Deity · Devi Bhagavatam
शक्तिदेवी in the Devi Bhagavatam
देवीNamed in 1,283 verses
In this book
Key chapters
The chapters where शक्तिदेवी matters most.
Devakritadevyaradhanavarnanam
The Arming of the Devi and the Proposal of Mahishasura's Minister
Devi Mahatmya: The Sending of Dhumralochana
Devi Santvanam: The Gods Praise the Devi
The Danavas' Departure to Rasatala
Mahishasura's Marriage Proposal to Devi through his Minister
The Devi's Promise to the Devas Regarding Parvati's Birth in the House of Himalaya
Description of Devi's Words to the Devas
The Slaying of Mahishasura's Generals Bashkala and Durmukha
Skandha 1, Adhyaya 5: Hayagrivavatarakathanam - The Story of the Hayagriva Incarnation
Every verse that names शक्तिदेवी
1,283 verses
- 1.1.1
ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि । बुद्धिं या नः प्रचोदयात्
- 1.2.3
नत्वा तत्पदपङ्कजं सुललितं मुक्तिप्रदं योगिनां ब्रह्माद्यैरपि सेवितं स्तुतिपरैर्ध्येयं मुनीन्द्रैः सदा । वक्ष्याम्यद्य सविस्तरं बहुरसं श्रीमत्पुराणोत्तमं भक्त्या सर्वरसालयं भगवतीनाम्ना प्रसिद्धं द्विजाः ॥
- 1.2.4
या विद्येत्यभिधीयते श्रुतिपथे शक्तिः सदाद्या परा सर्वज्ञा भवबन्धछित्तिनिपुणा सर्वाशये संस्थिता । दुर्ज्ञेया सुदुरात्मभिश्च मुनिभिर्ध्यानास्पदं प्रापिता प्रत्यक्षा भवतीह सा भगवती सिद्धिप्रदा स्यात्सदा ॥
- 1.2.40
सकलगुणगणानामेकपात्रं पवित्र- मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् । निखिलमलगणानां नाशकृत्कामकन्दं प्रकटय भगवत्या नामयुक्तं पुराणम्
- 1.3.40
पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो व्याजेनापि शृणोति यः परमिदं श्रीमत्पुराणोत्तमम् । भुक्त्या भोगकलापमत्र विपुलं देहावसानेऽचलं योगिप्राप्यमवाप्नुयाद्भगवतीनामाङ्कितं सुन्दरम् ॥
- 1.4.54
तौ कर्णमलजौ दुष्टौ दानवौ मदगर्वितौ । देव देव्याः प्रसादेन निहतौ मधुकैटभौ ॥
- 1.4.64
असंशयं हृदम्भोजे भज देवीपदाम्बुजम् । सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव
- 1.5.48
चिन्तयन्तु महामायां विद्यादेवीं सनातनीम् । सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा
- 1.5.51
ब्रह्मोवाच स्तुवन्तु परमां देवीं ब्रह्मविद्यां सनातनीम् । गूढाङ्गीं च महामायां सर्वकार्यार्थसाधनीम्
- 1.5.52
तच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः । तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम्
- 1.5.53
वेदा ऊचुः नमो देवि महामाये विश्वोत्पत्तिकरे शिवे । निर्गुणे सर्वभूतेशि मातः शङ्करकामदे
- 1.5.60
न देवानां मध्ये भगवति तवानन्तविभवं विजानात्येकोऽपि त्वमिह भुवनैकासि जननी । कथं मिथ्या विश्वं सकलमपि चैका रचयसि प्रमाणं त्वेतस्मिन्निगमवचनं देवि विहितम्
- 1.5.61
निरीहैवासि त्वं निखिलजगतां कारणमहो चरित्रं ते चित्रं भगवति मनो नो व्यथयति । कथंकारं वाच्यः सकलनिगमागोचरगुण- प्रभावः स्वं यस्मात्स्वयमपि न जानासि परमम्
- 1.5.65
हे भगवति! किं दैत्यैः तपसा त्वत्तः वरं लब्ध्वा विष्णोः शिरः अन्तर्धानं कृतम्? उत शिरोरहितं वासुदेवं द्रष्टुं तव कश्चित् विनोदः?
- 1.5.89
तदाहं तामसं रूपं कृत्वा तत्र समागता । दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम्
- 1.5.90
सिंहोपरि स्थिता तत्र तमवोचं दयान्विता । वरं ब्रूहि महाभाग ददामि तव सुव्रत
- 1.5.91
इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः । प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा
- 1.5.92
दृष्ट्वा रूपं मदीयं स प्रेमोस्फुल्लविलोचनः । हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा
- 1.5.93
हयग्रीव उवाच नमो देव्यै महामाये सृष्टिस्थित्यन्तकारिणि । भक्तानुग्रहचतुरे कामदे मोक्षदे शिवे
- 1.5.96
देव्युवाच किं तेऽभीष्टं वरं ब्रूहि वाञ्छितं यद्ददामि तत् । परितुष्टास्मि भक्त्या ते तपसा चाद्भुतेन च