
本章以对话展开。普罗诃罗陀先列举应当礼敬的对象:伽那那他(Gaṇanātha)、鲁克弥妮及与鲁克弥相关者、圣者杜尔瓦萨(Durvāsā)、克里希纳(Kṛṣṇa)与巴拉婆陀罗(Balabhadra);继而提出衡量功德的原则:诸多善业——具足供施的大祭、修井建池、日日布施牛与土地黄金、配合持咒与禅观的调息(prāṇāyāma)、以及在恒河(Jāhnavī)等大圣地沐浴——都被反复宣说为与一事“果报等同”,即得见天主克里希纳(Devīśa Kṛṣṇa)之圣容(darśana)。 诸仙随后请问:三步遍行者特里维克拉玛(Trivikrama)如何在世间显现?“特里维克拉玛之相”何以与克里希纳相连?并求述杜尔瓦萨的因缘。普罗诃罗陀讲述侏儒化身瓦摩那—特里维克拉玛的事迹:毗湿奴以三步跨越诸界;又因巴利(Bali)的虔敬令其欢喜,遂继续作为巴利的守门者而住。 同时,杜尔瓦萨为求解脱,认定戈摩提河与大海交汇处的轮圣地(Cakratīrtha),却在准备沐浴时遭当地阿修罗(daitya)殴打羞辱。悲恼之下,他感叹誓愿之脆弱,转而投依毗湿奴。入阿修罗王宫时,他见特里维克拉玛立于门槛,哀诉求护,并示其伤痕,引发神威震怒。继而他禀告沐浴受阻,祈请戈文达(Govinda)成就其圣浴(snāna)以圆满行持,并誓言此后仍将依正法游行。
Verse 1
श्रीप्रह्लाद उवाच । पूजयेद्गणनाथं तं रुक्मिणं रुक्मभूषितम् । दुर्वाससं च कृष्णं च बलभद्रं च भक्तितः
圣者普罗诃罗陀说道:“当以虔敬礼拜那位Gaṇanātha,并礼敬金饰庄严的Rukmī;亦当礼敬杜尔瓦萨斯、克里希纳与巴拉婆陀罗。”
Verse 2
यजत्येको महायज्ञैः संपूर्णवरदक्षिणैः । एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
一人以圆满殊胜的祭司供施而行大祭;另一人得以瞻见克里希纳——诸天之主;二者所得功果实为相等。
Verse 3
वापीकूपतडागानि करोत्येकः समाहितः । एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
一人专心建造井、阶井与池塘;另一人得以瞻见克里希纳——诸天之主;二者所得功果实为相等。
Verse 4
गोभूतिलहिरण्यादि ददात्येको दिनेदिने । एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
一人日日布施牛、土地、芝麻、黄金等物;另一人得以瞻见克里希纳——诸天之主;二者所得功果实为相等。
Verse 5
प्राणायामादिसंयुक्तो जपध्यानपरायणः । एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
一人修持以调息(prāṇāyāma)等法,专注持诵(japa)与禅观;另一人得以瞻见克里希纳(Kṛṣṇa),诸天之主——二者所得功德果报,实为等同。
Verse 6
जाह्नव्यादिषु तीर्थेषु सुस्नात्वैकः समाहितः । एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
一人心神安定,于以阇诃那维(Jāhnavī,恒河)为首的诸圣地净浴;另一人得以瞻见克里希纳(Kṛṣṇa),诸天之主——二者所得功德果报,实为等同。
Verse 7
त्रिभिर्विक्रमणैर्येन विक्रांतं भुवनत्रयम् । त्रिविक्रमं च तं दृष्ट्वा मुच्यते पातकत्रयात्
彼以三次雄伟之步遍满三界;瞻礼彼“特里维克拉玛”(Trivikrama)之相者,便得解脱三重罪业之缚。
Verse 8
ऋषय ऊचुः । कथं त्रैविक्रमी मृर्त्तिरागतेयं धरातले । कलान्यासाच्च कृष्णत्वं कदेयं प्राप्तवत्यथ
诸仙人说道:“此特里维克拉玛之形,如何降现于大地之上?又因何种安置或转注神圣分力(kalā-nyāsa),而后得成克里希纳(Kṛṣṇa)之境?”
Verse 9
दैत्य संशयमस्माकं छेत्तुमर्हस्यशेषतः । दुर्वाससश्च कृष्णस्य संभवः कथ्यतामिति
“愿尊者彻底断除我们关于那位阿修罗(Daitya)的疑惑;并请宣说杜尔瓦萨(Durvāsā)与克里希纳(Kṛṣṇa)的缘起本末。”他们如是祈请。
Verse 10
प्रह्लाद उवाच । तच्छ्रूयतां द्विजश्रेष्ठा यथा मूर्त्तिस्त्रिविक्रमी । दुर्वाससा समायुक्ता संभूता धरणीतले
普罗诃罗陀说道:“噢,最上等的婆罗门啊,请听我说:三步神(Trivikrama)之圣相,偕同圣仙杜尔瓦萨(Durvāsā),如何在大地上显现。”
Verse 11
पूर्वं कृतयुगस्यांते बलिना च पुरंदरः । निर्जित्य भ्रंशितः स्थानात्तदर्थं मधुसूदनः
往昔在圆满劫(Kṛta Yuga)将尽之时,因陀罗——破城者——被婆利(Bali)征服,坠落其位;为此缘故,灭摩度者摩度苏达那(Madhusūdana)出而干预。
Verse 12
कश्यपाद्वामनो जज्ञे ततोऽभूच्च त्रिविक्रमः । त्रिभिः क्रमैर्मितांल्लोकानाक्रम्य मधुहा हरिः
由迦叶波(Kaśyapa)而生侏儒化身婆摩那(Vāmana),继而化为三步神特里维克拉玛(Trivikrama)。诛摩度者哈利(Hari)以三步越过那被量定的诸世界。
Verse 13
बलिं चकार भगवान्पातालतलवासि नम् । भक्त्या त्वनन्यया कृष्णो दैत्येन परितोषितः
至福的主(Bhagavān)使婆利成为住于波多罗(Pātāla,地下界)者。然而,克里希纳(Kṛṣṇa)因那位阿修罗(Daitya)专一无二的奉爱而欢喜,对他完全满足。
Verse 14
स्वयं चैवाऽवसत्तत्र भक्त्या क्रीतो हरिस्तदा । अनुग्रहाय भगवान्द्वारपालो बभूव ह
就在彼处,哈利(Hari)亲自停驻,宛如被奉爱所“购得”。为施恩加被,世尊竟成为(婆利的)守门者。
Verse 15
दुर्वासाश्चापि भगवानात्रेयो मुनिसत्तमः । अटंस्तीर्थानि मोक्षार्थं मुक्तिक्षेत्रमचिंतयत्
圣者杜尔瓦萨亦然——阿特里之子、诸牟尼中最胜者——为求解脱而巡游诸圣渡(tīrtha),并在心中观想那赐予解脱的圣域——解脱之地(mukti-kṣetra)。
Verse 16
एवं चितयमानः स ज्ञानदृष्ट्या महामुनिः । गोमत्या संगमो यत्र चक्रतीर्थेन भो द्विजाः
他如是思惟之时,那位大牟尼以智慧之眼(jñāna-dṛṣṭi)观见:戈玛蒂河与恰克拉圣渡(Cakra-tīrtha)汇合之处——噢,婆罗门诸君。
Verse 17
तन्मुक्तिक्षेत्रमाज्ञाय गमनाय मतिं दधे । सोतीत्य नगरग्रामानुद्यानानि वनानि च
得知那是赐予解脱的圣域——解脱之地(mukti-kṣetra),他便立定出行之志。越过城邑村落,穿行园林与森林,他继续前往。
Verse 18
आनर्त्तविषयं प्राप्य दैत्यभूमिं विवेश ह । निःस्वाध्यायवषट्कारां वेदध्वनिविवर्ज्जिताम्
抵达阿那尔塔地区后,他进入了由代提耶(daitya)所统治的土地——那里无有诵习吠陀,无有祭仪中的“vaṣaṭ”呼声,亦听不见吠陀之音。
Verse 19
कुशेन दैत्यराजेन सेवितां पालितां तथा । बहुम्लेच्छ समाकीर्णामधर्मोपार्जकैर्जनैः
那片土地由代提耶之王库沙(Kuśa)所侍奉并统治;其中充斥着众多弥勒叉(mleccha),以及以非正法(adharma)为生的人们。
Verse 20
प्रत्यासन्नामिति ज्ञात्वा चक्रतीर्थमगाद्द्विजः । स्नात्वा च संगमे पुण्ये मोक्ष्येऽहं च कृताह्निकः
他知晓已近在咫尺,婆罗门便前往恰克拉圣渡(Cakratīrtha)。他心念道:“在这神圣汇流处沐浴,完成每日仪轨之后,我必得解脱(mokṣa)。”
Verse 21
इति कृत्वा स नियमं ययौ शीघ्रं मुनिस्तदा । स्नात्वा शीघ्रं प्रयास्यामि दैत्यभूमिं विहाय च
他如此立下誓愿,守持戒律,圣者便疾行而去。他决意道:“沐浴之后,我将迅速离开,舍弃这片阿修罗(daitya)之地。”
Verse 22
इत्येवं चिंतयन्मार्गे शीघ्रमेव जगाम सः । दृष्ट्वा च संगमं पुण्यं गोमत्या सागरस्य च
他一路如此思惟,疾步前行。随即看见戈玛蒂河与大海相会的神圣汇流处。
Verse 23
निधाय वाससी तत्र मृदमालभ्य गोमयम् । शिखां च बद्ध्वा करयोः कृत्वा च नियतः कुशान्
他在那里放下衣物,取土与牛粪以作仪式净化;又束起顶髻(śikhā),以自持之心,将库沙草(kuśa)置于双手,备行仪轨。
Verse 24
यावत्स्नाति च विप्रोऽसौ दृष्टो दैत्यैर्दुरात्मभिः । ब्रुवंतः कोऽयमित्येवं हन्यतांहन्यतामिति
当那婆罗门正在沐浴之时,被心性邪恶的阿修罗(daitya)看见。他们喊道:“此人是谁?”又叫嚷:“杀了他——杀了他!”
Verse 25
अस्माभिः पालिते देशे कः स्नाति मनुजाधमः । ब्रुवंत इति जघ्नुस्ते जानुभिर्मुष्टिभिस्तथा
“在我们守护的国土里,哪个卑贱之人竟敢沐浴?”——他们如此叫嚷,随即以膝以拳猛击他。
Verse 26
ब्राह्मणोऽहं न हंतव्यः श्रुत्वा चाऽतीव पीडितः । तं दृष्ट्वा हन्यमानं तु ब्राह्मणं तैर्दुरात्मभिः
“我是婆罗门,不可杀我!”——他虽如此呼喊,仍遭极重折磨。见那婆罗门被那些恶人殴打……
Verse 27
निवारयामास च तान्रुरुर्नाम महासुरः । जगृहुस्तस्य वस्त्राणि कुशांस्ते चिक्षिपुर्जले
这时名为鲁鲁的大阿修罗制止了他们。那些恶人夺走他的衣裳,又把库沙草抛入水中。
Verse 28
चकर्षुश्चरणौ गृह्य शपंतो दुष्टचेतसः । पदे गृहीत्वा तमृषिं नीत्वा सीम्नि व्यसर्जयन्
那些心怀恶念的人抓住他的双足,一边咒骂一边拖拽。握着那位圣仙(Ṛṣi)的脚,把他带到边境,便将他抛弃。
Verse 29
तं तदा मूर्छितप्रायं दृष्ट्वोचुः कुपिताश्च ते । अत्रागतो यदि पुनर्हनिष्यामो न संशयः । आनर्त्तविषयांस्तान्वै दृष्ट्वा तत्र जलाशयम्
见他当时几近昏厥,他们愤怒地说:“若他再来此地,我们必杀之——毫无疑问。”随后,他望见阿那尔塔之境与那里的水池,便继续前行。
Verse 30
प्राणसंशयमापन्नस्ततश्चिंतापरोऽभवत् । शप्येहं यदि दैतेयांस्तपसः किं व्ययेन मे
陷入性命之危,他满怀忧惧而思:“若我诅咒这些阿修罗族的代提耶,岂不是把我所修的苦行(tapas)耗费在嗔怒之中?又有何益?”
Verse 31
अथवा नियमभ्रष्टस्त्यक्ष्ये चेदं कलेवरम् । मम पक्षं च कः कुर्य्यात्को मे दास्यति जीवितम्
“又或者,若我失守誓戒(vrata),便可能舍弃此身。那时谁还会站在我这一边?谁又能赐我生命?”
Verse 32
चक्रतीर्थे च कः स्नानं कारयिष्यति मामिह । को वा दैत्यगणानेताञ्छक्तो जेतुं महामृधे । तं विना पुण्डरीकाक्षं भक्तानामभयप्रदम्
“而在恰克拉圣渡(Cakratīrtha),谁能使我在此沐浴?又有谁能在大战中战胜这些代提耶的群军——若无莲眼主普恩达利卡克沙(Puṇḍarīkākṣa),那位赐予信众无畏的至尊?”
Verse 33
ब्रह्मादीनां च नेतारं शरणागतवत्सलम् । चक्रहस्तं विना मेद्य कोन्यः शर्म्मप्रदो भवेत्
“若无那位连梵天等诸神亦为之领袖、慈爱护念归依者的主;若无执轮(神轮)之尊,除他之外,谁还能赐我安宁与吉祥?”
Verse 34
इति ध्यात्वा च सुचिरं ज्ञात्वा पातालवासि नम् । आत्रेयो विष्णुशरणं जगाम धरणीतलम्
他如此久长思惟,识得那居于帕塔拉(Pātāla)者;于是阿特雷耶(Ātreya)登上大地之面,归依毗湿奴(Viṣṇu)。
Verse 35
उपवासैः कृशो दीनो भूतलं प्रविवेश ह । स दैत्त्यराजभवनं गन्धर्वाप्सरसावृतम्
他因持斋而形容枯槁、困苦不堪,进入了大地之境。随后他走近阿修罗王的宫殿,四周环绕着乾闼婆与天女阿普萨拉。
Verse 36
शोभितं सुरमुख्येन विष्णुना प्रभविष्णुना । दुर्वासाः प्रविवेशाथ प्रहृष्टेनांतरात्मना
此处因毗湿奴——诸天之首、光辉灿然者——而庄严辉映。于是杜尔瓦萨入内,内心充满欢喜。
Verse 37
दुर्वाससमथायांतं दृष्ट्वा दैत्यपतिस्तदा । प्रत्युत्थायार्हयांचक्रे स्वासने संन्यवेशयत्
见杜尔瓦萨前来,达那婆之主立刻起身迎接,依礼恭敬供奉,并请他坐在自己的宝座上。
Verse 38
मधुपर्कं च गां चैव दत्त्वार्घ्यं पार्श्वतः स्थितः । प्रोवाच प्रणतो ब्रह्मन्कथमत्रागतो भवान्
他献上蜜乳供(madhuparka)、一头母牛与阿尔伽供水(arghya),恭敬地侍立在旁;继而俯首礼拜说道:“婆罗门啊,您如何来到此处?”
Verse 39
सुखोपविष्टः स ऋषिस्तत्रापश्यत्त्रिविक्रमम् । दैत्येन्द्रद्वारदेशे तु तिष्ठन्तमकुतोभयम्
圣者安坐其间,见到三步尊(Trivikrama)在彼处——立于阿修罗王的门前,毫无畏惧。
Verse 40
तं दृष्ट्वा देवदेवेशं श्रीवत्सांकं चतुर्भुजम् । रुरोद स ऋषिश्रेष्ठस्त्राहित्राहीत्युवाच च
见到祂——诸天之主,胸有圣吉祥纹(Śrīvatsa),四臂庄严——那位最胜仙人泣下,呼号道:“救我,救我!”
Verse 41
संसारभयभीतानां दुःखितानां जनार्दन । शत्रुभिः परिभूतानां शरणं भव केशव
噢,阇那尔达那(Janārdana),为惧怕轮回(saṃsāra)之恐怖者,为受苦者,为被仇敌欺压者——求你作归依,噢,凯沙瓦(Keśava)。
Verse 42
मम दुःखाभितप्तस्य शत्रुभिः कर्षितस्य च । पराभूतस्य दीनस्य क्षुधया पीडितस्य च
至于我——为忧苦所灼,被仇敌拖拽折磨,败北而凄苦,又为饥饿所逼迫——
Verse 43
अपूर्णनियमस्याऽथ क्लेशितत्य च दानवैः । ब्रह्मण्यदेव विप्रस्य शरणं भव केशव
而我——戒行未竟,又为达那瓦(Dānava)所苦——噢,护持婆罗门之神(Brahmaṇyadeva),求你作此婆罗门的归依,噢,凯沙瓦(Keśava)。
Verse 44
इत्युक्त्वा दर्शयामास शरीरं दैत्यताडितम् । तद्ब्राह्मणावमानं च दृष्ट्वा चुक्रोध वामनः
说罢,他显出被代提耶(Daitya)殴打的身躯。见婆罗门受此侮辱,伐摩那(Vāmana)勃然大怒。
Verse 45
केनापमानितो ब्रह्मन्नियमः केन खण्डितः । कथयस्व महाभाग धर्मपाले मयि स्थिते
婆罗门啊,是谁侮辱了你的誓言?是谁破坏了它?告诉我,有福之人,正法的守护者在此。
Verse 46
दुर्वासा उवाच । मुक्तितीर्थमहं ज्ञात्वा ज्ञानेन मधुसूदन । चक्रतीर्थं गतः स्नातुं यात्रायां हर्षसंयुतः
多罗婆萨说:“摩图苏达那啊,凭借智慧我知道了解脱圣地(Muktitirtha),于是我满怀喜悦地踏上朝圣之旅,去往轮宝圣地(Cakratirtha)沐浴。”
Verse 47
अकृतस्नान एवाऽहं दृष्टो दैत्यैर्दुरासदैः । गले गृहीतः कृष्णाहं मुष्टिभिस्ताडितस्तथा
我还没来得及沐浴,就被那些难以战胜的阿修罗发现了。黑天啊,他们掐住我的脖子,还用拳头殴打我。
Verse 48
बलाद्गृहीत्वा वासांसि कुशांश्चैवाक्षतैः सह । जले क्षिप्त्वा चरणयोर्गृहीत्वा मां समाकृषन्
他们强行抢走我的衣服,连同吉祥草和未以此祭神的米粒,统统扔进水里;然后抓住我的双脚,把我拖走。
Verse 49
सीमांते मां तु प्रक्षिप्य प्रोचुस्ते दानवाधमाः । हनिष्यामो यदि पुनरागंतासि न संशयः
那些最恶劣的达纳瓦把我扔到边界,说道:“如果你再回来,我们无疑会杀了你。”
Verse 50
स्नातोऽहं चक्रतीर्थे तु करिष्ये भोजनं विभो । तस्मात्स्नापय गोविंद नियमं सफलं कुरु
我已在轮圣池(Cakra-tīrtha)沐浴,至尊啊,随后将进食。因此,哦戈文达,请令我得以沐浴,使我的誓行(niyama)结出功德之果。
Verse 51
तव प्रसादात्स्नात्वाऽहं भुक्त्वा च प्रीतमानसः । प्रतिज्ञां सफलां कृत्वा विचरिष्ये महीमिमाम्
承蒙你的恩典,我将沐浴后怀喜悦之心进食;使我的誓言得以圆满之后,我将再度行走于此大地。