Sukta 9.88
एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः । वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन् ॥
eté sómā áti vārā́ṇy avyā́ divyā́ na kośā́so abhrá-varṣāḥ | vṛ́thā samudráṃ síndhavo na nīcī́ḥ sutā́so abhí kalaśā́ṃ asṛgran ||
एते सोमाः अतिवाराणि अव्याः दिव्याः न कोशासः अभ्रवर्षाः। वृथा समुद्रं सिन्धवो न नीच्यः सुतासः अभि कलशान् असृग्रन्—चित्ताधारे।
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.