Adhyaya 10
Srishti KhandaAdhyaya 10127 Verses

Adhyaya 10

The Greatness of the Ancestors: Ekoddiṣṭa Śrāddha, Āśauca Rules, and Sapiṇḍīkaraṇa

普拉斯提亚阐明“独祭(Ekoddiṣṭa)施罗陀(śrāddha)”及相关的“阿绍恰(āśauca,净秽期)”戒律,按种姓与亲属远近规定不净天数,并说明生育之不净与死亡之不净相应。经文又规定连续十二日施献“团食(piṇḍa-dāna)”,安置清水以慰济“普雷塔(preta,亡灵)”,并供养婆罗门,其中第十一日亦须设食。 随后详述一年后行“萨宾迪迦罗那(sapiṇḍīkaraṇa,入祖合祭)”之过渡仪式:亡灵如何融入“祖灵(Pitṛ)”之列,以及供品(havya/kavya)如何凭咒语、氏族(gotra)与虔诚意向而达于祖灵。并告诫不当布施,尤以赠床为甚,列出相应的忏悔与补救。 末尾嵌入长篇故事:从考希迦之子起,经多次转生至婆罗摩达多(Brahmadatta),并有梵天(Brahmā)出现,显示施罗陀之功德能转化命运,终至瑜伽成就与解脱。

Shlokas

Verse 1

पुलस्त्य उवाच । एकोद्दिष्टं ततो वक्ष्ये यदुक्तं ब्रह्मणा पुरा । मृते पुत्रैर्यथाकार्यमाशौचं च पितुर्यदि

普罗萨提亚说道:“现在我将宣说名为‘一指供’(Ekoddiṣṭa)之仪,此乃往昔梵天所教:父亡之时诸子当作何事,以及就父而言应守何等期限的仪式不净(āśauca)。”

Verse 2

दशाहं शावमाशौचं ब्राह्मणस्य विधीयते । क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि

由死亡(śāva)所生之不净(āśauca),婆罗门规定为十日;刹帝利为十二日;而吠舍则确为半月(十五日)。

Verse 3

शूद्रेषु मासमाशौचं सपिंडेषु विधीयते । नैशमाचूडमाशौचं त्रिरात्रं परतः स्मृतम्

对首陀罗而言,若至亲同族(sapinda)中有人亡故,规定一月的净秽期(āśauca)。若在此亲属圈之外,则记为三夜;若夜间死亡,则净秽持续至解开发髻(即待夜尽)。

Verse 4

जननेप्येवमेव स्यात्सर्ववर्णेषु सर्वदा । अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते

在生育之事上亦当如此:无论何时、于一切种姓皆同。待收集遗骨之后,方再准许身体接触。

Verse 5

प्रेताय पिंडदानं तु द्वादशाहं समाचरेत् । पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्

应为亡灵行十二日的供团(piṇḍa-dāna,饭团供献)。此被宣说为其旅途资粮,因为能带来极大的慰悦与满足。

Verse 6

यस्मात्प्रेतपुरं प्रेतो द्वादशाहेन नीयते । गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति

因为亡灵在十二日后被引至饿鬼之城(Preta-pura);而在这十二日间,它仍在家中注视着自己的儿子与妻子。

Verse 7

तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा । सर्वदाहोपशांत्यर्थमध्वश्रमविनाशनम्

因此,应在空旷通风之处置水十夜;此水能安抚一切灼热烦恼,并消除旅途之劳。

Verse 8

ततस्त्वेकादशाहेपि द्विजानेकादशैव तु । गोत्रादिसूतकांते च भोजयेन्मनुजो द्विजान्

随后,即使在第十一日,也应供养十一位婆罗门;待与族系等相关的不净期终了时,应再度供养婆罗门。

Verse 9

द्वितीयेह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत् । नावाहनाग्नौकरणं दैवहीनं विधानतः

第二日亦应如前修行一祭:行“独指祭”(Ekoddiṣṭa)。依仪轨规定,不作神明迎请,不行火供,缺少“天神分”(daiva)之要素。

Verse 10

एकं पवित्रमेकोर्घ एकः पिंडो विधीयते । उपतिष्ठतामिति वदेद्देयं पश्चात्तिलोदकं

当备一枚净化用的库沙草环、一份阿尔吉亚供水(arghya)、以及一团饭丸(piṇḍa)。口诵“愿彼等前来受供”,随后施以掺芝麻之水。

Verse 11

स्वास्ति ब्रूयाद्विप्रकरे विसर्गे चाभिरम्यताम् । शेषं पूर्ववदत्रापि कार्यं वेदविदो विदुः

至仪式终了,于婆罗门众会中当宣说“娑婆斯提”(Svasti)以作吉祥祝祷,继而和悦辞别。其余诸事,此处亦当如前而行——此乃通晓吠陀者之所知。

Verse 12

अनेन विधिना सर्वमनुमासं समाचरेत् । सूतकांते द्वितीयेह्नि शय्यां दद्याद्विलक्षणाम्

依此仪轨,应于整月之中按月修行。其后,不净期既尽,于第二日当施与一张殊胜别具之床榻为供赠。

Verse 13

कांचनं पुरुषं तद्वत्फलवस्त्रसमन्वितम् । प्रपूज्य द्विजदांपत्यं नानाभरणभूषितम्

同样地,应先如法礼敬一尊配以果品与衣服的金色男像,然后恭敬供养一对以种种饰物庄严的婆罗门夫妇。

Verse 14

उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत् । रजतस्य तु पात्रेण दधिदुग्धसमन्वितम्

将宾客安坐于榻上之后,应当奉献“蜜乳供”(madhuparka),以银器盛之,并配以酸乳与牛奶。

Verse 15

अस्थिलालाटिकं गृह्य सूक्ष्मं कृत्वा विमिश्रयेत् । पाययेदिद्वजदांपत्यं पितृभक्त्या समन्वितः

取一小片(额部的)骨,细细研磨并调入饮液;怀着对祖灵的虔敬,令那对大象夫妇饮之。

Verse 16

एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोतमैः । तेन दुष्टा तु सा शय्या न ग्राह्या द्विजसत्तमैः

此法正为帕尔瓦塔地区最尊胜的婆罗门所遵行;因此那张床被视为不净,最上等的再生者不应受取。

Verse 17

गृहीतायां तु तस्यां हि पुनः संस्कारमर्हति । वेदे चैव पुराणे च शय्या सर्वत्र गर्हिता

然而若她已被迎娶为妻,则确应再行一次净化圣礼;因为在《吠陀》与《往世书》中,凡不依正法而用的婚床,处处皆受谴责。

Verse 18

ग्रहीतारस्तु जायन्ते सर्वे नरकगामिनः । ग्रथितां वसुजालेन शय्यां दांपत्यसेविताम्

凡非法取用此物者,皆将转生为堕入地狱之众。此言指供夫妻欢娱之床,乃以财富之网交织而成。

Verse 19

ये स्पृशंति न जानंतः सर्वे नरकगामिनः । नवश्राद्धेन भोक्तव्यं भुक्त्वा चांद्रायणं चरेत्

凡不知戒律而触碰者,皆注定堕入地狱。应先行作九次施食祭(nava-śrāddha)而后方可进食;食毕当修月行苦行之忏(Cāndrāyaṇa)。

Verse 20

पितृभक्त्या तु पुत्राणां कार्यमेव सदा भवेत् । वृषोत्सर्गं च कुर्वीत देया च कपिला शुभा

出于对祖灵的虔敬,诸子当恒常履行应作之仪轨。亦当行放牛(vṛṣotsarga)之圣释,并施舍一头吉祥的黄褐色母牛(kapilā)。

Verse 21

उदकुंभश्च दातव्यो भक्ष्यभोज्यफलान्वितः । यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम्

噫,人中至胜者,当施与一只水罐,内备食物、熟食与果品;如是一整年,并先以芝麻和水作供献。

Verse 22

ततः संवत्सरे पूर्णे सपिंडीकरणं भवेत् । सपिंडीकरणादूर्द्ध्वं प्रेतः पार्वणभुग्यतः

其后,满一年之时,当行合团祭(sapiṇḍīkaraṇa)。自此之后,亡灵(preta)便有资格在定期的祖祭(pārvaṇa-śrāddha)中享受祖先供品。

Verse 23

वृद्धिपूर्वेषु कार्येषु गृहस्थस्य भवेत्ततः । सपिंडीकरणं श्राद्धं देवपूर्वं नियोजयेत्

因此,居家之人若行求兴盛增益之仪,应先安置名为“萨宾迪迦罗那”(sapiṇḍīkaraṇa)的施祖祭(śrāddha),并以供奉诸天(Deva)为先导。

Verse 24

पितॄनावाहयेत्तत्र पृथक्प्रेतं विनिर्दिशेत् । गंधोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्

于彼处应召请诸祖灵Pitṛ(祖先神灵),并另行指明为亡灵preta所设之供。应备四器,盛以香水并和以芝麻。

Verse 25

अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । तद्वत्संकल्प्य चतुरः पिंडान्पितृपरस्तदा

为献阿尔伽(arghya)之故,应将为preta所设之器中之水,倾注入诸祖灵Pitṛ之器。随后以同一誓愿,行者专敬祖灵,当时应制四团piṇḍa(饭团)。

Verse 26

ये समाना इति द्वाभ्यामन्नं तु विभजेत्त्रिधा । अनेन विधिना चार्घ्यं पूर्वमेव प्रदापयेत्

诵念以“ye samānā…”开头之两偈时,应将食物分作三份。依此法度,当先奉献阿尔伽(arghya),即恭敬之水供。

Verse 27

ततः पितृत्वमापन्नस्स चतुर्थस्तदा त्वनु । अग्निष्वात्तादि मध्ये तु प्राप्नोत्यमृतमुत्तमम्

其后,他得成Pitṛ(祖灵)之位;作为第四者,继而在诸Agniṣvātta等祖灵众类之中,获得至上的不死甘露。

Verse 28

सपिण्डीकरणादूर्ध्वं पृथक्तस्मै न दीयते । पितृष्वेव च दातव्यं तत्पिंडं येषु संस्थितम्

在行完“合入祖群”(sapiṇḍīkaraṇa)之仪后,piṇḍa 不应再单独供奉于他;应唯供于诸 Pitṛ(祖灵),因为此 piṇḍa 被认为已安立于其间。

Verse 29

ततः प्रभृति संक्रान्तावुपरागादि पर्वसु । त्रिपिंडमाचरेच्छ्राद्धमेकोद्दिष्टं मृतेहनि

自此以后,于 saṅkrānti(太阳移宫)、日月食等诸般斋期圣日,应行三团 piṇḍa 的 śrāddha;而在亡者去世之当日,则应修行专为一人之 ekoddiṣṭa śrāddha。

Verse 30

एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत् । स दैवं पितृहा स स्यात्तथा भ्रातृविनाशकः

若有人在丧仪之日舍弃 ekoddiṣṭa 供献而转行他仪,则被视为戕害祖灵者,亦同为致兄弟覆亡之因。

Verse 31

मृताहे पार्वणं कुर्वन्नधो याति स मानवः । संपृक्ते स्वर्गती भावे प्रेतमोक्षो यतो भवेत्

人在不祥的亡日行 pārvaṇa 之 śrāddha 供献,必堕于下劣境地;然若能如法与通达天界之因缘相连,则由此成就亡灵之解脱。

Verse 32

आमश्राद्धं तदा कुर्याद्विधिज्ञः श्राद्धदस्ततः । तेनाग्नौकरणं कुर्यात्पिंडांस्तेनैव निर्वपेत्

于是,通晓仪轨者当以备妥之 śrāddha 供具修行前行(āma)śrāddha;并以同一供品行火相应之仪,又以同一供品安置并奉献诸 piṇḍa。

Verse 33

त्रिभिः सपिंडीकरणं मासैक्ये त्रितये तथा । यदा प्राप्स्यति कालेन तदा मुच्येत बंधनात्

当在三次规定的时段行作“萨宾迪迦罗那”(sapiṇḍīkaraṇa)仪轨——满一月之时,并同样在第三月之时——则于时日成熟之际,众生得从系缚中解脱。

Verse 34

मुक्तोपि लेपभागित्वं प्राप्नोति कुशमार्जनात् । लेपभाजश्चतुर्थाद्यास्त्रयः स्युः पिंडभागिनः

即便已从不净中解脱者,因以库沙草(kuśa)扫拂,也会分受一份沾染。凡分受此沾染者,自第四人起的三人,被说为得受祭团饭丸(piṇḍa)的一份。

Verse 35

पिण्डदः सप्तमस्तेषां सपिंडाः सप्तपूरुषाः । भीष्म उवाच । कथं हव्यानि देयानि कव्यानि च जनैरिह

施献祭团饭丸(piṇḍa)者为其中第七人;同一萨宾达(sapinda)之祖先延及七代。毗湿摩(Bhīṣma)曰:在此世间,人们当如何奉献献给诸天的供献(havya)与献给祖灵的供献(kavya)?

Verse 36

गृह्णंति पितृलोके वा प्रायः के कैर्निगद्यते । यदि मर्त्ये द्विजो भुंक्ते हूयते यदि वानले

通常说来,是谁、又由谁宣称:供献在祖灵界(Pitṛ-loka)为其所受?若在此人间由一位两次生者(dvija)食用,或将其倾注于火中焚献,那么究竟何者能真实到达他们?

Verse 37

शुभाशुभात्मकाः प्रेतास्तदन्नं भुंजते कथम् । पुलस्त्य उवाच । वसुस्वरूपाः पितरो रुद्राश्चैव पितामहाः

“诸般普雷塔(preta)具吉凶杂性,他们如何享用那食物?”普拉斯提耶(Pulastya)曰:“诸祖灵(Pitṛ)乃具瓦苏(Vasu)之形;而祖父辈先灵,确为鲁陀罗(Rudra)之形。”

Verse 38

प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः । नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः

“诸位曾祖与阿底提耶(Āditya)”——此乃吠陀之圣启。诚然,祖灵(Pitṛ)之名与氏族(gotra),使供献之havya与kavya得以达至彼等。

Verse 39

श्राद्धस्य मन्त्रतस्तत्वमुपलभ्येत भक्तितः । अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः

凭借施罗陀(śrāddha)之真言,怀敬信而悟其真实义理;而阿耆尼施瓦塔(Agniṣvātta)等诸祖灵(Pitṛ),安立为彼等仪轨之主宰与监临者。

Verse 40

नामगोत्रास्तदा देशा भवंत्युद्भवतामपि । प्राणिनः प्रीणयत्येतदर्हणं समुपागतं

于是,即便新近出生者亦得其名、其氏族(gotra)与其所出之地。此等恭敬之供养,若如法奉献,便能令诸有情众生心生满足。

Verse 41

दिव्यो यदि पिता माता गुरुः कर्मानुयोगतः । तस्यान्नममृतं भूत्वा दिव्यत्त्वेप्यनुगच्छति

若父、母或灵性导师因其所受之正法职责而具神圣之性,则献与彼等之食,化为甘露(amṛta)般不死之味;施者亦随之趋入那神圣境界。

Verse 42

दैत्यत्वे भोगरूपेण पशुत्वेपि तृणं भवेत् । श्राद्धान्नं वायुरूपेण नागत्वेप्युपतिष्ठति

纵使转生为阿修罗族(daitya),彼食亦成诸欲之乐;纵使生为禽兽,亦化为草食。施罗陀(śrāddha)所献之食,纵使受者已成龙蛇(nāga),亦以风之形态而至其身。

Verse 43

पानं भवति यक्षत्वे राक्षसत्वे तथामिषं । दानवत्वे तथा पानं प्रेतत्वे रुधिरोदकम्

处于夜叉(Yakṣa)之身时,唯有饮;处于罗刹(Rākṣasa)之身时,亦唯食肉。处于达那婆(Dānava)之身时,也唯饮;而处于饿鬼(Preta)之身时,则饮血水相杂之水。

Verse 44

मनुष्यत्वेन्नपानादि नानाभोगवतां भवेत् । रतिशक्तिस्त्रियः कान्तेऽन्येषां भोजनशक्तिता

在人身之中,生起饮食等诸般享受的能力。其间,女子多显对所爱之人的情欲之力;其余众生则多显进食之力。

Verse 45

दानशक्तिः स विभवा रूपमारोग्यमेव च । श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः

布施(dāna)之力、福裕、容色之美与确然的安康——此被宣说为祭祖供养(śrāddha)之“花”;其果则为与梵(Brahman)相应相会。

Verse 46

आयुः पुत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीताः पितृगणा नृप

大王啊,若众祖灵(Pitṛ)欢喜,便赐予寿命、子嗣与财富、学识、天界、解脱与诸乐;亦复赐予王权与国度之威。

Verse 47

श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः । पंचभिर्जन्मसंबंधैः प्राप्ता ब्रह्मपरं पदम्

传闻在久远之昔,拘尸迦(Kauśika)之子得证解脱。凭借跨越五次生缘的系属,他们抵达梵(Brahman)之至上境地。

Verse 48

भीष्म उवाच । कथं कौशिकदायादाः प्राप्ता योगमनुत्तमम् । पंचभिर्जन्मसंबन्धैः कथं कर्मक्षयो भवेत्

毗湿摩说道:拘尸迦的后裔如何证得无上瑜伽?又如何凭借跨越五次生缘的联系,使业力得以穷尽消融?

Verse 49

पुलस्त्य उवाच । कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः । नामतः कर्मतस्तस्य पुत्राणां तन्निबोध मे

普罗婆斯提耶说道:“在俱卢之野(Kurukṣetra)有一位名为拘尸迦的正法大圣仙。现在从我这里听闻他的诸子——其名与其行。”

Verse 50

स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च । वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्

当时,娑婆斯利波(Svasṛpa)、克罗陀那(Krodhana)、欣斯罗(Hiṃsra)、毗修那(Piśuna)与迦毗(Kavi),以及瓦格杜什塔(Vāgduṣṭa)和毗特利跋尔提(Pitṛvartī),皆为伽尔伽(Garga)之弟子。

Verse 51

पितर्युपरते तेषामभूद्दुर्भिक्षमुल्बणं । अनावृष्टिश्च महती सर्वलोकभयंकरी

当他们的父亲逝去之后,便有可怖的饥荒降临于他们;又有大旱,令诸世界皆生恐惧。

Verse 52

गर्गादेशाद्वने दोग्ध्रीं रक्षंति च तपोधनाः । खादामः कपिलामेतां वयं क्षुत्पीडिता भृशं

依伽尔伽之命,在林中诸苦行者守护着这头乳牛;然而我们被饥饿逼迫至极,便要食用这头黄褐色的母牛。

Verse 53

इति चिंतयतां पापं लघुः प्राह तदानुजः । यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यतां

当他们思量此罪之时,弟弟拉古说道:“若她必定要被杀,就应当安排为施行‘施罗达(śrāddha)’的仪式。”

Verse 54

श्राद्धे नियोज्यमानायां पापं नश्यति नो ध्रुवं । एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः

当她被如法安置于施罗达(Śrāddha)之仪时,罪业必然消灭,确实如此。既受此教诲并获允准,他便与诸弟同心,依循祖灵(Pitṛs)之意而行。

Verse 55

चक्रे समाहितः श्राद्धमुपयुज्याथ तां पुनः । द्वौ दैवे भ्रातरो कृत्वा पित्र्ये त्रींश्चापरान्क्रमात्

他心神安定地举行了施罗达(Śrāddha),随后又依此安排:为奉献诸天之礼立二位兄弟,又按次第为祖先之礼立其余三十三位。

Verse 56

तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु । चकार मंत्रवच्छ्राद्धं स्मरन्पितृपरायणः

于是他选定一个适宜的月日(tithi),亲自—以供奉施罗达为志—依照所规定的真言举行施罗达,忆念祖灵(Pitṛs),一心归向于他们。

Verse 57

तदा गत्वा विशंकास्ते गुरवे च न्यवेदयन् । व्याघ्रेण निहता धेनुर्वत्सोयं प्रतिगृह्यतां

随后他们满怀疑惧前去禀告师长:“母牛已被虎所杀;请收下这头小牛。”

Verse 58

एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः । वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः

于是,那头母牛被那七位苦行深厚的仙者所食;他们依凭吠陀之力,无所畏惧地从事了残酷之业。

Verse 59

ततः काले प्रणष्टास्ते व्याधा दश पुरेभवन् । जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः

随后,随着时日推移,那已亡的十位猎人于城中再生;他们得宿命之忆,心念被父性之情所熏陶。

Verse 60

तत्र विज्ञाय वैराग्यं प्राणानुत्सृज्य धर्मतः । लोकैरवीक्ष्यमाणास्ते तीर्थांतेनशनेन तु

在那里,他们悟得离欲,依正法舍弃生命;不为众人所见,他们在圣地渡口(tīrtha)尽头以绝食而终。

Verse 61

संजाता मृगरूपास्ते सप्त कालंजरे गिरौ । प्राप्तविज्ञानयोगास्ते तत्यजुस्तां निजां तनुम्

那七位在迦兰阇罗山化作鹿形,得证智慧之瑜伽;随后便舍离了自身之躯。

Verse 62

मम्रुः प्रपतनेनाथ जातवैराग्यमानसाः । मानसे चक्रव्राकास्ते संजाताः सप्तयोगिनः

主啊,他们因坠落而死,心中顿生离欲。在摩那萨湖,那些鸳鸯(cakravāka)遂转生为七位瑜伽行者。

Verse 63

नामतः कर्मतः सर्वे सुमनाः कुसुमोवसुः । चित्तदर्शी सुदर्शी च ज्ञाता ज्ञानस्य पारगः

无论名号与行事,他们皆心地高贵,如花之珍宝;能洞察他人之心,具清净妙见,为知者,已渡越知识之彼岸。

Verse 64

ज्येष्ठानुरक्ताः श्रेष्ठास्ते सप्तैते योगपावनाः । योगभ्रष्टास्त्रयस्तेषां बभूवुश्चलचेतसः

依恋其长者,那七位最为殊胜,以瑜伽而净化;然其中三人失坠于瑜伽,心念摇动不定。

Verse 65

दृष्ट्वा विभ्राजमानं तमणुहं स्त्रीभिरन्वितम् । क्रीडंतं विविधैर्भोगैर्महाबलपराक्रमम्

见他光辉灿然,偕诸女相随,于种种享乐中嬉戏,具大力与大勇,

Verse 66

पञ्चालान्वयसंभूतं प्रभूतबलवाहनम् । राज्यकामोभवत्त्वेकस्तेषां मध्ये जलौकसाम्

“在诸水居者之中,当有一人——出自般遮罗族系,具足丰盛之力与乘骑——心怀王位之愿。”

Verse 67

पितृवर्ती च यो विप्रः श्राद्धकृत्पितृवत्सलः । अपरौ मंत्रिणौ दृष्ट्वा प्रभूतबलवाहनौ

一位奉事祖灵的婆罗门——常修施罗陀(śrāddha)祭仪,慈爱诸祖(Pitṛ)——见到另两位大臣,具足丰盛兵力与乘具,便留意于他们。

Verse 68

मंत्रित्वे चक्रतुश्चेच्छामस्मिन्मर्त्यौ द्विजोत्तमौ । विभ्राजपुत्रस्त्वेकोभूद्ब्रह्मदत्त इति स्मृतः

在此世间,那两位卓越的婆罗门遂如愿担任大臣;其中一位为毗婆罗阇之子,世人称其为“梵赐”(Brahmadatta)。

Verse 69

मंत्रिपुत्रौ तथा चैव पुंडरीकसुबालकौ । ब्रह्मदत्तोभिषिक्तस्तु कांपिल्ये नगरोत्तमे

同样地,大臣的两位儿子——本陀利迦(Puṇḍarīka)与苏婆罗迦(Subālaka)——也在其侧。梵赐(Brahmadatta)在迦毗利耶(Kāmpilya)这座上等之城受灌顶加冕。

Verse 70

पंचालराजो विक्रांतः श्राद्धकृत्पितृवत्सलः । योगवित्सर्वजंतूनां चित्तवेत्ताभवत्तदा

其时,般遮罗(Pañcāla)之王英勇无畏,勤修施行祭祖的施罗陀(śrāddha)仪轨,深怀孝敬先祖之心;遂成瑜伽之知者,亦能洞察一切众生之意念。

Verse 71

तस्य राज्ञोभवद्भार्या सुदेवस्यात्मजा तदा । सन्नतिर्नाम विख्याता कपिलायाभवत्पुरा

那位国王当时娶苏提婆(Sudeva)之女为后,名闻于世曰“善那提”(Sannati);而在往昔,她曾名为“迦毗罗”(Kapilā)。

Verse 72

पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी । तया चकार सहितः स राज्यं राजनंदनः

因被委任承担父亲之祭祀职责,她遂成为通达并宣说梵(Brahman)之女贤。那位王子与她同心,共理国政。

Verse 73

कदाचिद्गतौद्यानं तया सह स पार्थिवः । ददर्श कीटमिथुनमनंगकलहान्वितम्

有一次,国王与她同往园林,在那里看见一对昆虫,陷于由欲爱所生的争执之中。

Verse 74

पिपीलिकामधोवक्त्रां पुरतः कीटकामुकः । पंचबाणाभितप्तांगः सगद्गदमुवाच ह

于是那恋慕的昆虫立于面朝下的蚂蚁之前,肢体为爱神迦摩的五箭所灼,哽咽动情而语。

Verse 75

न त्वया सदृशी लोके कामिनी विद्यते क्वचित् । मध्ये क्षीणातिजघना बृहद्वक्त्रातिगामिनी

世间再无女子可与你相比:腰身纤细,臀胯丰盈,容颜之美与步态之雅皆胜于众。

Verse 76

सुवर्णवर्णसदृशी सद्वक्त्रा चारुहासिनी । आलक्ष्यते च वदनं गुडशर्करवत्सलं

她显现为金色光泽,面容端雅,含笑可亲;其容颜甜美悦人,如同粗糖与白糖一般。

Verse 77

भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि । प्रोषिते मयि दीना त्वं क्रुद्धे च भयचंचला

我食则你食,我浴则你亦浴;我远行则你凄然,我发怒则你惶惧而颤。

Verse 78

किमर्थं वद कल्याणि सदाधोवदनास्थिता । सा तमाह ज्वलत्कोपा किमालपसि रे शठ

“请告诉我,吉祥的女士——你为何总是低首而坐?”她怒火炽然,答他说:“你这欺诈之徒,在胡言些什么?”

Verse 79

त्वया मोदकचूर्णं तु मां विहायापि भक्षितम् । प्रादास्त्वं तदतिक्रम्य मामन्यस्यै समन्मथः

你把摩达迦的粉末吃了,却把我撇在一旁;更甚者,你越过此事,将我许与他人——噢,撩动欲情者。

Verse 80

पिपीलक उवाच । त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि । तदेकमपराधं मे क्षंतुमर्हसि भामिनि

毗毗罗迦说道:“肤色姣美的女士啊,只因她与你相似,我才将其给了别人。就我这一桩过失,热烈的女子啊,请你宽恕我。”

Verse 81

नैवं पुनः करिष्यामि त्यज कोपं च सुस्तनि । स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे

“我不再如此行事。舍弃嗔怒吧,丰胸的佳人。以真实为誓,我触及你的双足——请垂怜我这俯伏者。”

Verse 82

रुष्टायां त्वयि सुश्रोणि मृत्युर्मे पुरतो भवेत् । तुष्टायां त्वयि वामोरु पूर्णाः सर्वमनोरथाः

美臀的女子啊,若你对我发怒,死亡便立于我前;若你悦纳于我,秀腿的佳人啊,我的一切愿望皆得圆满。

Verse 83

पूर्णचंद्रोपमं वक्त्रं स्वादेमृतरसोपमम् । निर्भरं पिब सुश्रोणि कामासक्तस्य मे सदा

你的面容如满月,你的甘美如甘露之味。美腰之人啊,请尽情啜饮我——我恒常沉溺于欲爱之中。

Verse 84

एतन्मत्वा शुभे कार्या सर्वदा तु कृपा मयि । इति सा वचनं श्रुत्वा प्रसन्ना चाभवत्ततः

“既知如此,吉祥者啊,应当常以慈悯待我。”她听闻此言,随即心生欢喜。

Verse 85

आत्मानमर्पयामास मोहनाय पिपीलिका । ब्रह्मदत्तोपि तत्सर्वं ज्ञात्वा सस्मयमाहसत्

蚂蚁将自身奉献给摩诃那。婆罗摩达多得知这一切后,带着惊奇的笑意开口,并朗声而笑。

Verse 86

सर्वसत्वरुतज्ञानी प्रभावात्पूर्वकर्मणः । भीष्म उवाच । कथं सर्वरुतज्ञोभूद्ब्रह्मदत्तो नराधिपः

凭借往昔业力之威,他成了通晓一切众生音声者。毗湿摩说道:人中王婆罗摩达多,如何得以知晓诸类众生之声?

Verse 87

तच्चापि चाभवत्कुत्र चक्रवाकचतुष्टयं । तन्मे कथय सर्वज्ञ कुले कस्य च सुव्रतम्

那四只鸳鸯鸟(cakravāka)后来又在何处出现?全知者啊,请告诉我:那位持善誓的贤者出自何族何姓?

Verse 88

पुलस्त्य उवाच । तस्मिन्नेव पुरे जाताश्चक्रवाका अथो नृप

普拉斯提亚说道:就在那座城中,噢大王,鸳鸯鸟(cakravāka)诞生了。

Verse 89

वृद्धद्विजस्य दायादा विप्रा जातिस्मरा बुधाः । धृतिमांस्तत्त्वदर्शी च विद्यावर्णस्तपोधिकः

那位年迈婆罗门的继承人也都是婆罗门——智者,能忆念前生,意志坚定,洞见真实,学识与品德卓然,并以苦行(tapas)充盈。

Verse 90

नामतः कर्मतश्चैव सुदरिद्रस्य ते सुताः । तपसे बुद्धिरभवत्तेषां वै द्विजजन्मनां

那极其贫困之人的儿子们——无论名号还是行持——都生起了对苦行的倾向;凭此修持,这些再生者确实成了“二次出生”的婆罗门。

Verse 91

यास्यामः परमां सिद्धिमूचुस्ते द्विजसत्तमाः । तत्तेषां वचनं श्रुत्वा सुदरिद्रो महातपाः

“我们将证得至上的成就。”那些最殊胜的再生者如此说道。听到他们的话,那极贫之人——却具大苦行——心中为之触动。

Verse 92

उवाच दीनया वाचा किमेतदिति पुत्रकाः । अधर्म एष वः पुत्रा पिता तानित्युवाच ह

他以哀伤的声音说道:“孩子们,这是怎么回事?”随后父亲对他们说:“孩子们,这在你们这边是阿达摩(adharma),是不义之行。”

Verse 93

वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनम् । क्व नु धर्मोत्र भविता मां त्यक्त्वा गतिमेव च

你舍弃年迈的父亲——贫困而居于林中——那么你在此世的法(Dharma)又将安在何处?又把我抛下,你究竟能获得怎样的善道与更高归趣?

Verse 94

ऊचुस्ते कल्पिता वृत्तिस्तव तात वचश्शृणु । व्रतमेतत्पुरा राज्ञः स ते दास्यति पुष्कलं

他们说:“亲爱的孩子,我们已为你筹划了一条道路——请听我们的话。这是古时一位国王所守的誓愿;它将赐你丰厚的果报。”

Verse 95

धनं ग्राम सहस्राणि प्रभाते पठतस्तव । कुरुक्षेत्रे तु ये विप्रा व्याधा दशपुरे तु ये

你若在黎明诵读,便得财富与千村之福;同样,住在俱卢之野(Kurukṣetra)的婆罗门,以及住在达沙补罗(Daśapura)的猎人,也得此所说功德。

Verse 96

कालंजरे मृगा भूताश्चक्रवाकास्तु मानसे । इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः

“在迦兰阇罗(Kālañjara),他们化为鹿;在摩那萨(Mānasa),他们化为鸳鸯鸟(cakravāka)。”对父亲说罢,他们又入林中修苦行(tapas)。

Verse 97

वृद्धोपि स द्विजो राजन्जगाम स्वार्थसिद्धये । अणुहो नाम वैभ्राजः पञ्चालाधिपतिः पुरा

大王啊,虽已年迈,那位婆罗门仍为成就自身所愿而启程。往昔,般遮罗(Pañcāla)有一位君主名为阿努诃(Aṇuha),出自毗婆罗阇(Vaibhrāja)一系。

Verse 98

पुत्रार्थी देवदेवेशं पद्मयोनिं पितामहम् । आराधयामास विभुं तीव्रव्रतपरायणः

他渴求得子,便礼敬供奉诸天之主、全能的毗多摩诃梵天——莲华所生者——坚定奉行严峻誓戒而修持。

Verse 99

ततः कालेन महता तुष्टस्तस्य पितामहः । वरं वरय भद्रं ते हृदयेभीप्सितं नृप

于是经久之后,毗多摩诃(梵天)心生欢喜,对他说:“大王,愿吉祥临汝;请择一愿,随汝心中所求。”

Verse 100

अणुह उवाच । पुत्रं मे देहि देवेश महाबलपराक्रमम् । पारगं सर्वविद्यानां धार्मिकं योगिनां वरम्

阿努诃说道:“诸天之主啊,赐我一子:具大力与英勇,通达一切学艺,行持正法,且为瑜伽行者之最胜。”

Verse 101

सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम् । एवमस्त्विति विश्वात्मा तमाह परमेश्वरः

“赐我一位为瑜伽行者之子,能解一切众生之声。”他如此祈请,至上主、宇宙之我便答曰:“如是成就。”

Verse 102

पश्यतां सर्वभूतानां तत्रैवांतरधीयत । ततः स तस्य पुत्रोभूद्ब्रह्मदत्तः प्रतापवान्

在一切众生注视之下,他当场隐没不见。其后,他的儿子诞生——婆罗摩达多,威光炽盛,英勇非凡。

Verse 103

सर्वसत्वानुकंपी च सर्वसत्वबलाधिकः । सर्वसत्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः

祂怜悯一切众生,力量超越一切;知晓万类的呼号与声音,祂是众生诸主之上的至上主宰。

Verse 104

अथ सत्वेन योगात्मा स पिपीलकमागतः । यत्र तत्कीटमिथुनं रममाणमवस्थितम्

随后,那位具足清净善德、瑜伽之魂者来到一只蚂蚁前;在那里,一对昆虫并立,相互嬉戏。

Verse 105

ततः सा सन्नतिर्दृष्ट्वा प्रहसंतं सुविस्मितं । किमप्याशंकमाना सा तमपृच्छन्नरेश्वरम्

于是,萨那提见那人中王含笑且大为惊异,心中隐约生疑,便向那人间之主发问。

Verse 106

सन्नतिरुवाच । अकस्मादतिहासोयं किमर्थमभवन्नृप । हास्यहेतुं न जानामि यदकाले कृतं त्वया

萨那提说道:“大王,为何此处忽然发笑?我不知这笑意因何而起,尤其是你在不合时宜之时所为。”

Verse 107

अवदद्राजपुत्रोसौ तं पिपीलिकभाषितम् । रागवद्विरसोत्पन्नमेतद्धास्यं वरानने

那位王子谈及她如蚁般的言语,说道:“美面者啊,你这笑声带着情欲之调,却淡而无味,毫无韵致。”

Verse 108

न चान्यत्कारणं किंचिद्धास्यहेतुः शुचिस्मिते । न सामन्यततं देवी प्राहालीकमिदं तव

除此之外再无任何缘由使你发笑,噢清净微笑者。此事并非寻常,女神啊——乃关乎你的一桩奇异而近乎难信之事。

Verse 109

अहमेवेह हसिता न जीविष्ये त्वयाधुना । कथं पिपीलिकालापं मर्त्यो वेत्ति सुरादृते

此处唯有我被嘲笑;如今因你之故,我将不再存活。若无神明相助,凡人怎能懂得蚂蚁的言语?

Verse 110

तस्मात्त्वयाहमेवाद्य हसिता किमतः परम् । ततो निरुत्तरो राजा जिज्ञासुस्तद्वचो हरेः

因此今日你确已笑我——还能有何更甚?于是国王无言以对,心生渴望,欲明了哈利(毗湿奴)之言。

Verse 111

आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः । स्वप्नान्ते प्राह तं ब्रह्मा प्रभाते पर्यटन्पुरम्

他立下戒律之誓,清净无垢者坚守七夜。于梦境将尽之时,梵天对他说话;至黎明,他巡行于城中。

Verse 112

वृद्धद्विजोत्तमाद्वाक्यं सर्वं ज्ञास्यति ते प्रिया । इत्युक्त्वांतर्दधे ब्रह्मा प्रभाते च नृपः पुरात्

“凭那位年迈的最上婆罗门之言,你的爱侣将知晓一切。”言毕,梵天隐没;至拂晓,国王自城中出发。

Verse 113

निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः । गदंतं विप्रमायांतं वृद्धं च स ददर्श ह

他出行时,偕同诸大臣并携妻同行,见前方有一位年迈的婆罗门长者,边说边走,正向他走来。

Verse 114

ब्राह्मण उवाच । ये विप्रमुख्याः कुरुजांगलेषु दाशास्तथा दाशपुरे मृगाश्च । कालंजरे सप्त च चक्रवाका ये मानसे तेत्र वसंति सिद्धाः

婆罗门说道:“在库鲁阇伽罗的诸位最上二生者,以及达沙城达沙族之人,乃至群鹿;又有迦兰阇罗的七只查克拉瓦卡鸟——这些成就者悉住于摩那萨。”

Verse 115

इत्याकर्ण्य वचस्तस्य स पपात शुचान्वितः । जातिस्मरत्वमगमत्तौ च मंत्रिवरात्मजौ

听到他的话,他悲恸难当,便俯身倒下;而那位贤良大臣的两个儿子也获得了宿世之忆。

Verse 116

कामशास्त्रप्रणेता तु बाभ्रव्यः स तु बालकः । पंचाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्

《欲论》(Kāmaśāstra)的撰者乃巴布拉维亚(Bābhravya),亦名婆罗迦(Bālaka)。他在诸世间以“般遮罗”(Pañcāla)著称,通达一切论典。

Verse 117

पुंडरीकोपि धर्मात्मा वेदशास्त्रप्रवर्तकः । भूत्वा जातिस्मरौ शोकात्पतितावग्रतस्तथा

就连普恩达利迦(Puṇḍarīka)——心怀正法、弘扬吠陀与圣教者——也忆起前生;然而因悲伤所迫,他亦在他们面前倒下。

Verse 118

हा वयं कर्मविभ्रष्टाः कामतः कर्मबंधनात् । एवं विलप्य बहुशस्त्रयस्ते योगपारगाः

“哀哉!我们因欲望而背离本分,堕入业行之缚。”他们三位——已越过瑜伽之境的导师——如此反复哀叹,仍继续说道。

Verse 119

विस्मयाच्छ्राद्धमाहाम्यमभिनंद्य पुनः पुनः । स तु तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्

他惊叹不已,反复称赞施罗达(Śrāddha)祭仪的伟大;随后又赐予那人财富,并连同许多村落。

Verse 120

विसृज्य ब्राह्मणं तं च वृद्धं धनमदान्वितम् । आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्

遣退那位年迈的婆罗门——因财富之傲而自醉——之后,国王转而对自己的儿子说;那王子具足王者之相。

Verse 121

विष्वक्सेनाभिधानं च राजाराज्येभ्यषेचयत् । मानसे सलिले सर्वे ततस्ते योगिनां वराः

名为毗湿伐迦军(Viṣvaksena)者为他行灌顶礼,使其为诸王之王。随后,诸位最胜瑜伽行者都汇集于玛那萨罗瓦尔(Mānasarovara)之水中。

Verse 122

ब्रह्मदत्तादयस्तस्मिन्पितृभक्ता विमत्सराः । सन्नतिश्चाभवद्धृष्टा मयैव तव दर्शितम्

在那里,梵摩达多(Brahmadatta)等人敬奉祖灵,心无嫉妒。他们恭敬谦下之态分明可见——此事正是我亲自向你示现的。

Verse 123

राजन्योगफलं सर्वं यदेतदभिलक्ष्यते । तथेति प्राह राजापि पुरस्तादभिनंदयन्

“凡此所见,确为王者之道(rāja-yoga/rāja-dharma)圆满之果。”国王立于其前,亦赞许答曰:“如是,当如是。”

Verse 124

त्वत्प्रसादादिदं सर्वं मयैवं प्राप्यते फलम्

皆由汝之恩德,我得此一切;如是我已获得此果,此即其报。

Verse 125

ततस्ते योगमास्थाय सर्व एव वनौकसः । ब्रह्मरंध्रेण परमं पदमापुस्तपोबलात्

于是诸林居者皆入瑜伽定(samādhi),以苦行(tapas)之力,由顶门梵孔(brahma-randhra)而达至上之境。

Verse 126

एवमायुर्धनं विद्यां स्वर्गमोक्षसुखानि च । प्रयच्छंति सुतं राज्यं नृणां तुष्टाः पितामहाः

如是,当祖灵(Pitṛ)欢喜时,便赐予世人寿命、财富、学识,以及天界与解脱(mokṣa)之乐,并赐子嗣与王权。

Verse 127

इदं च पितृमाहात्म्यं ब्रह्मदत्तस्य वै नृप । द्विजेभ्यः श्रावयेद्विद्वान्शृणोति पठतेपि वा । कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते

大王啊,此亦为祖先法门之大功德(pitr̥-māhātmya),乃婆罗门达多(Brahmadatta)所传。智者若令婆罗门(brāhmaṇa)诵读,或自听闻,乃至亲自阅读,便于梵天界(Brahmaloka)受尊崇,历经百俱胝(crore)劫(kalpa)而有余。