
Devadāru (Dāruvana) Forest: The Delusion of Ritual Pride, the Liṅga Crisis, and the Teaching of Jñāna–Pāśupata Yoga
应诸仙询问,苏多叙述:湿婆偕毗湿奴化作女相,入天香雪松林/达鲁瓦那林(Devadāru/Dāruvana),为破除仙人执著外在祭仪与苦行之傲慢。其家眷为之迷乱;仙人震怒诅咒裸形行乞之湿婆,遂引发林伽被扯落/坠落的剧变,并现种种宇宙异兆。众仙惊惧,往见梵天;梵天认定来者即大自在天(Mahādeva),并宣说不偏宗派之义:鲁陀罗遍入三德(guṇa),显为火神/梵天/毗湿奴,而其伴侣亦显为那罗延(Nārāyaṇa),确立湿婆派与毗湿奴派之合一宣言。梵天教以复原之法:造立并礼拜林伽,诵《沙塔鲁陀利耶》(Śatarudrīya),并持诵吠陀湿婆真言。湿婆与女神再现;众仙献上长篇赞颂,得见神显,并求恒常之礼敬之道。湿婆开示修行次第:无清净智(jñāna)则瑜伽不圆满;数论(Sāṃkhya)与瑜伽相应则得解脱;并授予奉行智瑜伽者秘密的帕舒帕塔誓戒(Pāśupata)。章末众仙续作观照探求,女神炽然显现,证悟湿婆—夏克蒂(Śiva–Śakti)一体,并许诵读得福德,引向后续内在灵修(adhyātma)与解脱法门的教导。
Verse 1
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षट्त्रिशो ऽध्यायः ऋषय ऊचुः कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः / मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि
诸仙人说道:“那位圣尊——旗帜饰以神牛者——如何来到达鲁森林?又如何令彼处最上婆罗门迷惑?噢,苏多,请在此为我们宣说。”
Verse 2
सूत उवाच पुरा दारुवन् रम्ये देवसिद्धनिषेविते / सपुत्रदारा मुनयस्तपश्चेरुः सहस्रशः
苏多说道:久远以前,在清丽的达鲁瓦那森林中,诸天与成就者(悉地)常来游止;成千上万的牟尼,连同其子与妻,皆修行苦行。
Verse 3
प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि / यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः
诸大圣者从事种种业行,依仪轨而作;他们以多样祭祀(耶祭)奉敬,并且修持苦行。
Verse 4
तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् / ख्यापयन् स महादोषं ययौ दारुवनं हरः
于是持三叉戟的诃罗见他们心念安置于外在行作,便前往达鲁森林,为使他们显露并觉知那重大过失。
Verse 5
कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः / ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः
大自在天(湿婆)令毗湿奴——世间之师——侍立身旁而启行;商羯罗此行,旨在建立并安立出离之智——“尼弗里提之智”(nivṛtti-jñāna)。
Verse 6
आस्थाय विपुलं वेशमूनविंशतिवत्सरः / लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः
他披上华美的衣饰,显现为未满二十的青年;神情嬉游自在,臂力雄伟,肢体丰硕健壮,双目清丽动人。
Verse 7
चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः / मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः
他金色之身,吉祥光辉灿然;面容如满月圆明。步履威仪,似醉象之行;以四方为衣——他即是 जगदीश्वर(Jagadīśvara),宇宙之主。
Verse 8
कुशेशयमयीं मालं सर्वरत्नैरलङ्कृताम् / दधानो भगवानीशः समागच्छति सस्मितः
他佩戴以莲花编成的花鬘,饰以种种宝珠;那位有福的主——正是伊湿(Īśa)——含笑徐来。
Verse 9
यो ऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः / स्त्रीवेषं विष्णुरास्थाय सो ऽनुगच्छति शूलिनम्
那不朽的哈利——毗湿奴——乃无尽至上之普鲁沙,亦为诸世界之胎源;他化作女子之相,随行于持三叉戟者——修林(湿婆)之后。
Verse 10
सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् / शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम्
她面如满月;胸脯丰盈而挺秀。含清净柔和之微笑,神色安然悦豫;足踝佩一双铃钏,行步之间叮当作响。
Verse 11
सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् / उदारहंसचलनं विलासि सुमनोहरम्
祂身披灿然的黄衣,光耀而神圣——肤色幽深,双眸秀美——步履如高贵天鹅般优雅;仪态戏谑而风流,令人心神尽醉。
Verse 12
एवं स भगवानीशो देवदारुवने हरः / चचार हरिणा भिक्षां मायया मोहयन् जगत्
于是,那位吉祥的主——伊湿、诃罗——在天雪松林(Devadāru)中游行托钵,以鹿为化相/伴随;并以其摩耶使世间迷惑。
Verse 13
दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् / मायया मोहिता नार्यो देवदेवं समन्वयुः
见到宇宙之主维湿维沙、执持毗那迦神弓者在此处彼处游行,那些被摩耶迷惑的女子便追随那位诸神之神。
Verse 14
विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः / सहैव तेन कामार्ता विलासिन्यश्चरन्तिहि
衣裳与饰物尽皆凌乱,抛却羞怯——纵然受持贞妇之誓——那些贪恋欢娱的女子,被欲火所逼,确实与他一同流连嬉游。
Verse 15
ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः / अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः
诸仙之子皆为青年,本已调伏其心、持守自制,却仍追随赫利希凯沙——诸根之主;众人尽被欲望之力所逼迫。
Verse 16
गायन्ति नृत्यन्ति विलासबाह्या नारीगणा मायिनमेकमीशम् / दृष्ट्वा सपत्नीकमतीवकान्त- मिच्छन्त्यथालिङ्गनमाचरन्ति
众女群以嬉戏般的姿态歌舞,见到那唯一至上的主宰——施展幻力的奇妙迷人者。纵然祂与圣配同在,仍显无比俊美;她们因渴慕而起,求得拥抱,并遂行其愿。
Verse 17
पदे निपेतुः स्मितमाचरन्ति गायन्ति गीतानि मुनीशपुत्राः / आलोक्य पद्मापतिमादिदेवं भ्रूभङ्गमन्ये विचरन्ति तेन
有人俯伏于祂足下;有人以欢喜的敬仰含笑;大圣仙之子吟唱赞歌。又有人瞻见莲主帕德玛帕提——原初之神——便眉间紧蹙,因那震撼的景象而徘徊不定。
Verse 18
आसामथैषामपि वासुदेवो मायी मुरारिर्मनसि प्रविष्टः / करोति भोगान् मनसि प्रवृत्तिं मायानुभूयन्त इतिव सम्यक्
对这些众生亦复如是:婆苏提婆——摩罗里,执持幻力者——入于心中,令诸受用(bhoga)与心之向外驰动生起。于是他们如其所宜地经历幻力(Māyā)的作用。
Verse 19
विभाति विश्वामरभूतभर्ता स माधवः स्त्रीगणमध्यविष्टः / अशेषशक्त्यासनसंनिविष्टो यथैकशक्त्या सह देवदेवः
摩达婆——支撑整个世界、诸天与一切众生者——在众多圣力(Śakti)之中端坐而光辉显现。祂安住于无尽威能之座,如同诸神之神与唯一至上圣力同居而住。
Verse 20
करोति नृत्यं परमप्रभावं तदा विरूढः पुनरेव भूयः / ययौ समारुह्य हरिः स्वभावं तदीशवृत्तामृतमादिदेवः
于是祂演出具至上威力的神舞;继而再度起身,哈利——原初之神——升归自身本然之境而离去,留下如甘露般的主之神圣行迹之叙述。
Verse 21
दृष्ट्वा नारीकुलं रुद्रं पुत्राणामपि केशवम् / मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम्
诸最胜牟尼见鲁陀罗令众女迷乱,又见凯沙瓦(毗湿奴)连她们的儿子也使之惑乱,遂皆大怒,忿然炽盛。
Verse 22
अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् / शेषुश्च शापैर्विविधैर्मायया तस्य मोहिताः
他们对披发之神迦婆尔丁(湿婆)说出极其粗厉之言;其余诸人亦为其摩耶所迷,遂以种种诅咒加以攻讦。
Verse 23
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे / यथादित्यप्रकाशेन तारका नभसि स्थिताः
在商羯罗之前,他们一切苦行之力尽皆失效,犹如天上群星为太阳光辉所掩。
Verse 24
ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् / को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः
那些婆罗门仙人苦行既破,便聚而趋近牛旗之主(湿婆);迷惘之中,问诸天之主曰:“汝为谁?”
Verse 25
सो ऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः / इदानीं भार्यया देशे भवद्भिरिह सुव्रताः
于是世尊自在天说道:“我来此处为修苦行。如今,诸善誓者,我将与我之妻同住此地,就在你们面前。”
Verse 26
तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः / ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर
听闻你这番话后,婆利古等最上诸牟尼说道:“披上苦行之衣,舍离妻室,修行苦行(tapas)。”
Verse 27
अथोवाच विहस्येशः पिनाकी नीललोहितः / संप्रेक्ष्य जगतो योनिं पार्श्वस्थं च जनार्दनम्
随后,执持毗那迦之主,身呈青赤之色,含笑开口;他先观照宇宙之胎藏,又望向侍立身旁的阇那尔达那。
Verse 28
कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः / त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः
你们既殷勤供养各自的妻室,又是知法而心寂静之人,怎能说出“我的妻子应当被舍弃”这样的话?
Verse 29
ऋषय ऊचुः व्यभिचाररता नार्यः संत्याज्याः पतिनेरिताः / अस्माभिरेषा सुभगा तादृशी त्यागमर्हति
诸仙人说道:“沉溺于邪淫的女子,应依丈夫之戒而被舍弃。依我等之见,这位有福的女子亦属此类,故当被弃。”
Verse 30
महादेव उवाच न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति / नाहमेनामपि तथा विमुञ्चामि कदाचन
摩诃提婆说道:“婆罗门们,她从未有一刻——即便在心念中——希求他人;同样,我也从未有一刻舍弃她。”
Verse 31
ऋषय ऊचुः दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम / उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि
诸仙人说道:“我们已见你在此行止乖违,噫,最卑劣之人!你所言不实;故当速速离去,立刻走开。”
Verse 32
एवमुक्ते महादेवः सत्यमेव मयेरितम् / भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह
闻此言,摩诃提婆(湿婆)答曰:“我所说者,唯是真实。若此在汝等心中亦觉相宜。”言毕,便自往前行。
Verse 33
सो ऽगच्छद्धरिणा सार्धं मुनिन्द्रस्य महात्मनः / वसिष्ठस्याश्रमं पुण्यं भिक्षार्थो परमेश्वरः
于是至上主宰帕拉梅湿伐罗为求乞食,携鹿同往,来到大圣牟尼、诸仙之首瓦西什塔的清净圣林。
Verse 34
दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती / वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम्
阿伦达蒂——瓦西什塔所钟爱的贤妻——见神明以行乞者之相前来求施,便趋前迎接,恭敬顶礼。
Verse 35
प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् / संप्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः / संधयामास भैषज्यैर्विष्णा वदना सती
她洗净其足,奉上上妙座位。继而萨蒂——面容辉耀,宛如毗湿奴之光——见其肢体松软,因二生者的击打而受伤,便以疗愈之药调治,使之复归完好。
Verse 36
चकार महतीं पूजां प्रार्थयामास भार्यया / को भवान् कुत आयातः किमाचारो भवानिति / उवाच तां महादेवः सिद्धानां प्रवरो ऽस्म्यहम्
他行了盛大的供奉,与妻子一同恭敬祈问:“尊者是谁?从何处而来?所持戒行为何?”于是大天(摩诃提婆)对她说道:“我乃诸悉地者之中最为上首者。”
Verse 37
यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा / एषैव देवता मह्यं धारयामि सदैव तत्
那清净的曼荼罗恒常辉耀,充满梵(Brahman);唯此即是我所奉持之本尊,我于一切时恒常摄持观念于彼。
Verse 38
हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् / ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः
说罢那些严厉之语,那位光辉者便离去,并已垂恩于贞洁的妻子。随后诸婆罗门以杖、土块与拳头殴打(那被视为冒犯者)。
Verse 39
दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् / प्रोचुरेतद् भवांल्लिङ्गमुत्पाटयतु दुर्मते
见到吉利沙(湿婆)赤身游行,形相怪异变异,他们便说道:“让这心怀恶念者把自己的林伽扯下!”
Verse 40
तानब्रवीन्महायोगी करिष्यामीति शङ्करः / युष्माकं मामके लिङ्गे यदि द्वेषो ऽभिजायते
大瑜伽行者商羯罗对他们说:“我将如此行。若你们对我的林伽生起憎恨……”
Verse 41
इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा / नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च
言毕,世尊——Bhaganetra-hā(毁去婆伽之眼者)——当即将其撕裂拔除;就在那一刹那,人们既不见主克舍婆(Keśava),亦不见他物,唯有灵伽(Liṅga)独存。
Verse 42
तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः / न राजते सहस्रांशुश्चचाल पृथिवी पुनः / निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः
于是,确有可怖的凶兆兴起,令众生心生恐惧:千光之日不复照耀;大地再度震颤;诸星诸曜尽失光辉;大海翻腾,汹涌不宁。
Verse 43
अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता / कथयामास विप्राणां भयादाकुलितेक्षणा
阿努苏雅(Anusūyā),阿特里(Atri)之贞顺贤妻,见得一梦;她因恐惧而目光惶惶,将此梦告于诸婆罗门圣仙。
Verse 44
तेजसा भासयन् कृत्स्नं नारायणसहायवान् / भिक्षमाणः शिवो नूनं दृष्टो ऽस्माकं गृहेष्विति
“必定是湿婆(Śiva)在我们家中显现——行乞求施——以其威光照耀一切,并有那罗延那(Nārāyaṇa)为伴同行。”
Verse 45
तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः / सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसंभवम्
诸大圣仙闻其言,心生疑惧;遂一同前往梵天(Brahmā)处——大瑜伽自在者、宇宙之所从生者。
Verse 46
उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः / चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम्
我礼敬那至上主宰:为无垢瑜伽行者、诸知梵者之最胜所奉事;祂以四部吠陀为身,并由娑毗特丽(伽雅特丽圣咒)随侍。
Verse 47
आसीनमासने रम्ये नानाश्चर्यसमन्विते / प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते
祂端坐于妙丽宝座,具足种种奇瑞;周身浸润千重光辉,并圆满具足智慧、自在主权与诸般神圣德相。
Verse 48
विभ्राजमानं वपुषा सस्तितं शुभ्रलोचनम् / चतुर्मुखं महाबाहुं छन्दोमयमजं परम्
其身光耀炽然,安住坚固,白净明眸;四面大臂——(所见者乃)至上无生之实相,由吠陀诸“颂律”(chandas,圣韵格)所成。
Verse 49
विलोक्य वेदपुरुषं प्रसन्नवदनं शुभम् / शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम्
见到吠陀之人(Veda‑Puruṣa)吉祥而面容安然,她俯首稽首至地,以此令一切众生之主——自在天(Īśvara)欢喜满足。
Verse 50
तान् प्रसन्नमना देवश्चतुर्मूर्तिश्चतुर्मुखः / व्याजहार मुनिश्रेष्ठाः किमागमनकारणम्
于是天神梵天——四面而具四相——心意澄然,对诸最胜牟尼说道:“诸位到来,所为何因?”
Verse 51
तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः / ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम्
于是众人将合十之手恭敬举于头顶,向梵天——至上我、最高的自性(Paramātman)——详尽禀告关于彼(主宰)所发生的一切。
Verse 52
ऋषय ऊचुः कश्चिद् दारुवनं पुण्यं पुरुषो ऽतीवशोभनः / भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि
诸仙人说道:“有一位极其俊美的男子进入神圣的达鲁林;确实,他赤身而入,并有一位妻子相随,其肢体皆柔美端丽。”
Verse 53
मोहयामास वपुषा नारीणां कुलमीश्वरः / कन्यकानां प्रिया चास्य दूषयामास पुत्रकान्
那位大能的主宰化现迷人的形貌,使妇女的家室陷入迷惑;又成为少女所钟爱之人,引得年少之子走向败坏。
Verse 54
अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः / ताडितो ऽस्माभिरत्यर्थं लिङ्गन्तु विनिपातितम्
“我们发出了种种诅咒并将之掷出;又以极大的力道击打,竟使那林伽本身被击倒而坠落。”
Verse 55
अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च / उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः
随后,吉祥的主与其圣妃一同隐没不见——连那林伽也随之消失。可怖的凶兆随即出现,令一切众生惊惧。
Verse 56
क एष पुरुषो देव भीताः स्म पुरुषोत्तम / भवन्तमेव शरणं प्रपन्ना वयमच्युत
噢主宰!此人是谁?噢至上之人,我们心怀恐惧。噢不堕者阿周陀,我们唯独归依于你,以你为唯一庇护。
Verse 57
त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् / अनुग्रहेण विश्वेश तदस्माननुपालय
在此世间,一切举动与一切意念,唯有你尽知。故而,噢宇宙之主,愿以慈恩护佑我们。
Verse 58
विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः / ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत
众多仙圣如是启请,莲华所生者(梵天),为宇宙内住之我,便入定观想三叉戟为印的神(湿婆)。合掌恭敬,随后开口说道。
Verse 59
ब्रह्मोवाच हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् / धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह
梵天说道:“哀哉!今日重大的灾厄临到你们,摧毁一切所求。徒恃勇力,可叹!徒恃苦行,可叹!在此,对你们而言,竟全然成了虚妄无益。”
Verse 60
संप्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् / उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः
凭借福德的善业熏习,你们已得诸宝之中最上之宝;然而在此迷惑之中,你们却将其轻弃,只因沉溺于虚妄无果的行径。
Verse 61
काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् / यमेव तं समासाद्य हा भवद्भिरुपेक्षितम्
诸瑜伽苦行者恒常精进,常怀渴慕那无上宝藏;然而既已亲证那同一位主宰,唉,你们却将祂忽略。
Verse 62
यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः / महानिधिं समासाद्य हा भवद्भिरुपेक्षितम्
辩论吠陀之人以种种祭祀求得彼者;然而既已遇见大宝藏,唉,你们却将其弃置不顾。
Verse 63
यं समासाद्य देवानैमैश्वर्यमखिलं जगत् / तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम्
诸天因亲近祂而得遍宇宙之主权;然而既已来到那同一位——不坏之宝藏——唉,你们却将祂忽略。
Verse 64
यत्समापत्तिजनितं विश्वेशत्वमिदं मम / तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः
我这遍宇宙的主宰之位,乃由三摩钵底(圆满瑜伽定境)而生;而这同一宝藏,却被福缘浅薄之人所轻弃。
Verse 65
यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् / तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम्
在那宝藏之中,神圣的主宰威德汇聚安住,永不衰灭;然而既已抵达此宝,婆罗门啊,唉,你们却徒劳而行(未真归依)。
Verse 66
एष देवो महादेवो विज्ञेयस्तु महेश्वरः / न तस्य परमं किञ्चित् पदं समधिगम्यते
此天神当知为摩诃提婆——实为大自在天(Maheśvara)。于彼而言,绝无任何更高、究竟之境可被完全抵达或彻底了悟。
Verse 67
देवतानामृषीणां च पितॄणां चापि शाश्वतः / सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् / संहरत्येष भगवान् कालो भूत्वा महेश्वरः
当坏劫来临、千劫行尽之时,此永恒之主——以大自在天之身化为时间本身——将一切有身众生,乃至诸天、仙圣(ṛṣi)与祖灵,尽皆摄归于己。
Verse 68
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा / एष चक्री च वज्री च श्रीवत्सकृतलक्षणः
唯有彼一者,以自性光辉创造一切众生。彼执持神轮(cakra)与金刚杵(vajra),并以吉祥的室利跋蹉(Śrīvatsa)为圣相之印。
Verse 69
योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते / द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे
在圆满劫(Kṛta Yuga),神被称为瑜伽行者(Yogi);在三分劫(Tretā),称为祭祀之主“耶阇那”(Yajña)。在二分劫(Dvāpara),彼为吉祥之时“迦罗”(Kāla);而在末法劫(Kali),彼为“达摩幢”(Dharma-ketu),乃达摩之旗与征兆。
Verse 70
रुद्रस्य मूर्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् / तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः
鲁陀罗有三种显现,由此遍满此一切宇宙:以昏暗(tamas)为相时,彼为火神阿耆尼(Agni);以激动(rajas)为相时,彼为梵天(Brahmā);以清净(sattva)为相时,彼为毗湿奴(Viṣṇu)——至上的主宰。
Verse 71
मूर्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा / यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम्
祂的另一种形相被忆念为吉祥坚住的湿婆(Śiva),以四方为衣。无论祂安住于何处,彼处即是梵(Brahman),由瑜伽而圆满证得。
Verse 72
या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता / सा हि नारायणो देवः परमात्मा सनातनः
而那立于祂侧的圣配,诸位方才所瞻见者——她确然就是那罗延(Nārāyaṇa)之主,永恒的至上我(Paramātman)。
Verse 73
तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् / स एव मोहयेत् कृत्स्नं स एव परमा गतिः
此一宇宙从祂而生,亦唯归于祂而灭。唯祂令一切众生迷惑,亦唯祂是至上的归宿与最高依止。
Verse 74
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् / एकशृङ्गो महानात्मा पुराणो ऽष्टाक्षरो हरिः
至上之普鲁沙(Puruṣa)具千首、千眼、千足——独角(唯一而一心),大我,太古者:哈利(Hari),以神圣八音节真言而显现。
Verse 75
चतुर्वेदश्चतुर्मूर्तिस्त्रिमूर्तिस्त्रिगुणः परः / एकमूर्तिरमेयात्मा नारायण इति श्रुतिः
祂即四吠陀;祂具四相;祂为三相神(Trimūrti),亦为超越三德(guṇa)之至上主。虽现多种形态,其本体唯是一相——不可量度之真我。故《圣闻》(Śruti)宣说:“祂是那罗延(Nārāyaṇa)。”
Verse 76
ऋतस्य गर्भो भगवानापो मायातनुः प्रभुः / स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्धर्ममोक्षिभिः
至福的主——为Ṛta(宇宙秩序)之胎藏,即诸水(Āpaḥ)本身,身为摩耶(Māyā)之至主——为奉持法(Dharma)与解脱的婆罗门,以种种吠陀真言而赞颂。
Verse 77
संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः / शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम्
在劫末,至上之人收摄整个宇宙;饮尽瑜伽之甘露后,安卧于那至高境界——即毗湿奴的最高住处。
Verse 78
न जायते न म्रियते वर्धते न च विश्वसृक् / मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः
它不生、不死、不增长,也并非宇宙的造作者。吠陀圣贤歌咏它为“不生者”(Aja)、未显的根本自性——Mūla-Prakṛti。
Verse 79
ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् / अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः
随后,当黑夜过去,欲生起一切世界之时,这位大自在天(Maheshvara)将那种子投于不生者(梵天 Brahmā)的脐中。
Verse 80
तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् / महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम्
当知“我”即是大心之梵(Brahman)、面向十方的宇宙之主;是与宇宙同体的大丈夫(Mahā-Puruṣa),是无上“水之胎藏”(Apāṃ-garbha),为万有生起的至高本源。
Verse 81
न तं विदाथ जनकं मोहितास्तस्य मायया / देवदेवं महादेवं भूतानामीश्वरं हरम्
你们被祂的摩耶所迷惑,竟不识那位始祖——诃罗(Hara),诸神之神、大自在天(Mahādeva),一切众生的主宰。
Verse 82
एष देवो महादेवो ह्यनादिर्भगवान् हरः / विष्णुना सह संयुक्तः करोति विकरोति च
此尊天神正是大自在天——诃罗(Hara),吉祥的世尊,确然无始。与毗湿奴合一,祂既令万有生起,也令其变易与归灭。
Verse 83
न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् / स वेदान् प्रददौ पूर्वं योगमायातनुर्मम
对祂而言并无必须履行之业,且在祂之上更无至高者。太初之时,祂赐下吠陀——其身即是我的瑜伽摩耶(显化之神力)。
Verse 84
स मायी मायया सर्वं करोति विकरोति च / तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम्
彼主为摩耶之持者;以其摩耶,令万有生起,亦令万有变易归灭。唯知祂为解脱之道,当归依婆伐(Bhava,湿婆)。
Verse 85
इतीरिता भगवता मरीचिप्रमुखा विभुम् / प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः
蒙世尊如是开示后,以摩利支(Marīci)为首的诸仙礼拜神圣的梵天——那大能者;他们忧苦甚深,遂开始向他发问。
Verse 86
मुनय ऊचुः कथं पश्येम तं देवं पुनरेव पिनाकिनम् / ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम्
诸牟尼说道:“我们如何才能再次瞻仰那位神——持弓者毗那迦(湿婆)?请开示我们,噢宇宙诸天之主;你是寻求归依者的护佑者。”
Verse 87
पितामह उवाच यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् / तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम्
毗多摩诃(梵天)说道:“你们所见的那一尊林伽,已坠落于大地;当依那位伊湿(湿婆)之林伽为范,塑造一尊无上林伽……”
Verse 88
पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः / वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः
“当怀敬意而礼拜——与诸妻同在,并携诸子相随;诸梵行者当唯依种种吠陀戒律与仪轨而行。”
Verse 89
संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसंभवैः / तपः परं समास्थाय गृणन्तः शतरुद्रियम्
他们以出自《梨俱》《夜柔》《娑摩》三吠陀的湿婆圣咒如法安立仪轨,住于至上苦行,并诵《百鲁陀罗颂》(Śatarudrīya)以赞叹鲁陀罗。
Verse 90
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः / सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ
当摄心安住而礼拜祂——与诸子及亲族同在。你们众人合掌,归依于持三叉戟之主——Śūlapāṇi。
Verse 91
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः / यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति
随后你们将得见诸天之主——对内心未调伏者而言难以觉知。见到祂时,一切无明与不义(阿达摩)皆被摧灭。
Verse 92
ततः प्रणम्य वरदं ब्रह्माणममितौजसम् / जग्मुः संहृष्टमनसो देवदारुवनं पुनः
随后他们顶礼婆罗摩——赐福者,威光无量——又再度启程前往天雪松林(Devadāru),心中欢喜充满。
Verse 93
आराधयितुमारब्धा ब्रह्मणा कथितं यथा / अजानन्तः परं देवं वीतरागा विमत्सराः
他们依照婆罗摩所说,开始修持供奉之行;虽尚未识得至上神,却已离贪著、离嫉妒。
Verse 94
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च / नदीनां च विविक्तेषु पुलिनेषु शुभेषु च
在种种幽静的空地上,在群山的洞窟中,并在河畔吉祥而孤寂的沙洲上——应当于彼处安住,修习观想。
Verse 95
शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः / केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रविष्ठिताः
有人以水藻为食;有人卧于水中、沉没其内;有人露处于苍穹之下;又有人立于大脚趾尖端,持身平衡不动。
Verse 96
दन्तो ऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे / शाकपर्णाशिनः केचित् संप्रक्षाला मरीचिपाः
有的只靠牙齿所能咀嚼之物而活;有的在臼中捣食;有的以石碾碎。有人以蔬菜与树叶为食;有人将所食之物彻底洗净后方食;更有人唯饮日光之辉而自持——以最清苦的苦行存身。
Verse 97
वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे / कालं नयन्ति तपसा पूजयन्तो महेश्वरम्
有人栖居于树根之下,有人以裸石为床而卧。他们以苦行度日,以自持之禅修与戒行礼敬大自在天摩诃伊湿伐罗(湿婆)。
Verse 98
ततस्तेषां प्रसादार्थं प्रपन्नार्तिहरो हरः / चका भगवान् बुद्धिं प्रबोधाय वृषध्वजः
于是,为赐予他们恩泽,哈罗——救护归依者、除其苦厄者——振起他们的觉知;具牛旗的吉祥世尊(Vṛṣadhvaja)唤醒了他们的分别慧。
Verse 99
देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे / देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः
在此迦利达(克利多)时代之初的克利多瑜伽中,天神——安然慈悦的至上自在天帕拉梅湿伐罗——来到喜马瓦特的吉祥峰顶,并进入天雪松之林(Devadāru)。
Verse 100
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः / उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः
他以圣灰涂身,肢体灰白;他裸形而行,外相奇特,示现非常的苦行之相。手执火炬炭枝,双目赤褐,显现为威烈而清净的行者形貌。
Verse 101
क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः / क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः
有时他带着凶猛忿怒之相大笑;有时又在惊愕迷惘中歌唱。此刻他因情欲之念而起舞;转瞬又一次次放声而哭。
Verse 102
आश्रमे ऽभ्यागतो भिक्षां याचते च पुनः पुनः / मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः
他来到林居道场,一次又一次乞求施食。以摩耶化现自身之形,那位天神遂来到那片森林。
Verse 103
कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् / सा च पूर्ववद् देवेशी देवदारुवनं गता
执持毗那迦神弓的湿婆——在彼处名为“帕尔什瓦天”——化现出高丽,山岳之女。那位女神、诸天之主母,又如先前一般,再次前往雪松林(Devadāru)之森。
Verse 104
दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् / प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम्
见到与女神同来的结发之主迦帕尔丁(湿婆),他们俯首叩地礼拜,由此令诸天之主欢喜。
Verse 105
वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः / अथर्वशिरसा चान्ये रुद्राद्यैर्ब्रह्मभिर्भवम्
他们以种种吠陀真言与吉祥的摩诃湿婆赞颂;又有人诵《阿闼婆首罗》(Atharvaśiras);以鲁陀罗真言等诸梵咒与相关梵赞,礼敬供奉婆伐(湿婆)。
Verse 106
नमो देवादिदेवाय महादेवाय ते नमः / त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे
顶礼于您,诸神之神,大自在天摩诃提婆。顶礼于您,三目主(特里央婆迦),执持殊胜三叉戟者。
Verse 107
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने / सर्वप्रणतदेहाय स्वयमप्रणतात्मने
顶礼于您,披虚空为衣者(迪格瓦萨),奇伟威严、执持皮那迦神弓的主。顶礼于您:一切众生皆向您的圣身俯伏,而您的真我不向任何人屈服。
Verse 108
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च / नमो ऽस्तु नृत्यशीलाय नमो भैरवरूपिणे
顶礼于您,诛灭死神者;顶礼于您,成就万有归寂者。顶礼于您,乐于宇宙之舞者;顶礼于您,示现为怖畏尊(Bhairava)之形者。
Verse 109
नरनारीशरीराय योगिनां गुरवे नमः / नमो दान्ताय शान्ताय तापसाय हराय च
顶礼于彼,圣身兼具男与女,为诸瑜伽行者之上师。再顶礼于诃罗(Hara):自制者、寂静者、苦行者。
Verse 110
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे / नमस्ते लेलिहानाय शितिकण्ठाय ते नमः
顶礼于您,威怖的鲁陀罗,披皮衣者。顶礼于您,炽然如吞噬之火者;顶礼于您,青颈主(Śitikaṇṭha)——我一次又一次向您致敬。
Verse 111
अघोरघोररूपाय वामदेवाय वै नमः / नमः कनकमालाय देव्याः प्रियकराय च
礼敬婆摩提婆(Vāmadeva),其相既不怖亦可怖。亦礼敬金鬘(Kanakamālā),为女神所爱,能令女神欢悦者。
Verse 112
गङ्गासलिलधाराय शम्भवे परमेष्ठिने / नमो योगाधिपतये ब्रह्माधिपतये नमः
礼敬商婆(Śambhu)至上主,恒河之水流注其上。礼敬瑜伽之主;礼敬梵(Brahman,绝对)之主。
Verse 113
प्राणाय च नमस्तुभ्यं नमो भस्माङ्गरागिने / नमस्ते घनवाहाय दंष्ट्रिणे वह्निरेतसे
礼敬汝为普拉那(Prāṇa),即生命之息;礼敬汝身涂圣灰。礼敬汝乘云而行;礼敬象牙獠者,其精种为火。
Verse 114
ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे / आगतिं ते न जनीमो गतिं नैव च नैव च / विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते
礼敬汝——夺去梵天之首者,具迦罗(Kāla,时间)之形者。吾等不知汝之来,亦不知汝之去。噢宇宙之主毗湿维湿伐罗,噢大天(Mahādeva)——汝为何者,即如是者;愿我等礼拜于汝。
Verse 115
नमः प्रमथनाथाय दात्रे च शुभसंपदाम् / कपालपाणये तुभ्यं नमो मीढुष्टमाय ते / नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः
礼敬普罗摩他众之主,赐予吉祥福富者。礼敬汝手持骷髅者;礼敬汝,至慈赐愿者。礼敬金色林伽;礼敬汝为水之林伽。
Verse 116
नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः / नमो भुजङ्गहाराय कर्णिकारप्रियाय च / किरीटिने कुण्डलिने कालकालाय ते नमः
礼敬于您,火与太阳之灵伽;礼敬于您,智慧之灵伽。礼敬于以蛇为饰者,亦礼敬于喜爱迦尔尼迦罗花者。礼敬于戴冠佩耳环之主——礼敬于您,迦罗迦罗(Kālakāla),超越时劫、为“死之死”者。
Verse 117
वामदेव महेशान देवदेव त्रिलोचन / क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः
噢,伐摩提婆(Vāmadeva),噢,大自在天(Maheśāna),噢,天中之天,噢,三眼之主——愿凡因迷妄所作之事皆蒙宽恕。唯有您才是我们真实的归依。
Verse 118
चरितानि विचित्राणि गुह्यानि गहनानि च / ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो ऽसि शङ्कर
您的行迹奇妙无比——隐秘而幽深难测;即使对梵天及一切诸神而言,您仍难以了知,噢,商羯罗(Śaṅkara)。
Verse 119
अज्ञानाद् यदि वा ज्ञानाद् यत्किञ्चित्कुरुते नरः / तत्सर्वं भगवानेन कुरुते योगमायया
无论出于无明,还是出于明知,人所作的一切——皆由世尊(Bhagavān)亲自以瑜伽幻力(Yoga-māyā)成就。
Verse 120
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना / ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा
于是,他们以欢喜充满的内心赞颂大天(Mahādeva),礼拜山主(Girīśa)而说道:“愿我们得以如昔日一般瞻仰您。”
Verse 121
तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः / स्वमेव परमं रूपं दर्शयामास शङ्करः
听闻他们的赞颂之歌,戴着新月为饰的苏摩——圣者商羯罗——向他们显现了自身至上的神圣形相。
Verse 122
तं ते दृष्ट्वाथ गिरिशं देव्या सह पिनाकिनम् / यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः
随后,他们见到山主吉利沙——执持毗那迦神弓的湿婆——与女神同在;那些婆罗门圣贤仍如先前站立,心怀欢喜而恭敬顶礼。
Verse 123
ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् / भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च
于是诸位牟尼皆赞颂大自在天,立于其处——即婆利古、安吉罗、婆悉吒,以及同样在列的毗湿瓦密多。
Verse 124
गौतमो ऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः / मरीचिः कश्यपश्चापि संवर्तश्च महातपाः / प्रणम्य देवदेवेशमिदं वचनमब्रुवन्
乔多摩、阿底利、苏计沙、普罗娑底耶、普罗诃、克罗图、摩利支、迦叶波与三婆尔多——诸大苦行者——顶礼诸天之天主,继而说道:
Verse 125
कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो / ज्ञानेन वाथ योगेन पूजयामः सदैव हि
噢诸天之主、至上大主啊!我们当如何恒常礼敬于您:以业瑜伽,或以智(jñāna),抑或以瑜伽之道?
Verse 126
केन वा देवमार्गेण संपूज्यो भगवानिह / किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः
应以何种神圣之道,才能在此圆满礼敬世尊?何者当行,何者当避?愿为我等尽皆宣说。
Verse 127
देवदेव उवाच एतद् वः संप्रवक्ष्यामि गूढं गहनमुत्तमम् / ब्रह्मणे कथितं पूर्वमादावेव महर्षयः
天中天说道:“诸大圣仙啊,我今将为汝等宣说此至上教法——幽秘、深邃、最为殊胜;昔日于太初之时,已先为梵天所闻。”
Verse 128
सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् / योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम्
数论与瑜伽当知为两种法门,乃有身众生之修持资粮;然数论若与瑜伽相应,便成为赐予众人解脱之道。
Verse 129
न केवलेन योगेन दृश्यते पुरुषः परः / ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम्
至上之人并非仅凭瑜伽而得见;唯有真实之智——当其圆满安立——方能赐予解脱之果(阿波伐伽)。
Verse 130
भवन्तः केवलं योगं समाश्रित्य विमुक्तये / विहाय सांख्यं विमलमकुर्वन्त परिश्रमम्
汝等唯依瑜伽以求解脱;舍弃清净无垢之数论,所作不过徒劳辛苦而已。
Verse 131
एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् / आगतो ऽहमिमं देशं ज्ञापयन् मोहसंभवम्
正因如此,婆罗门诸位——唯以正法为依者——我来到此地,为了宣示迷妄(moha)的根源与生起。
Verse 132
तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् / ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च
因此,你们当修习无垢之智——通向开瓦利亚(kaivalya,独存解脱)之道。确须以精进而证知:先由闻而学,亦当亲自直观而见。
Verse 133
एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः / आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम्
我(Ātman)唯是一者,遍一切处而独存——唯纯粹觉知而已。其性为安乐、无垢、常恒:此即数论(Sāṃkhya)之所示见。
Verse 134
एतदेव परं ज्ञानमेष मोक्षो ऽत्र गीयते / एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः
唯此即为至上之智;此即此处所宣说的解脱。此为无垢之开瓦利亚(Kaivalya),亦被称为梵之境(brahma-bhāva)。
Verse 135
आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः / पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम्
依止此至上实相——安住其中、全然归向其中——大心之修行者、出离的苦行者,得以观见我:遍入并统御整个宇宙的自在主(Īśvara)。
Verse 136
एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् / अहं हि वेद्यो भगवान् मम मूर्तिरियं शिवा
此即至上之智——纯净、唯一、无垢。我唯独是应当被了知的薄伽梵;而此圣母湿婆女神(Śivā)正是我自身的显现之相。
Verse 137
बहूनि साधनानीह सिद्धये कथितानि तु / तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः
此处确已宣说诸多修持(sādhana)以求成就(siddhi)。然而,噢二生中之最胜者,超越一切者乃是属于我的智慧——主宰自身之知。
Verse 138
ज्ञानयोगरताः शान्ता मामेव शरणं गताः / ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि
凡安住于智瑜伽者,寂静安和,唯以我为归依——尤其是那些专注于圣灰(bhasma),在心中恒常观想我者。
Verse 139
मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः / नाशयाम्यचिरात् तेषां घोरं संसारसागरम्
对那些恒住于对我奉爱、垢染已尽的苦行者,我将迅速为他们摧破那可怖的轮回大海(saṃsāra)。
Verse 140
प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः / ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत्
当寂静安定、摄心自持,身披圣灰(bhasma);乐住梵行,且裸行(离于占有与世俗矫饰)之人,应当修持帕舒帕塔誓戒(Pāśupata)。
Verse 141
निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् / गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये
确实,在远古之时,正是我亲自建立了至上的帕舒帕塔誓戒——比秘密更为隐秘,内修之法极其微妙,乃吠陀之精髓——为求究竟解脱。
Verse 142
यद् वा कौपीनवसनः स्याद् वैकवसनो मुनिः / वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम्
又或者,圣者仅着兜裆布,或只披一衣;他博学而乐于诵习吠陀,当观想湿婆——帕舒帕提,众生之主。
Verse 143
एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः / भस्मच्छन्नैर्हि सततं निष्कामैरिति विश्रुतिः
此即帕舒帕塔瑜伽,求解脱者当勤修奉行。传承宣说:常以圣灰涂身、离于私欲之人,应恒常遵行此道。
Verse 144
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः / बहवो ऽनेन योगेन पूता मद्भावमागताः
远离贪著、恐惧与嗔怒,心融于我、归依于我——许多人由此瑜伽而得净化,已证入我的境界。
Verse 145
अन्यानि चैव शास्त्राणि लोके ऽस्मिन् मोहनानितु / वेदवादविरुद्धानि मयैव कथितानि तु
而在此世间亦有其他诸论典——实则具迷惑之性——与吠陀之教相违;然而,它们也唯由我宣说。
Verse 146
वामं पाशुपतं सोमं लाकुलं चैव भैरवम् / असेव्यमेतत् कथितं वेदवाह्यं तथेतरम्
瓦摩、帕舒帕塔、娑摩、拉库拉与怖罗婆(诸道)被宣说为不宜奉行——因其在吠陀之外,亦违背正当的吠陀行持。
Verse 147
वेदमुर्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः / ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम्
婆罗门啊,我确是吠陀之身。那些只通晓他论之义者,不能知我真实自性;唯依永恒的吠陀方能了知,而非舍弃吠陀。
Verse 148
स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् / अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः
当建立此神圣之道,礼敬大自在天(Mahēśvara)。不久,出自主宰、由伊湿伐罗所赐的智慧必将生起——毫无疑虑。
Verse 149
मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः / ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः
诸善中最胜者,愿你们对我生起广大之奉爱。只凭忆念与禅观,诸牟尼之最胜者啊,我将赐予你们我近在咫尺的临在。
Verse 150
इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत / तो ऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् / ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः
如是言毕,圣者娑摩当处隐没。彼等亦于达鲁林中继续礼敬商羯罗(Śaṅkara)——安住梵行,心地寂静,专一归向智慧之瑜伽。
Verse 151
समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः / वितेनिरे बहून् वादान्नध्यात्मज्ञानसंश्रयान्
诸位大心圣贤——宣说梵(Brahman)者——聚集一处,展开了许多论议,皆依内我之智(adhyātma-jñāna)而立。
Verse 152
किमस्य जगतो मूलमात्मा चास्माकमेव हि / को ऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च
“此宇宙之根本为何?而阿特曼(Ātman)果真是我们自身之真我吗?一切存在诸态之因是谁?唯有自在主(Īśvara)而已。”
Verse 153
इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् / आविरासीन्महादेवी देवी गिरिवरात्मजा
当那些安住于禅观之道者如此思惟时,大女神——最胜群山之女的天后——便在他们面前显现。
Verse 154
कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता / स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम्
她光耀如千万日轮,周身缠绕火焰花鬘;以自身无垢的辉光,充满了整个天穹。
Verse 155
तामन्वपश्यन् गिरिजाममेयां ज्वालासहस्रान्तरसन्निविष्टाम् / प्रणेमुरेकामखिलेशपत्नीं जानन्ति ते तत् परमस्य बीजम्
他们见到无量的吉利迦(Girijā),安住于千重火焰之中,便向唯一者顶礼——万有之主的圣妃。真正了知者,于她身上认出至上者的无上种子(bīja)。
Verse 156
असमाकमेषा परमेशपत्नी गतिस्तथात्मा गगनाभिधाना / पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः
她是我们至上的归依——至主帕拉梅湿伐罗之圣配——名为“伽伽那”(Gaganā),如虚空遍满一切,且实为真我本身。于她之中,诸牟尼与婆罗门得见真我,并观此全宇宙之圆满整体。
Verse 157
निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् / पश्यन्ति शंभुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम्
当他们被至上主之圣配所注视之时,就在那一刹那,他们得见万因之因的神——商布(Śambhu),诗圣般的先见者与自在的主宰:鲁陀罗(Rudra),广大者,太古的普鲁沙(Puruṣa)。
Verse 158
आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्र्यम् / ज्ञानं तदैशं भगवत्प्रसादा- दाविर्बभौ जन्मविनाशहेतु
瞻仰女神与自在之主,他们俯首礼拜,得至上喜乐。随后,承蒙薄伽梵之恩,神圣智慧显现——此智慧能断除再生之因。
Verse 159
इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च / माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव
她确是宇宙唯一之胎藏——为一切之真我,亦为一切之统摄者。此摩诃伊湿伐梨之力,無始而常成,名“毗约摩”(Vyomā,虚空/空间),在天穹中灿然如帝座辉耀。
Verse 160
अस्या महत्परमेष्ठी परस्ता- न्महेश्वरः शिव एको ऽथ रुद्रः / चकार विश्वं परशक्तिनिष्ठां मायामथारुह्य स देवदेवः
超越大原理(mahat),亦超越至上造物主(Parameṣṭhin)者,唯有一位大自在天——湿婆,即鲁陀罗。那位诸神之神,乘御安住于至上神力(parā-śakti)之摩耶,而令宇宙显现。
Verse 161
एको देवः सर्वभूतेषु गूढो मायी रुद्रः सकलो निष्कलश्च / स एव देवी न च तद्विभिन्न- मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति
唯有一位神——潜藏于一切众生之中——即鲁陀罗,执持幻力(māyā)者,既具诸相亦超越诸相。祂自身即是女神(Śakti),与她并无差别。了知此真理者,确能趋入不死。
Verse 162
अन्तर्हितो ऽभूद् भगवानथेशो देव्या भर्गः सह देवादिदेवः / आराधयन्ति स्म तमेव देवं वनौकसस्ते पुनरेव रुद्रम्
随后,世尊——伊湿(Īśa)、光辉的婆伽(Bharga)、诸神之神——与女神一同隐没不现。于是那些林居之人又再度礼敬同一位神祇——正是鲁陀罗自身。
Verse 163
एतद् वः कथितं सर्वं देवदेवविचेष्टितम् / देवदारुवने पूर्वं पुराणे यन्मया श्रुतम्
以上我已尽数告知诸位——诸神之神的奇妙行迹——正如我先前在《往世书》中所闻,关于那德瓦达鲁(Devadāru)之林的往事。
Verse 164
यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः / श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम्
凡恒常诵读或聆听此章者,皆得解脱一切罪垢;若使安寂的二生者(dvija)得闻此法者,彼即趋至至上归趣。
Their minds are said to be fixed on outward action and austerity-as-status; the episode exposes that ritual correctness and tapas, without inner discernment and surrender, can become moha (delusion) rather than liberation.
It states that yoga alone does not yield realization of the Supreme; liberation is granted by perfectly established knowledge (jñāna). Sāṃkhya-style discernment, when joined with yogic discipline, becomes liberating.
Brahmā presents Rudra as pervading the universe through guṇa-forms (including Viṣṇu as sattva) and explicitly identifies the consort at Śiva’s side as Nārāyaṇa, grounding a strong unity theology rather than sectarian separation.
The sages are instructed to fashion an imitation liṅga, establish worship with Vedic Śaiva mantras, practice austerity, and recite the Śatarudrīya, culminating in renewed darśana and the arising of Īśvara-given knowledge.
A secret, liberative discipline emphasizing restraint, ash-bearing, celibacy, minimal clothing/possessions, and constant meditation on Paśupati—presented as Pāśupata Yoga supportive of the yoga of knowledge.