निर्-अञ्जनः । निर्-विकारः । शब्द-स्पर्श-रूप-रस-गन्ध-वर्जितः । निर्-विकल्पः । निर्-आकाङ्क्षः । सर्व-व्यापी । सः । अ-चिन्त्यः । निर्-वर्ण्यः । च । पुनाति । अ-शुद्धानि । अ-पूतानि । निष्क्रियः । तस्य । संसारः । न । अस्ति । आत्म-संज्ञः । शिवः । शुद्धः । एकः । एव । अद्वयः । सदा । ब्रह्म-रूपतया । ब्रह्म । केवलम् । प्रतिभासते ॥ १ ॥
oṃ athāṅgirās trividhaḥ puruṣo 'jāyata—ātmā, antarātmā, paramātmā ceti. tvak-carma-māṃsa-roma-aṅguṣṭha-aṅgulyaḥ, pṛṣṭha-vaṃśa-nakha-gulpha-udara-nābhi-meḍhra-kaṭi-ūru-kapola-śrotra-bhrū-lalāṭa-bāhu-pārśva-śiraḥ-akṣīṇi bhavanti; jāyate mriyata ity eṣa ātmā. athāntarātmā nāma—pṛthivy-āpas-tejo-vāyur-ākāśam, icchādveṣa-sukha-duḥkha-kāma-moha-vikalpānādi-smṛti-liṅgodāttānudātta-hrasva-dīrgha-plutaḥ, khalita-garjita-sphuṭita-mudita-nṛtta-gīta-vāditra-pralaya-vijṛmbhitādibhiḥ śrotā ghrātā rasayitā netā kartā vijñānātmā puruṣaḥ; purāṇa-nyāya-mīmāṃsā-dharmaśāstrāṇīti śravaṇa-ghrāṇa-ākarṣaṇa-karma-viśeṣaṇaṃ karoty eṣo 'ntarātmā. atha paramātmā nāma yathākṣara upāsanīyaḥ. sa ca prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhi-yogānumānātma-cintakaḥ vaṭakaṇikā vā śyāmākatāṇḍulo vā vālāgra-śata-sahasra-vikalpanābhiḥ sa labhyate; nopalabhyate; na jāyate na mriyate; na śuṣyati na klidyate na dahyate; na kampate na bhidyate na chidyate; nirguṇaḥ sākṣibhūtaḥ śuddho niravayavātmā kevalaḥ sūkṣmo nirmamo nirañjano nirvikāraḥ; śabda-sparśa-rūpa-rasa-gandha-varjito nirvikalpo nirākāṅkṣaḥ sarvavyāpī; so 'cintyo nirvarṇyaś ca; punāty aśuddhāny apūtāni. niṣkriyas tasya saṃsāro nāsti. ātmasaṃjñaḥ śivaḥ śuddha eka evādvayaḥ sadā. brahmarūpatayā brahma kevalaṃ pratibhāsate ||1||
オーム。ついでアンギラスは宣言した。「人(プルシャ)は三重である。すなわち、アートマン(個我)、アンタラートマン(内なる自己)、パラマートマン(至上の自己)である。」皮膚・肉・毛、親指と指、背・脊柱、爪・足首、腹・臍、性器・腰・腿、頬・耳、眉・額、腕・脇・頭・眼が成り立つ。生まれ、そして死ぬ—これが身体としてのアートマンである。次に「内なる自己」とは、地・水・火・風・空であり、欲と嫌悪、楽と苦、貪り、迷妄、概念の構成、始まりなき記憶の痕跡であり、また高低の調べ、短・長・引き伸ばされた音であり、どもり、咆哮、破裂、歓喜、舞踊、歌、器楽、融解、拡がり等として—聞く者、嗅ぐ者、味わう者、導く者、行う者、認識の自己としての人である。さらにプラーナやニヤーヤ、ミーマーンサー、ダルマ・シャーストラに関わり、聴・嗅・引き寄せ・行為の諸機能を果たす—これがアンタラートマンである。さてパラマートマンとは、不滅の音節として礼拝されるべきもの。プラーナーヤーマ、プラティヤーハーラ、ダーラナー、ディヤーナ、サマーディ、ヨーガ、推理、自己観照によって—バニヤンの種子や黍の一粒のように微細に、あるいは髪の先を十万に分けたほどに想念して—それは得られるが、把握されない。生まれず死なず、乾かず湿らず、焼かれず、震えず、裂けず、切られない。属性なく、証人として立ち、清浄で、部分なき自己、ただ一つ、微妙で、我がものとせず、垢なく、変化しない。音・触・色・味・香を離れ、分別なく、希求なく、遍満する。思惟を超え、言説を超え、汚れたものも未浄のものも浄める。無為であるがゆえに、そこには輪廻(サンサーラ)はない。「自己」と名づけられ、吉祥なるシヴァ、清浄、唯一、常に不二—ブラフマンとして、ただブラフマンのみが顕現する。
Om. Then Āṅgiras declared that the person is threefold: the (individual) self, the inner self, and the supreme self. Skin, hide, flesh, hair, thumbs and fingers, back, spine, nails, ankles, belly, navel, genitals, waist, thighs, cheeks, ears, eyebrows, forehead, arms, sides, head, and eyes come to be; it is born and it dies—this is the self (as embodied individuality). Now, the ‘inner self’ is named as earth, waters, fire, wind, and space; as desire and aversion, pleasure and pain, lust, delusion, conceptual constructions, beginningless memory-marks; as high and low pitch, short, long, and protracted sounds; and as stammering, roaring, bursting, rejoicing, dancing, singing, instrumental music, dissolution, expansion, and the like—(as) hearer, smeller, taster, leader, doer, the cognitive self, the person; and it performs the specific functions of hearing, smelling, attraction, and action, and (engages) the Purāṇas, Nyāya, Mīmāṃsā, and Dharmaśāstras—this is the inner self. Now, the supreme self is to be worshiped as the imperishable syllable. And it is (sought) by prāṇāyāma, pratyāhāra, dhāraṇā, dhyāna, samādhi, yoga, inference, and contemplation of the self—(as subtle) as a banyan-seed, or a grain of millet, or by imagining it divided into a hundred thousand parts of the tip of a hair; it is attained—and (yet) not grasped; it is not born, it does not die; it does not dry, it does not become moist, it is not burned; it does not tremble, it is not split, it is not cut; it is without qualities, established as witness, pure, partless self, alone, subtle, without possessiveness, stainless, without modification; devoid of sound, touch, form, taste, and smell; free of conceptualization, without longing, all-pervading; it is unthinkable and indescribable; it purifies the impure and the unpurified. Being actionless, for it there is no saṃsāra. Named ‘Self’, auspicious, pure, one alone, ever non-dual—Brahman alone appears as Brahman-natured.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.