迦ṣṭhīlā叙述:一位婆罗门与其罗刹女妻子带着获救的公主罗怛那伐梨(Ratnāvalī)来到。罗怛那伐梨抵达父王苏丢摩那(Sudyumna)之城;守卫阿巴胡(Abāhu)报信,国王亲赴恒河岸边,与女儿重逢。罗怛那伐梨讲述自己被罗刹塔尔帕塔(Talpatha)掳至阿尔那伐伽山(Arṇavaga),并称赞罗刹女以“智瑜伽”(buddhi-yoga)的机略洞见,扭转罗刹之不法意图,救护婆罗门。继而出现法(dharma)之问:罗怛那伐梨请求被许配给婆罗门为妻,援引“同坐一席”(sahāsana)为婚姻成立之准,以免犯失法度。苏丢摩那恳请罗刹女接纳罗怛那伐梨为第二妻,并护持她而不生共妻争竞。罗刹女允诺,但以公开供奉为条件:在法尔古那月(Phālguna)明半月第8至第14日举行七日庆典,设音乐与戏剧表演,并供献酒、肉与血等,且誓言护佑礼敬之信众。随后故事转为劝诫贪欲与婚内财物:前妻普拉卡卡利姬(Prākkālikī)因夫贫而弃之受辱;重聚后受苦,并得阎摩(Yama)所判之警示:守护丈夫之财与命,乃妇德(strī-dharma)之要义。
Verse 1
काष्ठीलोवाच । भार्यायास्तद्वचः श्रुत्वा राक्षस्या धर्मसंमितम् । पृष्ठात्करोणुरूपिण्याः सकन्योऽवातरद्द्विजः ॥ १ ॥
卡什提拉说道:听闻罗刹女妻子那合乎法(dharma)、端正相应之言后,那位婆罗门便携女儿一同从母驴背上下来。
Verse 2
अवतीर्णे द्विजे साभूत्सुरूपा प्रमदा पुनः । क्षपाचरी क्षपानाथवक्त्रा पीनोन्नतस्तनी ॥ २ ॥
当婆罗门下到地上时,她又复现为一位绝美的少女——夜行如影,面若明月,双乳丰盈而挺起。
Verse 3
सा कुमारी ततः प्राप्य नगरं स्वपितुः शुभम् । बाह्यरक्षास्थित प्राप्तं पुरपालमुवाच ह ॥ ३ ॥
随后,那位少女抵达自己父王吉祥之城,走近驻守外哨的城卫,对他说道。
Verse 4
गच्छ त्वं नृपतेः पार्श्वं पितुर्मम पुराधिप । ब्रूहि मां समनुप्राप्तां रत्नशालां पुरा हृताम् ॥ ४ ॥
城主啊,请你速速前往国王——我的父亲——身旁,禀告他:我已来到此处,为寻回久昔被夺去的宝殿(珍宝之厅)。
Verse 5
रत्नावलिं रत्नभूतां सुद्युम्नस्य महीक्षितुः । तल्पथा रक्षसा रात्रौ स्वपुरस्था हृता द्विज ॥ ५ ॥
婆罗门啊,罗怛那婆梨——宛如宝珠本身——乃苏底由摩那王之妃;当她仍在自城之中时,夜里被罗刹塔尔帕他掳去。
Verse 6
पुनः सा समनुप्राप्ता जीवमानाऽक्षता पितः । समाश्वसिहि शोकं त्वं मा कृथा मत्कृते क्वचित् ॥ ६ ॥
“父亲,她又回来了——安然无恙,仍然活着。请宽心吧;放下忧悲,切莫因我而在任何时候哀恸。”
Verse 7
अविप्लुतास्मि राजेंद्र गांगा आप इवामलाः । तव कीर्तिकरी तद्वन्मातुः सौशील्यसूचिका ॥ ७ ॥
大王啊,我未曾受污——清净如恒河无瑕之水。同样地,我为陛下增添美名,也昭示了母后高贵的德行。
Verse 8
तत्कुमारीवचः श्रुत्वा पुरापालस्त्वरान्वितः । अबाहुरिति विख्यातः प्राप्तः सुद्युम्रसन्निधौ ॥ ८ ॥
听闻那少女之言,城中守护者——名为阿婆胡者——急忙来到苏底由摩那面前。
Verse 9
कृतप्रणामः संपृष्टः प्राह राजानमादरात् । राजन्नुपागता नष्टा दिहिता तव मानद ॥ ९ ॥
他行礼致敬,受询之后,恭敬地对王说道:“大王啊,赐人荣誉的您的女儿,虽曾失散,如今已归来。”
Verse 10
रत्नावलीति विख्याता सस्त्रीकद्विदजसंयुता । पुरबाह्ये स्थिता दृष्टा मया ज्ञाता न चाभवत् ॥ १० ॥
她以“宝鬘”(Ratnāvalī)之名闻名,身旁伴随其夫——一位婆罗门。我见她立于城外;然而纵欲辨认,终究不能知她真实为何人。
Verse 11
तयाहं प्रेरितः प्रागां त्वां विज्ञापयितुं प्रभो । अविप्लुताहं वदति मां जानातु समागताम् ॥ ११ ॥
受她催促,我先行前来禀告于主。她说:“我安然无恙”;愿主知我已至此处。
Verse 12
पितरं मम सत्कृत्यै नात्र कार्या विचारणा । तदद्भुतं वचः श्रुत्वा पुरपालस्य तत्क्षणात् ॥ १२ ॥
“当恭敬礼待我父——此处无需再作思量。”听到城卫那惊异之言,就在那一刹那……
Verse 13
सामात्यः सकलत्रस्तु सद्विजो निर्ययौ नृपः । स तु गत्वा पुराद्ब्राह्ये गंगातीरे व्यवस्थिताम् ॥ १३ ॥
于是国王出发,偕同群臣、王后,并由博学的婆罗门随行。出城之后,他来到恒河岸边,立定于彼处。
Verse 14
अपश्यद्भास्कराकारां सस्त्रीकद्विजसंयुताम् । सहजे नैव वेषेण भूषितां भूषणप्रियाम् ॥ १४ ॥
他见她光辉如日,身旁有众女与婆罗门相随;虽以本来之相,并未以衣饰伪装,却仍佩戴诸般宝饰,因她素喜庄严。
Verse 15
अम्लानकुसुमप्रख्यां तत्पकांचनसुप्रभाम् । दूराद्दृष्ट्वांतिकं गत्वा पर्यष्वजत भूपतिः ॥ १५ ॥
国王远远望见她——如不凋之花般光耀,又似熟金般灿然——便走近前来,将她拥入怀中。
Verse 16
पितरं सापि संहृष्टा समाश्लिष्य ननाम ह । ततश्च मात्रा संगम्य हृष्टया हर्षितांतरा ॥ १६ ॥
她也欢喜不已,拥抱父王并俯首致敬。随后与母后相见,更是欣悦——心中充满喜乐。
Verse 17
प्राह वाक्यं विशालाक्षी संबोध्य पितरं नृपम् । सुप्ताहं रत्नशालायां सखीभिः परिवारिता ॥ १७ ॥
那位大眼的少女启禀父王说道:“我在宝石宫殿中沉睡,身旁有侍伴环绕。”
Verse 18
उदकूकृत्वा शिरस्ताताधौतांघ्रिर्मंचकोपरि । चिंतयत्नी भर्तृयोगं निशीथे रक्षसा हृता ॥ १८ ॥
她把水罐置于枕旁,洗净双足,躺在榻上,心念与夫君相会;夜半时分,却被一名罗刹掳走。
Verse 19
स मां गृहीत्वा स्वपुरं प्रागादर्णवगे गिरौ । नानारत्नमये तत्र गुहायां स्थापिता ह्यहम् ॥ १९ ॥
他挟持着我,前往名为阿尔那瓦伽的山上之城;在那里,在一处镶饰着种种宝石的洞窟中,我确被安置囚留。
Verse 20
स तत्रोद्वहनोपायचिंतयांतर्व्यवस्थितः । तस्य भार्या त्वियं सुभ्रूर्या तिष्ठति सुमध्यमा ॥ २० ॥
他在那里内心专注,思量如何将她带走。此女——他的妻子——眉目秀美、腰肢纤细,正立于此。
Verse 21
बिभ्रती मानुषं रूपं राक्षसी राक्षसप्रिया । अनया बुद्धियोगेन शक्त्या शक्रस्य भूपते ॥ २१ ॥
大王啊,那位罗刹女——为诸罗刹所爱——化作人形;并以“布提瑜伽”(buddhi-yoga)之智谋之力,竟能胜过天帝释迦(因陀罗)的威势。
Verse 22
घातितो विप्रहस्तेन क्रूरकर्मा पतिः स्वकः । पुरैव मम तं शैलं प्राप्तो देवेन भूसुरः ॥ २२ ॥
我的丈夫,行事凶残,被一位婆罗门之手所杀。早在那之前很久,噢,如天神般的婆罗门啊,你已来到我那座山上。
Verse 23
इयं तु राक्षसी दृष्ट्वा पतिं स्वं धर्मदूषकम् । विप्रेण संविदं कृत्वा दांपत्ये निजकर्मणा ॥ २३ ॥
然而这位罗刹女见自己的丈夫败坏达摩,便与一位婆罗门立下约定,并以自身所行,安排了相应的夫妻生活。
Verse 24
रूपेणाप्यस्य संमुग्धा घातयामास राक्षसम् । एवं कृत्वा पतिं विप्रं हस्तिनीरूपधारिणी ॥ २४ ॥
连他也被她的美貌所迷惑;她遂使那罗刹被诛。如此,那位化作母象之形者,护全了婆罗门——亦即她的夫君。
Verse 25
गृहीत्वा वास्तुकं वित्तं पृष्ठमारोप्य मामपि । समायातात्र भूपाल मामत्तुं तव मंदिरम् ॥ २५ ॥
“你取走了本为建宅而备的财物,甚至把我背在你背上;如今你来到这里,噢国王,回到你自己的家——竟意欲吞噬我。”
Verse 26
अनया रक्षिता राजन् राक्षस्याराक्षसात्ततः । तस्मादिमां पूजयस्व सत्कृत्याग्रजसंयुताम् ॥ २६ ॥
“大王,正因这位女子,我才得以免于那罗刹女与罗刹的侵害。故此,请你恭敬礼敬此女,郑重接待,并连同她的长兄一并礼遇。”
Verse 27
अस्या एवामुमत्या मां देह्यस्मै ब्राह्मणाय हि । अनेनैकासनगता जाता भर्ता स मे भवत् ॥ २७ ॥
“凭她亲自的允诺,请把我确实交付给这位婆罗门。因我与他同坐一席,他已成我夫——愿他为我之主。”
Verse 28
येनैकासनगा नारी भवेद्भर्ता स एव हि । नान्य इत्थँ पुराणेषु श्रूयते ह्यागमेष्वपि ॥ २८ ॥
“女子与之同坐一席者,唯此人方为其真正之夫;除此之外,并未听闻有此等法则——无论在诸《往世书》或乃至《阿伽摩》中亦然。”
Verse 29
अस्याः पृष्ठे निविष्टाहं प्रीत्या सह द्विजन्मना । धर्मत स्तेन मद्भर्ता भवेदेषा मतिर्मम ॥ २९ ॥
“我坐在她的背上,怀着欢喜,与那位‘二次生’(dvija)相伴。依于达摩之准,我的夫君将被判作盗贼——此乃我之所解。”
Verse 30
तस्मादिमां सांत्वयित्वा शास्त्रागमविधानतः । देहि विप्राय मां तात पितमन्यं वृणे न च ॥ ३० ॥
因此,请依照经典与圣传(śāstra、āgama)的法度安慰她;慈爱的父亲啊,把我许配给一位婆罗门吧。我不选择任何别的丈夫。
Verse 31
तच्छ्रुत्वा दुहितुर्वाक्यं सुद्युम्नो भूपतिस्तदा । सांत्वयामास तन्वंगीं राक्षसीं प्रश्रयानतः ॥ ३१ ॥
听到女儿的话后,苏底尤姆那王当时以谦恭之心,安慰那位肢体纤细的罗刹女(rākṣasī)。
Verse 32
सुतैषा धर्मभीता मे त्वामेव शरणं गता । यदर्थं निहतः कांतस्त्वया पूर्वतरः सति ॥ ३२ ॥
我的女儿因惧失其法(dharma),唯独来投靠你为庇护。为了什么缘故,贤德的夫人啊,她的挚爱先前竟被你所杀?
Verse 33
त्वदधीना ततो भद्रे जातेयं मत्सुता किल । इममिच्छति भर्तारं योऽयं भर्ता कृतस्त्वया ॥ ३३ ॥
因此,吉祥的夫人啊,我这女儿确已归于你的照拂之下。她愿以此人作夫——正是你亲自促成的那位夫君。
Verse 34
मया प्रणामदानाभ्यां याचिता त्वं निशाचरि । अनुमोदय साहाय्ये सुतां मम सुलोचने ॥ ३४ ॥
夜行的罗刹女啊(niśācarī),我以顶礼与供施向你恳求。愿你欢喜允诺,助我之女,明眸的夫人啊。
Verse 35
त्वद्वाक्याद्भवतु प्रेष्या मत्सुता ब्राह्मणस्य तु । सापत्नभावं त्यक्त्वा तु सुतां मे परिपालय ॥ ३५ ॥
凭你的圣言,愿我的女儿成为那位婆罗门的侍从。请舍弃作为共妻的争竞之心,护持并抚育我的女儿。
Verse 36
सुताया मम भार्याया मद्बलस्य जनस्य च । पुरस्य विषयस्यापि स्वामिनी त्वं न संशयः ॥ ३६ ॥
毫无疑问,你是我的女儿、我的妻子、我的军力、我的臣民,乃至此城与整个国土的主宰与正当权威。
Verse 37
तव वाक्ये स्थिता ह्येषा सदैवापि भविष्यति । एतच्छ्रुत्त्वा तु वचनं सुद्युम्नस्य निशाचरी ॥ ३७ ॥
“她既安住于你的圣言,必将永远如此。”夜行的女子(尼沙遮梨,niśācarī)听闻苏丢姆那的这番话,便随即作出回应。
Verse 38
अन्वमोदत शुद्धेन चेतसा सहचारिणी । उवाच च धरापालं प्रदानाय कृतोद्यमम् ॥ ३८ ॥
那位伴侣(妻子)以清净之心欢喜赞同;随后她对护国之王说道——他已准备好施与此赠礼。
Verse 39
यदर्थं प्रणतस्त्वं मां सद्भावेन नृपोत्तम । तस्माद्द्वितीया भार्येयं भवत्वस्य द्विजन्मनः ॥ ३९ ॥
噢,诸王之最,既然你为此目的以至诚向我俯首致敬,那么就让此女成为那位“二次生者”(dvija)的第二位妻室吧。
Verse 40
अहं च भवता पूज्या कृत्वार्चां देवमंदिरे । सर्वैश्च नागरैः सार्द्धं फाल्गुने धवले दले ॥ ४० ॥
“你也当礼敬我——在主神的圣殿中完成阿尔恰那(arcanā)供奉之后——与城中众人同在,于法尔古那月(Phālguna)的明半月之时。”
Verse 41
सप्ताहमुत्सवः कार्यो ह्यष्टम्या आचतुर्दशीम् । नटनर्तकयुक्तेन गीतवाद्येन भूरिणा ॥ ४१ ॥
“确应举行七日庆典,自第八月日直至第十四;并配以伶人舞者,歌咏与器乐丰盛不绝。”
Verse 42
मैरेयमांसरक्तादिबलिभिश्चापि पूजया । एवं प्रकुर्वते तुभ्यं सदा क्षेमकरी ह्यहम् ॥ ४२ ॥
“即便以迈雷耶酒(maireya)、肉、血等供品而行供奉——若有人如此礼拜于你——我亦恒常成为那位奉献者的安乐与护佑之赐予者。”
Verse 43
भवेयं नृपशार्दूल स्वं वचः प्रतिपालय । तच्छ्रुत्वा वचनं तस्याः सुद्युम्नो नृपतिस्तदा ॥ ४३ ॥
“王中之虎啊,愿我如此;请守住你自己的诺言。”听罢她的话,苏迪尤姆那王当即(回应/照办)。
Verse 44
अंगीचकार तत्सर्वं यदुक्तं प्रीतया तया । प्रतिपन्ने तु वचसि राज्ञा तुष्टा तु राक्षसी ॥ ३४ ॥
国王欣然全然接受了她因爱意而说的一切;当王应允其言时,那罗刹女(rākṣasī)便心满意足。
Verse 45
उवाच ब्राह्मणं प्रेम्णा कुरु भार्यामिमामपि । राजकन्यां द्विजश्रेष्ठ गृह्योक्तविधिना शुभाम् ॥ ४५ ॥
他怀着深情对婆罗门说道:“噢,最尊贵的二次生者,也请依照吉祥的《家祭》(Gṛhya)仪轨,迎娶这位王家公主为妻。”
Verse 46
ईर्ष्यां त्यक्त्वा विशालाक्ष्या भवाम्येषा सहोदरी । राक्षस्या वचनेनेह परिणीय नृपात्मजाम् ॥ ४६ ॥
“弃却嫉妒之心,我将真诚地成为这位大眼佳人的姊妹;并且在此,奉那罗刹女(rākṣasī)之命,我将把国王之女迎来为新娘。”
Verse 47
बहुवित्तयुतां विप्रो महोदयपुरं ययौ । आरुह्य करिणीरूपां राक्षसीं क्षणमात्रतः ॥ ४७ ॥
那婆罗门携带丰厚财宝,前往摩诃乌达耶城;他骑乘一位化作母象形态的罗刹女(rākṣasī),顷刻之间便抵达彼处。
Verse 48
ततो मया श्रुतं देवि भर्ता ते समुपागतः । धनरत्नसमायुक्तो भार्याद्वयसमन्वितः ॥ ४८ ॥
随后,噢女神,我听闻你的夫君已然到来——携来财宝与珠玉,并有两位妻子随行相伴。
Verse 49
ततोऽहं बंधुवर्गेण पितृभ्यां च सखीगणैः । बहुशो भर्त्सिता रूक्षैर्वचनैर्मर्मभेदिभिः ॥ ४९ ॥
随后,我屡屡遭到亲族、父母以及众友伴的责难——以粗厉之言,直刺心髓。
Verse 50
कथं यास्यसि भर्तारं धनलुब्धे श्रिया वृतम् । यस्त्वया निर्द्धनः पूर्वं परित्यक्तः सुदीनवत् ॥ ५० ॥
噫,贪恋财物者——你如今怎能再去见那被富贵与荣华所环绕的夫君?先前你却将他弃如赤贫凄苦之人。
Verse 51
चंचलानीह वित्तानि पित्र्याणि किल योषिताम् । कांतार्जितानि सुभगे स्थिराणीति निगद्यते ॥ ५१ ॥
世间财物实在无常飘忽——尤其女子自父家所承之财。然则,福慧之人啊,人们说丈夫亲自所获之财更为稳固。
Verse 52
परुषैर्वचनैर्यस्तु क्षिप्तस्तद्भाषणं कथम् । भविष्यति प्रवेशोऽपि दुष्करस्तस्य वेश्मनि ॥ ५२ ॥
若以粗厉之言伤人,怎还能与其和善交谈?其后,连踏入其家门也变得艰难。
Verse 53
गताया अपि ते तत्र शयनं पतिना सह । भविष्यति दुराचारे सुखदं न कदाचन ॥ ५३ ॥
纵使你到了那里,恶行之女啊,在彼处与夫同卧也决不会给你带来安乐。
Verse 54
लोकापवादाद्यदि चेद्ग्रहीष्यति पतिस्तव । त्वां स्नेहहीनचित्तस्तु न कदाचिन्मिलिष्यति ॥ ५४ ॥
纵使你的丈夫因畏惧世人讥议而收回你,他的心也将无有爱意,终究不会与你真正合一。
Verse 55
नेदृशं दुःखदं किंचिद्यादृशं दूरचित्तयोः । दंपकत्योर्मिलनं लोके वैकल्यकरणं महत् ॥ ५५ ॥
在此世间,没有什么痛苦比心意相隔的夫妻相聚更甚;这样的结合反而成为人生巨大忧患与失序之因。
Verse 56
एवं बहुविधा वाचः श्रृण्वाना बंधुभाषिताः । अधोमुख्यस्रुपूर्णाक्षी बभूवाहं सुदुःखिता ॥ ५६ ॥
于是,我听着亲族所说的种种言语,便极其悲恸——低垂着脸,双眼盈满泪水。
Verse 57
चेतसार्चितयं चाहं पूर्वलोभेन मुह्यती । न दत्तं कंकणं पाणेर्न दत्तं कटिसूत्रकम् ॥ ५७ ॥
而我亦然——纵使在众人心中受敬重——却被旧日贪欲所迷:我未曾赠与手镯于其手,也未曾赠与腰绳于其腰。
Verse 58
न चापि नूपुरे दत्ते येन तुष्टिं व्रजेत्पतिः । धनजीवितयोः स्वामी भर्ता लोकेषु गीयते ॥ ५८ ॥
她也不应施舍脚铃,若因此令丈夫不悦。因为在诸世界中,丈夫被歌颂为财富之主,乃至生命之主。
Verse 59
तन्मयापहृतं वित्तं भवित्री का गतिर्मम । कथं यास्यामि तद्वेश्म कथं संभाषये पुनः ॥ ५९ ॥
“我的财物已被他夺去。我将何去何从——如今还剩什么道路?我如何再回到那座宅邸,又如何再与他开口相言?”
Verse 60
यो मया दुष्टया त्यक्तः स प्रत्येति कथं हि माम् । एवं विचिंये यादद्धृदयेन विदूयता ॥ ६० ॥
“他怎能再回到我这里——那被我以恶心弃绝的人呢?”她便如此反复思量,心中因痛苦而灼烧。
Verse 61
वेष्टिता बंधुवर्गेण तावद्दोला समागता । छत्रेण शशिवर्णेन शोभमाना सुकोमला ॥ ६१ ॥
在亲族众人环绕之中,那柔美的少女被带到轿辇前;在月白色的华盖之下,她光彩照人,显得格外娴雅。
Verse 62
आस्तृता रांकवैः पीनैः पुरुषोर्विधृतांसकैः । ते समागत्य पुरुषाः प्रोचुर्मामसकृच्छभे ॥ ६२ ॥
轿中铺设着厚实华贵的毯褥,由众人肩扛而行。随后那些人走近,对我一再禀告:噢,诸苦行者中的雄牛啊。
Verse 63
आकारितासि पत्या ते व्रज शीघ्रं मुदान्विता । धनरत्नयुतो भर्ता सद्धिभार्यः समागतः ॥ ६३ ॥
你的夫君已召唤你;当速速前往,心怀欢喜。你的丈夫已到来,携带财宝与珠玉,并同其贤德之妻一同前来。
Verse 64
प्रविष्टमात्रेण गृहे त्वामानेतुं वरानने । प्रेषिताः सत्वरं पत्या संस्थितां पितृवेश्मनि ॥ ६४ ॥
噢,容颜姣好的女子,你一踏入屋内,你的夫君便立刻遣人迅速来迎你回去,纵然你当时住在父家。
Verse 65
ततोऽहं व्रीडिता देवि भर्तुस्तद्वीक्ष्य चेष्टितम् । नैवोत्तरमदां तेभ्यः किंचिन्मौनं समास्थिता ॥ ६५ ॥
于是,女神啊,我见到丈夫的举止,心生羞惭;对他们全然不作答,只安住于沉默之中。
Verse 66
ततोऽहं बंधुवर्गेण भूयोभूयः प्रबोधिता । आहूता स्वामिना गच्छ सम्मानेन तदंतिकम् ॥ ६६ ॥
随后,我被亲族一再劝慰与催促;当我的夫主召唤时,我便怀着恭敬前往其座前。
Verse 67
स्वामिनाकारिता पत्नी या न याति तदंतिकम् । सा तु ध्वांक्षी भवेत्पुत्रि जन्मानि दश पंच च ॥ ६७ ॥
女儿啊,妻子若被丈夫召唤却不前往其侧,便将于十五世中转生为雌鸦。
Verse 68
एवमुक्त्वा समाश्वास्य मां गृहीत्वा त्वरान्विताः । दोलामारोप्य गच्छेति प्रोचुः स्निग्धा मुहुर्मुर्हुः ॥ ६८ ॥
他们如此说罢,便安慰我;又在匆忙中扶持着我,将我抬上肩舆,并以慈爱关切一再说道:“去吧——前行吧。”
Verse 69
ततस्ते पुरुषा दोलां निधायांसेषु सत्वरम् । जग्मुर्महोदयपुरं यत्र तिष्ठति मे पतिः ॥ ६९ ॥
随后,那些男子迅速将肩舆抬上肩头,启程前往摩诃乌达耶城(Mahodayapura),那里正是我丈夫所居之处。
Verse 70
दृष्टं मया गृहं तस्य सर्वतः कांचनावृतम् । आसनीयैश्च भोज्यैश्च धनैर्वस्त्रैर्युतं ततः ॥ ७० ॥
我见到他的宅邸,四面皆以黄金覆饰;其中陈设座具、饮食、财宝与衣服,样样具足。
Verse 71
अथ सा राक्षसी देवी सा चापि नृपनंदिनी । प्रीत्या च भक्त्या कुरुतां प्रणतिं मम सुन्दरि ॥ ७१ ॥
于是那位罗刹女神,以及那位王女——美丽的女子啊——都应以爱敬与虔诚之奉爱(bhakti)向我顶礼。
Verse 72
ततस्ताभ्यामहं प्रेम्णा यथार्हमभिपूजिता । भर्तृवाक्येन संप्रीता स्नात्वाभुजं तथाहृता ॥ ७२ ॥
随后我被她们二人以爱意依礼恭敬供奉。因夫君之言而心生欢喜;沐浴之后,我便照其所言被引领而去。
Verse 73
ततोऽस्तसमयात्पश्चाद्भर्ता चाहूय सत्वरम् । परिष्वज्य चिरं दोर्भ्यां पर्यंके संन्यवेशयत् ॥ ७३ ॥
随后在日落之后,丈夫急忙唤她前来;以双臂久抱,令她坐于床榻之上。
Verse 74
ततो निशाचरीं राजपुत्रीं चाहूय सोऽब्रवीत् । भक्त्या युवाभ्यां कर्तव्यमस्याश्चरणसेवनम् ॥ ७४ ॥
随后他召来那夜行女子与王女,说道:“你们二人当以奉爱之心(bhakti)侍奉她的莲足。”
Verse 75
इयं प्राक्कालिकी भार्या ज्येष्ठा च युवयोर्द्भुवम् । पत्युर्वाक्यात्ततस्ताभ्यां गृहीतौ चरणौ मम ॥ ७५ ॥
这位是我先前的妻子普拉卡利姬,为二人之长。随后依我夫君之命,她们二人一同执住我的双足。
Verse 76
सापत्नभावजामीर्ष्यां परित्यज्य सुलोचने । ततः प्रेष्यान्समाहूय भर्ता मे वाक्यमब्रवीत् ॥ ७६ ॥
美目之女啊,当舍弃因共妻之争而起的嫉妒。随后我夫君召来侍从,对我说了这些话。
Verse 77
यत्किंचिद्रक्षसः पार्श्वान्मया प्राप्तं पुरा वसु । सुतामुद्वहतो राज्ञो यच्च लब्धं मयाखिलम् ॥ ७७ ॥
凡我昔日从罗刹一方所得之财,以及国王送女出嫁时我所获的一切——尽皆由我所得。
Verse 78
तत्सर्वं भक्तिभावेन समानयत मा चिरम् । इयं हि स्वामिनी प्राप्ता तस्य वित्तस्य किंकराः ॥ ७८ ॥
速将这一切以奉爱之心(bhakti)尽数奉来,不可迟延。因为此女今已为主母;你们不过是那财富的仆役。
Verse 79
तद्वाक्यात्सहसा प्रेष्यैः समानीतं धनं शुभे । भर्ता समर्पयामास प्रीत्या युक्तोऽखिलं तदा ॥ ७९ ॥
依她之言,侍从们迅速将财物奉来,吉祥的夫人啊。其时夫君满怀爱悦,欢然将全部交付。
Verse 80
सत्कृत्य भूषणैर्वस्त्रैख्यलीकेन चेतसा । उभयोस्तत्र पश्यंत्यो राक्षसीराजकन्ययोः ॥ ८० ॥
他以珠宝与衣裳加以礼敬,却怀着欺诳之心停留其处;两位罗刹女王女在旁注视。
Verse 81
पर्यंकस्थां परिष्वज्य मां चुंचुबाधरे शुभे । तद्दृष्ट्वा चाद्भुतं भर्तुर्देहवित्तसमर्पणम् ॥ ८१ ॥
噢,吉祥者、朱唇美丽者!当我卧于榻上,他拥抱着我,却见到一件奇事——那丈夫将身与财尽皆奉献。
Verse 82
उल्लासकरण वाक्यं करेण कुचपीडनम् । छिन्ना गौरिव खङ्गेन गताः प्राणा ममाभवन् ॥ ८२ ॥
他的话语意在挑起欢悦,手又按压我的胸前;随即我仿佛如牛被剑斩倒,生命之息似要离我而去。
Verse 83
ततोऽहं यमनिर्द्दिष्टां प्राप्ता नरकयातनाम् । तामतीत्य सुदुःखार्ता काष्ठीला चाभवं शुभे ॥ ८३ ॥
随后我承受了阎摩所判定的地狱苦刑。越过那番折磨后,我痛苦至极,噢吉祥者,我竟如一段木头般——麻木而呆滞。
Verse 84
यास्यामि पुनरेवाहं तिर्यग्योनिं सहस्रशः । या भर्तुर्नापयेद्वित्तं जीवितं च शुभानने ॥ ८४ ॥
“噢,容颜姣好者!我必将一次又一次——千百回——投生于畜生之胎;这正是那不护持丈夫财物,乃至不护其性命之妇人的果报。”
Verse 85
सापीदृशीमवस्था वै यास्यत्येव न संशयः । एवं ज्ञात्वानिशं रक्षेत्पत्युर्वित्तं च जीवितम् ॥ ८५ ॥
毫无疑问,她也必将到达同样的境地。既知如此,她应当恒常守护丈夫的财产与其生命。
Verse 86
पतिर्माता पिता वित्तं जीवितं च गुरुर्गतिः ॥ ८६ ॥
对她而言,丈夫如母如父;他是财富,亦是生命本身;他是上师(古鲁),也是归依与终极归宿。
Verse 87
प्रयाति नारी बहुभिः सुपुण्यैः सहैव भर्त्रा स्वशरीरदाहात् । विष्णोः पदं वित्तशरीरलुब्धा प्रयाति यामीं च कुयोनिपीडाम् ॥ ८७ ॥
具足诸多清净福德的女子,因自身体被焚而与夫同往,得至毗湿奴之足下、其安住之境。然贪恋财物与身欲之人,将堕入阎摩之界,受卑劣再生之苦恼折磨。
Verse 88
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलाचरितं नाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥
至此,神圣《大那罗陀往世书》后分(Uttara-bhāga)之“摩希尼”叙事中,名为《迦湿提罗事迹》的第三十章圆满结束。
It functions as a narrative legal-argument (dharma-nyāya) to justify Ratnāvalī’s requested marriage settlement and to avert perceived dharma-fault; the text presents it as a remembered rule-claim within Purāṇic/Āgamic discourse, used to resolve a crisis of legitimacy.
It is framed as a protective covenant: public worship (8th–14th tithi of the bright fortnight) with performance arts and specified offerings establishes the rākṣasī as a welfare-giving guardian for the king, city, and devotees.
Both: the abducting rākṣasa embodies adharma, while the rākṣasī wife becomes a dharma agent through buddhi-yoga, negotiated vows, and protection—showing the Purāṇic tendency to encode moral transformation and social integration.