Opening the text
Sukta 7.72
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥
ā́ paścā́tān nāsatyā purástād ā́śvinā yātam adharā́d údaktāt | ā́ viśvátáḥ pā́ñcajanyena rāyā́ yūyáṃ pāta svastíbhiḥ sádā naḥ ||
आ पश्चात्, आ पुरस्तात्, हे नासत्यौ; आ अधरात्, उदक्तात्, हे अश्विनौ, आगच्छतम्। आ विश्वतः पाञ्चजन्येन रायाऽऽगत्य, यूयं स्वस्तिभिः सदा नः पात।
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.