Nirvana
अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् । परिव्राजकाः पश्चिमलिङ्गाः । मन्मथः क्षेत्रपालः । गगनसिद्धान्तः अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निःसंशय ऋषिः । निर्वाणो देवता । निष्कुलप्रवृत्तिः । निष्केवलज्ञानम् ॥१-११॥
अथ । निर्वाण-उपनिषदम् । व्याख्यास्यामः । परमहंसः । सः-अहम् । परिव्राजकाः । पश्चिम-लिङ्गाः । मन्मथः । क्षेत्र-पालः । गगन-सिद्धान्तः । अमृत-कल्लोल-नदी । अक्षयम् । निरञ्जनम् । निः-संशयः । ऋषिः । निर्वाणः । देवता । निष्कुल-प्रवृत्तिः । निष्केवल-ज्ञानम् ॥
atha nirvāṇopaniṣadaṃ vyākhyāsyāmaḥ | paramahaṃsaḥ so’ham | parivrājakāḥ paścimaliṅgāḥ | manmathaḥ kṣetrapālaḥ | gaganasiddhāntaḥ amṛtakallolanadī | akṣayaṃ nirañjanam | niḥsaṃśaya ṛṣiḥ | nirvāṇo devatā | niṣkulapravṛttiḥ | niṣkevalajñānam ||1-11||
今当宣说《涅槃奥义书》。其宗旨为至上游行者(Paramahaṃsa)——“我即彼”。其出家者为云游托钵的行者;其外相为西方之标志。摩摩他(Manmatha)为田界守护者。其教义如虚空;其河流为甘露之波。其体不坏、无垢清净。尼赫三沙耶(Niḥsaṃśaya)为见者圣仙。涅槃为所奉之神。其行超越家族与血统之系缚。其智为不二之绝对智。
Now we shall expound the Nirvāṇa Upaniṣad. (Its) subject is the Paramahaṃsa—‘I am He’. (Its) renunciants are the wandering mendicants; (its) external mark is the western sign. Manmatha is the guardian of the field. The doctrine is the sky; the river is the nectar with its waves. (It is) imperishable, stainless. Niḥsaṃśaya is the seer. Nirvāṇa is the deity. (Its) activity is without lineage (i.e., beyond family/lineage obligations). (Its) knowledge is non-dual, absolute knowledge.