Character · Skanda Purana
Devaki in the Skanda Purana
देवकीNamed in 51 verses
In this book
- Places
- द्वारका, मथुरा, वृन्दावनम्
Every verse that names Devaki
51 verses
- 1.2.64.66
अथ चेत् त्यक्तुकामस्त्वं, तत्रापि वचनं शृणु। स्वल्पेनैव कालेन कृष्णात् देवकीनन्दनात् (समाधानं भविष्यति)।
- 1.3.12.9
स्थिरया भक्त्या सदैव लोकहिताय तद् स्थापय। वैश्वदेव-दैवत्ये नक्षत्रे देवक्याः संगमे संगमाचारं समाचर॥
- 2.2.13.18
उपद्रवंति भूर्लोकं भक्षयन्ति जनांस्तथा। भारावतरणार्थाय देवकीगर्भसंभवः ॥
- 2.5.1.1
सूत उवाच। देवकीनन्दनं कृष्णं जगदानन्दकारकम्। भुक्तिमुक्तिप्रदं वन्दे माधवं भक्तवत्सलम्।
- 2.9.18.32
द्वापरस्य कलेश्चैव सन्धौ पर्यवसानिके। भूभारासुरनाशार्थं पातुं धर्मं च धार्मिकान्। वसुदेवाद्भविष्यामि देवक्यां मथुरापुरे।
- 3.1.27.35
श्रीसूत उवाच । वसुदेव इति ख्यातः शूरपुत्रो यदोः कुले । आसीत्स देवकसुतां देवकीमिति विश्रुताम्
- 3.1.27.36
उद्वाह्य रथमारूढः स्वपुरं प्रस्थितः पुरा । अथ सूतो बभूवाथ कंसो ह्यानकदुन्दुभेः
- 3.1.27.37
अशरीरा तदा वाणी कंसं सारथिमब्रवीत् । भगिनीं च तथा भामं वाहयंतं रथोत्तमे
- 3.1.27.38
यामिमां वाहयस्यत्र रथेन त्वमरिंदम । अस्यास्त्वामष्टमो गर्भो वधिष्यति न संशयः
- 3.1.27.39
इति दिव्यं वचः श्रुत्वा कंसः खड्गं समाददे । स्वसारं हन्तुमुद्योगं चकार, हे द्विजपुङ्गवाः ॥
- 3.1.27.40
ततः स सांत्वयन् कंसं वसुदेवोऽब्रवीदिदम् । वसुदेव उवाच— अस्यां प्रसूतान् सुतान् कंस तुभ्यं दास्याम्यहं ध्रुवम् ॥
- 3.1.27.41
एनां स्वसारं मा हिंसीः, नास्यास्ते भीतिरस्ति हि । इति श्रुत्वा वचः कंसो निवृत्तस्तद्वधात् तदा ॥
- 3.1.27.42
देवकीवसुदेवाभ्यां सहितः स्वपुरं ययौ । पादावसक्तनिगडौ देवकीवसुदेवकौ ॥
- 3.1.27.43
तदा दुष्टात्मा कंसः कारागृहे न्यवेशयत् । ततः कालेन महता वसुदेवात् खलु देवकी गर्भं दधार ॥
- 3.1.27.45
हतेषु षटसु पुत्रेषु देवक्युदरजन्मसु। कंसेन क्रूरमतिना निष्कृपेण द्विजोत्तमाः॥
- 3.1.27.46
शेषोऽभूत् सप्तमो गर्भो देवक्या जठरे तदा। मायादेवी ततो गर्भं तं वै विष्णुप्रचोदिता॥
- 3.1.27.47
नन्दगोपगृहस्थायां रोहिण्यां समवेशयत्। देवक्याः सप्तमो गर्भः पतितो जठरादिति॥
- 3.1.27.48
लोके प्रसिद्धिरभवन् महती विष्णुलीलया। देवकीजठरे पश्चाद् विष्णुर्गर्भत्वमाप्तवान्॥
- 3.1.27.49
ततः दशसु मासेषु गतेषु हरिरव्ययः । देवकीजठरात् प्रादुर्भूतः कृष्ण इति लोके विख्यातः ॥
- 3.1.27.50
शङ्खचक्रगदाखड्गैर्विराजितचतुर्भुजः । किरीटी वनमाली च पित्रोः शोकापहः प्रभुः ॥