
本章以大黑天(Mahākāla)对迦罗ṇḍhama之问的答复为纲,展开一套条理分明的神学与伦理教诲。首先讨论诸神“高下”之辩:有人赞颂湿婆,有人礼敬毗湿奴或梵天为趋向解脱(mokṣa)之道。大黑天告诫不可轻率立定尊卑,并追述往昔奈弥沙林(Naimiṣāraṇya)诸仙求裁断之事,所闻皆为尊崇多种神圣形相的肯定之语。 继而详分罪业:意业、语业、身业三类;尤以敌视湿婆为果报极重。又从大罪(mahāpātaka)到次罪(upapātaka)层层列举,并及社会伦理之过,如欺诳、残酷、剥削、诽谤等。随后转入仪轨:虽为简略,却具技术细节的湿婆供养(Śiva‑pūjā)法——礼拜时辰、净化(含涂灰 bhasma)、入祠、清洁、净水器具(gaḍuka)、供品、禅观(dhyāna)、持诵真言(并明示根本真言 mūlamantra)、献水(arghya)、焚香点灯与供食(dhūpa‑dīpa‑naivedya)、旋灯礼(nīrājana),以及末后的赞颂与求恕之辞。 最后汇集居家奉行者之日常行持(ācāra):守晨昏礼(sandhyā)、谨言、身净之则、敬长与敬圣,并列诸多实用规矩以护持法(dharma)与增进灵修。章末诸天会集礼赞大黑天,确认灵伽(liṅga)及相关圣地(tīrtha)之名闻,并宣说听闻、诵读或依教供奉者所得功德。
Verse 1
करधम उवाच । केचिच्छिवं समाश्रित्य विष्णुमाश्रित्य वेधसम् । वर्णयंति परे मोक्षं त्वं तु कस्मात्तु मन्यसे
迦罗陀摩说道:“有人依止湿婆,有人依止毗湿奴,也有人依止韦陀诃(梵天),并宣说至上的解脱。然而你认为,成就解脱(mokṣa)的真实根本是什么?”
Verse 2
महाकाल उवाच । अपारवैभवा देवास्त्रयोऽप्येते नरर्षभ । योगींद्राणामपि त्वत्र चेतो मुह्यति किं मम
摩诃迦罗说道:“这三位天神威德无量,噫,众人之雄。在此事上,即便大瑜伽行者的心也会迷惘——更何况是我呢?”
Verse 3
पुरा किलैवं मुनयो नैमिषारण्यवासिनः । संदिह्यांतः श्रेष्ठतायां ब्रह्मलोकमुपागमन्
久远以前,住在奈弥沙林的诸牟尼,因疑惑谁为至上,便前往梵天界(Brahmaloka)。
Verse 4
तस्मिन्क्षणे विरिंचोऽपि श्लोकं प्रह्वोऽब्रवीत्किल । अनंताय नमस्तस्मै यस्यांतो नोपलभ्यते
就在那一刻,毗林叉(梵天)也谦恭俯首,据说诵出此偈:“顶礼那无尽者;其终极永不可得。”
Verse 5
महेशाय च भक्ते द्वौ कृपायेतां सदा मयि । ततः श्रेष्ठं च तं मत्वा क्षीरोदं मुनयो ययुः
“愿那二者——摩诃伊湿伐罗与其虔敬者——恒常怜悯于我。”于是诸牟尼认定彼境最为殊胜,便前往乳海(Kṣīroda)。
Verse 6
तत्र योगेश्वरः श्लोकं प्रबुध्यन्नमुमब्रवीत् । ब्रह्माणं सर्वभूतेषु परमं ब्रह्मरूपिणम्
在那里,瑜伽之主启发其悟,宣说此偈:“梵天遍住一切众生之中;彼即至上者,具足梵(Brahman)之真形。”
Verse 7
सदाशिवं च वंदे तौ भवेतां मंगलाय मे । ततस्ते विस्मिता विप्रा अपसृत्य ययुः पुनः
“并且我礼敬常住之湿婆(Sadāśiva);愿彼二者为我成就吉祥。”于是诸婆罗门仙人惊异不已,退避而复又离去。
Verse 8
कैलासे ददृशुः स्थाणुं वदंतं गिरिजां प्रति । एकादश्यां प्रनृत्यानि जागरे विष्णुसद्मनि
在迦罗娑山(Kailāsa),他们见到常住者斯陀努(湿婆)对吉丽迦(帕尔瓦蒂)开示言说。又于十一日斋(Ekādaśī),在毗湿奴之居处,守夜礼拜(jāgara)之中有奉献的舞演。
Verse 9
सदा तपस्यां चरामि प्रीत्यर्थं हरिवेधसोः । श्रुत्वेति चापसृत्यैव खिन्नास्ते मुनयोऽब्रुवन्
(他说:)“我恒常修行苦行,只为令诃利与韦陀诃斯(梵天)欢喜。”诸仙闻此,立刻退去,神情沮丧而发言。
Verse 10
यद्वा देवा न संयांति पारं ये च परस्परम् । तत्सृष्टसृष्टसृष्टेषु गणना काऽस्मदादिषु
若连诸天也不能抵达彼此的究竟边际,那么在由造化生造化、层层相续的诸创造之中——对我们这等众生,又何来可数可比?
Verse 11
उत्तमाधममध्यत्वममीषां वर्णयंति ये । असत्यवादिनः पापास्ते यांति निरयं ध्रुवम्
凡将这些神圣者说成“至高、卑下或居中”的人,皆是罪恶的妄语者,必定堕入地狱。
Verse 12
एवं ते निश्चियामासुर्नैमिषेया स्तपस्विनः । सत्यमेतच्च राजेंद्र ममापीदं मतं स्फुटम्
于是,奈弥沙的苦行圣贤作出如此定论:“此言确实真实,噢诸王之最胜;这也正是我清明无疑的见解。”
Verse 13
जापकानां सहस्राणि वैष्मवानां तथैव च । शैवानां च विधिं विष्णुं स्थाणुं चाप्यन्वमूमुचन्
成千上万的持诵者——无论毗湿奴派或湿婆派——都随从并敬奉毗提(梵天)、毗湿奴,以及斯塔努(湿婆)。
Verse 14
तस्माद्यस्य मनोरागो यस्मिन्देवे भवेत्स्फुटम् । स तं भजेद्विपापः स्यान्ममेदं मतमुत्तमम्
因此,凡人之心若清明地倾向于哪一位神祇——便当礼敬供奉那一位;其人将得脱离罪垢。这是我所持的至上定见。
Verse 15
करंधम उवाच । कानि पापानि विप्रेंद्र यैस्तु संमूढचेतसः । न वेदेषु न धर्मेषु रतिमापद्यते मनः
迦兰陀摩说道:噢,婆罗门中最殊胜者,哪些罪业会使人的心识迷乱,以致既不喜乐于《吠陀》,也不乐于正法(达摩)?
Verse 16
महाकाल उवाच । अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः । स्थूलाः सूक्ष्मा असूक्ष्माश्च कोटिभेदैरनेकशः
摩诃迦罗说道:不法(阿达摩)的种种分支,应依心识活动的差别而了知。它们繁多——粗重、微细与介于其间——以无量无数的形态显现。
Verse 17
तत्र ये पापनिचयाः स्थूला नरकहेतवः । ते समासेन कथ्यंते मनोवाक्कायसाधनाः
其中,那些粗重的罪聚,成为堕入地狱之因者,今当略说——即由意、语、身所造之业。
Verse 18
परस्त्रीद्रव्यसंकल्पश्चेतसानिष्टचिंतनम् । अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम्
意业有四:贪求他人妻或他人财物;心中思惟不善与损害之事;并执拗地系念于不当行之举。
Verse 19
अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत् । परापवादपैशुन्यं चतुर्धा कर्म वाचिकम्
语业有四:散乱轻浮之言;妄语;粗恶不悦之语;以及对他人之毁谤与背后中伤。
Verse 20
अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम् । परस्वानामुपादानं चतुर्धा कर्म कायिकम्
身业有四:食用禁食之物、行诸暴害、沉溺于非法欲乐、夺取他人之财。
Verse 21
इत्येतद्द्वादशविधं कर्म प्रोक्तं त्रिसंभवम् । अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम्
如是,源自三门(意、语、身)的十二种业已宣说。我将再述其细分差别;其果报无有穷尽。
Verse 22
ये द्विषंति महादेवं संसारार्णवतारकम् । सुमहात्पातकोपेतास्ते यांति नरकाग्निषु
凡憎恨摩诃提婆——渡众生越轮回大海者——皆负极重罪业,终入地狱烈火之中。
Verse 23
महांति पातकान्याहुर्निरंतरफलानि षट् । नाभिनंदंति ये दृष्ट्वा शंकरं न स्तुवंति ये
人们说有六种大罪,其果报相续不断。其中包括见到商羯罗而不生欢喜者,以及不赞颂他者。
Verse 24
यथेष्टचेष्टा निःशंकाः संतिष्ठंति रमंति च । उपचारविनिर्मुक्ताः शिवस्य गुरुसंनिधौ
在湿婆之师尊前,他们随意而行,无所疑惧:或立或嬉,脱离一切礼节与外在仪轨的拘束。
Verse 25
शिवाचारं न मन्यंते शिवभक्तान्द्विषंति षट् । गुरुमार्त्तमशक्तं वा विदेशप्रस्थितं तथा
有六类人不敬奉湿婆行仪,且憎恨湿婆的奉献者:当上师困厄时弃之,当上师无力时弃之,或当上师远赴他乡时弃之,诸如此类。
Verse 26
अरिभिः परिभूतं वा यस्त्यजति स पापकृत् । तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति वा
若有人在上师被仇敌羞辱之时弃师而去,此人即造罪;同样,若有人轻蔑自己的妻子、儿女或朋友,也是在犯过。
Verse 27
इत्येतत्पातकं ज्ञेयं गुरुनिंदासमं महत् । ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः
此罪当知为大过,与诋毁上师等同。杀害婆罗门者、饮酒者、盗窃者,以及玷污上师床榻者——
Verse 28
महापातकिनस्त्वेते तत्संसर्गी च पंचमः । क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य वदंति ये
这些确是大罪人(mahāpātakin);而与他们交往者,被算作第五类。那些因愤怒、憎恨、恐惧或贪欲而诋毁婆罗门的人——
Verse 29
मर्मांतिकं महादोषं ब्रह्मघ्नः स प्रकीर्तितः । ब्राह्मणं यः समाहूय याचमानमकिंचनम्
此人被宣称为“杀婆罗门者”——犯下刺痛心髓之大罪者——即那召唤一位正在乞求、贫穷一无所有的婆罗门之人,
Verse 30
पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा स्मृतः । यश्च विद्याभिमानेन निस्तेजयति सद्द्विजम्
若人先许诺而后言无,此即被视为杀婆罗门者。若因学识傲慢而令贤德婆罗门蒙羞失色者亦然。
Verse 31
उदासीनः सभामध्ये ब्रह्महा स प्रकीर्तितः । मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षतां बलात्
于集会中漠然置之者,被宣称为杀婆罗门者。以虚假功德强行抬高自己地位者亦然...
Verse 32
विरुद्धं गुरुभिः सार्धं ब्रह्मघ्नः स प्रकीर्तितः । क्षुत्तृष्णातप्तदेहानां द्विजानां भोक्तुमिच्छताम्
与上师对抗者,被称为杀婆罗门者。对于饥渴难耐、渴望进食的再生族婆罗门...
Verse 33
यः समाचरते विघ्नं तमाहुर्ब्रह्मगातकम् । पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः
制造障碍者被称为杀婆罗门者。搬弄是非、专以此寻觅众人过失者...
Verse 34
उद्वेगजननः क्रूरः स च वै ब्रह्महा स्मृतः । गवां तृषाभिभूतानां जलार्थमुपसर्पताम्
制造恐慌且残忍暴虐者,确被视为杀婆罗门者。尤其是阻碍干渴难耐之牛群饮水者。
Verse 35
यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् । परदोषं परिज्ञाय नृपकर्णे जपेत यः
凡故意制造障碍者,被称为“杀婆罗门者”;同样,明知他人过失而如密咒般低声传入国王耳中者,亦如是。
Verse 36
पापीयान्पिशुनः क्रूरस्तमाहुर्ब्रह्मघातकम् । न्यायेनोपार्जितं विप्रैस्तद्द्रव्यहरणं च यत्
那更为罪恶、残忍的搬弄是非者,被称为“杀婆罗门者”;同样,夺取婆罗门以正当之法所得之财物者亦然。
Verse 37
छद्मना वा बलाद्वापि ब्रह्महत्यासमं मतम् । अधीत्य यश्च शास्त्राणि परित्यजति मूढधीः
无论以欺诳或以强力,此等行径皆被认为等同于梵杀罪(brahmahatyā)。又有愚迷之见者,既已研习诸论典(śāstra)却复弃之,亦同受谴责。
Verse 38
सुरापानसमं ज्ञेयं जीवनायैव वा पठेत् । अग्निहोत्रपरित्यागः पंचयज्ञोपकर्मणाम्
当知此亦等同于饮酒——若人诵读经典只为谋生。又如舍弃火供(Agnihotra)以及与五大祭(pañca-yajña)相关的诸行仪轨,亦复如是。
Verse 39
मातृपितृपरित्यागः कूटसाक्षी सुहृद्वधः । अभक्ष्यभक्षणं वन्यजंतूनां काम्यया वधः
弃舍父母、作伪证、杀害友人、食用禁物、以及因欲望而猎杀野生众生——皆为重罪。
Verse 40
ग्रामं वनं गवावासं यश्च क्रोधेन दीपयेत् । इति घोराणि पापानि सुरापानसमानि च
凡人若因嗔怒而焚烧村落、森林或牛舍——此等可怖之罪,皆被视为与饮酒之罪等同。
Verse 41
दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् । गोभूरत्नसुवर्णानामौषधीनां रसस्य च
夺取无依者全部生计——掳走男女、象与马;夺取牛、土地、珠宝与黄金;窃取药物与珍贵精华——皆为重罪。
Verse 42
चंदनागरुकर्पूरकस्तूरीपट्टवाससाम् । हस्तन्यासापहरणं स्कमस्तेयसमं स्मृतम्
夺取檀香、沉香、龙脑、麝香、细绸与华服——并窃取他人因信任而置于你手中的托付之物——被宣说为等同于最恶之盗。
Verse 43
कन्यानां वरयोग्यानामदानं सदृशे वरे । पुत्रमित्रकलत्रेषु गमनं भगिनीषु च
不将已至婚龄的少女许配给相称之夫——并与儿媳、友人妻,或与自己的姊妹行淫乱——皆为重罪。
Verse 44
कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् । सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम्
强暴处女、与被视为贱民之女相交合、并亲近本族近亲之妇——皆被铭记为与玷污师长之床同等沉重的罪。
Verse 45
द्विजायार्थं प्रतिश्रुत्य न प्रयच्छति यः पुनः । न च चस्मारयते विप्रं तुल्यं तदुपपपातकम्
若有人曾许诺为“二次生者”(婆罗门)奉献某物,却又不施与,甚至不提醒、不履行对婆罗门的承诺,此即被视为同类的优波波多迦(严重的附属罪)。
Verse 46
अभिमानोतिकोपश्च दांभिकत्वं कृतघ्नता । अत्यंतविषयासक्तिः कार्पण्यं शाठ्यमत्सरम्
傲慢与暴怒,伪善与忘恩;对感官境界的极度贪著,吝啬、欺诈与嫉妒——皆被斥为可憎之性。
Verse 47
भृत्यानां च परित्यागः साधुबंधुतपस्विनाम् । गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च ताडनम्
抛弃所依赖之人,远离贤善、亲族与苦行者之伴;又殴打牛、刹帝利、吠舍、妇女与首陀罗——皆被斥为可责之行。
Verse 48
शिवाश्रमतरूणां च पुष्पारामविनाशनम् । अयाज्यानां याजनं चाप्ययाच्यानां च याचनम्
毁坏湿婆道场(阿湿罗摩)之树木,摧残花园;为不应受祭者主持祭祀,又向不当乞求者乞讨——皆被斥为可责之业。
Verse 49
यज्ञारामतडागादिदारापत्यस्य विक्रयः । तीर्थयात्रोपवासानां व्रतायतनकर्मणाम्
出卖祭祀之园、池塘等物,甚至卖妻卖子;并将朝圣圣地(提尔塔)之行、斋戒(优婆婆娑)以及与誓戒(弗罗多)及其圣所相关之功业加以牟利与贩卖——皆列为受谴责之行。
Verse 50
स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः । अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम्
依靠女子之财而活,因失去自制而被女子彻底制伏,不护持妇女,饮用醉人之酒,并以欲念与女子厮混——此等皆为可诃责之行。
Verse 51
ऋणानामप्रदानं च मिथ्याघृद्ध्युपजीवनम् । निंदितानां धनादानं साद्वीकन्योक्तिदूषणम्
不偿还债务,以虚妄与贪欲谋生,将财物施与受谴责之恶人,并诋毁贤德妇女或清净处女之言——此皆为应受呵责之罪行。
Verse 52
विषमारणयंत्राणां प्रोयगो मूलकर्मणाम् । उच्चाटनाभिचाराश्च रागविद्वेषणक्रिया
使用毒杀之器具,修习以草根为本的邪术,行驱逐之仪与黑咒之术,并作煽动贪爱或仇恨之行——此皆被判为可憎可责。
Verse 53
जिह्वाकामोपभो गार्थं यस्यारंभः स्वकर्मसु । मूल्येनाध्यापयेद्यस्तु मूल्येनाधीयते च ये
凡为口腹之乐与欲望之享而起诸业者;以及以酬金授业者,亦以酬金求学者——皆被列为受讥之行。
Verse 54
व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम् । असच्छास्त्राभिगमनं शुष्कतर्काव लंबनम्
离弃吠陀戒律而如弃民般生活,舍弃神圣誓戒,百食不择而尽啖,趋向伪经邪典,并执著于枯槁诡辩——此皆被斥为不净之生途。
Verse 55
देवाग्निगुरुसाधूनां निंदा गोब्राह्मणस्य च । प्रत्यक्षं वा परोक्षं वा राज्ञां मंडलिनामपि
诽谤诸天、祭祀圣火(阿耆尼)、师长与圣贤;同样辱骂母牛与婆罗门——无论当面或背后——乃至恶言毁谤国王与诸侯统治者,皆被斥为罪业之行。
Verse 56
उत्सन्नपतृदेवेज्याः स्वकर्मत्यागिनश्च ये । दुःशीला नास्तिकाः पापा न सदा सत्यवादिनः
凡怠慢祖灵与诸天之祭祀,弃舍本分之业,行止败坏,不信正法(那斯提迦),罪恶深重,且不恒守真实之言者——此等之人皆被谴责。
Verse 57
पर्वकाले दिवा चाप्सु वियोनौ पशुयोनिषु । रजस्वलास्वयोनौ च मैथुनं यः समाचरेत्
凡在禁时、白昼、水中,以违逆常法之方式行淫,或与禽兽交合,或与经期女子交合者——此等行径皆被斥为罪业。
Verse 58
स्त्रीपुत्रमित्रसुहृदामाशाच्छेदकराश्च ये । जनस्याप्रियवक्तारः क्रूराः समयभेदिनः
凡摧折妻子、子女、朋友与善意之人的希望者;口出众人所憎之言者;性情残酷者;以及破坏盟约、背弃信义之法度者——皆被视为罪人。
Verse 59
भेत्ता तडागकूपानां संक्रमाणांरसस्य च । एकपंक्तिस्थितानां च पाकभेदं करोति यः
凡毁坏池塘与井泉,扰乱公共渡口与水利设施;或在同席共食之列中分割烹煮与食分、制造差别者——此人被谴责定罪。
Verse 60
इत्येतैश्च नराः पापैरुपपातकिनः स्मृताः । युक्तास्तदुनकैः पापैः पापिनस्तान्निबोध मे
因此,由于这些罪业,人们被称为 upapātakin(犯次等罪者)。你当从我明了:凡与此类及相似罪业相系者,皆应视为罪人。
Verse 61
ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् । अन्तरं यांति कार्येषु ते स्मृताः पापिनो नराः
凡干预牛、婆罗门与处女之事者;又在主人、友人及苦行者之事中制造隔阂与障碍者——此等之人被宣说为有罪。
Verse 62
परश्रियाभितप्यंते हीनां सवंति ये स्त्रियाम् । पंक्त्यर्थं ये न कुर्वंति दानयज्ञादिकाः क्रियाः
凡见他人兴盛而心生嫉火者;与被禁或卑下之女生育者;以及不为共同之宗教义务而行布施、祭祀等行者——此等之人皆受谴责。
Verse 63
गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च । त्यजंति ये पुरीषाद्यमारामायतनेषु च
凡在牛棚、火旁、水中、道路上、树荫下、山间,以及园林与寺院境内排泄粪秽等者——以不净与罪业而受谴责。
Verse 64
गीतवाद्यरता नित्या मत्ताः किलकिलापराः । कूटवेषक्रियाचाराः कूटसंव्यवहारिणः
凡恒常沉溺歌舞与乐器,长久醉迷而喧嚣无义者;又以伪装行事、以欺诳为行、以诈术交易者——皆被谴为败坏正法(dharma)之人。
Verse 65
कूटशासनकर्तारः कूटयुद्धकराश्च ये । निर्दयोऽतीव भृत्येषु पशूनां दमनश्च यः
凡制定欺诈法令、策划背信之战者;对仆从极其残忍者;并摧残折磨众生禽畜者——此等之人,皆与正法之秩序相违。
Verse 66
मिथ्याप्रसादितो वाक्यमाकर्णयति यः शनैः । चपलश्चापिमायावी शठो मिथ्याविनीतकः
被虚伪奉承所收买而迟迟才肯听取劝言者;轻浮多变、诡诈多计、狡黠奸佞、只是假装谦卑者——智者斥之为不堪行持正法之人。
Verse 67
यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् । भृत्यानतिथिबंधूंश्च त्यक्त्वाश्राति बुभुक्षितान्
若有人弃妻子儿女与友人不顾,轻慢幼者、老者、羸弱者与病者;又抛却仆从、来宾与亲族,而在他们饥饿之时独自进食——此人违犯居士之法(家住者之达摩)。
Verse 68
यः स्वयं मृष्टमश्राति विप्रायान्यत्प्रयच्छति । वृथापाकः स विज्ञेयो ब्रह्मवादिविगर्हितः
若有人自食精美佳肴,却以次等之物施与婆罗门(brāhmaṇa)——当知此人烹饪徒然,必为护持圣真之人所讥责。
Verse 69
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः । ये ताडयंति गां नित्यं वाहयंति मुहुर्मुहुः
凡自取戒律而又弃之者,因诸根未伏;又凡常常鞭打牛畜、屡屡驱使其负重者——此等行径被宣为可责,违背自制之正法。
Verse 70
दुर्बलान्नैव पुष्णंति प्रणष्टार्था द्विषंति च । पीडयन्त्यभिचारेण सक्षतान्वाहयंति च
他们不扶持弱者;财物失散时便生怨恨。又以恶意的咒仪折磨他人,甚至逼伤者负重——此等之人堕入沉重的不义(阿达摩)。
Verse 71
तेषा मदत्त्वा चाश्रंति चिकित्संति न रोगिणः । अजाविको माहिषिकः समुद्री वृषलीपतिः
他们饮酒至醉而后哀号;也不医治病者。此处又列举堕落行径的标记:牧养山羊绵羊者、牧水牛者、航海之人,以及娶首陀罗女子为妻者——皆在此被点出。
Verse 72
हीनवर्णात्मवृत्तिश्च वैद्यो धर्मध्वजी च यः । यश्च शास्त्रमतिक्रम्य स्वेच्छयैवाहरेत्करम्
以低等阶序之业为生者;不受达摩约束而行医者;以宗教为旗帜而内怀虚伪者;以及违越《沙斯特拉》、凭一己私意征税者——此等皆在此被斥为破坏正法之人。
Verse 73
सदा दण्डरुचिर्यश्च यो वा दण्डरुचिर्न हि । उत्कोचकैरधिकृतैस्तस्करैस्च प्रपीड्यते
无论此人恒常迷恋刑罚,或全然不喜刑罚——都要受贪赃受贿的官吏与盗贼的骚扰压迫。
Verse 74
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः । अचौरं चौरवत्पश्येच्चौरं वाऽचौररूपिणम्
若一位国王使其国中百姓在地狱般受苦,犹如被“烹煮”——那正是把无罪者判作盗贼,或把盗贼当作无盗(伪装清白)之人。
Verse 75
आलस्योपहतो राजा व्यसनी नरकं व्रजेत् । एवमादीनि चान्यानि पापान्याहुः पुराविदः
被懒惰所伤的国王,以及沉溺诸恶习者,必堕地狱。通晓古传者亦说还有其他同类罪业。
Verse 76
यद्वातद्वा परद्रव्यमपि सर्षपमात्रकम् । अपहृत्य नरः पापो नारकी नात्र संशयः
无论是什么——若罪人盗取他人财物,哪怕仅如芥子之微,也必成堕狱之人;对此毫无疑问。
Verse 77
एवमाद्यैर्नरः पापैरुत्क्रान्तैः समनंतरम् । शरीरं यातनार्थाय पूर्वाकारमवाप्नुयात्
若人带着此类罪业等而离世,便会立刻再得先前同类之身,以受诸苦刑。
Verse 78
तस्मात्त्रिविधमप्येतन्नारकीयं विवर्जयेत् । सदाशिवं च शरणं व्रजेत्सच्छ्रद्धया युतः
因此,当远离这三种导向地狱的行径;并以真实信心,归依常住吉祥的萨达湿婆(Sadāśiva)。
Verse 79
नमस्कारः स्तुतिः पूजा नामसंकीर्तनं तथा । संपर्कात्कौतुकाल्लोभान्न तस्य विफलं भवेत्
顶礼、赞颂、供奉与称念圣名——对一人而言,这些都不会徒然无果,即便只是因接触随喜、因好奇,乃至因贪求而行。
Verse 80
करंधम उवाच । संक्षेपाच्छिवपूजाया विधानं वक्तुमर्हसि । कृतेन येन मनुजः शिवपूजाफलं लभेत्
迦兰陀摩说道:“请你简要宣说礼敬湿婆的正当仪轨;依此奉行之人,便能获得礼拜湿婆之果报。”
Verse 81
महाकाल उवाच । प्रातर्मध्याह्नसायाह्ने शंकरं सर्वदा भजेत् । दर्शनात्स्पर्शनान्मर्त्यः कृततृत्यो भवेत्स्फुटम्
摩诃迦罗说道:“清晨、正午与傍晚,当恒常礼敬商羯罗。仅以瞻礼其圣容,并触及(林伽/圣徽)之故,凡人便分明成为已尽本分者。”
Verse 82
आदौ स्नानं प्रकुर्वित भस्मस्नानमथापि वा । आपद्गतः कण्ठस्नानं मन्त्रस्नानमथापि वा
首先当行沐浴清净:或以水沐浴,或以圣灰(bhasma)沐浴亦可。若遭急难,可作“颈浴”(局部净洗),甚至可作“真言浴”,以咒语而净化。
Verse 83
आविकं परिदध्याच्च ततो वासः सितं च वा । धातुरक्तमथो नव्यं मलिनं संधितं न च
应先披羊毛之衣,继而着白衣。亦可用矿物赤色所染之衣;但须新净不污,且不可缝补拼接。
Verse 84
उत्तरीयं च संदध्याद्विना तन्निष्फलार्चनम् । भस्मत्रिपुण्ड्रधारी च ललाटे हृति चांसयोः
亦当披上上衣;若无此,则供奉无果。佩持圣灰三道纹(tripuṇḍra)者,应将其印于额、胸与双肩之上。
Verse 85
पूजयेद्यो महादेवं प्रीतः पश्यति तं मुहुः । सर्वदोषान्बहिः क्षिप्य शिवायतनमाविशेत्
凡礼敬大天(Mahādeva)者,心怀欢喜而屡屡瞻仰其圣容;将一切过失弃于门外,然后当入湿婆之居所(圣殿)。
Verse 86
प्रविश्य च प्रणम्येशं ततो गर्भगृहं विशेत् । पाणी प्रक्षाल्य तच्चित्तो निर्माल्यमवरोपयेत्
入内先礼拜主宰,继而进入胎藏殿(garbhagṛha,内殿)。洗净双手,摄心专注,当撤去先前所供之供物(nirmālya)。
Verse 87
येन रुद्रायते भक्त्या कुरुते मार्जनक्रियाम् । तस्मान्मार्जयते त्वेवं स्थाणुनैतत्परस्परम्
凭那使行者以虔敬而“如同鲁陀罗”并行净拭之仪的信爱,由此信爱,恒住不动之主——斯他努(Sthāṇu)——仿佛也被净拭;然究其实,并非彼此作真实的清洗。
Verse 88
रुद्रभक्त्या च संतिष्ठेनमालिन्यं मार्जयेत्ततः । भक्तिर्देवस्य तिष्ठेन्न मालिन्यं मार्जतः सदा
当以对鲁陀罗的信爱坚定而立,继而拂除诸般垢秽。因为对主的信爱常住;而恒常从事净拭供奉之人,垢染不复停留。
Verse 89
गडुकान्पूरयेत्पश्चान्निर्मलेन जलेन वै । गडुकास्तु समाः सर्वे सर्वे च शुभदर्शनाः
随后,当以清净之水注满诸水罐(gaḍuka)。诸罐当大小齐一,且皆形相端严吉祥,令人见之生善。
Verse 90
निर्व्रणाः सौम्यरूपाश्च सर्वे चोदकपूरिताः । वस्त्रपूतजलैः पूर्णागन्धधूपैश्च वासिताः
应当无裂无瑕,形相柔和悦目,皆盛满清水——以布滤过之水充盈,并以芬芳与香烟熏染其香。
Verse 91
क्षालिताः पूरिता नीताः षडक्षरजपेन च । गडुकाष्चशतं कुर्यादथवाप्यष्टविंशतिः
当先洗净、注满并携入(以供奉),同时持诵六字真言;应陈设一百只gaḍuka水罐,或至少二十八只。
Verse 92
अष्टादशापि चतुरस्ततोन्यूनं न कारयेत् । पयो दधि घृतं चैव क्षौद्रमिक्षुरसं तथा
或可作十八只,或作四只;但不可少于此数。(并当备办)乳、酪、酥油、蜂蜜,以及甘蔗汁。
Verse 93
एवं सर्वं च तद्द्रव्यं वामतः संन्यसेद्भवात् । ततो बहिर्विनिष्क्रम्य पूजयेत्प्रतिहारकान्
如是,应将一切供具安置于主尊“婆伐”(Bhava)之左。随后出至外侧,礼敬诸侍从与守门者(pratihāraka)。
Verse 94
सर्वेषां वाचका मन्त्राः कथ्यंतेऽतः परं क्रमात्
今当依其次第,宣说能召请并表征一切(所需诸神与诸仪轨要素)的诸咒。
Verse 95
ओंगं गणपतये नमः ओंक्षां क्षेत्रपालाय नमः ओंगं गुरुभ्यो नमः इति आकाशे ओंकौं कुलदेव्यै नमः ॐ नंदिने नमः ओंमहाकालाय नमः ओंधात्रे विधात्रै नमः । ततः प्रविस्य लिंगाच्च किञ्चिद्दक्षिणतः शुचिः । उदङ्मुखः क्षणं ध्यायेत्समकायासनस्थितः
“唵伽ṃ,礼敬伽那帕提(象头神)。唵刹āṃ,礼敬刹特罗帕罗——圣域守护者。唵伽ṃ,礼敬诸师(Guru)。”随后,于旷朗虚空中诵:“唵考ṃ,礼敬家族女神”;并诵:“唵,礼敬难丁(Nandin);唵,礼敬摩诃迦罗(Mahākāla);唵,礼敬达特利(Dhātṛ)与毗达特利(Vidhātṛ)。”继而入殿,身心清净,立于林伽右侧稍许,面向北方,端身安坐于坐法中,刹那观想静修。
Verse 96
दर्भादिभिः परिवृतं मध्यपद्मार्कमंडलम् । सोममण्डलमध्यस्थं ध्यायेद्वै वह्निमंडलम्
应观想日轮曼荼罗:中央为莲华,周匝以达婆草等清净之物环绕;又于月轮曼荼罗的中心,入定观想炽然的火轮曼荼罗。
Verse 97
तन्मध्ये विश्वरूपं च वामाद्यष्टादिशक्तिकम् । पंचवक्त्रं दशभुजं त्रिनेत्रं चंद्रभूषितम्
于其中间,当观想主宰之宇宙身(毗湿瓦鲁帕,Viśvarūpa),具足自“瓦玛”(Vāmā)起的八方八力;五面、十臂、三目,并以月轮为庄严。
Verse 98
वामांकगिरिजं देवं ध्यायेत्सिद्धैः स्तुतं मुहुः । ततः पूर्वं प्रदद्याच्च पाद्यार्घं शंभवे नृप
当再三观想那位神祇:左侧拥持吉丽迦(Girijā,帕尔瓦蒂),常为诸悉地者(Siddha)所赞颂。随后,王啊,先当奉献给商婆(Śambhu,湿婆)以足洗水(pādya)与供敬水(arghya)。
Verse 99
पानीयमक्षता दर्भा गंधपूष्पं ससर्पिषम् । क्षीरं दधि मधु पुनर्नवांगोऽर्घः प्रकीर्तितः
清水、阿克沙塔(akṣata,完整谷粒)、达婆草、香与花并酥油;再加牛乳、凝乳(酸乳)与蜂蜜——此即所称九支供敬水(九种 arghya)。
Verse 100
ततः श्रद्धार्द्रचित्तस्य स्नानं लिंगस्य चाचरेत् । गृहीत्वा गडुकं पूर्वं मलस्नानं समाचरेत्
随后,以信心润泽柔和之心,应为林伽行沐浴之礼。先取水罐(gaḍuka),再行除垢净浴(malasnāna)。
Verse 101
अर्द्धेन स्नापयेत्पूर्वं कुर्याच्च मलघर्षणम् । सर्वेण स्नापयेत्पश्चात्पूजयेत्स्नापयेत्ततः
先以部分之水为(林伽)沐浴,并行摩拭以除垢。继而以全量之水沐浴;随后礼拜供奉——并依仪轨再行沐浴。
Verse 102
प्रणम्य च ततो भक्त्या स्नापयेन्मूलमंत्रतः । ओंहूं विश्वमूर्तये शिवाय नम । इति द्वादशाक्षरो मूलमंत्रः
随后,怀敬信而顶礼,应以根本真言为(林伽)沐浴:“唵 吽——敬礼宇宙形相之湿婆(Oṃ hūṃ viśvamūrtaye śivāya namaḥ)。”此即所称十二音节根本真言。
Verse 103
वारिक्षरदधिक्षौद्रघृतेनेक्षुरसेन च । स्नापयेन्मूलमन्त्रेण जलधूपार्चनात्पृथक्
以清水、糖、酸乳(dadhi)、蜂蜜、酥油(ghee)及甘蔗汁等,应以根本真言为(林伽)沐浴——此与另行供水、供香与正式礼拜之诸仪分别而行。
Verse 104
गडुकैः स्नापयेत्सर्वैः स्नातं गन्धैर्विरूक्षयेत्
应以诸水器(gaḍuka)尽皆为(神尊)沐浴;沐浴毕,当以芬芳之物轻柔拭干并作净饰。
Verse 105
विरूक्षितं ततः स्नाप्य श्रीखण्डेन विलेपयेत् । पूजयेद्विविधैः पुष्पैर्विधिना येन तच्छृणु
随后待其晾干,再次沐浴,并以檀香膏涂抹。应依正法仪轨,以种种花供养礼拜——请聆听其法。
Verse 106
आग्नेयपादे ओंधर्माय नमः नैरृतके ओंज्ञानाय नमः वायव्ये ओंवैराग्याय नमः ईशानपादे ओंऐश्वर्याय नमः पूर्वपादे ओंअधर्माय नमः दक्षिणे ओंअज्ञानाय नमः पश्चिमे ओंअवैराग्याय नमः उत्तरे ओंअनैश्वर्याय नमः ओंअनन्ताय नमः ओंपद्माय नमः ओंअर्कमण्डला नमः ओंसोममण्डलाय नमः ओंवह्निमण्डला नमः ओंवामाज्येष्ठादिपंचमन्त्रशक्तिभ्यो नमः ओंपरमप्रकृत्यै देव्यै नमः ओंईशानतत्पुरुषाघोरवामदेवसद्योजातपञ्चवक्त्राय रुद्रसाध्यवस्वादित्यविश्वेदेवादिदेवविश्वरूपाय अण्डजस्वेदजोद्भिज्जजरायुजरूपस्थावरजङ्गममूर्तये परमेश्वराय ओंहूं विश्वमूर्तये शिवाय नमस्त्रिशूलधनुःखड्गकपालदण्डकुठारेभ्यः
于东南之足:“唵,礼敬法(Dharma)”;于西南:“唵,礼敬智(Jñāna)”;于西北:“唵,礼敬离欲(Vairāgya)”;于东北:“唵,礼敬自在主权(Aiśvarya)”。于东方:“唵,礼敬非法(Adharma)”;于南方:“唵,礼敬无明(Ajñāna)”;于西方:“唵,礼敬不离欲(Avairāgya)”;于北方:“唵,礼敬无自在(Anaiśvarya)”。礼敬阿难多(Ananta);礼敬莲华;礼敬日轮、月轮与火轮;礼敬以瓦玛(Vāmā)与耶什提哈(Jyeṣṭhā)为首之五真言诸Śakti之力;礼敬至上本性之女神(Paramaprakṛti);礼敬五面主——伊沙那、怛特普鲁沙、阿伽罗、瓦玛提婆、萨德约迦塔——其为宇宙之相、诸神之神,具一切动静众生之形,卵生、汗生、芽生、胎生皆摄;礼敬宇宙之身的湿婆,并礼敬其三叉戟、弓、剑、颅器、杖与斧。
Verse 107
ततो जलाधारमुखे चण्डीश्वराय नमः । एवं संपूज्य विधिवत्ततोऽर्घं संनिवेशयेत्
随后于盛水器之口处,奉献:“礼敬旃提湿伐罗(Caṇḍīśvara)。”如是依仪供奉之后,即应安置阿尔伽供(arghya)。
Verse 108
पानीयमक्षताः पुष्पमेतैर्युक्तं फलोत्तमैः । गृहाणार्घ्यं महादेव पूजासंपूर्तिहेतवे
以清水、阿克沙塔(不碎净米)与花,并配以上妙果品而奉献。噢摩诃提婆(Mahādeva),愿你纳受此阿尔伽供,使礼拜圆满成就。
Verse 109
अर्घादनंतरं शक्तः पूजयेद्वसुपूजया । धूपं दीपं च नैवेद्यं क्रमात्पश्चान्निवेदयेत्
阿尔伽供之后,若有能力,应行“伐苏供养”(vasu-pūjā,供奉诸伐苏/随从神众)。随后依次奉上香、灯与食供(naivedya)。
Verse 110
घण्टां च वादयेत्तत्र ततो नीराजनं चरेत् । भ्रामयेद्देवदेवस्य शंखवादित्रनिःस्वनैः
于彼处先当鸣钟;继而行尼罗阇那(摇转灯火供养)。伴随海螺与诸乐器的回响之声,当在天神之主——天中天之前绕行致敬。
Verse 111
नीराजनं च यः पश्ये द्देवदेवस्य शूलिनः । स मुच्येत्पातकैः सर्वैः किं पुनर्यः करिष्यति
凡得见天中天、执三叉戟之主的尼罗阇那者,皆能解脱一切罪垢——何况亲自奉行此仪者,其功德更不可量!
Verse 112
नृत्यं गीतं च वाद्यं च अलीकमपि यश्चरेत् । तस्य तुष्येदनंतंहि गीतवाद्यफलं यतः
即便有人舞蹈、歌咏与奏乐并不圆满,阿难多亦为之欢喜;因为由虔敬所奉献的歌声与乐音,能生起歌乐供养之果报。
Verse 113
स्तोत्रैस्ततश्च संस्तूय दण्डवत्प्रणमेद्भुवि । क्षमापयेच्च देवेशं सुकृतं कुकृतं क्षम
继而以赞颂偈(斯多多罗)称扬圣主,当在地上作全身投地礼(丹达瓦特)。并向天神之主祈求宽恕:“愿您赦宥我之善业与恶业。”
Verse 114
य एवं यजते रुद्रमस्मिंल्लिंगे विशेषतः । पितरं पितामहं चैव तथैव प्रपितामहम्
凡以殊胜虔敬于此林伽中礼拜鲁陀罗者,能令其父、其祖父,乃至其曾祖父同得欢喜与超拔。
Verse 115
सर्वात्पापात्समुत्तार्य रुद्रलोके वसेच्चिरम् । एवं माहेश्वरो भूत्वा सदाचारव्रतस्थितः
从一切罪业中被拔济出来,他久住于鲁陀罗之界。如此,成为真正归依摩诃伊湿伐罗者,安住于正行之誓,便证得彼等境界。
Verse 116
पशुपाशविमोक्षार्थं पूजयेत्तन्मना यदि । य एवं यजते रुद्रं तेनैतत्तर्पितं जगत्
若以专注于祂的心,为解脱被缚之“兽”(paśu,众生之灵)脱离“绳索”(pāśa,系缚)而礼拜;凡如是祭敬鲁陀罗者,由其功德,此整个世界宛如得以满足并滋养。
Verse 117
किं त्वेतत्सफलं राजन्नाचारयो न लंघयेत् । आचारात्फलते धर्मो ह्याचारात्स्वर्गमश्नुते
然而要使此事结果,王啊,不可逾越正当行持。由行持而法(dharma)得以结实;确然,凭行持而得生天界。
Verse 118
आचाराल्लभते ह्यायुराचारो हंत्यलक्षणम् । यज्ञदानतपांसीह पुरुषस्य न भूतये
由正行可得长寿;正行能摧灭不祥。然而在此世,祭祀、布施与苦行若离于正行,便不能使人获得真实的兴盛。
Verse 119
भवन्ति यः सदाचारं समुल्लंघ्य प्रवर्तते । तस्य किञ्चित्समुद्देशं वक्ष्ये तं श्रृणु पार्थिव
至于那等轻慢善行、任意而行之人——关于此类之辈,我将略述其概;请听之,大地之主。
Verse 120
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना । तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च
居家之人当勤修人生三义(法 dharma、利 artha、欲 kāma)。若能如法成就,居士于此世与来世皆得圆满成功。
Verse 121
ब्राह्मे मुहूर्ते बुध्येन धर्मार्थौ चापि चिन्तयेत् । समुत्थाय तथाचम्य दंतधावनपूर्वकम्
于梵时(brāhma-muhūrta),以清明之慧当思惟法(dharma)与利(artha)。随后起身行阿遮摩那(ācamana)净礼,并先洁齿。
Verse 122
सन्ध्यामुपासीत बुधः संशांतः प्रयतः शुचिः । पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम्
智者当安寂、克己而清净,修行三昧时分之礼(sandhyā)。晨间之sandhyā在群星尚见时行之;暮间之sandhyā在日轮犹在时行之。
Verse 123
उपासीत यथान्यायं नैनां जह्यादनापदि । वर्जयेदनृतं चासत्प्रलापं परुषं तथा
当依正法仪则而修,不遇急难则不应废弃。亦当远离虚妄、无益而不实之谈,以及粗厉之言。
Verse 124
असत्सेवां ह्यसद्वादं ह्यसच्छास्त्रं च पार्थिव । आदर्शदर्शनं दंतधावनं केशसाधनम्
大王啊,当远离恶人之交、虚妄之言与惑乱之教。亦当戒除不合仪、不合时之举,如照镜、洁齿与整饰发髻。
Verse 125
देवार्चनं च पूर्वाह्णे कार्याण्याहुर्महर्षयः । पालाशमासनं चैव पादुके दंतधावनम् । वर्जयेदासनं चैव पदा नाकर्षयेद्बुधः
大圣贤宣说:供奉诸天应在上午、未至正午之时行之。应坐于帕拉沙木(palāśa)之座,穿履,并依正法洁齿。智者当避对坐具之不敬,亦不可用脚拖拽其座。
Verse 126
जलमग्निं च निनयेद्यगपन्न विचक्षणः
明辨之人不应疏忽使水与火相触,也不应举止紊乱、行事失当。
Verse 127
पादौ प्रसारयेन्नैव गुरुदेवाग्निसंमुखौ । चतुष्पथं चैत्यतरुं देवागारं तथा यतिम्
不可在师尊、诸天或圣火之前伸展双足。同样,也当敬重四衢路口、圣树(祠树)、神庙,以及苦行者。
Verse 128
विद्याधिकं गुरुं वृद्धं कुर्यादेतान्प्रदक्षिणान्
对于学识卓越者、自己的师长以及可敬的长者,应以恭敬之心行右绕礼(pradakṣiṇā)。
Verse 129
आहारनीहारविहारयोगाः सुसंवृता धर्मविदानुकार्याः । वाग्बुद्धिवीर्याणि तपस्तथैव वार्तायुषी गुप्ततमे च कार्ये
饮食、排泄等身行作息、娱乐与修持之法,当善加节制,随顺通达达摩之人。言语、智慧与精力亦当摄持;应修苦行,说利益之语,并将最机密之事严密守护。
Verse 130
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः । दक्षिणाभिमुखो रात्रौ ह्येवमायुर्न रिष्यते
无论小便或大便,白日应面向北方;夜间应面向南方。如此则元气与寿命不受损害。
Verse 131
प्रत्यग्निं प्रति सूर्यं च प्रति गां व्रतिनं प्रति । प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः
若小便时面向圣火(阿耆尼)、太阳、母牛、持戒行者(誓行者)、苏摩圣水,或面向暮昏礼拜(sandhyā),则其辨慧据说将败坏消失。
Verse 132
भोजने शयने स्थाने उत्सर्गे मलमूत्रयोः । रथ्याचंक्रमणे चार्द्रपञ्चकश्चाचमेत्सदा
饭后、卧后、移换处所后、排泄大小便后,以及行走街市之后,都应常行阿遮摩那(ācamana,仪式啜水),并行所规定的“湿五法”之水净。
Verse 133
न नद्यां मेहनं कुर्यान्न श्मशाने नभस्मनि । न गोमये न कृष्टे च नैवालूने न शाड्वले
不可在河中小便,不可在火葬场,不可在灰烬上;不可在牛粪上,不可在已犁之地;不可在未割之庄稼上,亦不可在青绿之草上。
Verse 134
उद्धृत्ताभिस्तथाद्भिस्तु शौचं कुर्याद्विचक्षणः । अंतर्जलाद्देवकुलाद्वल्मीकान्मूषकस्थलात्
明智之人应以掘取之土与水行净除(śauca);尤其当不净因触及屋内之水、因寺庙境域(devakula)、因蚁丘,或因鼠辈出没之处而生时,更当如是。
Verse 135
अपविद्धापशौचाश्च वर्जयेत्पंच मृत्तिकाः । गन्धलेपापहरणं शौचं कुर्यात्तथा बुधः
用于净洁的五种土,若已污秽或弃置不当,当当远离;智者应行净化之法,使异味与涂抹之痕尽皆除去。
Verse 136
नात्मानं ताडयेन्नैव दद्याद्दुः खेभ्य एव च । उभाभ्यामपि पाणिभ्यां कण्डूयेन्नात्मनः शिरः
切莫自击其身,亦莫将己交付忧苦;并且不可用双手同时搔挠自己的头。
Verse 137
रक्षेद्दारांस्त्यजेदीष्यां तासु निष्कारणं बुधः । सूर्यास्तं न विनाकाश्चित्क्रिया नैवाचरेत्तथा
智者当护持其妻,舍弃对她无端的嫉妒;同样,若不顾日落之时与应有的时宜礼法,便不应行任何仪轨或事务。
Verse 138
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । शिवचित्तोर्जयोद्वित्तं न चातिकृपणो भवेत्
以对众生全无敌意——或至少将伤害减至最少——当以归心于湿婆(Śiva)之念而赢得兴盛;亦不可过度吝啬。
Verse 139
नेर्ष्युः स्यान्न कृतघ्नः स्यान्न परद्रोहकर्मधीः । न पाणिपादचपलो न नेत्रचपलोऽनृजुः
当离嫉妒,不作忘恩之人,亦不怀害人之念;手足勿躁动,目光勿飘忽,行止勿乖曲。
Verse 140
न च वागङ्गचपलो न चाशिष्टस्य गोचरः । न शुष्कवादं कुर्वीत शुष्क्रवैरं तथैव च
不应在言语与身姿举止上轻浮多变,也不应与无礼之人相随;不应作空谈之语,亦不应无端结怨生仇。
Verse 141
उपायैः साधयेदर्थान्दण्डस्त्वगतिका गतिः । भिन्नाशनं भिन्नशय्यां वर्जयेद्भिन्नभाजनम्
当以正当方便成就所求;惩罚之道,唯在别无他途时方可取。应避破损之座、破损之床,以及破裂之器皿。
Verse 142
अंतरेण न गच्छेन द्वयोर्ज्वलनलिंगयोः । नाग्न्योर्न विप्रयोश्चैव न दंपत्योर्नृपोत्तम
大王至上者,不可从两火之间穿行;亦不可从两处圣火之间穿行;不可从两位婆罗门之间穿行;也不可插入夫妻之间。
Verse 143
न सूर्यव्योमयोर्नैव हरस्य वृषभस्य च । एतेषामंतरं कुर्वन्यतः पापमवाप्नुयात्
亦不可置身于太阳与苍穹之间;亦不可置身于哈罗(湿婆)与其神牛之间。若在这些之间造作隔断,便将招致罪业。
Verse 144
नैकवस्त्रश्च भुंजीत नाग्नौ होममथाचरेत् । न चार्चयेद्द्विजान्नैव कुर्याद्देवार्चनं बुधः
智者之信徒不应仅着一衣而食,亦不应以不如法之方式行火供(homa)。若身处违背摩醯湿伐罗戒行之状态,则不应以仪式礼拜二生者(婆罗门),亦不应行正式的神祇供奉。
Verse 145
खंडनं पेषणं मार्ष्टिं जलसंशोधनं तथा । रंधनं भोजनं स्वाप उत्थानं गमनं क्षुतम्
砍切、捣磨、扫除,以及滤净清水;烹煮、进食、睡眠、起身、行走,乃至饥饿之起——此等日常行持,奉行摩诃湿伐罗戒律者皆当谨慎调御。
Verse 146
कार्यारंभं समाप्तिं च वचः प्रोच्य तथा प्रियम् । पिबञ्जिघ्रन्स्पृशञ्छृण्वन्विवक्षुर्मैथुनं तथा
起事与毕事;发言,纵是悦意之语;饮、嗅、触、闻、欲言之心,乃至男女交合——此等亦当在摩诃湿伐罗戒律中摄持约束。
Verse 147
शुचित्वं च जपं स्थाणुं यः कुर्याद्विंशतिं तथा । माहेश्वरः स विज्ञेयः शेषोन्यो नामधारकः
能守清净,并依仪轨对“住立者”斯陀努(湿婆)行持二十遍持诵者,当知是真正的摩诃湿伐罗;其余不过徒有其名。
Verse 148
स वै रुद्रमयो भूत्वा ततश्चांते शिवं व्रजेत् । परस्त्रियं नाभिभाषेत्तथा संभाषयेद्यदि
既充满鲁陀罗之性,彼于命终之际便得趋入湿婆。不可与他人妻交谈;若不得已而说,也当克制端正而语。
Verse 149
मातः स्वसरथो पुत्रि आर्येति च वदेद्बुधः । उचछिष्टो नालभेत्किंचिन्न च सूर्यं विलोकयेत्
智者当以恭敬称呼女子为“母亲”“姊妹”“女儿”或“贤贵夫人”。在食后尚带余秽之时,不可触碰任何物件,亦不可直视太阳。
Verse 150
नेन्दुं न तारकाश्चैव नादयेन्नात्मनः शिरः । स्वस्रा दिहित्रा मात्रा वा नैकांतासन माचरेत्
不应凝视明月或群星,也不应因躁动或炫示而击打自己的头。亦不应与姊妹、女儿,乃至母亲,在完全隐密的独处中同坐。
Verse 151
दुर्जयो हींद्रियग्रामो मुह्यते पंडितोऽपि सन् । गुरुमभ्यागतं गेहे स्वयमुत्थाय यत्नतः
诸根之群实难降伏;即便博学之人亦可能迷惑。因此,当上师(Guru)来到家中,应亲自起身,殷勤恭敬以迎。
Verse 152
आसनं कल्पयेत्तस्य कुर्यात्पादाभिवंदनम् । नोदक्छिराः स्वपेज्जातु न च प्रत्यक्छिरा बुधः
应为他(上师)备置座位,并礼拜其足。智者切莫以头向北而眠,也不可以头向西而眠。
Verse 153
शिरस्यगस्त्यमाधाय तथैव च पुरंदरम् । उदक्यादर्शनं स्पर्शं वर्ज्यं संभाषणं तथा
当以阿伽斯提耶与普兰达罗(因陀罗)为可敬的典范铭记于心;于禁制之期,应避免见经期之女,避免触碰,亦避免交谈。
Verse 154
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् । कृत्वा विभवतो देवमनुष्यर्षिसमर्चनाम्
不可在水中小便或大便,也不可在其中行淫。随后应量力而行,先如法供奉诸天、受敬之人,以及诸仙圣(Ṛṣi)。
Verse 155
पितॄणां च ततः शेषं भोक्तुं माहेश्वरोऽर्हति । वाग्यतः शुचिराचांतः प्राङ्मुखोदङ्मुखोऽपि वा
随后,供奉祖灵之后所余之食,唯有大自在天(摩醯首罗)之 भक्त方堪受用。应摄持言语,身心清净,并行阿遮摩那(啜净水)后,面向东方而食;或亦可面向北方。
Verse 156
अन्तर्जानुश्च तच्चित्तो भुञ्जीतान्नमकुत्सयन् । नोपघातं विना दोषान्न तस्योदाहरेद्बुधः
当收膝内敛、专注其心时,应食而不轻贱其食。智者不应指摘其中过失,除非确有真实之害。
Verse 157
नग्नस्नानं न कुर्वीत न शयीत व्रजेत वा । दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत्
不应裸身沐浴,亦不应不合仪度地卧躺或游走。不可在师尊(古鲁)前谈论罪过;若师尊动怒,当设法安抚,使其欢悦。
Verse 158
परिवादं न श्रृमुयादन्येषामपि जल्पताम् । सदा चा कर्णयेद्धमास्त्यक्त्वा कृत्यशतान्यपि
不应听闻诽谤之语,即便他人正在谈论亦然。宁可搁置百般事务,也应常常倾听正法(达摩)之教诲。
Verse 159
नित्यं नित्यं हि संमार्ष्टि गेहदर्पणयोरिव । शुक्लायां च चतुर्दश्यां नक्तभोजी सदा भवेत्
日日当勤于洁净,如拂拭居所与磨光明镜一般。并于白半月之第十四日(明月十四),恒常守持夜食之戒。
Verse 160
तिस्रो रात्रीर्न शक्तश्चेदेवं माहेश्वरो भवेत् । संयावकृशरामांसं नात्मानमुपसाधयेत्
若不能守持三夜之戒,亦可依此而称为摩醯湿伐罗行者;然不应以丰腴美食自纵,如saṃyāva、kṛśarā及肉食等。
Verse 161
सायंप्रातश्च भोक्तव्यं कृत्वा ह्यतिथि भोजनम् । स्वप्नाध्ययनभोज्यानि संध्ययोश्च विवर्जयेत्
当于傍晚与清晨进食,先施食于来客而后自食。于两次sandhyā(晨昏交界)之时,应避睡眠、避诵学、亦避饮食。
Verse 162
भुंजानः संध्ययोर्मोहादसुरावसथो भवेत् । स्नातो न धूनयेत्केशान्क्षुते निष्ठीवितेऽध्वनि
若因迷妄而于晨昏交界进食,便成阿修罗之所居。沐浴之后,不应抖散头发;在道路上打喷嚏或吐痰时,当守节制并持清净。
Verse 163
आलभेद्दक्षिणं कर्णं सर्वभूतानि क्षामयेत् । न चापि नीलीवासाः स्यान्न विपर्यस्तवस्त्रधृक्
当触右耳,并向一切众生求忏悔、求宽恕。不应着蓝色衣服,亦不应倒穿或衣着紊乱失仪。
Verse 164
वर्ज्यं च मलिनं वस्त्रं दशाभिश्च विवर्जितम् । प्रक्षाल्य मुखहस्तौ च पादौ चाप्युपविश्य च
当避穿污秽之衣,亦当避穿残缺无边、无正当衣缘之衣。洗净面与手,并洗足已毕,然后端身正坐。
Verse 165
अंतजानुस्त्रिराचामेद्दिर्मुखं परिमार्जयेत् । तोयेन स्पर्शयेत्खानि स्वमूर्धानं तथैव च
双膝收拢而坐,应行阿遮摩那(ācamana)三次,并细心拭面。以净水触及诸根之窍,亦当触及自身头顶。
Verse 166
आचम्य पुनराचम्य क्रियाः कुर्वीत सर्वशः । क्षुते निष्ठीविते चैव दंतलग्ने तथैव च
既已行阿遮摩那(ācamana),并随需再行,当圆满诸般仪轨。同样,打喷嚏后、吐唾后、或有物卡于齿间时,也应再作净化。
Verse 167
पतितानां च संभाषे कुर्यादाचमनिक्रियाम् । अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता
并且,与失落于法(dharma)之人交谈之后,应行阿遮摩那(ācamana)。当日日诵学三部吠陀,努力成为真正明辨通达之智者。
Verse 168
धर्मतो धनमाहार्य यष्टव्यं चापि यत्नतः । हीनेभ्योपि न युंजीत त्वंकारं कर्हिचिद्बधः । त्वंकारो वा वधो वापि गुरूणामुभयं समम्
财富当依正法(dharma)而求,祭祀(yajña)亦应勤谨而行。即便对卑下者,也不可用轻蔑的“你!”之语——此类 tvaṃkāra 亦是一种伤害。对于可敬的师长,傲慢称呼与真实暴力,在罪重上等同。
Verse 169
सत्यं वाच्यं नित्यमैत्रेण भाव्यं कार्यं त्याज्यं नित्यमायासकारि । लोकेऽमुष्मिन्यद्दिनं स्यात्तथास्मिन्नात्मा योगे येजनीयो गभीरैः
当恒常说真实语;恒常培育友善之心;并舍弃那些不断引起劳苦与扰动的行为。此世一日如何度过,来世亦由此塑成——故智者当以深沉瑜伽礼敬内在之我。
Verse 170
तीर्थस्नानैः सोपवासैर्व्रतैश्च पात्रे दानैर्होमजप्यैश्चयज्ञैः । भवार्चनैर्देवपूजाविशेषैरात्मा नित्यं शोधनीयो मलाक्तः
以在圣地渡口沐浴,以斋戒与誓愿,以施舍于堪受者,以火供(homa)、持诵(japa)与祭祀(yajña),以礼敬婆婆(Bhava,即湿婆)及种种殊胜神祇供奉——如此,染着垢秽之我,应当日日净化。
Verse 171
यत्रापि कुर्वतो नात्मा जुगुप्सामेति पार्थिव । तत्कर्तव्यसमसंगेन यन्नगोप्यं महाजने
大王啊,凡你所行之事,若不令自心生厌恶退缩——便当行之,并与正当之法相应;且当行那无需向众人隐匿之事。
Verse 172
इति ते वै समुद्देशः कीर्तितः किंचिदेव च । शेषः स्मृतिपुराणेभ्यस्त्वया श्रोतव्य एव च
如是,我已向你宣说这略要之纲。其余部分,确当由你从诸《斯摩利提》(Smṛti)与诸《普罗那》(Purāṇa)中聆听。
Verse 173
एवमाचरतो धर्मं महेशस्य गृहे सतः । धर्मार्थकामसंप्राप्तौ परत्रेह च शोभनम्
若有人作为虔敬随从,住于大自在天(Maheśa)之“家”而如是修持正法,则必得法(dharma)、利(artha)与欲(kāma);并且今世与来世皆为吉祥。
Verse 174
एवं नानाविधान्धर्मान्महाकालस्य फाल्गुन । वदतो ध्वनिराकाशे सुमहानभ्यजायत
当大时神(Mahākāla)如此宣说种种法门之时,噢法尔古那(Phālguna),虚空之中生起了极其宏大的回响。
Verse 175
यावत्पश्यंति ये तत्र समाजग्मुः श्रृणुष्व तान् । ब्रह्मा विष्णुः स्वयं रुद्रो दे वी रुद्रगणास्तथा
当众人于彼处观望时,且听有哪些圣众云集:梵天、毗湿奴、鲁陀罗亲临,天女(提毗)亦至,并有诸鲁陀罗眷属之众同来。
Verse 176
इंद्रादयस्तथा देवा वसिष्ठाद्या मुनीश्वराः । तुंबरुप्रवराश्चापि गंधर्वाप्सरसां गणाः
因陀罗等诸天亦至;以婆悉吒为首的诸大牟尼;又有乾闼婆与阿普萨拉的众团,推尊图姆布鲁为最上。
Verse 177
तान्महेशमुखान्सर्वान्महाकालो महामतिः । अर्चयामास बहुधा भक्त्युद्रेकातिपूरितः
于是大智的摩诃迦罗以多种方式礼敬供养诸圣——摩醯湿伐罗等一切——其心因虔敬之潮而充溢。
Verse 178
ततो ब्रह्मादिभिर्देवैर्वरे रत्नमयासने । उपविष्टोऽभिषिक्तश्च महीसागरसंगमे
随后,诸天以梵天为首,请他安坐于殊胜的宝座之上,并在大地与海洋交汇之处为其行灌顶礼(阿毗湿迦)。
Verse 179
ततो देव्या समालिंग्य नीत्वोत्संगं स्वकं मुदा । पुत्रत्वे कल्पितः पार्थ महाकालो महामतिः
随后天女(提毗)拥抱了他,欢喜地将他置于自己膝上;大智的摩诃迦罗遂被摄为其子,噢,帕尔塔。
Verse 180
उक्तञ्च यावद्ब्रह्माण्डमिदमास्ते शिवव्रत । तावत्तिष्ठ शिवस्थाने शिववच्छिवभक्तितः
并宣告道:“只要此宇宙尚存,噢持守湿婆誓戒者,当安住于湿婆之居所,以如同湿婆自身般的虔敬,奉爱湿婆。”
Verse 181
देवेन च वरो दत्तस्त्वल्लिंगं योऽर्चयिष्यति । जितेन्द्रियः शुचिर्भूत्वा ऊर्ध्वं मल्लोकमेष्यति
主又赐下此恩许:“凡礼拜汝之林伽者,若能清净自持、调伏诸根,必将上升至我的世界。”
Verse 182
दर्शनं स्तवनं पूजा प्रणामश्च ततो जपः । दानं चात्र कृतं लिंगे ममातितृप्तिकारणम्
瞻礼、赞颂、供奉、顶礼,继而持诵(japa);以及在此为林伽所行之布施——这些皆为令我至上欢喜之因。
Verse 183
इत्युक्ते विस्मिता देवाः साधु साध्विति ते जगुः । ब्रह्मविष्णुमुखाश्चैव महाकालं प्रतुष्टुवुः
此言既出,诸天惊叹齐呼:“善哉!善哉!”梵天、毗湿奴等诸神亦赞颂大黑天(Mahākāla)。
Verse 184
ततः सुरैःस्तूयमानो वंद्यमानश्च चारणैः । नृत्यद्भिरप्सरोभिश्च कीतैर्गंधर्वजैः शुभैः
随后,诸天赞颂于他,迦罗那众恭敬礼拜;天女阿普萨拉翩然起舞,吉祥的乾闼婆歌咏奏唱——以天界庆典共奉其尊。
Verse 185
कोटिकोटिगणैश्चैव स्तुवद्भिः सर्वतो वृतः
他被无量无数的众军从四面环绕,皆齐声吟诵赞颂的圣歌。
Verse 186
महाकालो रुद्रभवनं गतो भवपुरस्सरः । एवमेतन्महालिंगमुत्पन्नं कुरुनंदन
摩诃迦罗在婆伐(湿婆)为首的引领下,前往鲁陀罗的居处。于是,噢库鲁之所喜者,此大林伽便如是显现。
Verse 187
कूपश्चापि सरः पुण्यं महाकालस्य सिद्धिदम् । अत्र ये मनुजाः पार्थ लिंगस्याराधने रताः
此处有一口井,亦有一方圣湖——清净殊胜,能赐与摩诃迦罗相关的成就。噢帕尔塔,凡居于此地、专心礼敬林伽之人——
Verse 188
महाकालः समालिंग्य ताञ्छिवाय निवेदयेत् । एतदत्यद्भुतं लिंगं त्रिषु लोकेषु विश्रुतम्
摩诃迦罗拥抱他们,并将他们奉呈于湿婆之前。此最为奇妙的大林伽,名闻三界。
Verse 189
दृष्टं स्पृष्टं पूजितं च गतास्ते भवसद्म तत् एवमेतानि लिंगानि सप्त जातानि फाल्गुन
他们既已瞻见、触及并礼拜此物,便前往婆伐(湿婆)的居处。如此,噢法尔古那,这七座林伽便得以出生。
Verse 190
ये श्रृण्वंति गृणंत्येतत्तेपि धन्या नरोत्तमाः
凡聆听此事迹者,及诵持此偈者——彼等人中最胜,实为有福之人。