अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् । अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ । अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् । विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥३-६॥
अहम् । पञ्च-भूतानि । अपञ्च-भूतानि । अहम् । अखिलम् । जगत् । वेदः । अहम् । अवेदः । अहम् । विद्या । अहम् । अविद्या । अहम् । अजा । अहम् । अनजा । अहम् । अधः । च । ऊर्ध्वम् । च । तिर्यक् । च । अहम् । अहम् । रुद्रेभिः । वसुभिः । च । चरामि । अहम् । आदित्यैः । उत । विश्व-देवैः । अहम् । मित्रा-वरुणौ । उभौ । बिभर्मि । अहम् । इन्द्र-अग्नी । अहम् । अश्विनौ । उभौ । अहम् । अहम् । सोमम् । त्वष्टारम् । पूषणम् । भगम् । दधामि । अहम् । विष्णुम् । उरु-क्रमम् । ब्रह्माणम् । उत । प्रजापतिम् । दधामि । अहम् । अहम् । दधामि । द्रविणम् । हविष्मते । सु-प्राव्ये । यजमानाय । सुन्वते ।
ahaṃ pañcabhūtāny apañcabhūtāni | aham akhilaṃ jagat | vedo’ham avedo’ham | vidyāham avidyāham | ajāham anajāham | adhaś cordhvaṃ ca tiryak cāham | ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ | ahaṃ mitrāvaruṇāv ubhau bibharmy aham indrāgnī aham aśvināv ubhau | ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmy aham | viṣṇum urukramaṃ brahmāṇam uta prajāpatiṃ dadhāmi | ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate ||3–6||
अहं पञ्चमहाभूतानि च, अपञ्चभूतं च; अहमेवाखिलं जगत्। अहं वेदः, अहमेव अवेदः; अहं विद्या, अहमेव अविद्या। अहं अजः, अहमेव अनजः। अधः ऊर्ध्वं च तिर्यक् च अहमेव। अहं रुद्रैः वसुभिश्च सह चरामि; आदित्यैः विश्वदेवैश्च सहापि। अहं मित्रावरुणौ उभौ बिभर्मि; अहमेव इन्द्राग्नी, अहमेव अश्विनौ उभौ। अहं सोमं त्वष्टारं पूषणं भगं च दधामि। विष्णुमुरुक्रमं ब्रह्माणं च प्रजापतिं च दधामि। हविष्मते, सुप्राव्ये यजमानाय, सुन्वते च द्रविणं अहं दधामि।
I am the five great elements and I am that which is not the five elements. I am the entire universe. I am the Veda and I am the non-Veda. I am knowledge and I am ignorance. I am the unborn and I am the not-unborn. I am below, above, and also across (in all directions). I move with the Rudras and the Vasus; (I move) with the Ādityas and also with the Viśvadevas. I uphold both Mitra and Varuṇa; I am Indra and Agni; I am both Aśvins. I place (establish) Soma, Tvaṣṭṛ, Pūṣan, and Bhaga. I place Viṣṇu of wide stride, and Brahmā, and also Prajāpati. I bestow wealth upon the offerer of oblation, upon the well-protected sacrificer who presses (the Soma).
Non-dual śākta dhyāna: contemplate Devī as the all-pervading consciousness in the body (elements) and beyond the body (apanchabhūta). Supports integration of ritual (yajña symbolism) with inner yoga: offerings become attention, wealth becomes steadiness and clarity.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.