Adhyaya 10
Brahma KhandaBrahmottara KhandaAdhyaya 10

Adhyaya 10

苏多讲述一段以湿婆为中心的“奇妙”因缘,显示对已证悟的瑜伽行者怀抱虔敬与恭敬,能转移业力的走向。在阿槃提,婆罗门曼达罗沉溺欲乐,怠慢日常仪轨,与名妓平伽罗同居。湿婆瑜伽士利沙婆到来时,两人依正法礼敬款待——洗足、献阿尔伽、供食与侍奉——在堕落生活中种下关键功德。 死后业报展开:婆罗门转生于达沙尔那的王族背景,却因毒患折磨母子,终至被弃于林野,备尝艰辛。后得富商莲华迦罗(Padmākara)收留,然幼子仍夭亡。利沙婆再现为解忧之师,长篇开示无常、三德(guṇa)、业、时(kāla)与死亡之必然,最后劝其向湿婆——胜死主(Mṛtyuñjaya)、乌玛之主(Umāpati)——作归依(śaraṇāgati),并以观想湿婆(Śiva-dhyāna)为断忧与离轮回之药。 随后,他以湿婆真言加持的圣灰(bhasma)令孩童复生,并疗愈母子,赐予近似天身的殊胜形体与吉祥命运。孩童被命名为“贤寿”Bhadrāyu,并预言将得名声与王位。

Shlokas

Verse 1

सूत उवाच । विचित्रं शिवनिर्माणं विचित्र शिवचेष्टितम् । विचित्रं शिवमाहात्म्यं विचित्रं शिवभाषितम्

苏多(Sūta)说道:“湿婆(Śiva)的造化奇妙,湿婆的行迹奇妙;湿婆的威德奇妙,湿婆的言语亦奇妙。”

Verse 2

विचित्रं शिवभक्तानां चरितं पापनाशनम् । स्वर्गापवर्गयोः सत्यं साधनं तद्ब्रवीम्यहम्

“湿婆(Śiva)信众的行持奇妙,能灭除罪垢。此乃通向天界与解脱的真实法门——我如是宣说。”

Verse 3

अवंतीविषये कश्चिद्ब्राह्मणो मंदराह्वयः । बभूव विषयारामः स्त्रीजितो धनसंग्रही

在阿槃提(Avanti)地区,有一位名叫曼陀罗(Mandara)的婆罗门。他沉迷于感官享乐,被女色所制,并一心聚敛财物。

Verse 4

संध्यास्नापरित्यक्तो गंधमाल्यांबरप्रियः । कुस्त्रीसक्तः कुमार्गस्थो यथा पूर्वमजामिलः

他舍弃了暮时礼拜(sandhyā)与净浴之仪,反而喜爱香料、花鬘与华美衣裳。因迷恋不贞之女而堕入邪途,正如古时的阿阇弥罗(Ajāmila)。

Verse 5

स वेश्यां पिंगलां नाम रममाणो दिवानिशम् । तस्या एव गृहे नित्यमासीदविजितेंद्रियः

他昼夜与名为平伽罗(Piṅgalā)的妓女嬉游取乐,常住在她的家中,诸根未曾调伏。

Verse 6

कदाचित्सदने तस्यास्तस्मिन्निवसति द्विजे । ऋषभो नाम धर्मात्मा शिवयोगी समाययौ

有一次,当那位婆罗门住在她家时,一位名叫利沙婆(Ṛṣabha)的正法之士、修习湿婆瑜伽的行者来到那里。

Verse 7

तमागतमभिप्रेक्ष्य मत्वा स्वं पुण्यमूर्जितम् । सा वेश्या स च विप्रश्च पर्यपूजयतामुभौ

见他到来,他们以为自身福德已然增长;于是那妓女与那婆罗门二人一同恭敬供奉、礼敬于他。

Verse 8

तमारोप्य महापीठे कंबलांबरसंभृते । प्रक्षाल्य चरणौ भक्त्या तज्जलं दधतुः शिरः

他们将他安置在铺有毯与布的大座上,虔敬地洗净其足,并把那洗足之水顶戴于头上。

Verse 9

स्वागतार्घ्यनमस्कारैर्गंधपुष्पाक्षतादिभिः । उपचारैः समभ्यर्च्य भोजयामासतुर्मुदा

以迎接、献阿尔伽与礼拜,并以香、花、不碎之米等诸般供养,他们如法敬拜他,继而欢喜供食。

Verse 10

तं भुक्तवंतमाचांतं पर्यंके सुखसंस्तरे । उपवेश्य मुदा युक्तौ तांबूलं प्रत्ययच्छताम्

他用毕饮食并行阿遮摩那净口后,他们欢喜地请他坐于铺设舒适的榻上,并奉上槟榔叶(tāmbūla)。

Verse 11

पादसंवाहनं भक्त्या कुर्वंतौ दैवचो दितौ । कल्पयित्वा तु शुश्रूषां प्रीणयामासतुश्चिरम्

仿佛受神圣启示所驱使,二人虔诚为他按摩双足;备办周到侍奉,使他久而欢悦。

Verse 12

एवं समर्चितस्ताभ्यां शिवयोगी महाद्युतिः । अतिवाह्य निशामेकां ययौ प्रातस्तदादृतः

他被二人如法恭敬供养;那位光辉灿然的湿婆瑜伽行者在此度过一夜,至黎明时分,受极大礼敬而离去。

Verse 13

एवं काले गतप्राये स विप्रो निधनं गतः । सा च वेश्या मृता काले ययौ कर्मार्जितां गतिम्

就这样,当他命定的时日将尽,那位婆罗门走到了生命的终点。随后那名妓女也在其时而亡;二人各自随其业(karma)而得所应之归趣。

Verse 14

स विप्रः कर्मणा नीतो दशार्णधरणीपतेः । वज्रबाहुकुटुंबिन्याः सुमत्या गर्भमास्थितः

在业力的牵引下,那位婆罗门被引至达沙尔那(Daśārṇa)之国,投生于金刚臂王(Vajrabāhu)宫中正妃苏玛蒂(Sumatī)的胎中。

Verse 15

तां ज्येष्ठपत्नीं नृपतेर्गर्भसंपदमाश्रिताम् । अवेक्ष्य तस्यै गरलं सपत्न्यश्छद्मना ददुः

见到国王的长妃因怀胎而福相增长,诸妃因嫉妒起心,便以诡计暗中给她下了毒。

Verse 16

सा भुक्त्वा गरलं घोरं न मृता दैवयोगतः । क्लेशमेव परं प्राप मरणादतिदुःसहम्

她吞下那可怖的毒药,却因命运的转折而未死;反而陷入极度的折磨,其苦甚于死亡,难以忍受。

Verse 17

अथ काले समायाते पुत्रमे कमजीजनत् । क्लेशेन महता साध्वी पीडिता वरवर्णिनी

及至时辰到来,那位贞善的女子,虽被剧痛所逼、容色殊胜,仍生下一位独子。

Verse 18

स निर्दशो राजपुत्रः स्पृष्टपूर्वो गरेण यत् । तेनावाप महाक्लेशं क्रंदमानो दिवानिशम्

由于王子尚在母胎时便被毒所触,他陷入极大苦恼,昼夜哀号,片刻不得安宁。

Verse 19

तस्य बालस्य माता च सर्वांगव्रणपीडिता । बभूवतुरतिक्लिष्टौ गरयोगप्रभावतः

那孩子的母亲也遍体疮痛;由于毒力相侵,母子二人都遭受了极重的折磨。

Verse 20

तौ राज्ञा च समानीतौ वैद्यैश्च कृतभेषजौ । न स्वास्थ्यमापतुर्यत्नैरनेकैर्योजितैरपि

国王将母子二人召来,医师施以药治;然而纵使多方医治、竭尽努力,他们仍未复得安康。

Verse 21

न रात्रौ लभते निद्रां सा राज्ञी विपुलव्यथा । स्वपुत्रस्य च दुःखेन दुःखिता नितरां कृशा

夜里王后因剧痛而不得成眠;又因儿子受苦而忧伤,身形愈发消瘦。

Verse 22

नीत्वैवं कतिचिन्मासान्स राजा मातृपुत्रकौ । जीवंतौ च मृतप्रायौ विलोक्यात्मन्यचिंतयत्

如此过了数月,国王见母子尚存一息却如将死之人,便在心中忧惧沉思。

Verse 23

एतौ मे गृहिणीपुत्रौ निरयादागताविह । अश्रांतरोगौ क्रंदंतौ निद्राभंगविधायिनौ

“我妻的这两个儿子从地狱来到此处。久病不息,哀号不止,时时搅扰我的安眠。”

Verse 24

अत्रोपायं करिष्यामि पापयोर्ध्रुवमेतयोः । मर्तुं वा जीवितुं वापि न क्षमौ पापभोगिनौ

“在此我必为这两名罪人设下对治之法。他们既不堪死,也不堪生,因为正受罪业之果报。”

Verse 25

इत्थं विनिश्चित्य च भूमिपालः सक्तः सपत्नीषु तदात्मजेषु । आहूय सूतं निजदारपुत्रौ निर्वापयामास रथेन दूरम्

国王既如此决断——偏爱诸妃与其子嗣——便召来御者,命以车载其正妻与亲子远去,弃置于遥远之处。

Verse 26

तौ सूतेन परित्यक्तौ कुत्रचिद्विजने वने । अवापतुः परां पीडां क्षुत्तृड्भ्यां भृशविह्वलौ

二人被御者遗弃在某处荒僻之林,饥渴交迫,受尽极重的苦痛,身心大为困顿。

Verse 27

सोद्वहंती निजं बालं निपतंती पदे पदे । निःश्वसंती निजं कर्म निंदंती चकिता भृशम्

她抱着自己的孩子,步步跌倒——长叹不已,责怨自身业报,惊惧战栗不止。

Verse 28

क्वचित्कंटकभिन्नांगी मुक्तकेशी भयातुरा । क्वचिद्व्याघ्रस्वनैर्भीता क्वचिद्व्यालैरनुद्रुता

有时她的肢体被荆棘刺裂,惊惧之下披散长发;有时她被猛虎的咆哮所震慑;有时又被蛇类与野兽追逐不舍。

Verse 29

भर्त्स्यमाना पिशाचैश्च वेतालैर्ब्रह्मराक्षसैः । महागुल्मेषु धावंती भिन्नपादा क्षुराश्मभिः

她受毗舍遮(piśāca)、吠陀罗(vetāla)与婆罗门罗刹(brahma-rākṣasa)侵扰恐吓,奔入浓密灌丛;双足被如剃刀般锋利的石块割裂,伤痕累累。

Verse 30

सैवं घोरे महारण्ये भ्रमंती नृपगे हिनी । दैवात्प्राप्ता वणिङ्मार्गं गोवाजिनरसेवितम्

就这样,她在那可怖的大森林中漂泊;王后因命运使然,来到一条商旅之路,牛马与行人往来不绝。

Verse 31

गच्छंती तेन मार्गेण सुदूरमतियत्नतः । ददर्श वैश्यनगरं वहुस्त्रीनरसेवितम्

她沿着那条道路艰难前行,走了很远;便看见一座商人之城,男女众多,熙攘充满。

Verse 32

तस्य गोप्ता महावैश्यो नगरस्य महाजनः । अस्ति पद्माकरो नाम राजराज इवापरः

那座城的守护者是一位伟大的吠舍(vaiśya),为城中首领巨富,名叫莲生(Padmākara),宛如另一位“诸王之王”。

Verse 33

तस्य वैश्यपतेः काचिद्गृहदासी नृपांगनाम् । आयांती दूरतो दृष्ट्वा तदंतिकमुपाययौ

那位商主家中有一名婢女,远远望见国王的王妃走来,便急忙迎上前去,将她引至近前。

Verse 34

सा दासी नृपतेः कांतां सपुत्रां भृशपीडिताम् । स्वयं विदितवृत्तांता स्वामिने प्रत्यदर्शयत्

那婢女自知事情始末,便将饱受痛苦的王所爱妃与其子一同带到主人面前呈见。

Verse 35

स तां दृष्ट्वा विशां नाथो रुजार्त्तां क्लिष्टपुत्रकाम् । नीत्वा रहसि सुव्यक्तं तद्वृत्तांतमपृच्छत

商族之长见到她,知她为病痛所迫,又为幼子忧惧。便私下带她到僻静处,清楚询问事情的全部经过。

Verse 36

तया निवेदिताशेषवृत्तांतः स वणिक्पतिः । अहोकष्टमिति ज्ञात्वा निशश्वास मुहुर्मुहुः

她将一切原委尽数禀告后,那商主明白其事,叹道:“唉,何其惨痛!”并一再长叹。

Verse 37

तामंतिके स्वगेहस्य संनिवेश्य रहोगृहे । वासोन्नपानशयनैर्मातृसाम्यमपूजयत्

他将她安置在自家近旁的幽静内室,待之如母,供给衣服、饮食、清水与安卧之处,以示恭敬。

Verse 38

तस्मिन्गृहे नृपवधूर्निवसंती सुरक्षिता । व्रणयक्ष्मादिरोगाणां न शांतिं प्रत्यपद्यत

虽在那宅中受护而居,王之新妇仍不得安宁;创伤、痨病(yakṣmā)及诸般疾患皆未平息。

Verse 39

ततो दिनैः कतिपयैः स बालो व्रणपीडितः । विलंघितभिषक्सत्त्वो ममार च विधेर्वशात्

又过了数日,那孩童为创伤所苦;纵使医者竭尽方术与资具,终因命数所使而亡。

Verse 40

मृते स्वतनये राज्ञी शोकेन महतावृता । मूर्च्छिता चापतद्भूमौ गजभग्नेव वल्लरी

亲子既亡,王后为无边悲恸所覆,昏厥坠地,如藤蔓为象所折。

Verse 41

दैवात्संज्ञामवाप्याथ वाष्पक्लिन्नपयोधरा । सांत्विताऽपि वणिक्स्त्रीभिर्विललाप सुदुःखिता

因命运使然,她复得知觉;双乳尽为泪湿。虽有商人家眷妇女抚慰,她仍悲号哀诉,深痛刺心。

Verse 42

हा ताततात हा पुत्र हा मम प्राणरक्षक । हा राजकुलपूर्णेन्दो हा ममानंदवर्धन

“哀哉,孩儿啊——哀哉,我的儿!哀哉,护我性命者!哀哉,我王族之圆满明月!哀哉,增我欢喜者!”

Verse 43

इमामनाथां कृपणां त्वत्प्राणां त्यक्तवबांधवाम् । मातरं ते परित्यज्य क्व यातोऽसि नृपात्मज

你竟离弃你的母亲——无依、凄苦、亲族尽失,而你就是她的性命——你去了哪里,王子啊?

Verse 44

इत्येभिरुदितैर्वाक्यैः शोकचिंताविवर्धकैः । विलपंतीं मृतापत्यां को नु सांत्वयितुं क्षमः

以这般言辞——愈加增长悲痛与忧惧——她为亡子哀号不已。究竟有谁能安慰她呢?

Verse 45

एतस्मिन्समये तस्या दुःखशोकचिकित्सकः । ऋषभः पूर्वमाख्यातः शिवयोगी समाययौ

就在那时,先前所说的湿婆瑜伽行者——梨沙婆(Ṛṣabha)来到,宛如医治她忧苦与哀伤的良医。

Verse 46

स योगी वैश्यनाथेन सार्घहस्तेन पूजितः । तस्याः सकाशमगमच्छोचन्त्या इदमब्रवीत्

那位瑜伽行者受毗舍耶那他(Vaiśyanātha)合掌礼敬后,走近悲泣的她,对她说道:

Verse 47

ऋषभ उवाच । अकस्मात्किमहो वत्से रोरवीषि विमूढधीः । को जातः कतमो लोके को मृतो वद सांप्रतम्

梨沙婆说:“孩子啊,你为何忽然这般号哭,心智迷乱?谁出生了?这世间是谁——又是谁死了?现在告诉我。”

Verse 48

अमी देहादयो भावास्तोयफेनसधर्मकाः । क्वचिद्भ्रांतिः क्वचिच्छांतिः स्थितिर्भवति वा पुनः

这些以身体为首的诸般境况,如水上浮沫:时而纷扰,时而寂静——又哪里有丝毫恒常的安住?

Verse 49

अतोऽस्मिन्फेनसदृशे देहे पञ्चत्वमागते । शोकस्यानवकाशत्वान्न शोचंति विपश्चितः

因此,当这如浮沫般的身体走到尽头、归还于五大之时,智者不悲不泣——因为悲伤无有其正当之处。

Verse 50

गुणैर्भूतानि सृज्यंते भ्राम्यंते निजकर्मभिः । कालेनाथ विकृष्यंते वासनायां च शेरते

众生由诸guṇa所生,又被自作之业驱使而流转;继而为时轮牵引,沉伏于自身潜在的vāsanā之缚。

Verse 51

माययोत्पत्तिमायांति गुणाः सत्त्वादयस्त्रयः । तैरेव देहा जायंते जातास्तल्लक्षणाश्रयाः

由Māyā而起三种guṇa——sattva等;唯由彼等而生诸身,既生之后,便承载其相应之性相。

Verse 52

देवत्वं यानि सत्त्वेन रजसा च मनुष्यताम् । तिर्यक्त्वं तमसा जंतुर्वासनानुगतोवशः

由sattva得天神之境;由rajas得为人之身;由tamas则有身之众生堕入畜生之类——被vāsanā之牵引所迫而无自主。

Verse 53

संसारे वर्तमानेस्मिञ्जंतुः कर्मानुबन्धनात् । दुर्विभाव्यां गतिं याति सुखदुःखमयीं मुहुः

众生行于世间,因自业之系缚,屡屡趋入难以测度的归趣,其间苦乐交替不息。

Verse 54

अपि कल्पायुषां तेषां देवानां तु विपर्ययः । अनेकामयबद्धानां का कथा नरदेहिनाम्

纵使寿命可及一劫的诸天,亦难免颠倒衰败;何况人身之众,被无数疾病所缚,又何必多言?

Verse 55

केचिद्वदंति देहस्य कालमेव हि कारणम् । कर्म केचिद्गुणान्केचिद्देहः साधारणो ह्ययम्

有人说唯有时间是成身之因;有人说是业;也有人说是诸古那(guṇa)。然而此身,实为诸因共成之物。

Verse 56

कालकर्मगुणाधानं पञ्चात्मकमिदं वपुः । जातं दृष्ट्वा न हृष्यंति न शोचंति मृतं बुधाः

此身由时间、业与诸古那所摄持,体性具五分;是故智者见生不喜,见死不悲。

Verse 57

अव्यक्ते जायते जंतुरव्यक्ते च प्रलीयते । मध्ये व्यक्तवदाभाति जलबुद्बुदसन्निभः

众生从未显而生,复归未显而灭;其间似乎显现,如水上浮泡,倏起倏散。

Verse 58

यदा गर्भगतो देही विनाशः कल्पितस्तदा । दैवाज्जीवति वा जातो म्रियते सहसैव वा

即使在胎中便设想众生将遭毁灭,凭借宿命之力他仍可能存活;也可能虽已出生,却忽然夭逝。

Verse 59

गर्भस्था एव नश्यंति जातमात्रास्तथा परे । क्वचिद्युवानो नश्यंति म्रियंते केपि वार्धके

有的尚在胎中便已夭亡;有的方才出生便即逝去。有人在青春时殒落,也有人直到老年才与死相逢。

Verse 60

यादृशं प्राक्तनं कर्म तादृशं विंदते वपुः । भुंक्ते तदनुरूपाणि सुखदुःखानि वै ह्यसौ

前世之业如何,所获之身亦如何;并且依其相应,必定领受与之相称的乐与苦。

Verse 61

मायानुभावेरितयोः पित्रोः सुरतसंभ्रमात् । देह उत्पद्यते कोपि पुंयोषित्क्लीबलक्षणः

在父母交合的激荡中,受幻力(māyā)所驱使,便生起一具身体——具足男性、女性或中性之相。

Verse 62

आयुः सुखं च दुःख च पुण्यं पापं श्रुतं धनम् । ललाटे लिखितं धात्रा वहञ्जंतुः प्रजायते

寿命、安乐与忧苦、福德与罪业、学识与财富——众生携带造物主写在额上的文字而出生。

Verse 63

कर्मणामविलंघ्यत्वात्कालस्याप्यनतिक्रमात् । अनित्यत्वाच्च भावानां न शोकं कर्तुमर्हसि

既然业行之果不可违越,连时光亦不可逾越;又因诸法无常——故汝不应沉溺于忧悲。

Verse 64

क्व स्वप्ने नियतं स्थैर्यमिंद्रजाले क्व सत्यता । क्व नित्यता शरन्मेघे क्व शश्वत्त्वं कलेवरे

梦中何有确定的安稳?幻术之中何有真实?秋云之中何有常住?人身之中又何有长久?

Verse 65

तव जन्मान्यतीतानि शतकोट्ययुतानि च । अजानंत्याः परं तत्त्वं संप्राप्तोऽयं महाश्रमः

汝往昔之生,已逾百亿千万,不可胜数;因未了知至上实相,此大疲惫遂临于汝。

Verse 66

कस्यकस्यासि तनया जननी कस्यकस्य वा । कस्यकस्यासि गृहिणी भवकोटिषु वर्त्तिनी

在汝经历的亿万生中,汝曾是谁之女?又是谁之母?亦复是谁之妻?

Verse 67

पञ्चभूतात्मको देहस्त्वगसृङ्मांसबन्धनः । मेदोमज्जास्थिनिचितो विण्मूत्रश्लेष्मभाजनम्

此身由五大所成,以皮、血、肉相系;积聚脂、髓与骨;乃粪、尿与痰之器。

Verse 68

शरीरांतरमप्येतन्निजदेहोद्भवं मलम् । मत्त्वा स्वतनयं मूढे मा शोकं कर्तुमर्हसि

这“另一个身体”也不过是从自身之身所生的秽物;把它当作自己的儿子,迷妄之人啊,不应沉溺于悲恸。

Verse 69

यदि नाम जनः कश्चिन्मृत्युं तरति यत्नतः । कथं तर्हि विपद्येरन्सर्वे पूर्वे विपश्चितः

若真有人仅凭努力便能越过死亡,那么古时一切智者又怎会尽皆逝去?

Verse 70

तपसा विद्यया बुद्ध्या मन्त्रौषधिरसायनैः । अतियाति परं मृत्युं न कश्चिदपि पंडितः

凭苦行、学识、智慧、真言、药物或回春灵液——没有任何学者能超越死亡。

Verse 71

एकस्याद्य मृतिर्जंतोः श्वश्चान्यस्य वरानने । तस्मादनित्यावयवे न त्वं शोचितुमर्हसि

对某个众生,死亡在今日;对另一个,则在明日,容颜姣好者啊。因此,为这由无常之分所成的身体,你不应悲伤。

Verse 72

नित्यं सन्निहितो मृत्युः किं सुखं वद देहिनाम् । व्याघ्रे पुरः स्थिते ग्रासः पशूनां किं नु रोचते

死亡恒常近在身旁,请告诉我:具身之众还有何乐可言?猛虎当前,群兽又怎会真喜一口食物?

Verse 73

अतो जन्मजरां जेतुं यदीच्छसि वरानने । शरणं व्रज सर्वेशं मृत्युंजयमुमापतिम्

因此,容颜姝丽者啊,若你愿战胜生与老,当归依万主——Mṛtyuṃjaya,胜死者,乌玛(Umā)之夫。

Verse 74

तावन्मृत्युभयं घोरं तावज्जन्मजराभयम् । यावन्नो याति शरणं देही शिवपदांबुजम्

只要尚未归依湿婆的莲足,骇人的死惧与生老之惧便仍然存留。

Verse 75

अनुभूयेह दुःखानि संसारे भृशदारुणे । मनो यदा वियुज्येत तदा ध्येयो महेश्वरः

既在此世、于极其残酷的轮回中尝尽诸苦;当心念离著之时,当观想大自在天(Maheśvara)。

Verse 76

मनसा पिबतः पुंसः शिवध्यानरसामृतम् । भूयस्तृष्णा न जायेत संसारविषयासवे

若有人以心啜饮观修湿婆之甘露妙味,便不再对轮回诸境的醉人之酒生起渴爱。

Verse 77

विमुक्तं सर्वसंगैश्च मनो वैराग्ययंत्रितम् । यदा शिवपदे मग्नं तदा नास्ति पुनर्भवः

当心识脱离一切系缚,并由离欲所摄持而安住;若沉入湿婆之境,便再无复生。

Verse 78

तस्मादिदं मनो भद्रे शिवध्यानैकसाधनम् । शोकमोहसमाविष्टं मा कुरुष्व शिवं भज

因此,温柔的夫人啊:愿此心以观想湿婆为唯一法门,不为悲伤与迷妄所覆。应当礼敬湿婆。

Verse 79

सूत उवाच । इत्थं सानुनयं राज्ञी बोधिता शिवयोगिना । प्रत्याचष्ट गुरोस्तस्य प्रणम्य चरणां बुजम्

苏多说道:如是,那王后被那位湿婆瑜伽行者温和劝导而开示,便礼拜其师莲足而答复。

Verse 80

राज्ञ्युवाच । भगवन्मृतपुत्रायास्त्यक्तायाः प्रियबन्धुभिः । महारोगातुराया मे का गतिर्मरणं विना

王后说道:大德啊,我的儿子已死;至亲亦离弃我;我又为重病所苦——除死亡之外,我还有何归依、何去处?

Verse 81

अतोऽहं मर्तुमिच्छामि सहैव शिशुनाऽमुना । कृतार्थाहं यदद्य त्वामपश्यं मरणोन्मुखी

因此我愿与此婴孩同死。然而我自觉此生已得圆满:今日纵临死境,仍得瞻见于你。

Verse 82

सूत उवाच । इति तस्या वचः श्रुत्वा शिवयोगी दयानिधिः । पूर्वोपकारं संस्मृत्य मृतस्यांतिकमाययौ

苏多说道:听罢她的话,那位湿婆瑜伽行者——悲悯如海——忆起她往昔之恩,便走近那已死的婴孩。

Verse 83

स तदा भस्म संगृह्य शिवमन्त्राभिमंत्रितम् । विदीर्णे तन्मुखे क्षिप्त्वा मृतं प्राणैरयोजयत्

于是他取来圣灰,以湿婆真言加持;趁那孩子口已张开,将圣灰投入其中,使已逝者再与生命之息相合。

Verse 84

स बालः संगतः प्राणैः शनैरुन्मील्य लोचने । प्राप्तपूर्वेन्द्रियबलो रुरोद स्तन्यकांक्षया

那孩子与气息复合,缓缓睁开双眼;诸根之力复如从前,便因渴求乳汁而啼哭。

Verse 85

मृतस्य पुनरुत्थानं वीक्ष्य बालस्य विस्मिताः । जना मुमुदिरे सर्वे नगरेषु पुरोगमाः

见那死去的孩子复起,众人惊异而欢喜;诸城镇之中,尤以领袖贤达者最为欣悦。

Verse 86

अथानंदभरा राज्ञी विह्वलोन्मत्तलोचना । जग्राह तनयं शीघ्रं बाष्पव्याकुललोचना

于是王后喜悦盈怀,目光摇乱,几近失神;她急忙抱住儿子,泪水迷蒙了双眼。

Verse 87

उपगुह्य तदा तन्वी परमानंदनिर्वृता । न वेदात्मानमन्यं वा सुषुप्तेव परिश्रमात्

她遂将他紧紧拥入怀中;那纤柔的王后得享至乐,既不觉自身,亦不知他物,恍若劳极而沉睡。

Verse 88

पुनश्च ऋषभो योगी तयोर्मातृकुमारयोः । विषव्रणयुतं देहं भस्मनैव परामृशत्

随后,瑜伽行者梨沙婆以同一圣灰,抚触母亲与男孩那被毒所伤的身躯。

Verse 89

तौ च तद्भस्मना स्पृष्टौ प्राप्तदिव्यकलेवरौ । देवानां सदृशं रूपं दधतुः कांतिभूषितम्

二人被那圣灰触及,便得天妙之身,形貌如诸天神,光辉庄严。

Verse 90

संप्राप्ते त्रिदिवैश्वर्ये यत्सुखं पुण्यकर्मणाम् । तस्माच्छतगुणं प्राप सा राज्ञी सुखमुत्तमम्

诸行善业者得三天主宰之乐为何等;王后所得无上安乐,乃其百倍。

Verse 91

तां पादयोर्निपतितामृषभः प्रेमविह्वलः । उत्थाप्याश्वासयामास दुःखैर्मुक्तामुवाच ह

她俯伏于其足下时,梨沙婆因慈爱而动情,将她扶起并加以安慰;她既脱离忧苦,便听他开示。

Verse 92

अयि वत्से महाराज्ञि जीवत्वं शाश्वतीः समाः । यावज्जीवसि लोकेस्मिन्न तावत्प्राप्स्यसे जराम्

“嗳,亲爱的孩子,大王后啊,愿你长享不朽之年;只要你住世于此,衰老便不触及你。”

Verse 93

एष ते तनयः साध्वि भद्रायुरिति नामतः । ख्यातिं यास्यति लोकेषु निजं राज्यमवाप्स्यति

贤德的夫人啊,这就是你的儿子,名为婆陀罗优(Bhadrāyu)。他将名闻诸界,并重得自己应有的王国。

Verse 94

अस्य वैश्यस्य सदने तावत्तिष्ठ शुचिस्मिते । यावदेष कुमारस्ते प्राप्तविद्यो भविष्यति

微笑清净的夫人啊,你且暂住在这位商人的家中,直到你的这位童子学业圆满、通达诸艺。

Verse 95

सूत उवाच । इति तामृषभो योगी तं च राजकुमारकम् । संजीव्य भस्मवीर्येण ययौ देशान्यथेप्सितान्

苏多说道:说罢,瑜伽行者梨沙婆(Ṛṣabha)以圣灰之威力使那位王子复苏,随后便往他所愿之地而去。