Deity · Linga Purana

शक्तिदेवी in the Linga Purana

देवीNamed in 40 verses

In this book

Named as
Mahādevī, Ambika, Mahāmāyā, Bhuvaneśvarī
  1. Bhaga 130
  2. Bhaga 210

Every verse that names शक्तिदेवी

40 verses

  1. 1.13.7

    द्वात्रिंशद्गुणसंयुक्ताम् ईश्वरीं सर्वतोमुखीम्। स तां दृष्ट्वा महातेजा महादेवीं महेश्वरीम्॥

  2. 1.13.9

    एह्येहीति महादेवि स तिष्ठत्प्राञ्जलिर्विभुम्। विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु॥

  3. 1.13.14

    जपित्वा तु महादेवीं ब्रह्मा लोकनमस्कृताम्। प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा॥

  4. 1.18.32

    नमोऽम्बिकाधिपतये उमायाः पतये नमः । हिरण्यबाहवे तुभ्यं नमस्ते हेमरेतसे ॥

  5. 1.19.15

    तदाप्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता; लिङ्गवेदी महादेवी, लिङ्गं साक्षान्महेश्वरः।

  6. 1.22.6

    “विभो रुद्र महामाये! इच्छया वां कृतौ त्वया।” तयोस्तद्वचनं श्रुत्वा स तु तानभिनन्द्याभिमान्य च।

  7. 1.41.13

    तस्माद् ब्रह्मा महादेव्याश्चांशजश्च हरिस्तथा। अण्डजः पद्मजश्चैव भवाङ्गभव एव च॥

  8. 1.41.45

    वामां रौद्रीं महामायां वैष्णवीं वारिजेक्षणाम् । कलां विकिरिणीं चैव कालीं कमलवासिनीम् ॥ एताः शक्तयः पतिना सह शिवेनाभिन्नाः ध्येयाः।

  9. 1.53.58

    तदा ह्यदृश्यं गत एव यक्षः। तदानीमेवाम्बिका हैमवती शुभास्या उमा शुभैराभरणैरनेकैः सुशोभमाना त्वनु चाविरासीत्॥

  10. 1.53.60

    निशम्य तद्यक्षमुमाम्बिकाह त्वगोचरश्चेति सुराः सशक्राः प्रणेमुरेनां मृगराजगामिनीम् उमामजां लोहितशुक्लकृष्णाम्॥

  11. 1.63.38

    क्रोधवशा वराङ्गना महामाया रक्षोगणं व्यजीजनत्; तद्वद् रुद्राणां गणं च, गोमहिष्यौ रूपेण सा देवी।

  12. 1.65.109

    महाबलो महातेजा ह्यन्तरात्मा मृगालयः। लम्बितोष्ठश्च निष्ठश्च महामायः पयोनिधिः॥

  13. 1.70.328

    प्रागुक्ता सा महादेवी स्त्रीरूपेणेह सती ह्यभवत्। जगद्धिताय देवी दक्षेण पुरा समाराधिता।

  14. 1.70.333

    ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता। गणाम्बिका महादेवी नन्दिनी जातवेदसी॥

  15. 1.70.336

    द्वापरान्तविभागे, हे सुव्रते, अस्याः नामानि इमानि—कालरात्रिः, महामाया, रेवती, भूतनायिका च; भूतगणानां स्वामिनी नेतृ च।

  16. 1.70.345

    महादेवीकले द्वे तु प्रज्ञा श्रीश्च प्रकीर्तिते। आभ्यां देवीसहस्राणि यैर्व्याप्तमखिलं जगत्॥

  17. 1.72.154

    निरीक्षणादेव विभोऽसि दग्धुं पुरत्रयं चैव जगत्त्रयं च। लीलालसेनाम्बिकया क्षणेन दग्धं किलेषुश्च तदाथ मुक्तः॥

  18. 1.74.20

    रुद्रोपरि महादेवः प्रणवाख्यः सदाशिवः। लिङ्गवेदी महादेवी त्रिगुणा त्रिमयाम्बिका॥

  19. 1.77.78

    अग्रतः तमोमूर्तिं मध्ये देवीं तथाम्बिकाम्। पञ्चभूतानि तन्मात्रापञ्चकं चैव दक्षिणे॥

  20. 1.82.24

    भुक्तिमुक्तिप्रदा दिव्या भक्तानामप्रयत्नतः । सा मे साक्षान्महादेवी पापम् आशु व्यपोहतु ॥