Adhyaya 2
Purva BhagaAdhyaya 2108 Verses

Adhyaya 2

Cosmic Manifestation, Mahāmāyā’s Mandate, Varṇāśrama-Dharma, and the Unity of the Trimūrti

承接第一章末尾,龟摩(Kūrma)在第二章开端答复诸仙为众生福祉所发之问,并追述此教法昔日曾为因陀罗昙那王(Indradyumna)宣说。龟摩界定“普拉那”(Purāṇa)为赐福增德之神圣启示,开显导向解脱(mokṣa)之正法(dharma)。继而转入宇宙生成:唯有那罗延那(Nārāyaṇa)独存,从瑜伽睡眠中觉醒,梵天(Brahmā)由此出现;梵天之忿怒中显现鲁陀罗(Rudra),而吉祥天女室利(Śrī)则现为那罗延尼(Nārāyaṇī)——大幻力(Mahāmāyā)与不坏之根本自性(Prakṛti)。应梵天所请,她被任为“迷惑”(Moha)以扩展创造,却奉命不得迷乱真正持戒者——智瑜伽行者、入定婆罗门、真诚奉爱者(bhakta)及顺从主命者——由此建立灵性“免疫”的道德分判。创造继续展开:意生仙人、四姓(varṇa)与作为无始吠陀之语神(Vāk)相继出现;异端论典被斥为导向黑暗。随时劫推移,非正法(adharma)滋长,于是正法制度被确立:姓与住期(āśrama)之职责、居家者(gṛhastha)之首要地位,以及人生四义(puruṣārtha)之层次,令正法终归解脱。章节并以入世—出离(pravṛtti–nivṛtti)阐明瑜伽,赞叹出离为解脱之道,列举普遍德目,并描绘各类修持者死后所至之境。针对“瑜伽行者是否唯有一住期”的提问,龟摩说明除以三摩地(samādhi)为根的出家外,并无第五住期,并进一步分类各住期与瑜伽行者之类型。末段以明确的综合(samanvaya)收束:梵天司创造,毗湿奴(Viṣṇu)司护持,湿婆(Śiva)司毁摄(pralaya),然在最高真实中毗湿奴与大自在天(Mahādeva)不二;并教授三种观修,及诸宗派标识(林伽/三道灰纹tripuṇḍra、三叉戟印、额饰tilaka),总归一旨——依自身所受之法而以奉爱敬礼至上者,以得不坏解脱。

All Adhyayas

Shlokas

Verse 1

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे प्रथमो ऽध्यायः श्रीकूर्म उवाच शृणुध्वमृषयः सर्वे यत्पृष्टो ऽहं जगद्धितम् / वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम्

如是,在《圣库尔摩普拉那》六千颂本中,前分第一章至此结束。圣库尔摩曰:“诸位仙圣,当听我所说:你们为世间利益而问我之事。我将尽皆宣示,正如我曾对因陀罗迦昙那王所说。”

Verse 2

भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् / पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम्

所谓普拉那,是以过去、现在与未来的行迹故事而充实的神圣汇编;它赐予人们福德,并宣说导向解脱(莫克沙)的法。

Verse 3

अहं नारायणो देवः पूर्वमासं न मे परम् / उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः

我即那罗延,至上的神主。太初之时唯我独存——无有高于我者。入于广大瑜伽之眠,我安卧于大蛇之床。

Verse 4

चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु / ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा

当宇宙之夜将尽、我复苏醒时,我再度思惟创造;于是,噢诸牟尼之最胜者,我心中骤然生起普拉萨达——清明与恩慈的定意。

Verse 5

चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः / तदन्तरे ऽभवत् क्रोधः कस्माच्चित् कारणात् तदा

随后,四面之梵天(Brahmā)诞生,成为诸世界之祖父。就在那创造的展开之中,因某种缘由,当时忿怒忽然生起。

Verse 6

आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः / रुद्रः क्रोधात्मजो जज्ञे शूलपाणिस्त्रिलोचनः / तेजसा सूर्यसंकाशस्त्रैलोक्यं संहरन्निव

诸位如虎之仙人啊,于是从自性(Ātman)之中显现出大自在天(Maheśvara)——愤怒精髓所生的鲁陀罗(Rudra),执三叉戟,具三目;光焰如日,仿佛将要摄灭三界。

Verse 7

ततः श्रीरभवद् देवि कमलायतलोचना / सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम्

随后,女神啊,吉祥天女(Śrī)出现了——莲华般广大的双眼,容貌殊妙,面容柔和,令一切有身众生皆为之倾迷。

Verse 8

शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा / दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता

她含着清净光辉的微笑,安然而慈悦;吉祥无比,堪为荣光之座。具足神圣光彩,又以天界花鬘庄严增辉。

Verse 9

नारायणी महामाया मूलप्रकृतिरव्यया / स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत्

那罗延尼(Nārāyaṇī)——大幻力(Mahā-Māyā)、不坏的根本自性(Prakṛti)——以自身光辉充满此界,随后前来,安坐于我身旁。

Verse 10

तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिः / मोहायाशेषभूतानां नियोजय सुरूपिणीम् / येनेयं विपुला सृष्टिर्वर्धते मम माधव

见到她后,世间之主、圣尊梵天对我说道:“任命那位形貌端严者为一切众生之‘摩诃’(迷妄、惑乱);凭借她的作用,我这广大创造,噢摩陀婆,将得增长与扩展。”

Verse 11

तथोक्तो ऽहं श्रियं देवीमब्रुवं प्रहसन्निव / देवीदमखिलं विश्वं सदेवासुरमानुषम् / मोहयित्वा ममादेशात् संसारे विनिपातय

我既受此言,便似含笑对吉祥天女室利说道:“女神啊,依我之命,使这整个宇宙——连同诸天、阿修罗与人类——皆陷迷惑;并将他们投入轮回之流(saṃsāra)。”

Verse 12

ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः / अक्रोधनान् सत्यपरान् दूरतः परिवर्जय

当远离那些安住于智瑜伽、能自制、立于梵(Brahman)并宣说梵者——离嗔恚、奉持真实之人。

Verse 13

ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् / जापिनस्तापसान् विप्रान् दूरतः परिवर्जय

当远离那些入于禅观的婆罗门——无“我所”之执,寂静安和,安立于法,通达吠陀——以及勤修持咒(japa)与苦行(tapas)者。

Verse 14

वेदवेदान्तविज्ञानसंछिन्नाशेषसंशयान् / महायज्ञपरान् विप्रान् दूरतः परिवर्जय

当远离那些通晓吠陀与吠檀多、似以学识斩断诸疑,却主要致力于大祭(mahā-yajña)的婆罗门。

Verse 15

ये यजन्ति जपैर्हेमैर्देवदेवं महेश्वरम् / स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय

那些被黄金诱惑、只以持诵咒语来“礼拜”摩诃提婆——诸天之天、摩诃自在天——而把吠陀自习(svādhyāya)与真实祭祀(yajña)视为次要的人,应当竭力从远处避开。

Verse 16

भक्तियोगसमायुक्तानीश्वरार्पितमानसान् / प्राणायामादिषु रतान् दूरात् परिहरामलान्

当远离那些清净之人——他们与奉爱瑜伽(Bhakti-yoga)相应,心意奉献于自在主(Īśvara),并乐于修持调息(prāṇāyāma)等诸般瑜伽行法。

Verse 17

प्रणवासक्तमनसो रुद्रजप्यपरायणान् / अथर्वशिरसो ऽध्येतृन् धर्मज्ञान् परिवर्जय

当避开那些心念只执著于“唵”(Oṁ)一音、唯独专事低诵鲁陀罗咒(Rudra-mantra)、以及仅仅研读《阿闼婆首罗》(Atharvaśiras)的人——纵然他们也谈论法(dharma)——因为这种偏执一端,会使人远离圆融平衡之道。

Verse 18

बहुनात्र किमुक्तेन स्वधर्मपरिपालकान् / ईश्वराराधनरतान् मन्नियोगान्न मोहय

此处又何必多言?不要迷惑那些守持自身本分法(svadharma)、专心礼敬自在主(Īśvara)、并依我敕令而行的人。

Verse 19

एवं मया महामाया प्रेरिता हरिवल्लभा / यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत्

如是,在我的推动下,那大摩耶——哈利(Hari)之爱侣——完全依所受教令而行。因此,应当如法恭敬礼拜吉祥天女拉克希米(Śrī)。

Verse 20

श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् / अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत्

当人虔敬礼拜时,世尊之圣妃赐予丰盛的吉祥与富饶(śrī)、滋养安泰(puṣṭi)、智慧(medhā)、名声(yaśas)与力量(bala)。因此,应当如法恭敬供奉拉克什米(Lakṣmī)。

Verse 21

ततो ऽसृजत् स भगवान् ब्रह्मा लोकपितामहः / चराचराणि भूतानि यथापूर्वं ममाज्ञया

其后,那位吉祥的梵天,诸世界之祖父,依照我的命令,如同往昔一般,生起一切众生——有动与无动者。

Verse 22

परीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् / दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया

凭借瑜伽智力之威,他生出帕里奇(Parīci)、婆利古(Bhṛgu)、安吉拉斯(Aṅgiras)、普拉斯提亚(Pulastya)、普拉哈(Pulaha)、克拉图(Kratu)、达克沙(Dakṣa)、阿特里(Atri)与瓦西什塔(Vasiṣṭha)。

Verse 23

नवैते ब्रह्मणः पुत्रा ब्रह्माणो ब्राह्मणोत्तमाः / ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः

此九位乃梵天之子:尊贵的圣贤,证知梵(Brahman),为婆罗门中最上者。他们确是宣说梵者;自摩利支(Marīci)起,皆为成就的修行者(sādhaka)。

Verse 24

ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः / वैश्यानूरुद्वयाद् देवः पादार्छूद्रान् पितामहः

全能的主从其口中生出婆罗门;从其臂中生出刹帝利;从其双股生出吠舍;从其足下生出首陀罗——如此,祖父般的造物主显现了四种阶序。

Verse 25

यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह / गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ

为成就祭祀(yajña),梵天(Brahmā)创造了除首陀罗(Śūdra)之外的三种姓;又为护持一切吠陀,正是从他们之中,祭仪(Yajña)显现而出。

Verse 26

ऋचो यजूंषि सामानि तथैवाथर्वणानि च / ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया

《梨俱》(Ṛk)、《夜柔》(Yajus)之咒式、《娑摩》(Sāman)之歌,以及《阿闼婆》(Atharvan)之赞颂——皆是梵(Brahman)与生俱来的形相;此即祂永恒不坏的圣力(Śakti)。

Verse 27

अनादिनिधना दिव्या वागुत्सृष्टा स्वयंभुवा / आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः

那神圣之语(Vāk)无始无终,由自生者(梵天 Brahmā)自体流出。最初它即具吠陀之性;由此而起一切pravṛtti——人间与宇宙的一切行持与运作之道。

Verse 28

अतो ऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् / न तेषु रमते धीरः पाषण्डी तेन जायते

因此,世间其余种种论典,不论为何物,坚忍而明辨之人不以之为乐;执著于异端邪说,便成pāṣaṇḍin——持虚妄见的宗派之徒。

Verse 29

वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा / स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः

古时诸牟尼所教者——当依随真正通达吠陀义理之人而行——唯此应知为至上之法(Dharma);它并不建立在其他仅属旁支的论典之中。

Verse 30

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः / सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः

凡是不依止吠陀权威的诸《忆念》(Smṛti),以及一切见解颠倒的学说——皆被宣说为无果;死后因立基于惰性黑暗之性(tamas),而导向幽冥。

Verse 31

पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः / शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा

在前一劫中,众生出生时远离一切苦恼;其内在诸根皆已清净,恒常安住于各自的自性之法(svadharma),不曾懈怠。

Verse 32

ततः कालवशात् तासां रागद्वेषादिको ऽभवत् / अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः

随后在时间之力的驱使下,他们之中生起贪染(rāga)、憎厌(dveṣa)等;而非法(Adharma)——噫,诸位如虎之牟尼——显现为阻碍自身本分之法(svadharma)的力量。

Verse 33

ततः सा सहजा सिद्धिस्तासां नातीव जायते / रजोमात्रात्मिकास्तासां सिद्धयो ऽन्यास्तदाभवन्

于是,那与生俱来的圆满不再在他们之中强盛显现;取而代之的是,主要由激动之性(rajas)所成的种种成就,于彼时为他们而起。

Verse 34

तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः / वार्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् / ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत्

当那些资具与方法因时运推移而全然耗尽时,他们又重新筹划生计之道:经商与手工技艺,由劳作而成,出自业行。于是,全能的梵天(Brahmā)为他们制定了以所规定之业(karma)为生的生活方式。

Verse 35

स्वायंभुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् / साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः / भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे

往昔,自生摩奴(Svayambhuva Manu)——洞见达摩者——宣说正法之规。婆罗门二生圣贤如婆利古(Bhṛgu)等,由梵天所化,乃是生主(Prajāpati)的真实化身;他们从摩奴亲口听闻诸法,遂又转而宣扬于世。

Verse 36

यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहम् / अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः

为己行祭(yajña)、为人主祭、施与布施,而婆罗门亦当受纳供施;并且教授与研习——此六业也,噫,二生中之最胜者。

Verse 37

दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः / दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते

对刹帝利与吠舍而言,布施、研习吠陀与行祭(yajña)为其共同之法。刹帝利当执持刑杖、从事征战;吠舍则尤以农耕为所称许。

Verse 38

शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् / कारुकर्म तथाजीवः पाकयज्ञो ऽपि धर्मतः

对首陀罗而言,恭敬勤诚地侍奉二生者,本身即是成就达摩之道。同样,以巧艺手作维生,乃至在家行“熟食祭”(pākayajña),亦被认可为合乎正法。

Verse 39

ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् / गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम्

随后,当诸种姓(varṇa)各安其位之时,他又建立四住期(āśrama):居家者(gṛhastha)、林栖者(vānaprastha)、行乞出离者(bhikṣuka)、与守梵行的学子(brahmacārin)。

Verse 40

अग्नयो ऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् / गृहस्थस्य समासेन धर्मो ऽयं मुनिपुङ्गवाः

护持圣火,恭敬侍奉来客,行祭祀(yajña),施与布施,并礼拜诸天——总而言之,噢诸位最胜牟尼,这就是居家者(家住者)的法(dharma)。

Verse 41

होमो मूलफलाशित्वं स्वाध्यायस्तप एव च / संविभागो यथान्यायं धर्मो ऽयं वनवासिनाम्

于圣火中行护摩(homa)供献,以根与果为食,修习自诵吠陀(svādhyāya)并行苦行(tapas);又依正法如理分施共享——此乃林居者之法(dharma)。

Verse 42

भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः / सम्यग्ज्ञानं च वैराग्यं धर्मो ऽयं भिक्षुके मतः

以乞食为生,守默(mauna),修苦行,并尤以禅定(dhyāna)为要;兼具正知与离欲(vairāgya)——此被宣说为比丘(行乞者)之法(dharma)。

Verse 43

भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च / सन्ध्याकर्माग्निकार्यं च धर्मो ऽयं ब्रह्मचारिणाम्

依仪轨行乞食,恭敬侍奉上师(guru),并修自诵(svādhyāya);又行晨昏礼(Sandhyā)与护持圣火之事——此乃梵行学生(brahmacārin)之法(dharma)。

Verse 44

ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः / साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः

噢诸位最胜的二次生者,莲华所生者(Kamalodbhava,梵天)宣说:梵行(brahmacarya)——即节制与调伏的行持——为梵行学生、林居者与比丘等共同之戒法。

Verse 45

ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः / पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम्

对居家者而言,所谓“梵行(brahmacarya)”被宣说为:唯在适当的时节亲近自己的妻子,绝不亲近他人之妻,并在神圣斋戒与节期之日(parva)守持禁欲。

Verse 46

आगर्भसंभवादाद्यात् कार्यं तेनाप्रमादतः / अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते

自怀孕一生起之时,便应不懈怠地谨慎履行与之相关的规定之行。若不如此——噢,婆罗门中最胜者——便被视为“杀胚者”(bhrūṇahā)。

Verse 47

वेदाभ्यासो ऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् / गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा

对居家者而言,至上的法是:量力每日习诵吠陀,奉行施食祭(śrāddha),敬奉来客,并同样礼拜诸天神祇。

Verse 48

वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि / देशान्तरगतो वाथ मृतपत्नीक एव वा

他应依仪轨于傍晚与清晨点燃家中的圣火(婚火)——即便远行他国,或即便因妻亡而成鳏夫,亦当如是。

Verse 49

त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते / अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी

在三种住期(āśrama)之中,居家者被称为其根源;其余诸住期皆依他而活。故而,居家住期之修持最为殊胜。

Verse 50

ऐकाश्रम्यं गृहस्थस्य त्रयाणां श्रुतिदर्शनात् / तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम्

由于圣典证明:居家者支撑其余三种住期(āśrama),因此应当明了,唯有居家住期(gārhasthya)是成就法(dharma)的主要途径。

Verse 51

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ / सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु

应当舍弃那离开法(dharma)的财利(artha)与欲乐(kāma);并且连那种违背众人福祉与共识的所谓“法”,也不可行持。

Verse 52

धर्मात् संजायते ह्यर्थो धर्मात् कामो ऽभिजायते / धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत्

由法(dharma)而生财利(artha),由法而生正当的欲乐(kāma)。唯有法能导向解脱(apavarga);因此应当归依于法。

Verse 53

धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः / सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत्

法(dharma)、财利(artha)与欲乐(kāma)——此三种人生目标(trivarga)被认为由三德(guṇa)所成:悦性(sattva)、激性(rajas)、惰性(tamas)。因此应当归依于法。

Verse 54

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः / जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः

安住于悦性(sattva)者上升;为激性(rajas)所主者居于中间;其行由最低之性——惰性(tamas)所塑者下堕。

Verse 55

यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ / इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते

在与达摩(Dharma)和合之处,财富(artha)与欲愿(kāma)得以如法安立;其人于此世安乐而住,身后亦堪受无尽的吉祥福乐。

Verse 56

धर्मात् संजायते मोक्षो ह्यर्थात् कामो ऽभिजायते / एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम्

由达摩生起解脱(mokṣa);由财富(artha)则生起欲愿(kāma)。因此,在人生四大目标的体系中,作为手段与作为目的的关系被清楚揭示。

Verse 57

य एवं वेद धर्मार्थकाममोक्षस्य मानवः / माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते

凡人若如是了知达摩、财富、欲愿与解脱(dharma-artha-kāma-mokṣa)之教,并依此圣大功德(māhātmya)而行,便堪入无尽之境,证得不坏之位。

Verse 58

तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् / धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः

是故,当暂置财富(artha)与享欲(kāma)之追逐,而归依于达摩;因为一切皆由达摩而生——知梵者如是宣说。

Verse 59

धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् / अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः

由达摩支撑整个世界——无论不动者与动者。此力无始无终;它正是梵生的神圣能量——婆罗蜜(Brahmī)圣力(Śakti),噢,最胜的二生者。

Verse 60

कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः / तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत्

由行持而得达摩;由真知亦然——毫无疑惑。故当恒常修习业瑜伽,使之与正智相应。

Verse 61

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् / ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतो ऽन्यथा

吠陀之业有二:入世之行(pravṛtti)与出离之行(nivṛtti)。以正智为先导者名为出离;其余则称入世。

Verse 62

निवृत्तं सेवमानस्तु याति तत् परमं पदम् / तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः

奉行出离之道(nivṛtti)者,确能抵达至上境界。故当勤修出离;否则仍将再返轮回。

Verse 63

क्षमा दमो दया दानमलोभस्त्याग एव च / आर्जवं चानसूया च तीर्थानुसरणं तथा

忍辱、调御、慈悲、布施、无贪与舍离;又有正直、不嫉,以及以虔敬随行诸圣地(tīrtha)之修持——皆当奉持。

Verse 64

सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः / देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः

真实、知足、正信(āstikya:信奉吠陀与上主)、信心(śraddhā)与制御诸根;并且礼敬诸天、行供养(pūjā),尤其虔诚侍奉并尊崇婆罗门——此皆宣说为达摩之柱。

Verse 65

आहिंसा प्रियवादित्वमपैशुन्यमकल्कता / सामासिकमिमं धर्मं चातुर्वर्ण्ये ऽब्रवीन्मनुः

不害(阿希摩萨)、柔和悦语、不诽谤、以及无垢清净——此为摩奴所宣说、适用于四姓的简要法则。

Verse 66

प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् / स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम्

勤修圣仪的婆罗门,其所安住之处被宣为“般若波提耶界”;战阵中不退避的刹帝利,其所安住之处被宣为“因陀罗界”(阿因陀罗界)。

Verse 67

वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् / गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम्

守持自身本分(自法)的吠舍,其所归之处被宣为“摩鲁特之位”;生为首陀罗而以侍奉随侍为业者,其所归之处被宣为“乾闼婆之位”。

Verse 68

अष्टाशीतिसहस्त्राणामृषीणामूर्ध्वरेतसाम् / स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम्

为那八万八千位上行精力、守持梵行的仙圣(ṛṣi)所忆念之住处,正是与住师门、侍奉上师者同一之住处。

Verse 69

सप्तर्षोणां तु यत्स्थानं स्मृतं तद् वै वनौकसाम् / प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा

所忆念为七仙(Saptarṣi)之住处者,实为林居者之所归;而般若波提耶界,则由自生者(梵天)宣说为家住者之所归。

Verse 70

यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् / हैरण्यगर्भं तत् स्थानं यस्मान्नावर्तते पुनः

那是“金胎”(Hiraṇyagarbha)的住处——为自制的苦行者、摄心的圣贤与升华生命精气的出离者所证得;从彼境界不再回返。

Verse 71

योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् / आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः

对瑜伽行者而言,有一不死之境名为“虚空”(Vyoma),即至上不坏者。那是充满喜乐与主宰威德的神圣住处;那就是最高极限,那就是超越的终极归趣。

Verse 72

ऋषच ऊचुः भगवन् देवतारिघ्न हिरण्याक्षनिषूदन / चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते

诸仙人说道:“世尊啊,诛灭天神之敌者,摧伏希兰尼亚克沙者——虽说有四种住期(āśrama)之教,但对瑜伽行者却宣说唯有一种(至上的)住期。”

Verse 73

श्रीकूर्म ऊवाच सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः / य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः

圣龟摩(Śrī Kūrma)说道:“舍弃一切行作,依止不动的三摩地;那在内在安住中寂然不移的瑜伽者——唯他是真正的出离者;除此之外并无另立的‘第五’阶序。”

Verse 74

सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतदर्शितम् / ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः

就一切住期(āśrama)而言,圣传显示有二分之别。因此梵行者(brahmacārin)亦有两类:一为“修毕者”(upakurvāṇa),完成学徒期而入下一阶段;二为“终身坚住者”(naiṣṭhika),终生守梵行,专心归向梵(Brahman)。

Verse 75

यो ऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् / उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः

凡依正法仪轨研习吠陀而后进入居士(家住)住期者,当知名为“优帕库尔瓦那”(upakurvāṇa),即学业既毕而返归世间职责之学子;而“奈什提迦”(naiṣṭhika)则为终身守梵行之学生,至死不退。

Verse 76

उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् / कुटुम्बभरणे यत्तः साधको ऽसौ गृही भवेत्

居士(家住者)据说有两类:一为淡泊不染的“乌达西那”(udāsīna),一为修持求道的“萨达卡”(sādhaka)。凡勤勉致力于供养扶持家族者,称为修行的居士求道者。

Verse 77

ऋणानित्रीण्यपाकृत्यत्यक्त्वा भार्याधनादिकम् / एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः

既偿尽三种圣债,又舍弃妻室、财物等,若有人独自游行,淡然离著、不系世缘,此人称为“牟克希迦”(maukṣika),即求解脱(mokṣa)者。

Verse 78

तपस्तप्यति यो ऽरण्ये यजेद् देवान् जुहोति च / स्वाध्याये चैव निरतो वनस्थस्तापसो मतः

凡在林野中修苦行(tapas),礼敬诸天并向圣火中投献供物,又勤于自诵自学吠陀(svādhyāya)者,如此住林之人,被认为是真正的苦行者(tāpasin)。

Verse 79

तपसा कर्षितो ऽत्यर्थं यस्तु ध्यानपरो भवेत् / सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः

若有人因苦行而形体极度消瘦,并专注于禅观(dhyāna),当知其为“桑尼亚西迦”(sannyāsika)——心中已具出离之相——纵然仍安住于林居期(vānaprastha)之中。

Verse 80

योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः / ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः

那位比丘恒常勤修瑜伽,志求上升至三摩地,已降伏诸根,只为解脱之智而住世者,被宣称为“pārameṣṭhika”——与至上主宰帕拉梅湿伐罗(Parameśvara)相应之人。

Verse 81

यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः / सम्यग् दर्शनसंपन्नः स योगी भिक्षुरुच्यते

然而,那位唯以自我为乐、恒常知足、具足正见的大圣者,被称为瑜伽行者,真正的比丘(bhikṣu)。

Verse 82

ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनो ऽपरे / कर्मसन्यासिनः केचित् त्रिविधाः परामेष्ठिकाः

有些是以解脱之智为依止的出离者;有些是舍离吠陀仪轨的出离者;还有些是连诸行(业)本身也弃舍的出离者——因此,至高的出离者(Parameṣṭhin)分为三类。

Verse 83

योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च / तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः

应知瑜伽行者有三类:世间型(bhautika)、趋向数论(Sāṃkhya)者,以及第三类——超越诸住期(āśrama)的无住期者(atyāśramī)。此最后者被宣说为安住于最上瑜伽。

Verse 84

प्रथमा भावना पूर्वे सांख्ये त्वक्षरभावना / तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी

在先前的数论教导中,最初的观修被宣说为观想“不坏者”(Akṣara)。而在第三种教导中,宣示最终的观修——至上的“帕拉梅湿伐丽”(Parameśvarī)观修,以主宰为中心。

Verse 85

तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् / सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते

因此,当明了此义:住期(āśrama)唯有四种。在一切吠陀与权威圣典(śāstra)中,并不承认第五种住期。

Verse 86

एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः / दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः

如是,天中之天、无垢之主、宇宙之我(世界之魂)既已建立种姓与住期(varṇa、āśrama),便告谕达克沙等诸生主:“当生起种种众生。”

Verse 87

ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः / असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः

奉梵天之命,其诸子——如达克沙等最胜牟尼——创造一切众生,先起诸天,继而人类。

Verse 88

इत्येष भगवान् ब्रह्मा स्त्रष्ट्वत्वे स व्यवस्थितः / अहं वै पालयामीदं संहरिष्यति शूलभृत्

如是,具福的梵天安住于创造之职。我(毗湿奴)确实护持并维系此宇宙;而执三叉戟者(湿婆)将使之归于毁灭与融解。

Verse 89

तिस्त्रस्तु मूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः / रजः सत्त्वतमोयोगात् परस्य परमात्मनः

所宣说者有三身:梵天、毗湿奴与大自在天(摩诃伊湿伐罗);乃由至上我(Paramātman)中罗阇斯、萨埵与昏暗(tamas)三德和合而显现。

Verse 90

अनोयन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः / अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः

二者彼此深情相依,互相扶持;虽为至上主宰,亦相互礼敬俯首——唯以神圣戏游(līlā)而然。

Verse 91

ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना / तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः

观修有三:梵母之观(Brahmī)、大自在女神之观(Māheśvarī),以及对不坏者(Akṣara)的观想。诸二生者啊,当恒常守持此三种禅观,以鲁陀罗为所缘核心。

Verse 92

प्रवर्तते मय्यजस्त्रमाद्या चाक्षरभावना / द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना

对不坏者(Akṣara)的第一种观修,在我之中无间而行。第二种被宣说为属于梵(Brahman),亦被教导为主之不坏者观想。

Verse 93

अहं चैव महादेवो न भिन्नौ परमार्थतः / विभज्यस्वेच्छयात्मानं सो ऽन्यर्यामीश्वरः स्थितः

我与大天(Mahādeva)在究竟真理中并无差别。彼主随自愿而自分其身,安住为一切众生内在的主宰——内在统御者(antaryāmin)。

Verse 94

त्रैलोक्यमखिलं स्त्रष्टुं सदेवासुरमानुषम् / पुरुषः परतो ऽव्यक्ताद् ब्रह्मत्वं समुपागमत्

为创造遍满三界的一切——连同诸天、阿修罗与人类——超越未显(Avyakta)的普鲁沙(Puruṣa)摄受梵天(Brahmā)之位,显现为创造之功用。

Verse 95

तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः / एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात् प्रभोः

因此,梵天(Brahmā)、大自在天摩诃提婆(Śiva)与毗湿奴(Viṣṇu)——超越的宇宙主宰——被忆念为同一至上主的一体三身(诸形),随宇宙职能之所需而示现。

Verse 96

तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः प्रयत्नतः / यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम्

因此,当竭尽一切努力,恭敬顶礼并谨慎供奉——若有人愿不久便证得那被称为解脱(mokṣa)的不坏境界。

Verse 97

वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः / पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया

怀具爱敬之信奉者,应依自身的种姓(varṇa)与住期(āśrama)所规定之法(dharma)来礼敬(主),以至诚之心奉行——以誓愿相持,直至终身。

Verse 98

चतुर्णामाश्रमाणां तु प्रोक्तो ऽयं विधिवद्द्विजाः / आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः

噢诸位二次生者,此乃关于四住期(āśrama)之法则,已如法宣说:其分为三类——毗湿奴住期(Vaiṣṇava āśrama)、梵天住期(Brāhma āśrama),以及哈罗住期(Hara-āśrama,即湿婆住期)。

Verse 99

तल्लिङ्गधारी सततं तद्भक्तजनवत्सलः / ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः

恒常佩持神圣的林伽标志,慈爱主之 भक्त众,并以梵智(Brahma-vidyā,知梵之学)为归依者,当先观想这些圣相,继而加以供奉礼拜。

Verse 100

सर्वेषामेव भक्तानां शंभोर्लिङ्गमनुत्तमम् / सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम्

对一切奉献者而言,至上的圣徽是商布(湿婆)的林伽。应以白色圣灰在额上绘作三道圣印(tripuṇḍra)。

Verse 101

यस्तु नारायणं देवं प्रपन्नः परमं पदम् / धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः

然而,凡已归依那罗延那——以祂为至上归宿之神——应常以香水在额上绘持三叉戟(triśūla)之印。

Verse 102

प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् / तेषां ललाटे तिलकं धारणीयं तु सर्वदा

凡已归依梵天——世界之种、至上主(Parameṣṭhin)——者,应当常在额上佩持提拉卡(tilaka)圣印。

Verse 103

यो ऽसावनादिर्भूतादिः कालात्मासौ धृतो भवेत् / उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात्

由佩持三道圣灰印(Tripuṇḍra),并以“情观瑜伽”(bhāva-yoga)上观下观而修,行者便能执持那同一位主:无始、众生之源,其自性即为迦罗(时间)。

Verse 104

यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् / धृतं त्रिशूलधरणाद् भवत्येव न संशयः

那本初的主质(Pradhāna),由三德(guṇa)构成,具梵天、毗湿奴与湿婆之性;当由持三叉戟者所扶持时,必定显现——毫无疑惑。

Verse 105

ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः / भवत्येव धृतं स्थानमैश्वरं तिलके कृते

那由梵之光辉所成的太阳白色圆轮——当佩为额上提拉迦(tilaka)时——确实成为佩戴者身上如同自在天(Īśvara)之座的神圣所依,显现天权。

Verse 106

तस्मात् कार्यं त्रिशूलाङ्कं तथा च तिलकं शुभम् / त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम्

因此,应依仪轨制作吉祥的三叉戟圣记,并同样作清净的提拉迦;又当如法奉行那赐予信众“三重寿命”的三法(三支)。

Verse 107

यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः / शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित्

当由克制诸根者行供养与祭祀(yajña),向圣火投献供物,持诵真言(japa),并施与布施;心寂静、行调伏、胜过嗔怒,通达种姓与住期(varṇa、āśrama)之法度。

Verse 108

एवं परिचरेद् देवान् यावज्जीवं समाहितः / तेषां संस्थानमचलं सो ऽचिरादधिगच्छति

如是以摄心专注,终身奉事诸天;此人不久便得至他们坚固不动的安住之处。

← Adhyaya 1Adhyaya 3

Frequently Asked Questions

It defines Purāṇa as a sacred compendium enriched with accounts of past, present, and future that grants merit and proclaims the dharma whose culmination is liberation (mokṣa), positioning Purāṇic narrative as both ethical instruction and soteriology.

The chapter emphasizes Brahman/Paramātman as the beginningless inner ruler (antaryāmin) within all, with liberation attained through nivṛtti grounded in true knowledge and steadfast samādhi; devotion and ordained duty purify the jīva, while the highest truth affirms non-difference of the Supreme across Viṣṇu and Mahādeva forms.

No. It states there are four āśramas only; the ‘single āśrama’ for yogins refers to renunciation established in unwavering samādhi, not an additional institutional stage beyond the four.

Because Śrī, though functioning as Mahāmāyā in cosmic delusion for worldly expansion, is also Hari’s beloved whose worship grants śrī (prosperity), puṣṭi (well-being), medhā (intelligence), yaśas (fame), and bala (strength), aligning worldly flourishing with dharmic order.