Adhyaya 111
Nagara KhandaTirtha MahatmyaAdhyaya 111

Adhyaya 111

本章では、賢者たちがスータに対し、シヴァの聖域(Śiva-kṣetra)に関わるブラーフマナの系譜(ゴートラ)を列挙し、その数と詳細を明らかにするよう求める。スータは、かつての教えとして、アーナルタの王が癩病に苦しみながらも、シャンカ・ティールタで沐浴した直後にたちまち癒やされたことを語り、ティールタの霊験とシヴァの恩寵を示す。 王は修行者たちに報恩しようとするが、彼らは無所有の戒により物質的な贈り物を拒む。話は倫理の要点へ移り、恩知らずは特に重い罪で、容易に贖えないと説かれる。賢者たちがカールッティカ月にプシュカラへ巡礼して不在の間、王はダマヤンティーに命じ、賢者の妻たちへ装身具を贈らせ、戒を破らずに奉仕できると考える。 しかし一部の女修行者は競い合う心で受け取り、四人は固く辞退する。賢者たちが戻ると、アーシュラマは装飾によって「歪められた」かのように見え、怒りが起こって呪詛が放たれる。ダマヤンティーは即座に石と化し、王の悲嘆と和解の試みが続く。教訓は、信心の供養と苦行の規律の清浄さの境界であり、善意であっても執着や競争心、誓戒の破れを招けばアダルマとなり得ることを示している。

Shlokas

Verse 1

ऋषय ऊचुः । शिवक्षेत्राणि यैर्विप्रैः समानीतानि तत्र च । तेषां सर्वाणि गोत्राणि वद सूतज विस्तरात्

仙人たちは言った。「スータの子よ、そこへシヴァの聖地を携え来たりて安置したブラーフマナたち、そのすべてのゴートラ(氏族)を詳しく語れ。」

Verse 2

कस्य गोत्रोद्भवैर्विप्रैः किं क्षेत्रं समुपार्जितम् । शंकरस्य प्रसादेन तस्मिन्काल उपस्थिते

「そのブラーフマナたちはいかなるゴートラより出でたのか。またその時、シャンカラの恩寵によって、いかなる聖なるクシェートラが得られ、 स्थापित(安置)されたのか。」

Verse 3

कियत्यपि च गोत्राणि चमत्कारपुरोत्तमे । स्थापितानि सुभक्तेन तेनानर्तेन सूतज

「スータの子よ、奇瑞の最勝なる都チャマトカーラにおいて、あの篤信のアーナルタの王によって स्थापितされたゴートラはいくつあるのか。」

Verse 4

त्वया प्रोक्तं पुरा दत्तं पुरं कृत्वा द्विजन्मनाम् । न च तेषां कृता संख्या तस्मात्तां परिकीर्तय

先にあなたは、再生の者(ドヴィジャ)のための住処として町を整えたのち、一つの都が授けられたと言われた。だがその人数は数えられていない。ゆえに、その数を改めて語ってください。

Verse 5

सूत उवाच । उपदेशः पुरा दत्तो द्विसप्ततिमुनीश्वरैः । आनर्ताधिपतिः पूर्वं कुष्ठरोग प्रपीडितः । शंखतीर्थं समागत्य स्नानं चक्रे त्वरान्वितः

スータは語った。「昔、七十二人の大聖仙によって教えが授けられた。かつてアーナルタの君主は癩病に苦しみ、シャンカ・ティールタに来て、急ぎつつも浄めの沐浴を行った。」

Verse 6

तेन नाशं गतः कुष्ठो भूपतेस्तस्य तत्क्षणात् । तस्य तीर्थस्य माहात्म्यान्निर्वि ण्णस्य तनुं प्रति

その行いによって、王の癩病はただちに滅び去った――そのティールタの大いなる功徳ゆえに――そして彼は己が身に対して深く省み、慎みの心を得た。

Verse 7

ततः स नीरुजो भूत्वा तोषेण महतान्वितः । तानुवाच मुनिश्रेष्ठान् प्रणिपत्य मुहुर्मुहुः

それから彼は病を離れ、大いなる歓喜に満たされて、最勝の聖仙たちに向かい、幾度も幾度も礼拝して語りかけた。

Verse 8

सुवर्णं वा गजाश्वं वा राज्यं सकलमेव वा । भवद्भ्यः संप्रदास्यामि तस्मादब्रूत द्विजोत्तमाः

「黄金であれ、象や馬であれ、あるいは我が国土のすべてであれ――あなたがたにお捧げしよう。ゆえに、最勝のドヴィジャよ、語ってください(何をなすべきか)。」

Verse 9

यद्यस्य रोचते यावन्मात्रमन्यदपि द्विजाः । प्रसादः क्रियतां मह्यं दीनस्य प्रणतस्य च

「汝ら婆羅門よ、各々が望むものは何であれ—どれほどであろうと、さらに別のものまでも—どうか我に御慈悲の御加護を賜れ。われは貧しく、汝らの前に伏して礼拝する者なり。」

Verse 10

ब्राह्मणा ऊचुः । निष्परिग्रहधर्माणो वानप्रस्था वयं द्विजाः । सद्यःप्रक्षालकाः किं नो राज्येन विभवेन च

婆羅門たちは言った。「我らは二度生まれし者、林住(ヴァーナプラスタ)にして、不所有のダルマに帰依する。われらはただちに身を清める者—王国や世の栄華など、何の用があろうか。」

Verse 11

राजोवाच उपकारं समासाद्य यः करोति न पापकृत् । उपकारं पुनस्तस्य स कृतघ्न उदाहृतः

王は言った。「恩を受けてなお罪をなさぬ者(すなわち害で報いぬ者)は悪人ではない。だが、その恩に対して恩をもって返さぬ者は、『恩知らず』(kṛtaghna)と宣せられる。」

Verse 12

ब्रह्मघ्नं च सुरापे च चौरे भग्नव ते शठे । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः

「婆羅門殺し、酒を飲む者、盗人、誓いを破る者、そして狡猾なる者—これらには善き人々が贖罪の法を定めた。されど『恩知らず』には、贖罪は存在しない。」

Verse 16

तस्मात्त्वं गच्छ राज्यं स्वं स्वधर्मेण प्रपालय । इह लोके परे चैव येन सौख्यं प्रजायते

「ゆえに、汝は自らの国へ帰り、己がスヴァダルマ(本分の法)に従ってこれを守護せよ。その行いにより、この世にも彼岸にも、安楽が生ずる。」

Verse 18

तत्र गत्वा प्रहृष्टा त्माकृत्वा रम्यं महेश्वरम् । गीतनृत्यसवाद्यैश्च रात्रिजागरणादिभिः । चकार पूर्ववद्राज्यं समंताद्धतकंटकम्

そこへ赴き、心より歓喜して、マヘーシュヴァラ(シヴァ)の麗しき聖所を建立し、礼拝した。歌と舞、器楽、そして夜通しの覚醒行などの修行によって、彼は国を昔のごとくに整え、四方の「棘」(患い)をことごとく除いた。

Verse 19

चिंतयानो दिवानक्तं ब्राह्मणान्प्रति तत्सदा । कथं तेषां द्विजेंद्राणामुपकारो भविष्यति । मदीयो मम यैर्दत्तं गात्रमेतत्पुनर्नवम्

彼は昼夜つねにそのバラモンたちを思い、「この身を再び新たに授けてくださった最勝の二度生まれ(ドヴィジャ)たちに、いかにして奉仕し報恩すべきか」と省みた。

Verse 20

तेऽपि सर्वे मुनिश्रेष्ठाः खेचरत्व समन्विताः । तपःशक्त्या यांति नानातीर्थेषु भक्तितः

その最勝の聖仙たちもまた、空を行く力を具え、苦行の威力によって、信愛をもって多くのティールタ(聖なる沐浴地)へと巡礼する。

Verse 21

तेषु स्नानं जपं कृत्वा तथैव पितृतर्पणम् । प्राणयात्रां पुनश्चक्रुस्तत्रागत्य स्व आश्रमे

そこで彼らは沐浴し、ジャパ(真言誦持)を行い、さらに祖霊へのタルパナ(供養)を捧げたのち、再び生の歩みを続け、己が庵(アーシュラマ)へと帰っていった。

Verse 22

अन्ये तत्रैव कुर्वंति नित्यकृत्यानि ये द्विजाः । तथान्ये दूरमासाद्य तीर्थं दृष्ट्वा मनोहरम्

ある二度生まれ(ドヴィジャ)たちはその場で日々の定めの行(ニティヤ・クリティヤ)を修し、また別の者たちは遠方より来て、その心を奪うティールタを拝観した。

Verse 23

उषित्वा रजनीं तत्र द्विरात्रं वा पुनर्गृहम् । समागच्छंति चान्ये तु त्रिरात्रेण समाययुः

そこで一夜、あるいは二夜を過ごして家へ帰る者もいれば、また三夜ののちに戻って来る者もあった。

Verse 24

वाराणस्यां प्रयागे वा पुष्करे वाथ नैमिषे । प्रभासे वाऽथ केदारे ह्यन्यस्मिन्नहि वांछ्यते

ヴァーラーナシーであれ、プラヤーガであれ、プシュカラであれ、ナイミシャであれ、またプラバーサであれケーダーラであれ――まことに、これら名高きティールタに勝る他の地は望まれない。

Verse 25

कदाचिदथ ते सर्वे कार्तिक्यां पुष्करत्रये । गता विनिश्चयं कृत्वा स्नानार्थं द्विजसत्तमाः

ある時、カールッティカ月に、かの最勝の二度生まれのバラモンたちは固く決意し、聖なる沐浴のためプシュカラ・トラヤへと赴いた。

Verse 26

पंचरात्रं वसिष्यामो वयं तत्र समाहिताः । तस्माद्वह्निषु दारेषु रक्षा कार्या स्वशक्तितः

「我らは心を整え、専念してそこに五夜住まう。ゆえに力の及ぶかぎり、祭火と家のこと(妻たち)を守護せよ。」

Verse 27

एवं ते समयं कृत्वा गता यावद्द्विजोत्तमाः । तावद्ध पतिना ज्ञाता न कश्चित्तत्र तिष्ठति

このように約束を定めて最勝のバラモンたちは去った。すると夫は、そこに誰一人として残っていないことを知った。

Verse 28

तेषां मध्ये मुनींद्राणां सुतीर्थाश्रमवासिनाम् । दमयंतीति विख्याता चंद्रबिंबसमानना

スティールタのアーシュラマに住まう大牟尼たちの中に、ダマヤンティーと名高い女性がいた。その面影は満月の円盤のように麗しかった。

Verse 29

तामुवाच रहस्येवं व्रज त्वं चारुहासिनि । हाटकेश्वरजे क्षेत्रे ममादेशोऽधुना ध्रुवम्

彼は密かに彼女に告げた。「行きなさい、麗しい微笑みの者よ。ハータケーシュヴァラの聖なる地へ。わが命は今、まことに揺るぎない。」

Verse 30

तत्र तिष्ठंति याः पत्न्यो मुनीनां भावितात्मनाम् । भूषणानि विचित्राणि तासां यच्छ यथेच्छया

「そこには、心を修めた牟尼たちの妻君が住んでいる。望むままに、さまざまな装身具を彼女らに施しなさい。」

Verse 31

न तासां पतयोऽस्माकं प्रकुर्वंति प्रतिग्रहम् । कथंचिदपि सुश्रोणि लोभ्यमानापि भूरिशः

「彼女らの夫君――われらの牟尼たち――は贈り物を受け取らない。たとえ多くの手立てで強く誘惑されても、麗しき腰の者よ、決して取らぬのだ。」

Verse 32

स्त्रीणां भूषणजा चिन्ता सदा चैवाधिका भवेत् । लौल्यं च कौतुकं चैव सदा भूषणजं भवेत्

「装身具から生じる思い煩いは、女性においてとりわけ強くなりがちである。移ろいやすい欲望と好奇心もまた、装身具によって幾度となく掻き立てられる。」

Verse 33

अपि मृन्मयकं किंचित्काष्ठसूत्रमयं च वा । जतुकाचमयं वापि नारी धत्ते विभूषणम्

たとえ土で作られた小さな飾りであれ、木と糸の品であれ、あるいは樹脂や玻璃のものであれ――女はそれをなお装身の飾りとして身に着ける。

Verse 34

एष एव भवेत्तेषामुपकारस्यसंभवः । उपायः पद्मपत्राक्षि न चान्योऽस्ति कथंचन

これのみが、彼らへの救いを可能ならしめる手立てとなる。これこそ方法である、蓮の花弁のごとき眼をもつ者よ――他の道はまったくない。

Verse 35

सा तथेति प्रतिज्ञाय विचित्राभरणानि च । गृहीत्वा हर्षसंयुका ततस्तत्क्षेत्रमाययौ

彼女は「そのとおりに」と誓い、妙なる装身具の数々を手に取り、歓喜に満ちた心のまま、やがてその聖なるクシェートラへと赴いた。

Verse 36

मणिमुक्तामयान्येव कुण्डलानि शुभानि च । तथा चन्द्रोज्ज्वलाहारान्नूपुराणि बृहंति च

宝玉と真珠より成る吉祥なる耳飾り、また月のごとく輝く首飾り、さらに大ぶりの足輪も。

Verse 37

इन्द्रनीलमहानीलवैडूर्यखचितानि च । पद्मरागैस्तथा वज्रैर्माणिक्यैश्च मनोरमैः

インドラニーラとマハーニーラの蒼玉、またヴァイドゥーリヤ(猫眼石)をちりばめ、さらにパドマラーガの紅玉、金剛石、そして心を奪う水晶と宝玉をも飾っていた。

Verse 38

केशैः कंकणैर्दिव्यैः शक्रचापनिभैः शुभैः । हेमसूत्रैश्च जात्यैश्च मेखलाभिस्तथैव च

インドラの虹の弓のごとく吉祥に輝く天なる腕輪をまとい、黄金の糸と選りすぐりの宝飾、さらに腰帯をも備えていた。

Verse 39

अथ सा बोधने विष्णोः संप्राप्ते दिवसे शुभे । उपवासपरा स्नाता एकस्मिन्सलिलाशये

やがて、ヴィシュヌの覚醒(ボーダナ)の吉祥日が到来すると、断食に専心する彼女は、ある水のたまりで沐浴した。

Verse 40

तीरदेशे निवेश्यैव महाभूषणपर्वतम् । यस्य प्रभाभिरुग्राभिर्व्याप्तं गगनमंडलम्

さらに川岸に、巨大な「宝飾の山」を据えた。その烈しい光輝は広がり、天の円蓋を満たした。

Verse 41

एतस्मिन्नंतरे प्राप्तास्तापस्यः कौतुकान्विताः । कीदृशा राजपत्नी सा किंरूपा किंविभूषणा

その間に、好奇心に満ちた女修行者たちが到来し、「あの王妃はいかなる方か。どのような姿で、いかなる装いなのか」と語り合った。

Verse 42

अथ तास्तां समालोक्य दिव्यभूषणभूषिताम् । सुरूपांगीं समाधिस्थां चित्ते चिन्तां प्रचक्रिरे

そして彼女が、天なる宝飾に荘厳され、肢体うるわしく、三昧に安住しているのを見て、彼女らは胸中に思いを巡らせた。

Verse 43

धन्येयं भूपतेर्भार्या यैवं भूषणभूषिता । दमयंती सुरूपाढ्या सर्वलक्षणलक्षिता

まことに幸いなるはこの王の妃、かくも宝飾により荘厳されたる者—ダマヤンティーは容姿端麗にして、あらゆる吉祥の相を具えている。

Verse 44

समाध्यंतं समासाद्य तापसीर्वीक्ष्य साऽपि च । दमयंती नमश्चक्रे ताः सर्वा विधिपूर्वकम्

定より出でて、眼前の女修行者たちを見たダマヤンティーは、作法にかなって、彼女らすべてに恭しく礼拝した。

Verse 45

ताः कृतांजलिना प्राह वल्गुवाक्यं मनोहरम् । मयायं भूषणस्तोम उद्दिश्य गरुडध्वजम् । कल्पितोऽद्य दिने स्नात्वा समुपोष्य दिने हरेः

合掌して、彼女は甘美で心を惹く言葉を述べた。「この宝飾の数々は、ガルダの旗を掲げるハリに捧げる供物として、私が今日のために整えたものです。今日、沐浴をなし、ハリの聖日に斎戒を守り…」

Verse 46

तस्माद्गृह्णंतु तापस्यो मया दत्तानि वांछया । भूषणानि विचित्राणि प्रसादः क्रियतां मम

「ゆえに、修行の女たちよ、私が切なる願いをもって捧げるこの妙なる宝飾をお受け取りください。どうかご慈悲を垂れ、受納もって私にご加護をお与えください。」

Verse 47

ततश्चैकाऽब्रवीत्तासामेषा मुक्तावली मम । इमां देहि न मे वांछा विद्यतेऽन्या नृपप्रिये

すると彼女らのうちの一人が言った。「この真珠の首飾りは私のもの。これを私にお与えください。王に愛されし方よ、ほかに望みはありません。」

Verse 48

ततस्तया विहस्योच्चैः प्रक्षाल्य चरणौ स्वयम् । दत्ता मुक्तावली तस्या वस्त्रैर्दिव्यैः समन्विता । यस्याः षण्माषतुल्यानि मौक्तिकान्यमलानि च

そのとき彼女は高らかに笑い、自ら足を洗い清め、天上の衣とともに真珠の首飾りを授けた。その珠は一点の曇りもなく、各々が六マーシャの重さであった。

Verse 49

शरत्काले यथा व्योम्नि नक्षत्राणि द्विजोत्तमाः । तथान्या स्पर्द्धया युक्ता ययाचेऽमलवर्चसम् । हारं निर्मूल्यतायुक्तं चित्ताह्लादकरं परम्

おお最勝の二度生まれよ、秋の天空に星々が輝くように、別の女は競い心に駆られて、光り澄み汚れなき首飾りを求めた。それは値を量れず、心をこの上なく歓ばせるものであった。

Verse 50

अथ सा तं करे कृत्वा तस्या हारं प्रयच्छति । तावदन्या प्रजग्राह हारं शृंगारलालसा

そこで彼女はそれを相手の手に置き、首飾りを授けようとした。だがその瞬間、飾りを欲する別の女が首飾りを奪い取った。

Verse 51

ततः शेषाश्च तापस्यो भूषणार्थं समुत्सुकाः । सस्पर्द्धा जगृहुस्तानि भूषणानि स्वयं द्विजाः

それから残りの苦行の女たちも、飾りを求めて心急ぎ、競い合いながらその装身具を自ら取り上げた。おお二度生まれよ。

Verse 52

अन्याश्चान्याकरे कृत्वा भूषणं सुमनोहरम् । बलादाकृष्य जग्राह धर्षयित्वा ततः परम्

また別の女は、ひときわ麗しい装身具を他の者の手に置きながら、やがて力ずくで引きはがして奪い取り、その後さらに無礼を重ねた。

Verse 53

यथायथा प्रगृह्णंति तापस्यो भूषणार्चिताः । तथातथास्याः संजज्ञे दमयंत्या मुदा हृदि

苦行の女たちが、いまや飾りを身にまとい、それらを次々と受け取るほどに、ダマヤンティーの胸にもまた幾度となく歓喜が湧き起こった。

Verse 54

अन्यानि च प्रचिक्षेप शतशोऽथ सहस्रशः । न तृप्तिर्जायते तासां तथापि द्विजसत्तमाः

彼女はさらに別の贈り物を、百、千と投げ与え続けた。だがなお、二度生まれの最勝者よ、彼女たちに満足は生じなかった。

Verse 55

भूषणाभावमासाद्य ततः सा पार्थिवप्रिया । हृष्टा प्रोवाच ताः सर्वाः संतोषः क्रियतामिति

飾りが尽きたと知るや、王に愛される妃は喜び、皆に告げた。「満ち足りる心(サントーシャ)を育みなさい。」

Verse 56

पुनश्चैवानयिष्यामि प्रभाते नात्र संशयः । अन्यानि च विचित्राणि यस्या रोचंति यानि च

「そして朝になれば、疑いなくまた持って来ましょう。さらに、あなたがたの心にかなう、さまざまな妙なる品々も。」

Verse 57

ततस्ताः सकलाः प्रोचुर्गच्छ त्वं पार्थिवप्रिये । आगंतव्यं च भूयोऽपि प्रगृह्याभरणानि च

すると彼女たちは皆言った。「行きなさい、王に愛される方よ。そして再び来るのだ、飾り(宝飾)も携えて。」

Verse 58

एवमुक्ता ततस्ताभिः प्रणिपत्य नृपप्रिया । प्रहृष्टा प्रययौ तूर्णं स्वपुरं प्रति सद्द्विजाः

彼女らにそのように告げられると、王の愛妃たる王妃は伏して礼拝し、歓喜に満ちて、たちまち自らの都へと急ぎ去った、ああ高貴なるバラモンたちよ。

Verse 59

तापस्योपि गृहं गत्वा वस्त्राणि विविधानि च । भूषणानि च गात्रेषु सस्पर्द्धा निदधुस्तदा

ついで彼女らは女修行者の住まいへ赴き、さまざまな衣をまとい、身に飾りを付けた――まるで互いに競い合うかのように。

Verse 60

तापसीनां चतुष्कं च परित्यज्य यतव्रतम् । शेषाभिः प्रगृहीतानि मण्डनानि यथेच्छया

しかし誓戒に堅固な四人の女修行者は、その装いを捨て去った。残る者たちは、望むままに飾りを受け取った。

Verse 61

ततः प्रभाते विमले प्रोद्गते रविमण्डले । भूयोपि राजपत्नी सा भूषणान्यंबराणि च

そして清らかな暁、日輪が昇り出でたとき、その王妃は再び、飾りと衣とを携えて来た。

Verse 62

तथैव प्रददौ तासां जगृहुश्च तथैव ताः । एवं तस्याः प्रयच्छंत्या अहन्यहनि भक्तितः

彼女は以前と同じく施し、彼女らも以前と同じく受け取った。かくして王妃は、信愛をもって日ごとに施し続けた。

Verse 63

पंचरात्रमतिक्रांतं तृप्तास्तास्तापसप्रियाः । न राज्ञी तृप्तिमायाति प्रयच्छंती प्रभक्तितः

五夜が過ぎると、あの苦行の女たちは満ち足りた。だが王妃はなお満足に至らず、深いバクティ(信愛)をもって施し続けた。

Verse 64

ततः शुश्राव तापस्यश्चतस्रोऽत्र सुनिःस्पृहाः । वल्कलाजिनधारिण्यो न तस्याः पार्श्वमागताः । न चान्या भूषिता दृष्ट्वा चक्रुरीर्ष्यां कथंचन

その後、ここに欲望を離れた四人の苦行の女がいて、樹皮の衣と羚羊の皮をまとい、彼女の傍らに近づかなかったと聞こえてきた。また他の女たちも、飾り立てた者を見ても、いささかも嫉みを起こさなかった。

Verse 65

अथ सा त्वरितं गत्वा तासां पार्श्वमनिंदिता । भूषणानि महार्हाणि गृहीत्वा पंचमीदिने

そこでその非の打ちどころなき女性は急いで彼女らのもとへ赴き、月の第五日(パンチャミー)に、きわめて貴重な装身具を手に取った。

Verse 66

ततः प्रोवाच ताः सर्वाः प्रसादः क्रियतामिति । इमानि भूषणार्थाय भूषणानि प्रगृह्यताम्

それから彼女は皆に言った。「どうかご慈悲をお示しください。これらは身を荘厳するための装身具、どうぞお受け取りください。」

Verse 67

तापस्य ऊचुः । नास्माकं भूषणैः कार्यं भूषिता वल्कलैर्वयम् । तस्माद्गच्छ निजं हर्म्यमर्थिभ्यः संप्रदीयताम्

苦行の女たちは言った。「私たちには装身具は不要です。樹皮の衣こそが私たちの荘厳。ゆえにご自分の御殿へお戻りになり、これらは必要とする人々に正しく施してください。」

Verse 68

वदन्तीनां तया सार्धमेवं तासां द्विजोत्तमाः । चत्वारः पतयः प्राप्ता एकैकस्याः पृथक्पृथक्

彼女とそのように語り合っていると、あの女たちの夫である四人の最上のバラモンが到着し、それぞれが別々に自分の妻のもとへ来た。

Verse 69

शुनःशेपोऽथ शाक्रेयो बौद्धो दान्तश्चतुर्थकः । वियन्मार्गं हि चत्वारः स्वाश्रममाययुः

彼らはシュナḥシェーパ、シャークレーヤ、バウッダ、そして第四のダーンタであった。四人は皆、天の道を通ってそれぞれのアーシュラマへ帰って行った。

Verse 70

शेषाः सर्वे गतिभ्रंशं प्राप्य भूमार्गमाश्रिताः । अथ ते स्वाश्रमं दृष्ट्वा विकृताकारभूषणम् । किमिदंकिमिदं प्रोचुर्यत्तापस्यो विडंबिताः

しかし他の者たちは、かつての移動の力を失って地上の道に頼った。やがて自らのアーシュラマが奇怪に変えられ、歪んだ姿で「飾り立て」られているのを見て、「これは何だ、これは何だ」と繰り返し叫んだ。苦行の女たちが嘲弄されたからである。

Verse 71

केनैवं पाप्मनाऽस्माकमाश्रमोऽयं विडंबितः । प्रदत्त्वा तापसीनां च भूषणान्यंबराणि च

「いかなる罪人が、苦行の女たちに装身具と衣を与えた後で、我らのアーシュラマをこのように辱めたのか。」

Verse 72

अनया संप्रदत्तानि सर्वासां भूषणानि वै

まことに、彼女によって皆の装身具は施しとして与えられてしまった。

Verse 73

अस्माकमपि संप्राप्ता गृहे वै नृपवल्लभा । दातुं विभूषणान्येव निषिद्धाऽस्माभिरद्य सा

王の寵愛する妃もまた、我らの家に来た。今日、我らは彼女がまさにその装身具を施すことを禁じた。

Verse 74

सूत उवाच । तासां तद्वचनं श्रुत्वा ततस्ते कोप मूर्च्छिताः । ऊचुस्तां नृपतेर्भार्यां शापं दातुं मुहुर्मुहुः

スータは語った。――その言葉を聞くや、彼らは怒りに呑まれ、王の妻に呪詛を与えようと幾度も口にした。

Verse 75

द्विसप्ततिर्वयं पापे स्नानार्थं पुष्करे गताः । कार्तिक्यां व्योममार्गेण मनोमारुतरंहसा

「罪深き身ながら、我ら七十二人は聖なる沐浴のためプシュカラへ赴いた。カールッティカの月、我らは天空の道を行き、心と風のごとく迅速であった。」

Verse 76

चत्वारस्त इमे प्राप्ता येषां दारैः प्रतिग्रहः । न कृतस्तस्य भूपस्य कुभार्यायाः कथंचन

「この四人が到来した――妻を介して供物を受け取ることが、いかなる形でも決してなかった者たちである。しかも、あの王の邪悪な妻に対しては、正しい受納はまったく成されなかった。」

Verse 78

अथ सा तत्क्षणादेव शिलारूपा बभूव ह । निश्चेष्टा तत्क्षणादेव मुनिवाक्यादनंतरम्

するとその瞬間、彼女はまことに石の姿となった。聖仙の言葉の直後、ただちに身動き一つできず静止した。

Verse 79

ततः स परिवारोऽस्यास्तद्दुःखेन समाकुलः । वाष्पपूर्णेक्षणो दीनः प्रस्थितः स्वपुरं प्रति

そこで彼女の家族はその悲しみに打ちひしがれ、涙に満ちた目でうなだれつつ、自らの都へと旅立った。

Verse 80

कथयामास तत्सर्वं दमयंत्याः समुद्भवम् । वृत्तांतं ब्राह्मणश्रेष्ठास्तस्याः शापसमुद्भवम्

最勝のバラモンたちは、ダマヤンティーに関わって事がいかに起こったか、そして彼女に降りかかった呪詛の由来を、余すところなく語った。

Verse 81

श्रुत्वा स पार्थिवस्तूर्णं वृत्तांतं शापजं तदा । प्रसादनाय विप्राणां दुःखितः स वनं ययौ

そのとき王は、呪詛より生じたその顛末をただちに聞き、悲嘆して、バラモンたちの鎮めを乞うため森へ赴いた。

Verse 82

ततस्ते मुनयस्तूर्णं चत्वारोऽपि महीपतिम् । ज्ञात्वा प्रसादनार्थाय भार्यार्थं समुपस्थितम्

すると四人の聖仙は、王が妃のために鎮めを求めて来たとすぐ悟り、王に会うべく近づいた。

Verse 83

अग्रिहोत्राणि दारांश्च समादाय ततः परम् । कुरुक्षेत्रं समाजग्मुः खमार्गेण द्रुतं तदा

その後、彼らはアグニホートラの聖火と妻たちを携え、天の道を疾く進んでクルクシェートラへと向かった。

Verse 85

ततो जगाम तं देशं यत्र भार्या शिलामयी । सा स्थिता तापसीवृन्दैः सर्वतोऽपि समन्विता

それから彼は、石と化した妻が立っている場所へ赴いた。そこでは女の苦行者たちの群れが四方から彼女を取り囲んでいた。

Verse 87

ततः कृच्छ्रात्समासाद्य संज्ञां तोयसमुक्षितः । प्रलापमकरोत्पश्चात्स्मृत्वास्मृत्वा प्रियान्गुणान्

次いで水をそそがれて、彼は辛うじて意識を取り戻した。やがて彼は嘆き始め、愛しき人の徳を幾度も幾度も思い返した。

Verse 88

हा प्रिये मृगशावाक्षि मम प्राणविनाशिनि । मां मुक्त्वाऽद्य प्रियं कांतं क्व गतासि शुभानने

「ああ、愛しき人よ――小鹿のような眼差しの君よ――我が命の息をも奪う者よ。今日、愛する夫である私を置いて、どこへ行ってしまったのか、吉祥なる面影の君よ。」

Verse 89

नाभुक्ते मयि भुक्तासि निद्रां नाऽनिद्रिते गता । न सौभाग्यस्य गर्वेण ममाज्ञा लंघिता क्वचित्

「私が食していないのに君が食べたことはなく、私が眠らぬのに君が先に眠ったこともない。幸運を誇って、私の言いつけを踏み越えたことなど一度もなかった。」

Verse 90

न स्मरामि त्वया प्रोक्तं कदाचिद्वि कृतं वचः । रहस्यपि विशालाक्षि किमु भोजनसंसदि

「君が荒い言葉や不相応な言葉を口にしたことなど、私は覚えていない。たとえ人目のないところでさえ、あの大きな瞳の君が――まして食事の席の集いにおいては言うまでもない。」

Verse 91

सूत उवाच । एवं प्रलपतस्तस्य भूपतेः करुणं बहु । आयाता मंत्रिणस्तस्य श्रुत्वा भूपं तथाविधम्

スータは語った。「その王が哀れみ深く、さまざまに嘆き続けていると、かかる有様の君主の声を聞いた家臣たる大臣たちがやって来た。」

Verse 92

ततः संबोध्य तं कृच्छाद्दृष्टान्तैर्वहुविस्तरैः । राजर्षीणां पुराणानां महद्व्यसनसंभवैः

それから彼らは、古の物語に語られる王仙(ラージャルシ)たちと、彼らを襲った大いなる災厄を引き合いに出し、広く多くの譬えをもって、ようやく王を奮い立たせた。

Verse 93

निन्युस्तं भूपतिं दीनं वाष्पव्याकुललोचनम् । निश्वसंतं यथानागं तेजसा परिवर्जितम्

彼らは、涙に乱れた眼をした哀れな王を連れ去った。王は象のように深く嘆息し、かつての威光を失っていた。

Verse 94

पार्थिवोऽपि समन्वेष्य यत्नात्तान्सर्वतो मुनीन् । निर्विण्णः श्रमार्तश्च भार्याव्यसनदुःखितः

王もまた、あの牟尼たちを四方にわたり懸命に探し求めたのち、意気消沈し、疲れ果てた。妃の災難から生じた苦しみに打ちひしがれていた。

Verse 96

अथ तां तादृशीं दृष्ट्वा सेवकैः सकलैर्वृतः । हाहेति स मुहुः प्रोच्य मूर्च्छितः प्रापतत्क्षितौ

そのとき彼は、あらゆる従者に囲まれつつ、彼女がそのような有様であるのを見て、「ああ、ああ」と幾度も叫び、気を失って地に倒れ伏した。

Verse 111

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये दमयन्त्युपाख्याने दमयन्त्या विप्रशापेन शिलात्वप्राप्तावानर्ताधिपतिकृतशोककथनंनामैकादशोत्तर शततमोऽध्यायः

かくして、八万一千頌を有する尊き『スカンダ・マハープラーナ』第六「ナーガラ・カーンダ」における「シュリーハータケーシュヴァラ聖域功徳(マーハートミャ)」内、ダマヤンティー物語の「ブラーフマナの呪詛によりダマヤンティーが石と化したときの、アナルタ王の嘆きの説話」と題する第百十一章はここに終わる。

Verse 707

तस्माद्विडंबितो यस्मादाश्रमोऽयं तपस्विनाम् । शिलारूपा च भवती तस्माद्भवतु कुत्सिता

それゆえ――この苦行者たちのアーシュラマが嘲られ、また汝が石の姿を帯びたがゆえに――それゆえ汝は卑しめられ、咎められるがよい。