Sukta 10.116
ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु । ममत्तु येन वरिवश्चकर्थ ममत्तु येन निरिणासि शत्रून् ॥
mámattu tvā divyáḥ sóma indra mámattu yáḥ sū́yate pārthivéṣu | mámattu yéna várivaś cakártha mámattu yéna nir-iṇā́si śátrūn ||
हे इन्द्र, दिव्यः सोमः त्वा ममत्तु; यः पार्थिवेषु सूयते स सोमोऽपि त्वा ममत्तु। येन त्वं नः वरिवश्चकर्थ स त्वा ममत्तु; येन त्वं शत्रून् निरिणासि स त्वा ममत्तु।
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.