
Tīrtha-Māhātmya: Mahālaya, Kedāra, Rivers and Fords, and Devadāru Forest (Akṣaya-Karma Doctrine)
承接前章结语,苏多继续宣说诸圣地(tīrtha)之功德,指出“摩诃罗耶”(Mahālaya)乃摩诃提婆极其秘密的圣所,并以鲁陀罗的足迹为疑者作证。随后本章如行程般次第铺陈诸圣处——计达罗(Kedāra)、普拉克沙降临处(Plakṣāvataraṇa)、迦那迦罗(Kanakhala)、大圣地(Mahātīrtha)、室利山(Śrīparvata)、戈达瓦丽河、迦维丽河及众多渡口——并分别配以沐浴、供水祭(tarpaṇa)、祖灵祭(śrāddha)、布施(dāna)、火供(homa)、持咒(japa)等行持,许以灭罪、升天、至梵天界(Brahmaloka)、白洲(Śvetadvīpa)、亲近鲁陀罗、瑜伽成就与不坏功德(akṣaya)。章中明言伦理与瑜伽前提:唯有持戒自律、清净无贪、安住梵行(brahmacarya)者,方得圣地之果。叙事终至天雪松林(Devadāru),摩诃提婆赐予恩许:永恒圣洁、礼拜者得伽那帕提亚(Gaṇapatya)之位,死于其地者脱离再生;乃至忆念此圣地亦能除罪。末尾更普遍化圣地观:凡有湿婆或毗湿奴之处,即有恒河与一切圣地同在,彰显湿婆—毗湿奴融通之旨,并引向后续关于圣境与解脱之开示。
Verse 1
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चत्रिंशो ऽध्यायः सूत उवाच इदनमन्यते परं स्थानं गुह्याद् गुह्यतमं महत् / महादेवस्य देवस्य महालयमिति श्रुतम्
如是,在《圣龟摩往世书》六千颂集之下分部中,第卅五章至此终了。苏多说道:“此处被视为至上之所——广大无边,秘中之秘——传承称之为‘摩诃罗耶’(Mahālaya),乃大神摩诃提婆之大圣殿。”
Verse 2
तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा / शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम्
于彼处,鲁陀罗——诸神之神、摧灭三城(Tripura)者——在石板上印下足迹,作为赐予不信者的明证。
Verse 3
तत्र पुशुपताः शान्ता भस्मोद्धूलितविग्रहाः / उपासते महादेवं वेदाध्ययनतत्पराः
在那里,安宁的帕舒帕塔奉者,身披圣灰,礼敬大天(摩诃提婆),恒常专注于吠陀的研习与诵读。
Verse 4
स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरः सरम् / नमस्कृत्वाथ शिरसा रुद्रसामीप्यमाप्नुयात्
在彼处沐浴后,瞻礼舍尔瓦(Śarva)的圣足印与位于巴克提普拉(Bhaktipura)之前的湖泊,当以首顶礼;由此得近鲁陀罗(Rudra)。
Verse 5
अन्यच्च देवदेवस्य स्थानं शंभोर्महात्मनः / केदारमिति विख्यातं सिद्धानामालयं शुभम्
此外,还有一处诸神之神、伟灵商婆(Śambhu,湿婆)的圣座,名闻为“计达罗”(Kedāra),乃诸悉地者(Siddha)的吉祥居所。
Verse 6
तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् / पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात्
在那里沐浴后,礼拜大天——旗帜饰以神牛的湿婆(Vṛṣaketanā),并饮那清净之水,便得至象头神主(Gaṇapati)的福乐境界。
Verse 7
श्राद्धदानादिकं कृत्वा ह्यक्ष्यं लभते फलम् / द्विजातिप्रवरैर्जुष्टं योगिभिर्यतमानसैः
行毕施罗达(śrāddha)等祭仪与布施等善行,确能得不坏功德;此功德在最胜的二次生者与摄心精进的瑜伽行者之共处中,愈加增长并得印可。
Verse 8
तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् / तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते
名为“普拉克沙降渡”(Plakṣāvataraṇa)的圣渡口能灭尽诸罪。若在彼处礼拜圣居者Śrīnivāsa,便在毗湿奴之界受尊崇。
Verse 9
अन्यं मगधराजस्य तीर्थं स्वर्गगतिप्रदम् / अक्षयं विन्दति स्वर्गं तत्र गत्वा द्विजोत्तमः
在摩揭陀王之境,另有一处圣渡,能赐通往天界之路。最胜的再生者(婆罗门)到彼处,得不坏之天。
Verse 10
तीर्थं कनखलं पुण्यं महापातकनाशनम् / यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः
迦那迦罗(Kanakhala)是圣洁的朝圣地,功德殊胜,能灭大罪;正是在那里,天神鲁陀罗毁坏了达克沙的祭祀。
Verse 11
तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः / मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः
在彼处,依仪轨触及恒河之水,便得清净,内心具受灌顶般的圣定。其人脱离一切罪垢,命终得至梵天界(Brahmaloka)。
Verse 12
महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् / तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं निगच्छति
此圣地以“摩诃圣渡”(Mahātīrtha)著称,功德圆满,为那罗延(Nārāyaṇa)所喜。若在彼处礼拜赫利希凯沙(Hṛṣīkeśa),便得往生白洲(Śvetadvīpa)。
Verse 13
अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् / तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत्
又有一处最胜而吉祥的圣地,名为“室利山”(Śrīparvata)。凡于彼处舍离生命之息者,必为鲁陀罗(湿婆)所钟爱。
Verse 14
तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः / स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम्
彼处鲁陀罗——大自在天(Mahēśvara)——与女神同在,亲自安住。故在彼处所作一切——如圣浴、供奉皮ṇḍa及诸相关仪轨——皆成最上,得不坏功德。
Verse 15
गोदावरी नदी पुण्या सर्वपापविनाशनी / तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि / सर्वपापविसुद्धात्मा गोसहस्रफलं लभेत्
戈达瓦丽河清净神圣,能灭除一切罪垢。于彼沐浴,并依仪轨向祖灵与诸天行塔尔帕那(献水奠祭)者,身心尽净,得与施舍千牛等同之功德。
Verse 16
पवित्रसलिला पुण्या कावेरी विपुला नदी / तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः / त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा
卡维丽河广大无边,其水清净而神圣。凡于其中沐浴并行献水之仪者,皆得解脱一切罪业——无论守持三夜斋戒,或仅守一夜亦然。
Verse 17
द्विजातीनां तु कथितं तीर्थानामिह सेवनम् / यस्य वाङ्मनसो शुद्धे हस्तपादौ च संस्थितौ / अलोलुपो ब्रह्मचारो तीर्थानां फलमाप्नुयात्
此处已为二次生者(dvija)宣说亲近与奉行诸圣渡处(tīrtha)之法。若其言语与心念清净,手足自持有度,离贪欲,并住于梵行(brahmacarya),此人方真实得诸 tīrtha 之果报。
Verse 18
स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् / तत्र सन्निहितो नित्यं स्कन्दो ऽमरनमस्कृतः
斯瓦弥圣渡(Svāmī-tīrtha)乃大圣地,名闻三界。于彼处,天众常礼敬之斯甘达(Skanda)恒常安住,以显现之圣临常在。
Verse 19
स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् / आराध्य षण्मुखं देवं स्कन्देन सह मोदते
于名为库玛拉-达拉(Kumāra-dhārā)的圣流中沐浴,并为诸天等行作塔尔帕那(tarpaṇa,奠水供养)之后,若如法礼敬六面圣主——善穆迦(Ṣaṇmukha)——便得与斯甘达同在而欢喜。
Verse 20
नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः / तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि / पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः
有一条名闻三界之河,名曰塔姆拉帕尔尼(Tāmraparṇī)。若于彼处沐浴,并以虔敬依仪轨向祖灵(Pitṛ)行塔尔帕那奠水供养,甚至能度脱曾造罪之先祖——对此毫无疑惑。
Verse 21
चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवे ऽक्षयम् / तीर्थं तत्र भवेद् वस्तुं मृतानां स्वर्गतिर्ध्रुवा
在迦维梨河(Kāverī)之源,有一处不坏圣渡,名为月圣渡(Candratīrtha)。凡于彼处舍身者,必得安稳通达天界。
Verse 22
विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् / भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः
在温提耶足地(Vindhyapāda),人们得见常住大自在天——萨达湿婆(Sadāśiva),诸神之神。凡于彼处以虔敬瞻礼者,便不再见阎摩之居所,噢诸位二生者。
Verse 23
देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् / तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति
在德维迦河上有一处名为“弗利沙”(Vṛṣa)的圣渡口,为诸成就者(悉地者)所常至。若于彼处沐浴,并以水作供献(阿尔伽),亦能获得瑜伽之成就。
Verse 24
दशाश्वमेधिकं तीर्थं सर्वपापविनाशनम् / दशानामश्वमेधानां तत्राप्नोति फलं नरः
名为“达沙阿湿婆梅陀希迦”(Daśāśvamedhika)的圣渡口能灭尽诸罪。凡至彼处者,所得功德等同于十次阿湿婆梅陀(马祭)。
Verse 25
पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् / तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत्
“普恩达利迦”(Puṇḍarīka)乃大圣渡口,为婆罗门所常亲近。若以调御而一心之心前往,即得名为“普恩达利迦之果”的灵性功德。
Verse 26
तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् / ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते
在一切圣渡口之中,至上的圣地被称为“梵天圣渡”(Brahma-tīrtha)。若于彼处礼拜梵天(Brahmā),便在梵天界(Brahma-loka)受尊崇而显耀。
Verse 27
सरस्वत्या विनशनं प्लक्षप्रस्त्रवणं शुभम् / व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् / यमुनाप्रभवं चैव सर्वपापविशोधनम्
“(这些是):萨拉斯瓦蒂河隐没之处、普拉克沙(Plakṣa)的吉祥泉源、毗耶娑圣渡——至上的提尔塔——迈那迦山(Maināka),群山之最,以及亚穆那河的发源之域;这一切皆能净化,洗除诸罪。”
Verse 28
पितॄणां दुहिता देवी गन्धकालीति विश्रुता / तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत्
女神以“甘达迦梨”(Gandhakālī)之名著称,据说是诸皮特利(Pitṛ,祖灵之父)之女。于她的圣水中沐浴者得升天界;甚至亡者亦可成为忆念前生之人。
Verse 29
कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् / प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत्
“俱毗罗峰”(Kuberatuṅga)乃灭罪圣地,常为悉达(Siddha)与恰罗那(Cāraṇa)所游礼。若于彼处舍身,则成毗沙门天(俱毗罗)之侍从。
Verse 30
उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा / तत्राभ्यर्च्य महादेवीं कोसहस्रफलं लभेत्
彼处名为“优摩峰”(Umātuṅga),乃她——鲁陀罗所钟爱者——之所住。于彼礼拜摩诃提毗(Mahādevī),得福德等同十万倍。
Verse 31
भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् / कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम
在“婆利古峰”(Bhṛgutunga),修行苦行;亦行施舍与施行舍罗陀(śrāddha)祭祖之礼。此乃我之圣教:如是功业,能净化家族两系(父系与母系)各七代。
Verse 32
काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् / तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया
迦叶(Kāśyapa)之大圣渡处,传承中名为“迦罗萨尔帕”(Kālasarpa)。于彼应常行舍罗陀(śrāddha)供献,以愿诸罪消灭。
Verse 33
दशार्णायां तथा दानं श्राद्धं होमस्तथा जपः / अक्षयं चाव्ययं चैव कृतं भवति सर्वदा
同样,在达沙尔那之地,凡所行之事——布施、为祖先行施罗陀(śrāddha)、火供(homa)与持诵(japa)——其功德之果恒常无尽、不坏不灭。
Verse 34
तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् / दत्त्वा तु दानं विधिवद् ब्रह्मलोके महीयते
有一处名为“俱卢阇伽罗”(Kurujāṅgala)的圣地渡口,为诸“二次生者”(dvijāti)所常至。若有人依正仪于彼处布施,便在梵天世界——梵天界(Brahmaloka)中受尊崇。
Verse 35
वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च / धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे
在伟大的圣地渡口“吠多罗尼”(Vaitaraṇī),亦在“金坛”(Svarṇavedī);又在名为“法背”(Dharmapṛṣṭha)的湖中——此处至吉至上,属梵天——(于彼沐浴礼敬)能得广大功德。
Verse 36
भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे / महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम्
凡在婆罗多(Bharata)圣净的住林(āśrama)中所施之物——在吉祥的“施罗陀榕”(Śrāddha-vaṭa,祖先祭仪之榕树)以及在考希姬河(Kauśikī)上的大湖——皆成“不尽之施”(akṣaya-dāna),功德不失不竭。
Verse 37
मुञ्जपृष्ठे पदं न्यस्तं महादेवेन धीमता / हिताय सर्वभूतानां नास्तिकानां निदर्शनम्
在茅草(muñja)之背上,睿智的摩诃提婆(Mahādeva)安置了祂的足迹——为一切众生之安乐而现的吉祥瑞相,亦是用以警醒不信者的明证。
Verse 38
अल्पेनापि तु कालेन नरो धर्मपरायणः / पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः
即使在短暂时日内,归依正法之人也会迅速抛却罪垢——如蛇蜕去磨损的旧皮。
Verse 39
नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् / उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम्
有一处圣地渡口(tīrtha),名为“迦那迦难陀”(Kanakanandā),闻名三界。它位于Muñjapṛṣṭha之北,常为众多梵仙(brahmarṣi)所朝礼供奉。
Verse 40
तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः / दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् / ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः
在彼处沐浴后,二次生者(dvija)被说能以此身升天。又在彼处所行的施祖供(Śrāddha)常被宣说为结不坏之果。人在彼处沐浴,罪垢消尽,便得解脱三重之债:对诸天、对圣仙、对祖先。
Verse 41
मानसे सरसि स्नात्वा शक्रस्यार्धासनं लभेत् / उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम्
在摩那萨湖(Mānasa)沐浴者,可得与释迦罗(Śakra,因陀罗)半等尊荣之座。若前往北方的摩那萨,则获得无上成就(siddhi)。
Verse 42
तस्मान्निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम् / कामान् सलभते दिव्यान् मोक्षोपायं च विन्दति
因此,应当依自身能力与力量如法修行施祖供(Śrāddha);如此便能获得诸愿的天赐圆满,并且找到通向解脱(mokṣa)之道。
Verse 43
पर्वतो हिमवान्नाम नानाधातुविभूषितः / योजनानां सहस्राणि सो ऽशीतिस्त्वायतो गिरिः / सिद्धचारणसंकीर्णो देवर्षिगणसेवितः
有一座名为希摩梵(Himavān,喜马拉雅)的圣山,饰以种种矿石与金属之华。其延展达八万由旬。山中充满悉达与恰罗那,诸天仙圣(Devarṣi)成群来往,礼敬供奉。
Verse 44
तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः / तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति
其处有一方可喜的圣池,名曰苏舒姆那(Suṣumnā)。博学的再生者(dvija,婆罗门)若往彼处,即得解脱“梵杀罪”(brahma-hatyā,杀婆罗门之罪)。
Verse 45
श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् / तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान्
在彼处所行的施食祭(Śrāddha)成为不朽不坏;凡于彼处所施之物,皆得大福与大提升。确然能如法度脱诸祖灵(Pitṛ)——前十代与后十代。
Verse 46
सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः / नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः
无论何处,希摩梵皆为圣地;恒河亦于四方皆圣。凡流入大海之诸河皆圣,而大海本身尤为殊胜清净。
Verse 47
बदर्याश्रममासाद्य मुच्यते कलिकल्मषात् / तत्र नारायणो देवो नरेणास्ते सनातनः
抵达跋陀梨道场(Badarī-āśrama)者,得脱离迦梨时代之垢染。彼处那罗延天(Nārāyaṇa)与那罗(Nara)同住,恒常不变。
Verse 48
अक्षयं तत्र दानं स्यात् जप्यं वापि तथाविधम् / महादेवप्रियं तीर्थं पावनं तद् विशेषतः / तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः
在彼处,任何布施(dāna)皆成无尽功德;同样,在彼处所行的持诵(japa)亦得不失之果。那圣渡口(tīrtha)尤为净化,且为大天摩诃提婆所钟爱。若以专注之心于彼行施祖祭(Śrāddha),便能度脱一切祖先。
Verse 49
देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् / महादेवेन देवेन तत्र दत्तं महद् वरं
雪松神林(Deodar Forest)功德殊胜,清净神圣,为悉达与乾闼婆所往来供奉。于彼处,大天摩诃提婆赐下宏大的恩赐。
Verse 50
मोहयित्वा मुनीन् सर्वान् पुनस्तैः संप्रपूजितः / प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान्
先令诸牟尼尽皆迷惑,而后又为他们重新恭敬供奉;于是吉祥的主宰——伊湿(Īśa)心生欢喜,便对那些首座仙人、其心已由信敬与戒行所陶冶者,开示说道。
Verse 51
इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा / मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ
在这可爱而最胜的精舍(āśrama)中,你们将恒常居住;与对我的观想相应之后,终将获得成就(siddhi)。
Verse 52
ये ऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः / तेषां ददामि परमं गाणपत्यं हि शाश्वतम्
世间凡以法(dharma)为依而在此礼敬供奉我者,我赐予他们至上且永恒的“伽那主位”(Gaṇapatya)——即在诸伽那(Gaṇas)之中为主的尊权。
Verse 53
अत्र नित्यं वसिष्यामि सह नारायणेन च / प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति
我将永远住于此处,与那罗延同在。凡人在此舍弃生命之息者,不再复受后生。
Verse 54
संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः / तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः
噢,最胜的再生者啊,即便远赴他乡之人,只要忆念此圣渡处(tīrtha),我便灭尽他们的一切罪业。
Verse 55
श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा / ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम्
在此处,祭祖仪式(śrāddha)、布施、苦行、火供、供奉食团(piṇḍa),以及禅观、持咒(japa)与戒律行持——凡所修作,功德皆成不坏(akṣaya)。
Verse 56
तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः / देवदारुवनं पुण्यं महादेवनिषेवितम्
因此,诸再生者当竭尽所能前往瞻礼圣洁的天松林(Devadāru),此林因大天(湿婆)恒常驻临与受奉而得清净。
Verse 57
यत्रेस्वरो महादेवो विष्णुर्वा पुरुषोत्तमः / तत्र सन्निहिता गङ्गातीर्थान्यायतनानि च
凡主临在之处——或为大天(湿婆),或为至上人格者毗湿奴(Puruṣottama)——彼处即当知恒有恒河及其一切圣渡,并诸圣所与道场真实同在。
Beyond bathing and offerings, it conditions tīrtha-fruit on inner discipline—purity of speech and mind, controlled limbs, freedom from greed, and brahmacarya—so the pilgrimage becomes a moral-yogic practice rather than mere travel.
It articulates samanvaya: sacredness is not confined to a sectarian map but inheres in divine presence itself, allowing Śaiva and Vaiṣṇava worship to be read as convergent paths within one sacral cosmology.
The footprint functions as a tangible ‘pramāṇa-like’ sign for skeptics, anchoring the invisible sanctity of the tīrtha in a visible marker while also emphasizing Rudra’s direct immanence in the landscape.