Opening the text
अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् । अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ । अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् । विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥३-६॥
अहम् । पञ्च-भूतानि । अपञ्च-भूतानि । अहम् । अखिलम् । जगत् । वेदः । अहम् । अवेदः । अहम् । विद्या । अहम् । अविद्या । अहम् । अजा । अहम् । अनजा । अहम् । अधः । च । ऊर्ध्वम् । च । तिर्यक् । च । अहम् । अहम् । रुद्रेभिः । वसुभिः । च । चरामि । अहम् । आदित्यैः । उत । विश्व-देवैः । अहम् । मित्रा-वरुणौ । उभौ । बिभर्मि । अहम् । इन्द्र-अग्नी । अहम् । अश्विनौ । उभौ । अहम् । अहम् । सोमम् । त्वष्टारम् । पूषणम् । भगम् । दधामि । अहम् । विष्णुम् । उरु-क्रमम् । ब्रह्माणम् । उत । प्रजापतिम् । दधामि । अहम् । अहम् । दधामि । द्रविणम् । हविष्मते । सु-प्राव्ये । यजमानाय । सुन्वते ।
ahaṃ pañcabhūtāny apañcabhūtāni | aham akhilaṃ jagat | vedo’ham avedo’ham | vidyāham avidyāham | ajāham anajāham | adhaś cordhvaṃ ca tiryak cāham | ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ | ahaṃ mitrāvaruṇāv ubhau bibharmy aham indrāgnī aham aśvināv ubhau | ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmy aham | viṣṇum urukramaṃ brahmāṇam uta prajāpatiṃ dadhāmi | ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate ||3–6||
我即五大元素,亦即非五大之所是。我即一切宇宙。我即吠陀,亦即非吠陀。我即明智,亦即无明。我即不生,亦即所谓“非不生”。我在下、在上,亦横遍十方。我与鲁陀罗众、与伐苏众同行;与阿底提耶众及一切天众(毗湿婆提婆)同行。我扶持密多罗与伐楼那;我即因陀罗与阿耆尼;我即双阿湿毗那。我安立苏摩、工匠神特瓦什特里、普善与福德神婆伽。我安立广步的毗湿奴、梵天以及生主波阇波提。我赐予财富于献供者,赐予受护持的祭主——那压榨苏摩者。
I am the five great elements and I am that which is not the five elements. I am the entire universe. I am the Veda and I am the non-Veda. I am knowledge and I am ignorance. I am the unborn and I am the not-unborn. I am below, above, and also across (in all directions). I move with the Rudras and the Vasus; (I move) with the Ādityas and also with the Viśvadevas. I uphold both Mitra and Varuṇa; I am Indra and Agni; I am both Aśvins. I place (establish) Soma, Tvaṣṭṛ, Pūṣan, and Bhaga. I place Viṣṇu of wide stride, and Brahmā, and also Prajāpati. I bestow wealth upon the offerer of oblation, upon the well-protected sacrificer who presses (the Soma).
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.