Adhyaya 26
Mahesvara KhandaKaumarika KhandaAdhyaya 26

Adhyaya 26

第26章叙述湿婆与帕尔瓦蒂婚礼的正式成就:仪轨严整、队列宏阔,宛如宇宙性的圣礼。梵天祈请大自在天开启婚仪;一座镶嵌珠宝的盛大仪式之城与婚礼曼荼罗(婚坛)被精心布置。除去怀敌意的阿修罗(daitya)之外,诸界众生皆受邀请,使此事成为遍及宇宙的礼赞。 诸天神为湿婆奉献装饰与权标:额上新月、kaparda发髻之式、骷髅花鬘、衣饰与兵器。无量伽那与天界乐师云集;鼓声、歌咏、阿普萨拉舞与吠陀祭官的主持交织,迎亲行列庄严前行。 至喜马拉雅王庭,出现礼法疑难:新娘之兄缺席,难以行lājāhoma之仪;又有人问及新郎的家族与gotra。毗湿奴以乌玛之兄的身份承担其职,并阐明亲属之理以保仪轨无失。梵天为hotṛ主祭,供献与dakṣiṇā分别施与梵天、阿耆尼及诸仙圣。章末以果报偈(phalaśruti)宣示:听闻或诵读此婚礼圣事者,得长久增上之吉祥(maṅgala-vṛddhi)。

Shlokas

Verse 1

नारद उवाच । अथ ब्रह्मा महादेवमभिवाद्य कृतांजलिः । उद्वाहः क्रियतां देव इत्युवाच महेश्वरम्

那罗陀说道:随后梵天合掌礼敬大天神摩诃提婆,对大自在天摩诃湿伐罗说道:“主啊,愿婚礼仪轨得以举行。”

Verse 2

तस्य तद्वचनं श्रुत्वा प्राहेदं भगवान्हरः । पराधीना वयं ब्रह्मन्हिमाद्रेस्तव चापि यत्

圣者诃罗听罢其言,答曰:“婆罗门啊,我等在此乃随顺他意——实则随顺喜马德里,亦随顺于汝。”

Verse 3

यद्युक्तं क्रियतां तद्धि वयं युष्मद्वशेऽधुना । ततो ब्रह्मा स्वयं दिव्यं पुरं रत्नमयं शुभम्

“凡合乎正理者,皆可施行;如今我等已在汝等掌中。”于是梵天亲自营造一座吉祥的天城,通体由宝珠所成。

Verse 4

उद्वाहार्थं महेशस्य तत्क्षणात्समकल्पयत् । शतयोजनविस्तीर्णं प्रासादशतशोभितम्

为大自在天(摩醯湿)的婚礼,他顷刻布置成就:城郭广袤百由旬,辉映以数百宫殿。

Verse 5

पुरेतस्मिन्महादेवः स्वयमेव व्यतिष्ठत । ततः सप्तमुनीन्देवश्चिंतिताब्यागतान्पुरः

在那城中,大天(摩诃提婆)亲自安住。随后主宰但以一念召之,便见七圣仙已至其前。

Verse 6

प्राहिणोदंबिकायाश्च स्थिरपत्रार्थमीश्वरः । सारुंधतीकास्ते तत्र ह्लादयंतो हिमाचलम्

为求得坚贞之叶作为吉祥之信物,主宰遣他们往见安毗迦。诸位尊者—德行如阿伦达蒂—遂在彼处令喜马山欢悦。

Verse 7

सभार्यामीश्वरगुणैः स्थिरपत्राणि चादधुः । ततः संपूजितास्तेन पुनरागम्य तेऽचलात्

他们与妻子同在,凭借主宰自身的德性,牢牢持守那坚固的叶之信物;随后蒙祂礼敬,他们又从山中返回。

Verse 8

न्यवेदयंस्र्यंबकाय स च तानभ्यनंदत । उद्वाहार्थं ततो देवो विश्वं सर्वं न्यमंत्रयत्

他们将此事禀告三目主(Tryambaka),祂为他们而欢喜。随后为婚礼之故,神明邀请了整个宇宙。

Verse 9

समागतं च तत्सव विना दैत्यैर्दुरात्मभिः । स्थावरं जंगमं यच्च विश्वं विष्णुपुरोगमम्

于是众皆云集——唯独恶心的达那婆(Dānava)未至。宇宙中一切静者与动者皆来赴会,以毗湿奴(Viṣṇu)为先导。

Verse 10

सब्रह्यकं पुरारातेर्महिमानमवर्धयत् । ततस्तं विधिराहेदं गन्धमादनपर्वते

于是,与梵天(Brahmā)同在,三城之敌(湿婆 Śiva)的威光愈加增长。随后在甘达摩达那山(Gandhamādana),造物主梵天对他说了这些话。

Verse 11

पुरे स्थितं विवाहस्य देव कालः प्रवर्तते । ततस्तस्य जटाजूटे चंद्रखंडं पितामहः

“在城中,婚礼的神圣时辰如今已然开启。”随后祖父梵天(Brahmā)将一片新月安置在祂盘结的发髻之上。

Verse 12

बबंध प्रणयोदारविस्फारितविलोचनः । कपर्द्दं शोभनं विष्णुः स्वय चक्रेऽस्य हर्षतः

毗湿奴以宽厚慈爱使双目舒展,欢喜地亲手为祂编结并系上华美的kaparda顶髻。

Verse 13

कपालमालां विपुलां चामुण्डा मूर्ध्न्यबंधत । उवाच चापि गिरिशं पुत्रं जनय शंकर

查蒙达在祂顶上系上宏大的骷髅花鬘,又对吉利沙说道:“噢,商羯罗啊,请诞生一子!”

Verse 14

यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति । सूर्यो ज्वलच्छिखारक्तं भाबासितजगत्त्रयम्

“凡诛灭诸代底耶王族之系,并以血供令我满足者……” 太阳以炽焰般的红光照耀,映照三界。

Verse 15

बबंध देवदेवस्यच स्वयमेव प्रमोदतः । शेषवासुकिमुख्याश्च ज्वलंतस्तेजसा शुभाः

又在欢悦中,他们亲自装点诸神之神。舍沙、婆苏吉及诸最上龙蛇,吉祥而光耀,皆以威光炽然。

Verse 16

आत्मानं भूषणस्थाने स्वयं ते चक्रुरीश्वरे वायवश्च ततस्तीक्ष्णश्रृंगं हिमगिरिप्रभम्

他们自身化作主宰身上的庄严饰物,各安其位为祂作装点。随后风神众为祂造作一支尖锐之角,光辉如喜马拉雅山。

Verse 17

वृषं विभूषयामासुर्नानारत्नोपपत्तिभिः । शक्रो गजजिनं गृह्य स्वयमग्रे व्यवस्थितः

众人以种种珍宝装饰圣牛。帝释天(释迦罗)手持象皮,亲自立于前列,准备奉献。

Verse 18

विना भस्म समाधाय कपाले रजतप्रभम् । मनुजास्थिमयीं मालां प्रेतनाथश्च वन्दनम्

一位涂抹毗部底圣灰,另一位安置银辉闪耀的迦波罗骷髅钵。鬼神之主(Preta-nātha)亦佩戴以人骨串成的花鬘——令人敬畏的出离象征,堪受礼敬。

Verse 19

वह्निस्तेजोमयं दिव्यमजिनं प्रददौ स्थितः । एवं विभूषितः सर्वैर्भृत्यैरीशो बभौ भृशम्

火神阿耆尼立于一旁,奉上由纯粹光辉凝成的神圣光耀之皮。如此被一切侍从庄严装饰,主宰愈发灿然辉映。

Verse 20

ततो हिमाद्रेः पुरुषा वीरकं प्रोचिरे वचः । मा भूत्कालात्ययः शीघ्रं भवस्यैतन्निवेद्यताम्

随后,喜马拉雅山的人们对毗罗迦说道:“切莫迟延,速将此事禀告婆婆(湿婆)。”

Verse 21

ततो देवं प्रणम्याह वीरकः करसंपुटी । त्वरयंति महेशानं हिमाद्रेः पुरुषास्त्वमी

于是毗罗迦合掌恭敬,礼拜天神而奏曰:“噢,大自在天(Maheśāna),喜马拉雅山的人们正催促速行。”

Verse 22

इति श्रुत्वा वचो देवः शीघ्रमित्येव चाब्रवीत् । सप्त वारिधयस्तस्य चक्रुर्दर्पणदर्शनम्

听闻此言,主神即刻答道:“速速!”当下便然。随后七大海为祂呈现如镜之观照。

Verse 23

तत्रैक्षत महादेवः स्वरूपं स जगन्मयम् । ततो बद्धांजलिर्धीमान्स्थाणुं प्रोवाच केशवः

在那里,摩诃提婆观见自身之相,遍满整个宇宙。随后智者计舍婆合掌恭敬,启白于斯塔努——不动之主。

Verse 24

देवदेव महादेव त्रिपुरांतक शंकर । शोभसेऽनेन रूपेण जगदानंददायिना

噢诸神之神,噢摩诃提婆,噢摧灭三城者,噢商羯罗——你以此形相光耀,赐与诸世界安乐。

Verse 25

महेश्वर यथा साक्षादपरस्त्वं महेश्वरः । ततः स्मयन्महादेवो जयेति भुवने श्रुतः

“噢摩醯湿伐罗,你亲自即是至上者——除你之外别无他者,噢摩醯湿伐罗。”随即摩诃提婆含笑高呼“胜利!”其声遍闻诸界。

Verse 26

करमालंब्य विष्णोश्च वृषभं रुरुहेशनैः । ततश्च वसवो देवाः शूलं तस्य न्यवेदयन्

他握住毗湿奴之手,缓缓登上神牛。随后诸天瓦苏众将三叉戟奉献于他。

Verse 27

धनदो निदिभिर्युक्तः समीपस्थस्ततोऽभवत् । स शूलपाणिर्विश्वात्मा संचचाल ततो हरः

随后,财主天(俱毗罗)偕同诸尼提宝藏,来到近旁而立。于是持三叉戟的诃罗——宇宙之灵——便启程前行。

Verse 28

देवदुंदुभिनादैश्च पुष्पासारैश्च गीतकैः । नृत्यद्भिरप्सरोभिश्च जयेति च महास्वनैः

伴随着诸天战鼓的轰鸣、花雨纷纷、歌声回荡、阿普萨拉起舞,以及震天的“胜利!”呼喊——

Verse 29

सव्यदक्षिणसंस्थानौ ब्रह्मविष्णूतु जग्मतुः । हंसं च गरुडं चैव समारुह्य महाप्रभौ

梵天与毗湿奴分立左右,也随之行进——两位大主——乘骑天鹅与迦楼罗。

Verse 30

अथादितिर्दितिः सा च दनुः कद्रूः सुपर्णजा । पौलोमी सुरसा चैव सिंहिका सुरभिर्मुनिः

随后,阿底提、底提、达努、迦德卢、苏帕尔那迦、保罗弥、苏罗萨、辛希迦与苏罗毗——并诸位牟尼圣贤——也一同前来。

Verse 31

सिद्धिर्माया क्षमा दुर्गा देवी स्वाहा स्वधा सुधा । सावित्री चैव गायत्री लक्ष्मीः सा दक्षिणा द्युतिः

悉地、摩耶、刹摩、杜尔迦女神、娑婆诃、娑婆陀、苏陀;以及娑维特丽、伽耶特丽、吉祥天(拉克希米)、达克希那与光辉女神(Dyuti)(皆在场)。

Verse 32

स्पृहामतिर्धृतिर्बुद्धिर्मंथिरृद्धिः सरस्वती । राका कुहूः सिनीवाली देवी भानुमती तथा

斯普利哈、玛蒂、德利蒂、布迪、曼提、里迪与萨拉斯瓦蒂;以及拉卡、库胡、希尼瓦丽与女神婆奴摩蒂也一同前来。

Verse 33

धरणी धारणी वेला राज्ञी चापि च रोहिणी । इत्येताश्चान्यदेवानां मातरः पत्नयस्तथा

大地女神达拉妮、达拉尼、维拉、王后女神拉吉尼与罗希妮——这些以及其他诸神之母、亦为诸神之妻者,皆在场。

Verse 34

उद्वाहं देवदेवस्य जग्मुः सर्वा मुदान्विताः । उरगा गरुडा यक्षा गंधर्वाः किंनरा नराः

众生欢喜同赴“诸神之神”的婚礼——那伽龙族、迦楼罗、夜叉、乾闼婆、紧那罗以及人类皆前往。

Verse 35

सागरा गिरयो मेघा मासाः संवत्सरास्तथा । वेदा मंत्रास्तथा यज्ञाः श्रौता धर्माश्च सर्वशः

大海、群山、云霭、诸月与诸年;吠陀、真言、祭祀,以及一切形态的圣传(Śrauta)法则之法,皆同来共庆。

Verse 36

हुंकाराः प्रणवाश्चैव इतिहासाः सहस्रशः । कोटिशश्च तथा देवा महेंद्राद्याः सवाहनाः

无量“吽迦罗”的呼啸与神圣的“唵”(Oṃ)之音同时响起;又有千千万万的史诗(itihāsa)诵唱回荡。诸天亦然——以摩诃因陀罗(因陀罗)为首,亿万而来,各乘其天乘神驾。

Verse 37

अनुजग्मुर्महादेवं कोटिशोऽर्बुदशश्च हि । गणाश्च पृष्ठतो जग्मुः शंखवर्णाश्च कोटिशः

他们追随大自在天摩诃提婆,人数以俱胝计——确然至十俱胝。其后诸伽那亦以俱胝行进,光洁皎白,如圣螺之色。

Verse 38

दशभिः केकराख्याश्च विद्युतोऽष्टाभिरेव च । चतुःषष्ट्या विशाखाश्च नवभिः पारियात्रिकाः

名为“凯迦罗”(Kekara)的众队以十为列而来;名为“毗地瑜特”(Vidyut,闪电)者以八为列;“毗舍佉”(Viśākha)者有六十四;“波梨耶特利迦”(Pāriyātrika)者以九为列。

Verse 39

षड्भिः सर्वांतकः श्रीमांस्तथैव विकृताननः । ज्वालाकेशो द्वादशभिः कोटिभिः संवृतो ययौ

光辉的萨尔万塔迦(Sarvāntaka)率六队前进,毗克利塔那那(Vikṛtānana)亦复如是。阇婆罗计舍(Jvālākeśa)出行时,十二俱胝随从环绕护卫。

Verse 40

सप्तभिः समदः श्रीमान्दुंदुभोष्ठाभिरेव च । पंचभिश्च कपालीशः षड्भिः संह्रादकः शुभः

光耀的萨摩陀(Samada)率七队而来,顿都婆史吒(Duṃdubhoṣṭha)亦随之。迦波梨舍(Kapālīśa)率五队,吉祥的桑赫罗陀迦(Saṃhrādaka)率六队。

Verse 41

कोटिकोटिभिरेवैकः कुंडकः कुंभकस्तथा । विष्टंभोऽष्टाभिरेवेह गणपः सर्वसत्तमः

唯有军陀迦(Kuṃḍaka)一人,随从便是俱胝复俱胝;军婆迦(Kuṃbhaka)亦复如是。此处毗湿檀婆(Viṣṭambha)率八队而来——为伽那之主(gaṇapa),诸有情中最胜者。

Verse 42

पिप्पलश्च सहस्रेण सन्नादश्च तथा बली । आवेशनस्तथाष्टाभिः सप्तभिश्चंद्रतापनः

毗婆罗率一千随从而来,善那陀亦至,威力雄健。阿韦舍那携八部而来,旃陀罗塔般那携七部而至。

Verse 43

महाकेशः सहस्रेण नंदिर्द्वादशभिस्तथा । नगः कालः करालश्च महाकालः शतेन च

摩诃计舍率一千而来;难提亦携十二部而至。那伽、迦罗与迦罗罗亦来;而摩诃迦罗则率一百随从而到。

Verse 44

अग्निकः शतकोट्या वै कोट्याग्निमुख एव च । आदित्यमूर्धा कोट्या च कोट्या चैव धनावहः

阿伽尼迦率百俱胝而来,阿伽尼目佉亦携一俱胝而至。阿底提耶牟尔陀携一俱胝而来,达那婆诃亦同携一俱胝而到。

Verse 45

सन्नागश्च शतेनैव कुमुदः कोटिभिस्त्रिभिः । अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः

善那伽率一百而来,俱牟陀携三俱胝而至。阿摩伽与拘吉罗亦来;而苏曼特罗迦则以俱胝复俱胝之众而到。

Verse 46

काकपादस्तता षष्ट्या षष्ट्या संतानको गणः । महाबलश्च नवभिर्मधुपिंगश्च पिंगलः

迦迦跋陀继而到来,随后是塔塔与三檀那迦——各各皆有六十随从相伴。摩诃婆罗率九人而至,摩度频伽则与频伽罗同来。

Verse 47

नीलो नवत्या सप्तत्या चतुर्वक्त्रश्च पूर्वपात् । वीरभद्रश्चश्चतुःषष्ट्या करणो बालकस्तथा

尼罗率九十而来;又有一位率七十而至;四面者(Caturvaktra)自东方来临。毗罗跋陀罗率六十四而来,迦罗那与婆罗迦亦复如是。

Verse 48

पंचाक्षः शतमन्युश्च मेघमन्युश्च विंशतिः । काष्ठकोटिश्चतुःषष्ट्या सुकोशो वृषभस्तथा

五目者(Pañcākṣa)、百忿者(Śatamanyu)与云忿者(Meghamanyu)亦至——其中云忿者率二十而来。木垒者(Kāṣṭhakoṭi)率六十四而到;苏髻者(Sukośa)与公牛者(Vṛṣabha)亦复如是。

Verse 49

विश्वरूपस्तालकेतुः पंचाशच्च सिताननः । ईशानो वृद्धदेवश्च दीप्तात्मा मृत्युहा तथा

毗湿瓦鲁帕(Viśvarūpa)与塔拉计都(Tālaketu)到来,白面者(Sitānana)率五十而至。伊舍那(Īśāna)、 वृद्ध天(Vṛddhadeva)、炽魂者(Dīptātmā)与灭死者(Mṛtyuhā)亦皆来集。

Verse 50

विषादो यमहा चैव गणो भृंगरिटिस्तथा । अशनी हासकश्चैव चतुःषष्ट्या सहस्रपात्

毗萨陀(Viṣāda)、阎诃(Yamahā)以及名为婆陵伽里提(Bhṛṅgariṭi)的众神侍从亦来。阿舍尼(Aśanī)与哈萨迦(Hāsaka)到达,千足者(Sahasrapāt)率六十四而至。

Verse 51

एते चान्ये च गणपा असंख्याता महाबलाः । सर्वे सहस्रहस्ताश्च जटामुकुटधारीणः

此等以及其他诸多伽那之主——不可胜数,威力无边——皆至于彼处。众皆具千手,顶戴结发(jaṭā)为冠。

Verse 52

चंद्रलेखावतंसाश्च नीलकंठास्त्रिलोचनाः । हारकुंडलकेयूरमुकुटाद्यैरलंकृताः

他们以新月为饰,喉呈青蓝,具三目;又以项链、耳环、臂钏、宝冠等诸般璎珞庄严其身。

Verse 53

अणिमादिगुणैर्युक्ताः शक्ताः शापप्रसादयोः । सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः

他们具足阿尼玛等诸神通,能降诅咒亦能赐恩;诸伽那之主光辉炽盛,如千万日轮,齐至彼处。

Verse 54

पातालांबरभूमिस्थाः सर्वलोकनिवासिनः । तुंबुरुर्नारदो हाहा हूहूश्चैव तु सामगाः

自波多罗、虚空与大地——实则自一切世界——诸界众生皆来:图姆布鲁、那罗陀、哈哈与呼呼,皆为诵唱《娑曼》圣歌之乐神。

Verse 55

तंत्रीमादाय वाद्यांश्चाऽवादयञ्छंकरोत्सवे । ऋषयः कृत्स्नशश्चैव वेदगीतांस्तपोधनाः

他们执持维那琴等诸乐器,于商羯罗的庆典中奏乐;而具足苦行之力的仙人们,则完整诵唱吠陀圣歌。

Verse 56

पुण्यान्वैवाहिकान्मंत्राञ्जेषुः संहृष्टमानसाः । एवं प्रतस्थेगिरिशो वीज्यमानश्च गंगया

众人心怀欢悦,诵念婚礼的吉祥真言。于是山主吉利沙(湿婆)启程而行,天女恒河在侧扇拂侍从。

Verse 57

तथा यमुनया चापांपतिना धृतच्छत्रया । स्त्रीभिर्नानाविधालापैलाजाभिश्चानुमोदितः

同样,雅穆那与伐楼那——诸水之主——执持王者华盖;他又蒙众妇女以种种庆典吉语欢然称许,并以lājā(炒谷、炒米)之供奉迎接。

Verse 58

महोत्सवेन देवेशो गिरिस्थानं विवेश सः । प्रभासत्स्वर्णकलशं तोरणानां शतैर्युतम्

在盛大庆典之中,诸天之主进入山中居处;其地以数百座门阙拱饰(toraṇa)庄严,顶端皆冠以灿然金壶(kalasha)。

Verse 59

वैडूर्यबद्धभूमिस्थं रत्नजैश्च गृहैर्युतम् । तत्प्रविश्य स्तूयमानो द्वारमभ्याससाद ह

其庭院地面镶嵌以vaidūrya(猫眼宝石),又具由众宝所成之屋舍。入其间时,四方赞颂环绕,他遂趋近门阈。

Verse 60

ततो हिमाचलस्तत्र दृश्यते व्याकुलाकुलः । आदिशदात्मभृत्यानां महादेव उपस्थिते

于是,喜马遮罗(雪山王,喜马拉雅)在彼处显现,心神不宁、惶惶然。值摩诃提婆在前,他便开始向自己的侍从发号施令。

Verse 61

ततो ब्रह्माणमचलो गुरुत्वे प्रार्थयत्तदा । कृत्यानां सर्वभारेषु वासुदेवं च बुद्धिमान्

随后,睿智的山主祈请梵天担任尊长主座,又请婆苏提婆(毗湿奴)承担一切应办之事的重任。

Verse 62

प्रत्याह च विवाहऽस्मिन्कुमारीभ्रातरं विना । भविष्यति कथं विष्णो लाजहोमादिकर्मसु

他答道:“在这场婚礼中,若没有新娘之兄,诸般仪轨——自供奉lājā与火供homa等起——将如何举行?噢,毗湿奴!”

Verse 63

सुतो हि मम मैनाकः स प्रविष्टोऽर्णवे स्थितः । इति चिंताविषण्णं तं विष्णुराहमहामतिः

“我的儿子摩那迦(Maināka)已入海中,仍停留其内。”见他忧思沮丧,胸怀宏大的毗湿奴便对他说道。

Verse 64

अत्र चिंता न कर्तव्या गिरिराज कथंचन । अहं भ्राता जगन्मातुरेतदे वं च नान्यथा

“山王啊,在此切莫忧虑。吾自身即是世界之母的兄长——事实如此,别无他途。”

Verse 65

ततः प्रमुदितः शैलः पार्वतीं च स्वलंकृताम् । सखीभिः कोटिसंख्याभिर्वृतां प्रवेशयत्सदः

于是山主欢喜无量,引领帕尔瓦蒂——以自身光辉庄严装饰——步入会堂,周围侍从女伴多至亿数(koṭi)。

Verse 66

ततो नीलमयस्तंभं ज्वलत्कांचनकुट्टिमम् । मुक्ताजालपरिष्कारं ज्वलितौ षधिदीपितम्

随后(他看见)婚礼曼荼罗亭:深蓝光泽之柱,金光炽然之地铺,珍珠罗网为饰,又以燃烧发辉的灵药草照耀通明。

Verse 67

रत्नासनसहस्राढ्यं शतयोजनविस्तृतम् । विवाहमंडपं शर्वो विवेशानुचरावृतः

婚礼曼荼罗殿中宝座千重,延展百由旬;萨尔瓦(湿婆)在随从环侍之下,步入其间。

Verse 68

ततः शैलः सपत्नीकः पादौ प्रक्षाल्य हर्षितः । भवस्य तेन तोयेन सिषिचे स्वं जगत्तथा

随后,雪山王(喜马拉雅)偕同王后欢喜洗濯婆伐(湿婆)圣足;并以那同一净水洒遍自界,亦为其世界加持。

Verse 69

पाद्यमाचमनं दत्त्वा मधुपर्कं च गां तथा । प्रदानस्य प्रयोगं च संचिंतयंति ब्राह्मणाः

既献足洗之水与啜饮净水,又奉蜜乳礼(madhuparka)及一头母牛;诸婆罗门遂商议正式施赠之仪轨当如何施行。

Verse 70

दौहित्रीं कव्यवाहानां दद्मि पुत्रीं स्वकामहम् । इत्युक्त्वा तस्थिवाञ्छैलो न जानाति हरस्य सः

雪山王说道:“我甘心自愿,将我之女——供献之火的承载者(火神众)的外孙女——奉以为妻。”言毕伫立待行;然他并不知哈罗(湿婆)的真实尊位。

Verse 71

ततः सर्वानपृच्छत्स कुलं कोऽपि न वेद तत् । ततो विष्णुरिदं प्राह पृछ्यंतेऽन्ये किमर्थतः

于是他向众人询问(新郎的)族姓,却无人知晓。随后毗湿奴说道:“为何还要问旁人——所为何事?”

Verse 72

अज्ञातकुलतां तस्य पृछ्यतामयमेव च । अहिरेव अहेः पादान्वेत्ति नान्यो हिमाचल

只当询问此人一位,问他那不为人知的族系;因为唯有蛇知蛇之足迹——别无他人,噢喜马遮罗。

Verse 73

स्वगोत्रं यदि न ब्रूते न देया भगिनी मम । ततो हासस्तदा जज्ञे सर्वेषां सुमहास्वनः

“若他不说出自己的氏族(gotra),我的妹妹不可许配。”于是众人齐声大笑,声浪宏大而回响。

Verse 74

निवृत्तश्च क्षणाद्भूयः किं वक्ष्यति हरस्त्विति । ततो विमृश्य बहुधा किंचिद्भीताननो यता

不久,笑声便止息;众人又思量:“哈罗将说什么?”于是有人多方斟酌后,带着些许惶惧的神色走上前来。

Verse 75

लज्जाजडः स्मितं चक्रे ततः पार्थ स वै हरः । ततो विशिष्टा ब्रुवति शीघ्रं कालोऽतिवर्तते

这时哈罗(湿婆)因羞赧而静默,只微微一笑。随即一位尊贵的夫人说道:“快些——时光正在流逝。”

Verse 76

हरिः प्राह महेशानं बिभ्यदावेद्मयहं तव । मातामहं च पितरं प्रयोगं श्रृणु भूधर

哈利对大自在天(Maheśāna)说道:“出于敬畏,我向你禀告此事。噢持地之山(Bhūdhara),请听正当的仪轨:我将充当外祖父,也将充当父亲,来主持安排此礼。”

Verse 77

आत्मपुत्राय ते शंभो आत्मदौहित्रकाय ते । इत्युक्ते विष्णुना सर्वे साधुसाध्विति ते जगुः

当毗湿奴说道:“噢,商布啊,她是为你的亲子、为你的亲孙而来。”众人齐声赞叹:“善哉!善哉!”

Verse 78

देवोऽप्युदाहरेद्वुद्धिं सर्वेभ्योऽप्यधिकां वराम् । ततः शैलस्तथा चोक्त्वा दत्त्वा देवीं च सोदकम्

那位天神(毗湿奴)又宣示了至善的谋议,胜过一切。于是雪山(喜马拉雅)依言而行,将女神连同仪式之水(sodaka)一并奉出。

Verse 79

आत्मानं चापि देवाय प्रददौ सोदकं नगः । ततः सर्वे तुष्टुवुस्तं विवाहं विस्मयान्विताः

那山岳也携仪式之水,将自身奉献于天神,以示侍奉与结盟。于是众人满怀惊叹,齐声颂赞那场婚礼。

Verse 80

दाता महीभृतां नाथो होता देवश्चतुर्मुखः । वरः पशुपतिः साक्षात्कन्या विश्वरणिस्तथा

施与者乃群山之主;主祭者为四面之神(梵天)。新郎是亲自显现的兽主帕舒帕蒂,新娘亦即毗湿瓦拉妮(帕尔瓦蒂)。

Verse 81

ततः स्तुवत्सु मुनिषु पुष्पवर्षे महत्यपि । नदत्सु देवतूर्येषु करं जग्राह त्र्यम्बकः

其时,仙圣颂赞不绝,繁花如雨纷纷而下,天界乐器轰然回响;三目主特里扬巴卡执起她的手。

Verse 82

देवो देवीं समालोक्य सलज्जां हिमशैलजाम् । न तृप्यति न चाह्लादत्सा च देवां वृषध्वजम्

主神凝望女神——喜马拉雅之女,含羞端庄——永不餍足,常怀欢喜;女神亦因瞻仰那位牛旗之神而心生喜悦。

Verse 83

तत्र ब्रह्मादिमुनयो देवीमद्भुतरूपिणीम् । पश्यंतः शरणं जग्मुर्मनसा परमेश्वरम्

在那里,梵天与诸圣仙见到女神奇妙无比的形相,便在心中归依至上主帕拉梅湿伐罗。

Verse 84

मा मुह्याम पार्वतीं च यथा नारदपर्वतौ । ततस्तथैव तच्चक्रे सर्वेषामीप्सितं वचः

“莫要对帕尔瓦蒂起迷惑,如同昔日那罗陀与帕尔瓦塔一般。”于是他便依此成就了众人所期盼的话语。

Verse 85

ततो देवैश्च मुनिभिः संस्तुतः परमेश्वरः । प्रविवेश शुभां वेदीं मूर्तिमज्ज्वलनाश्रिताम्

随后,受诸天与圣仙赞颂的至上主帕拉梅湿伐罗,步入吉祥祭坛,安住于化现为形、光辉炽盛的圣火之中。

Verse 86

वेधाः श्रुतीरितैर्मं त्रैर्मूर्तिमद्भिरुपस्थितैः । मूर्तमग्निं जुहाव त्रिः परिक्रम्य च तं हरः

随后,造物主韦陀诃(梵天)在吠陀所宣说、宛如具形的真言侍立之中,向显现的圣火三次献供;而哈拉(湿婆)亦绕此火三匝而行。

Verse 87

लाजाहोम उमाभ्राता प्राह तं सस्मितं हरिः । बहवो मिलिताः संति लोकाः संमर्द ईश्वर

在举行“拉阇供火”(lājā-homa,献炒谷于火)之时,哈利(毗湿奴)含笑对优摩之兄——哈罗(湿婆)说道:“诸多世界齐来会集于此——拥挤非常,噢主宰!”

Verse 88

सावधानेन रक्ष्याणि भूषणानि त्वया हर । ततो हरश्च तं प्राह स्वजने माऽतिगोपय

“噢哈罗,你当以极大谨慎守护这些饰宝。”随后哈罗答道:“对自己的人,莫要过分隐匿。”

Verse 89

किंचित्प्रार्थय दास्यामि प्राह विष्णुस्ततो वरम् । त्वयि भक्तिर्दृढा मेऽस्तु स च तद्दुर्लभं ददौ

毗湿奴遂言:“你可有所祈求,我当赐你一愿。”他祈求道:“愿我对尊神的奉爱(bhakti)坚固不移。”毗湿奴便赐下此愿——实为难得。

Verse 90

ददतुः सृष्टिसंरक्षां ब्रह्मणे दक्षिणामुभौ । अग्नये यज्ञभागांश्च प्रीतौ हरजनार्दनौ

哈罗与阇那尔达那(毗湿奴)心生欢喜,共同以“达克希那”(dakṣiṇā,祭司酬礼)授予梵天守护造化之责;又赐予火神阿耆尼应得的祭祀份额。

Verse 91

भृग्वादीनां ततो दत्त्वा श्रुतिरक्षणदक्षिणाम् । ततो गीतैश्च नृत्यैश्च भोजनैश्च यथेप्सितैः

随后,他们赐予婆利古等诸仙“达克希那”,以护持《闻传》(Śruti,吠陀正统)。继而又依所愿安排歌咏、舞乐与丰盛筵席。

Verse 92

महोत्सवैरनेकैश्च विस्मयं समपद्यत । विसृज्य लोकं तं सर्वं किमिच्छादानकैर्भवः

以无数盛大庆典,众人皆生惊叹。遣散一切会集的诸界之后,婆婆(湿婆)仍随众所求而施赐诸福。

Verse 93

सरस्वत्या च पितरौ देव्याश्चाऽश्वास्य दुःखितौ । आमंत्र्य हिमशैलेंद्रं ब्रह्मणं च सकेशवम्

萨拉斯瓦蒂安慰了女神悲恸的双亲;随后辞别喜马拉雅,又向梵天并与凯沙瓦(毗湿奴)告别,准备启程。

Verse 94

जगाम मंदरगिरिं गिरिणा यानुगोर्चितः

于是他前往曼陀罗山,喜马拉雅山恭敬随侍,伴行相送。

Verse 95

ततो गते भगवति नीललोहिते सहोमया गिरिममलं हि भूधरः । सबांधवो रुदिति हि कस्य नो मनो विसंष्ठंलं जगति हि कन्यकापितुः

当圣尊尼罗罗希多(湿婆)携乌玛离去后,山王喜马拉雅与诸亲眷在其清净无垢之山上悲泣不已。诚然,世间有谁的心不为女儿之父的哀痛而震动?

Verse 96

इमं विवाहं गिरिराजपुत्र्याः श्रृणोति चाध्येति च यो नरः शुचिः । विशेषतश्चापि विवाहमंगले स मंगलं वृद्धिमवाप्नुते चिरम्

凡心地清净之人,若聆听并研习山王之女(帕尔瓦蒂)婚礼之记,尤其在吉祥婚期之日,必得长久吉庆,福泽增长,兴盛不衰。