Opening the text

Kṣīradhenu-dāna-vidhi
Ritual-Manual (Dāna-vidhi / Merit-Economy)
वराह–पृथिवीसंवादेऽस्मिन्नध्याये क्षीरधेनुदानविधिः प्रतिपाद्यते। गोमयेन शुद्धीकृतभूमौ कुशास्तरणं कृत्वा कृष्णाजिनं स्थापयेत्, गोमयमण्डलं/कुण्डलिकां निर्माय क्षीरकुम्भं वत्सभागं च विन्यसेत्। धेनोर्मुखशृङ्गयोः सुवर्णनिर्माणं, जिह्वायाः शर्करारचना, नेत्रयो रत्नस्थापनं, वस्त्रावरणं च; दिशासु तिलधान्यादिभाजनानां विन्यासः कथ्यते। गन्धपुष्पधूपदीपैः पूजां कृत्वा वैदिकमन्त्रैः ब्राह्मणाय दानं समर्पयेत्। दातुः पाठकस्य च इन्द्रलोक-विष्णुलोकप्राप्तिः, पापनाशः, मोक्षलाभश्च फलरूपेण निगद्यते।
Verse 1
अथ क्षीरधेनुदानविधिः ॥ होतोवाच ॥ क्षीरधेनुं प्रवक्ष्यामि तां निबोध नराधिप ॥ अनु्लिप्ते महीपृष्ठे गोमयेन नृपोत्तम ॥ १-१०५ ॥ गोचर्ममात्रमानेन कुशानास्तीर्य सर्वतः ॥ तस्योपरि महाराज न्यसेत्कृष्णाजिनं बुधः ॥
अथ क्षीरधेनुदानविधिः। होतोवाच—क्षीरधेनुं प्रवक्ष्यामि, तां निबोध नराधिप। अनुलिप्ते महीपृष्ठे गोमयेन नृपोत्तम, गोचर्ममात्रमानेन कुशान् आस्तीर्य सर्वतः। तस्योपरि महाराज न्यसेत् कृष्णाजिनं बुधः॥
Verse 2
तत्र कृत्वा कुण्डलिकां गोमयेन सुविस्तृताम् ॥ क्षीरकुम्भं ततः स्थाप्य चतुर्थांशेन वत्सकम्
तत्र गोमयेन सुविस्तृतां कुण्डलिकां कृत्वा, ततः क्षीरकुम्भं स्थाप्य, चतुर्थांशेन वत्सकं (न्यसेत्)।
Verse 3
सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च ॥ प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत्
सुवर्णमुखशृङ्गाणि चन्दनागुरुकाणि च । प्रशस्तपत्रश्रवणां तिलपात्रोपरि न्यसेत् ॥
Verse 4
इक्षुपादां दर्भरोमां सितकम्बलसंवृताम् ॥ ताम्रपृष्ठां कांस्यदोहां पट्टसूत्रमयीं शुभाम्
इक्षुपादां दर्भरोमां सितकम्बलसंवृताम् । ताम्रपृष्ठां कांस्यदोहां पट्टसूत्रमयीं शुभाम् ॥
Verse 5
पुच्छं च नृपशार्दूल नवनीतमयस्तनीम् ॥ स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम्
पुच्छं च नृपशार्दूल नवनीतमयस्तनीम् । स्वर्णशृङ्गीं रौप्यखुरां पञ्चरत्नसमन्विताम् ॥
Verse 6
चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि विन्यसेत् ॥ सप्तधान्ययुतं पात्रे दिक्षु दिक्षु च विन्यसेत्
चत्वारि तिलपात्राणि चतुर्दिक्ष्वपि विन्यसेत् । सप्तधान्ययुतं पात्रे दिक्षु दिक्षु च विन्यसेत् ॥
Verse 7
मुखं गुडमयं तस्या जिह्वां शर्करया तथा ॥ फलप्रशस्तदशनां मुक्ताफलमयेक्षणाम्
मुखं गुडमयं तस्या जिह्वां शर्करया तथा । फलप्रशस्तदशनां मुक्ताफलमयेक्षणाम् ॥
Verse 8
एवं लक्षणसंयुक्तां क्षीरधेनुं प्रकल्पयेत् ॥ आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैः समर्चयेत्
एवं लक्षणसंयुक्तां क्षीरधेनुं प्रकल्प्य तां वस्त्रयुग्मेन आच्छाद्य गन्धपुष्पैः सम्यक् समर्चयेत्।
Verse 9
पादुकोपानहौ छत्रं दत्त्वा दानं समर्पयेत् ॥ दद्यादनेन मन्त्रेण क्षीरधेनुं प्रयत्नतः
पादुकोपानहौ छत्रं च दत्त्वा दानं समर्पयेत्। अनेन मन्त्रेण प्रयत्नतः क्षीरधेनुं दद्यात्।
Verse 10
आप्यायस्वेति मन्त्रेण वेदोक्तेन विधानतः ॥ आश्रयः सर्वभूतानामित्यादि नरपुङ्गव
‘आप्यायस्व’ इति वेदोक्तमन्त्रेण विधानतः; ‘आश्रयः सर्वभूतानाम्’ इत्यादिभिश्च, हे नरपुङ्गव।
Verse 11
आप्यायस्वेति मन्त्रेण क्षीरधेनुं प्रसादयेत् ॥ प्रतिग्राही पठेन्मन्त्रमेष दानविधिः स्मृतः
‘आप्यायस्व’ इति मन्त्रेण क्षीरधेनुं प्रसादयेत्। प्रतिग्राही मन्त्रम् पठेत्—एष दानविधिः स्मृतः।
Verse 12
दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ॥ एतां हेमसहस्रेण शतेनाथ स्वशक्तितः
दीयमानां प्रपश्यन्ति ये, ते परमां गतिं यान्ति। अथ स्वशक्तितः शतेन हेम्ना सहस्रेण वा एतां दद्यात्।
Verse 13
दत्त्वा धेनुं महाराज शृणु तस्यापि यत्फलम् ॥ षष्टिवर्षसहस्रं तु इन्द्रलोके महीयते
धेनुं दत्त्वा महाराज शृणु तस्यापि यत्फलम् । षष्टिवर्षसहस्रं तु इन्द्रलोके महीयते ॥
Verse 14
पित्रादिभिश्च सहितो ब्रह्मणो भवनं व्रजेत् ॥ दिव्यं विमानमारूढो दिव्यस्रगनुलेपनः
पित्रादिभिश्च सहितो ब्रह्मणो भवनं व्रजेत् । दिव्यं विमानमारूढो दिव्यस्रगनुलेपनः ॥
Verse 15
क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति ॥ द्वादशादित्यसंकाशे विमानवरमण्डिते
क्रीडित्वा सुचिरं कालं विष्णुलोकं स गच्छति । द्वादशादित्यसंकाशे विमानवरमण्डिते ॥
Verse 16
गीतवादित्रनिर्घोषैरप्सरोभिश्च सेविते ॥ तत्रोष्य विष्णोर्भवने विष्णुसायुज्यमाप्नुयात्
गीतवादित्रनिर्घोषैरप्सरोभिश्च सेविते । तत्रोष्य विष्णोर्भवने विष्णुसायुज्यमाप्नुयात् ॥
Verse 17
यं इमं शृणुयाद्राजन पठेद्वा भक्तिभावतः ॥ सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति
यं इमं शृणुयाद्राजन पठेद्वा भक्तिभावतः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
Verse 18
धूपदीपादिकं कृत्वा ब्राह्मणाय निवेदयेत् ॥ वस्त्रादिभिरलंकृत्य मुद्रिकाकर्णकुण्डलैः
धूपदीपादिकं सम्यक् कृत्वा ब्राह्मणाय निवेदयेत्। वस्त्रादिभिरलंकृत्य मुद्रिकाकर्णकुण्डलैः॥
Within the Varāha–Pṛthivī dialogue, Varāha turns from general dharma-teaching to a tightly prescriptive dāna-vidhi, introducing the kṣīradhenu (a ritually constructed “milk-cow”) as a paradigmatic gift that converts material resources into merit through correct procedure and qualified transfer.
Stepwise construction, installation, worship, and donation of the kṣīradhenu: the donor prepares a purified ritual ground (gomaya-smearing), lays kuśa and kṛṣṇājina, forms a gomaya maṇḍala/kuṇḍalikā, installs the milk-pot (kṣīra-kumbha) and calf portion, ornaments the cow with specified substances and directional placements of grains/tila, performs pūjā-upacāras, and formally gives the completed gift to a brāhmaṇa with Vedic mantras.
The rite culminates in mantra-sanctioned handover (saṅkalpa + dāna) to a brāhmaṇa, presenting the gift as ritually ‘alive’ and cosmically legible—its materials, directions, and adornments integrated into a single offering that stabilizes social order (proper recipient) and moral causality (proper method).
The chapter closes with a phalaśruti promising high post-mortem attainments (Indraloka and Viṣṇuloka) and pāpa-kṣaya; both the donor and the reciter/hearer are said to gain merit, with liberation/soteriological uplift framed as the ultimate outcome of regulated generosity.
No explicit toponyms or river systems are named in the provided passage; the setting is a generalized ritual ground (mahīpṛṣṭha) prepared for donation.
The text frames ethical action through regulated generosity (dāna) and disciplined ritual procedure: wealth and crafted objects are redistributed to a qualified recipient (brāhmaṇa) following a codified sequence of purification, installation, worship, and mantra-recitation. The internal logic links correct giving to social order (recipient legitimacy, donor restraint) and to moral causality (phalaśruti describing reduced pāpa and improved post-mortem states).
No tithi, nakṣatra, lunar month, or seasonal marker is specified in the provided verses. The timing is presented as situational—performed when the donor undertakes the dāna—rather than calendrically fixed.
While primarily a ritual manual, the procedure foregrounds earth-contact materials (gomaya, kuśa, grains, tila) and prescribes controlled, formalized use rather than extractive consumption. In an environmental-ethics reading aligned with Pṛthivī-focused Purāṇic discourse, the chapter models a norm where terrestrial resources are ritually accounted for, redistributed, and symbolically reinvested into social and cosmological order through dāna.
No dynastic lineages or named historical figures appear in the provided excerpt. The addressee is a generic royal interlocutor (e.g., narādhipa, nṛpottama, mahārāja), and the ritual recipient category is brāhmaṇa; the cosmological figures invoked in outcomes include Indra (Indraloka) and Viṣṇu (Viṣṇuloka, Viṣṇu-sāyujya).
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.