Sukta 5.87
ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्वेवयामरुत् । दीर्घं पृथु पप्रथे सद्म पार्थिवं येषामज्मेष्वा महः शर्धांस्यद्भुतैनसाम् ॥
te rudrā́saḥ su-mákhā agnáyo yáthā tuvi-dyumnā́ avantv evayā́marut | dī́rghaṃ pṛthú paprathé sádma pārthívam yeṣā́m ájmeṣv ā́ maháḥ śárdhāṃsy ádbhuta-enasām ||
ते रुद्रासः सुमखाः अग्नयो यथा तुविद्युम्ना एवयाममरुत् अस्मान् अवन्तु। दीर्घं पृथु च पार्थिवं सद्म पप्रथे येषाम् अज्मेषु महः शर्धांसि अद्भुतैनसाम् (अद्भुतबलानि, अनिन्द्यानि) चरन्ति।
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.