Opening the text
अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् । अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ । अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् । विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥३–६॥
अहम् । पञ्च-भूतानि । अ-पञ्च-भूतानि । अहम् । अखिलम् । जगत् । वेदः । अहम् । अ-वेदः । अहम् । विद्या । अहम् । अ-विद्या । अहम् । अजा । अहम् । अ-नजा । अहम् । अधः । च । ऊर्ध्वम् । च । तिर्यक् । च । अहम् । अहम् । रुद्रेभिः । वसुभिः । च । चरामि । अहम् । आदित्यैः । उत । विश्व-देवैः । अहम् । मित्रा-वरुणौ । उभौ । बिभर्मि । अहम् । इन्द्र-अग्नी । अहम् । अश्विनौ । उभौ । अहम् । सोमम् । त्वष्टारम् । पूषणम् । भगम् । दधामि । अहम् । विष्णुम् । उरु-क्रमम् । ब्रह्माणम् । उत । प्रजापतिम् । दधामि । अहम् । दधामि । द्रविणम् । हविष्मते । सु-प्राव्ये । यजमानाय । सुन्वते ।
ahaṃ pañcabhūtāny apañcabhūtāni | aham akhilaṃ jagat | vedo’ham avedo’ham | vidyāham avidyāham | ajāham anajāham | adhaś cordhvaṃ ca tiryak cāham | ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ | ahaṃ mitrāvaruṇāv ubhau bibharmy aham indrāgnī aham aśvināv ubhau | ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmy aham | viṣṇum urukramaṃ brahmāṇam uta prajāpatiṃ dadhāmi | ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate ||3–6||
我为五大,亦为非五大;我即全宇宙。我为吠陀,亦为非吠陀。我为明知,亦为无明。我为不生,亦为非不生。我在下、在上,亦横遍诸方。我与诸鲁陀罗(Rudra)及诸婆苏(Vasu)同行;与诸阿底提耶(Āditya)及一切众神(Viśvedevas)同行。我扶持密多罗(Mitra)与伐楼那(Varuṇa);我即因陀罗(Indra)与阿耆尼(Agni);我即双阿湿毗那(Aśvins)。我扶持苏摩(Soma)、工匠神特瓦什特利(Tvaṣṭṛ)、普善(Pūṣan)与福神婆伽(Bhaga)。我扶持广步之毗湿奴(Viṣṇu),以及梵天(Brahmā)并且生主(Prajāpati)。我赐财富于献供者,赐于受护持之祭主——那压榨苏摩者。
I am the five elements and the non-five-elements; I am the entire universe. I am the Veda and I am the non-Veda. I am knowledge and I am ignorance. I am the unborn and the not-unborn. I am below, above, and across (horizontally). I move with the Rudras and the Vasus; (I move) with the Ādityas and also with the Viśvedevas. I uphold both Mitra and Varuṇa; I am Indra and Agni; I am both Aśvins. I uphold Soma, Tvaṣṭṛ, Pūṣan, and Bhaga. I uphold Viṣṇu of wide stride, and Brahmā, and also Prajāpati. I bestow wealth upon the offerer of oblation, upon the well-protected sacrificer who presses (the soma).
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.