Opening the text

भरतस्य अयोध्याप्रत्यागमनम् · Bharata’s Return Journey and the Distant Sight of Ayodhya
अयोध्याकाण्ड
第71章以密集的行程描写婆罗多渐近阿踰陀:他自王舍城(Rājagṛha)出发向东行,先后观渡苏达摩(Sudāmā)、赫拉底尼(Hlādinī)诸河,又越过波峰翻涌、浩阔而向西奔流的舍多德卢(Śatadrū);其后在伊拉达那(Elādhāna)、萨尔瓦提尔他(Sarvatīrtha)、劳希底耶(Lauhitya)等地再行渡涉。经文并强调旅途所用的实具——山地良马与象乘——同时罗列乌塔尼迦(Uttānikā)、库提迦(Kuṭikā)、迦毗伐底(Kapīvatī)等河名,使这段行旅如同一幅叙事地图。 当远处的阿踰陀渐入眼帘——素以白净街地、园林繁盛、婆罗门祭司通晓吠陀而闻名——气氛却骤然转为凄凉。婆罗多在民居与圣所中见到不祥之象:屋舍无人洒扫、门扉不加闩锁,供品与香烟俱缺,家家饥馑;百姓泪下形销,沉溺哀恸。此章以都城的衰败对照昔日礼仪昌盛之理想,显示宗教与家常节律的停顿,成为王权与道德断裂的明证。
Verses 1-2
स प्राङ्मुखो राजगृहादभिनिर्याय राघवः ।ततस्सुदामां द्युतिमान् सन्तीर्यावेक्ष्य तां नदीम् ॥१॥ह्लादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् ।शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः ॥२॥
“那光辉的罗伽婆(Rāghava)面向东方,自王舍城(Rājagṛha)出发;他观望了苏达摩河(Sudāmā)后便渡过,又渡过了遥阔清凉的赫拉迪尼河(Hlādinī),以及波涛起伏、向西奔流的壮丽舍多德卢河(Śatadrū)。”
Verses 3-4
ऐलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् ।शिलामकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्षणम् ॥३॥सत्यसन्धश्शुचिश्श्रीमान्प्रेक्षमाण श्शिलावहाम् ।अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति ॥४॥
婆罗多——守誓不渝,心地清净,光辉卓然——在艾罗陀那渡过河流,抵达名为阿帕拉帕尔帕塔之地。又越过那孕育石流河(Śilāvahā)之源的山岭,向东北行至舍利耶迦尔沙那(Śalyakarṣaṇa),目送石流河的水势;继而越过巍峨群山,趋向名为采特拉拉他(Caitraratha)的森林。
Verse 5
सरस्वतीं च गङ्गां च युग्मेन प्रतिपद्यच ।उत्तरान्वीरमत्स्यानां भारुण्डं प्राविशद्वनम् ॥५॥
他抵达萨拉斯瓦蒂河与恒河的汇合处,又从毗罗摩蹉地区以北经过,进入婆噜ṇḍa森林。
Verse 6
वेगिनीं च कुलिङ्गाख्यां ह्लादिनीं पर्वताऽऽवृताम् ।यमुनां प्राप्य सन्तीर्णः बलमाश्वासयत्तदा ॥६॥
他渡过名为俱陵伽(Kuliṅgā)的急流,清凉可喜,群山环抱;继而抵达阎牟那(Yamunā)并渡过之后,便使军旅得以歇息。
Verse 7
सशीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः ।तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ॥७॥
他使众人肢体清凉,又安抚疲惫的战马;众人在那里沐浴饮水,随后再度启程,并携带清水同行。
Verse 8
राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् ।भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् ॥८॥
吉祥的王子乘坐上等战车,穿越那广阔而人迹罕至的大森林,如同风神在天空中疾驰。
Verse 9
भागीरथीं दुष्प्रतरामंशुधाने महानदीम् ।उपायाद्राघवस्तूर्णं प्राग्वटे विश्रुते पुरे ॥९॥
罗伽族后裔婆罗多(Bharata)迅速抵达闻名的普罗伽伐吒(Prāgvaṭa)城;并来到伟大的薄伽罗提河(Bhāgīrathī)前,那在名为安输陀那(Aṃśudhāna)的渡口处极难横渡。
Verse 10
स गङ्गां प्राग्वटे तीर्त्वा समायात्कुटिकोष्ठिकाम् ।सबल स्तां स तीर्त्वाऽथ समायाद्धर्मवर्धनम् ॥१०॥
在普拉格瓦塔渡过恒河后,他抵达库提科什提卡;随后率军渡河,到达达摩瓦尔达纳。
Verse 11
तोरणं दक्षिणार्धेन जम्भूप्रस्थमुपागमत् ।वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥११॥
沿着托罗那(Toraṇa)的南侧前行,达沙罗陀之子抵达阎浮普拉斯塔(Jambhūprastha),继而又前往怡人的村落婆卢他(Varūtha)。
Verse 12
तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ ।उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥१२॥
他在那秀美的林中稍作停驻,随后面向东方继续前行,抵达乌吉哈那(Ujjihānā)的园苑,那里生长着priyakā树。
Verse 13
सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः ।अनुज्ञाप्याथ भरतः वाहिनीं त्वरितो ययौ ॥१३॥
抵达娑罗(sāla)与priyakā树的林丛后,婆罗多(Bharata)迅速套上骏马;整肃并指挥军旅之后,他便急速前进。
Verses 14-15
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् ।अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः ॥१४॥हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत ।ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ॥१५॥
他在萨尔瓦提尔塔(Sarvatīrtha)停驻后,凭借山地良马渡过乌塔尼迦河(Uttānikā)以及诸多不同的溪流。随后他登上大象,这位人中之虎越过库提迦河(Kuṭikā);在劳希底耶(Lauhitya)又涉渡迦毗伐底河(Kapīvatī)。
Verse 16
एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ।कलिङ्गनगरे चापि प्राप्य सालवनं तदा ॥१६॥भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः ।
在埃迦萨罗(Ekasāla),他渡过斯塔努玛提河(Sthāṇumatī);在毗那多(Vinata),又越过瞿摩提河(Gomatī)。当他抵达迦陵伽城(Kaliṅganagara)的娑罗林时,婆罗多虽坐骑疲惫至极,仍疾速前行。
Verse 17
वनं च समतीत्याशुशर्वर्यामरुणोदये ॥१७॥अयोध्यां मनुना राज्ञा निर्मितां सन्ददर्श ह ।
他在夜色中迅速穿越森林;至黎明日出之时,便望见阿逾陀耶——由摩奴王所建的圣城。
Verse 18
तां पुरीं पुरुषव्याघ्रस्सप्तरात्रोषितः पथि ॥१८॥अयोध्यामग्रतो दृष्ट्वा सारथिं वाक्यमब्रवीत् ।
在路上度过七夜之后,那位人中之虎见阿逾陀耶已在前方,便对车夫开口说道。
Verses 19-20
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ॥१९॥अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका ।यज्वभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः ॥२०॥भूयिष्ठमृद्धैराकीर्णा राजर्षिपरिपालिता ।
车夫啊,我从远处望见阿逾陀耶——声名显赫,因其圣园而著称——却在我眼中并不分明。那以白土为色的城邦,由王圣仙守护,富者众多,又充满具德的婆罗门与祭祀之士,通达并精熟诸吠陀。
Verse 21
अयोध्यायां पुरा शब्दश्श्रूयते तुमुलो महान् ॥२१॥समन्तान्नरनारीणां तमद्य न श्रुणोम्यहम् ।
往昔在阿逾陀耶,四方常闻男女喧腾之大声;而今我却听不见那般声响。
Verse 22
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः ॥२२॥समन्तात्परिधावद्भिः प्रकाशन्ते ममान्यथा ।
诚然,那些园林往昔在傍晚嬉游既毕之人四处徜徉时,处处显得明丽;如今在我眼中却全然不同,失却了熟悉的生气。
Verse 23
तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ॥२३॥अरण्यभूतेव पुरी सारथे प्रतिभाति मे ।
那些园林,如今被寻欢之人遗弃,仿佛在哭泣;而这座城啊,御者,我看它宛如已化作荒野。
Verse 24
न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः ॥२४॥निर्यान्तो वाऽभियान्तो वा नरमुख्या यथापुरम् ।
在此处,如今看不见那些杰出之人,既不出行也不归来;不似从前乘车、骑象或骑马往来。
Verse 25
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२५॥जनानां रतिसंयोगेष्वत्यन्तगुणवन्ति च ।
往昔园林光彩照人,洋溢着醉人的欢悦;在人们相会于爱恋与欢娱之时,尤为相宜。
Verse 26
तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः ॥२६॥स्रस्तपर्णैरनुपथं विक्रोशद्भिरिव द्रुमैः ।
而今我见那同样的园林处处凄清无欢:小径满是落叶,树木仿佛在哀号。
Verse 27
नाद्यापि श्रूयते शब्दः मत्तानां मृगपक्षिणाम् ॥२७॥संरक्तां मधुरां वाणीं कलं व्याहरतां बहु ।
即便此刻,也听不见群兽与飞鸟的声音——它们本应在拂晓的绯红光里,频频发出甜美而婉转的鸣唱。
Verse 28
चन्दनागरुसम्पृक्तो धूपसम्मूर्छितोऽतुलः ॥२८॥प्रवाति पवन श्श्रीमान्किन्नुनाद्य यथापुरम् ।
为何今日吉祥之风不如往昔吹拂——不再携来檀香与沉香那无比的芬芳,亦不再浓郁如薰香之气?
Verse 29
भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः ॥२९॥किमद्य शब्दो विरतस्सदा दीनगतिः पुरा ।
为何今日声响止息——号角一次又一次的撞击回鸣,与战鼓、手鼓及维那琴之音皆不复闻?为何城中行止尽显凄然,往昔却常是另一番景象?
Verse 30
अनिष्टानि च पापानि पश्यामि विविधानि च ॥३०॥निमित्तान्यमनोज्ञानितेन सीदति मे मनः ।
我见到种种不祥与凶厄的征兆,皆是令人不悦的异象;因此我的心神沉入忧惧。
Verse 31
सर्वथा कुशलं सूत दुर्लभं मम बन्दुषु ॥३१॥तथाह्यसति सम्मोहे हृदयं सीदतीव मे ।
车夫啊,关于我的亲族,我难得得见一切安好之确证;在这迷乱的疑惧之中,我的心仿佛沉坠。
Verse 32
विषण्ण श्श्रान्तहृदयस्त्रस्त स्सुलुलितेन्द्रियः ॥३२॥भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।
婆罗多心怀忧惧,胸中疲惫,诸根不安而战栗,便迅速进入由伊克什瓦库族统治的阿踰陀城。
Verse 33
द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः ॥३३॥द्वास्स्थैरुत्थाय विजयं पृष्टस्तै स्सहितो ययौ ।
他的坐骑已疲惫不堪,便从名为“毗阇延多”的城门入内。守门者起身,高呼“胜利!”,随他同行。
Verse 34
स त्वनेकाग्रहृदयो द्वास्स्थं प्रत्यर्च्य तं जनम् ॥३४॥सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः ।
然而婆罗多心绪纷乱,难以专注一念;他回礼于守门者与在场众人,继而对疲惫的御者阿湿婆波底说道。
Verse 35
किमहं त्वरयाऽनीतः कारणेन विनानघ ॥३५॥अशुभाशङ्कि हृदयं शीलं च पततीव मे ।
无过之人啊,为何不告缘由便匆匆将我带来?我心疑有不祥之事,连平素的镇定也仿佛要坠落。
Verse 36
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ॥३६॥आकारांस्तानहं सर्वानिहपश्यामि सारथे ।
御者啊,我如今在此看见了我们往昔所听闻的那些征兆——预示君王殒逝的诸般形相。
Verses 37-39
सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥३७॥असंयत कवाटानि श्रीविहीनानि सर्वशः ।बलिकर्मविहीनानि धूपसम्मोदनेन च ॥३८॥अनाशितकुटुम्बानि प्रभाहीनजनानि च ।अलक्ष्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥३९॥
我看见家家户户无人洒扫,尘垢满目;门扉失于守护,往昔的荣华四散消逝。常行的供献不复举行,亦无熏香的悦人芬芳。家人似未得食,众人神采黯淡——每一所宅第都仿佛被不祥所笼罩。
Verse 40
अपेतमाल्यशोभानि ह्यसम्मृष्टाजिराणि च ।देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥४०॥
诸神之殿不见花鬘之美,庭院亦无人洒扫涂抹;殿宇空寂,再不如往昔那般光辉。
Verse 41
देवतार्चाः प्रविद्धाश्च यज्ञगोष्ठ्यस्तथाविधाः ।माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥४१॥
对诸神的供奉已然中断,往常举行祭祀(yajña)的集会也不复可见。就连昔日货品辉映的花鬘市集,如今也不再如前陈列诸物。
Verse 42
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।ध्यानसंविग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥४२॥
就连商贾今日也不如往昔可见;他们心神不宁,思绪纷乱,被崩坏的买卖所牵制。
Verses 43-44
देवायतनचैत्येषु दीनाः पक्षिगणास्तथा ॥४३॥मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् ।सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे ॥४४॥
在神庙和圣地,我看见成群的鸟儿显得沮丧。城中男女百姓面容悲伤,眼中充满泪水,心神沉浸在忧思之中,身体消瘦,声音因悲痛而哽咽。
Verse 45
इत्येवमुक्त्वा भरतस्सूतं तं दीनमानसः ।तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥४५॥
他如此对那御者说罢,婆罗多心神沉重;见阿逾陀耶诸多不祥之兆,便前往王宫。
Verse 46
तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकवाटयन्त्राम् ।दृष्ट्वा पुरीमिन्द्रपुरप्रकाशां दुःखेन सम्पूर्णतरो बभूव ॥४६॥
他看见那座城——昔日光辉如因陀罗之都——如今十字路口、宅第与街巷皆空寂,门扇的金属构件也被尘土染成赤色;他便被悲痛彻底淹没。
Verse 47
बहूनि पश्यन्मनसोऽप्रियाणि यान्यन्यदा नास्य पुरे बभूवुः ।अवाक्छिरा दीनमना नहृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥४७॥
目睹城中从未发生的诸多不幸之事,伟大的婆罗多垂首低眉,心怀忧愁,毫无喜色,步入父王的宫殿。
Rather than a courtroom-like dilemma, the chapter presents an ethical diagnostic action: Bharata reads the city’s disrupted household and ritual routines as evidence of moral-political rupture, implying that governance and dharma are measurable through civic well-being and maintained rites.
The sarga teaches that social auspiciousness (śrī) is not merely aesthetic but ethical: when leadership falters and communal grief dominates, ordinary dharmic practices—cleanliness, offerings, incense, hospitality, and emotional steadiness—collapse, revealing the interdependence of polity, ritual, and inner resilience.
Geographically, the sarga highlights a chain of rivers and regions—Sudāmā, Hlādinī, Śatadrū, Uttānikā, Kuṭikā, Kapīvatī; locales such as Rājagṛha, Elādhāna, Sarvatīrtha, and Lauhitya—while culturally it foregrounds Ayodhyā’s temples/caityas, Veda-versed brāhmaṇas and sacrificers, and the visible absence of domestic-ritual markers (oblations and incense).
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Valmiki Ramayana in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.