
本章开端,诸仙人请问南海之滨五处神圣渡口(tīrtha)的来历,以及朝礼巡游所能获得的圆满功德。乌格罗室罗婆斯引入一段以童子神库玛罗(Skanda/Kārttikeya)为核心的圣传,强调此五渡口威力殊胜。王者英雄阿周那/法尔古那来到五处圣地,从苦行者处得知人们之所以回避,是因水中有“格罗诃”(grāha)擒拿沐浴者;阿周那却认为求法行德不应为恐惧所阻。于是他入水,尤在娑乌婆陀罗渡口处被格罗诃攫住,但他以大力将其拖出水面。格罗诃随即化为佩饰华美的天女(阿普萨拉),自述她与同伴曾试图扰乱一位婆罗门苦行者的苦修(tapas),因此被诅咒在定期内化作水中格罗诃,唯有被“大丈夫”从水中牵出方得解脱。其后婆罗门开示伦理法则:节制欲望、整肃家道、谨慎言语与行为,以鲜明的道德譬喻对照高下之行。那罗陀作为引导者出现,指示受咒者前往南方五渡口;阿周那依次沐浴,使他们逐一复归本相。结尾处,阿周那沉思发问:为何允许此类障碍存在,强大的护持者又为何未加阻止,引出后续的进一步阐释。
Verse 1
श्रीमुनय ऊचुः । दक्षिणार्णवतीरेषु यानि तीर्थानि पंच च । तानि ब्रूहि विशालाक्ष वर्णयंत्यति तानि च
诸位圣仙说道:“在达克希纳尔那瓦之滨,有五处圣浴之地(tīrtha)。噢,广目者,请为我们宣说它们,并如其所传颂者那样加以描述。”
Verse 2
सर्वतीर्थफलं येषु नारदाद्य वदंति च । तेषां चरितमाहात्म्यं श्रोतुमिच्छामहे वयम्
这些圣地据那罗陀等诸仙所说,能赐予一切朝圣处之功德果报。我们愿聆听它们的圣传与伟大功德。
Verse 3
उग्रश्रवा उवाच । श्रृणुध्वचत्यद्भुतपुण्यसत्कथं कुमारनाथस्य महाप्रभावम् । द्वैपायनो यन्मम चाह पूर्वं हर्षाबुरोमोद्गमचर्चितांगः
乌格罗施罗婆(苏多)说道:“请聆听这奇妙、清净而高贵的圣传,述说库玛罗那他的大威德。往昔,岛生者(毗耶娑)曾对我宣说此事——那时我周身亦因欢喜而起战栗。”
Verse 4
कुमारगीता गाथात्र श्रूयतां मुनिसत्तमाः । या सर्वदेवैर्मुनिभिः पितृभिश्च प्रपूजिता
诸位最胜牟尼,请在此聆听《库玛罗吉塔》(Kumāra-gītā)这部圣歌叙事;它为诸天、诸仙与祖灵(Pitṛ)所尊崇供奉。
Verse 5
मध्वाचारस्तं भतीर्थं यो निषेवेत मानवः । नियतं तस्य वासः स्याद्ब्रह्मलोके यथा मम
凡以持戒之行亲近并奉事彼圣地提尔塔(tīrtha)者,必定得居梵天界(Brahmaloka)——正如我(叙述者)一般。
Verse 6
ब्रह्मलोकाद्विष्णुलोकस्तस्मादपि शिवस्य च । पुत्राप्रियत्वात्तस्यापि गुहलोको महत्तमः
高于梵天界(Brahmaloka)者为毗湿奴界(Viṣṇuloka),更高者为湿婆自有之境。然因湿婆对其子特加怜爱,故宣说古诃界(Guhaloka,古诃/斯坎达之界)最为宏大无上。
Verse 7
अत्राश्चर्यकथा या च फाल्गुनस्य पुरेरिता । नारदेन मुनिश्रेष्ठास्तां वो वक्ष्यामि विस्तरात्
诸位最胜牟尼,我今将为汝等详述那奇妙的法尔古那(Phālguna)故事,此事昔日由那罗陀(Nārada)所宣说。
Verse 8
पुरा निमित्ते कस्मिंश्चित्करीटी मणिकूटतः । समुद्रे दक्षिणेऽभ्यागात्स्नातुं तीर्थानि पंच च
昔日某时,那位戴冠的英雄自摩尼库塔(Maṇikūṭa)启程,来到南方大海,意欲在五处圣地提尔塔(tīrtha)沐浴净身。
Verse 9
वर्जयंति सदा यानि भयात्तीर्थानि तापसाः । कुमारेशस्य पूर्वं च तीर्थमस्ति मुनेः प्रियम्
那些苦行者因畏惧而常常回避的诸圣地(tīrtha)如下:在库玛雷沙(Kumāreśa)之东,有一处为诸牟尼(圣贤)所钟爱的圣地。
Verse 10
स्तंभेशस्य द्वितीयं च सौभद्रस्य मुनेः प्रियम् । बर्करेश्वरमन्यच्च पौलोमीप्रियमुत्तमम्
第二处圣地是斯坦毗耶沙(Stambheśa)之圣地,为圣者娑乌跋陀罗(Saubhadra)所喜爱。另有一处名为巴尔迦雷湿伐罗(Barkareśvara),乃最上圣地,为保罗弥(Paulomī)所钟爱。
Verse 11
चतुर्थं च महाकालं करंधम नृपप्रिययम् । भरद्वाजस्य तीर्थं च सिद्धेशाख्यं हि पंचमम्
第四处是摩诃迦罗(Mahākāla),并有迦兰陀摩(Karaṃdhama),为诸王所爱。第五处是婆罗堕阇(Bharadvāja)之圣地,名为悉地湿(Siddheśa)。
Verse 12
एतानि पंच तीर्थानि ददर्श कुरुपुंगवः । तपस्विभिर्वर्जितानि महापुण्यानि तानि च
库鲁族中的雄杰(Kurupuṅgava)目睹了这五处圣地(tīrtha)——虽为苦行者所避,却皆具大功德。
Verse 13
दृष्ट्वा पार्श्वे नारदीयानपृच्छत महामुनीन् । तीर्थानीमानि रम्याणि प्रभावाद्भुतवंति च
见到近旁有如那罗陀(Nārada)般的诸大圣贤,他便请问道:“这些圣地(tīrtha)何其清妙可爱,其威德之力亦真是不可思议!”
Verse 14
किमर्थं ब्रूत वर्ज्यंते सदैव ब्रह्मवादिभिः । तापसा ऊचुः । ग्राहः पंच वसंत्येषु हरंति च तपोधनान्
“为何请告诉我:为何阐说梵(Brahman)之理者总是避开这些?” 苦行者答曰:“其中住有五条鳄鱼,常夺走那些以苦行为财的修行人。”
Verse 15
अत एतानि वर्ज्यंते तीर्थानि कुरुनंदन । इति श्रुत्वा महाबाहुर्गमनाय मनो दधे
“因此,这些渡口圣地(tīrtha)才被避开啊,俱卢族之欢。” 听罢此言,那位臂力无双者心中决意前往。
Verse 16
ततस्तं तापसाः प्रोचुथंतुं नार्हसि फाल्गुन । बहवो भक्षिता ग्राहै राजानो मुनयस्तथा
于是苦行者对他说:“法尔古那啊,你不该前往。许多国王与牟尼圣者,都已被鳄鱼吞噬。”
Verse 17
तत्त्व द्वारशवर्षाणि तीर्थानामर्बुदेष्वपि । स्नातः किमेतैस्तीर्थैस्ते मा पतंगव्रतो भव
“整整十二年——纵在无量无数的圣地(tīrtha)之中——你已沐浴净身。你还要这些圣地作甚?莫作飞蛾誓者,趋火自投其险。”
Verse 18
अर्जुन उवाच । यदुक्तं करुणासारैः सारं किं तदिहोच्यताम् । धर्मार्थी मनुजो यश्च न स वार्यो महात्मभिः
阿周那说道:“你们以悲悯为本所说的一切,请在此为我宣示其真实精髓。凡求法(Dharma)之人,不当为大心者所阻。”
Verse 19
धर्मकामं हि मनुजं यो वारयति मंदधीः । तदाश्रितस्य जगतो निःश्वासैर्भस्मसाद्भवेत्
诚然,那愚钝之人若阻挠一位志在正法(Dharma)的人——愿他仅凭自身一息,便使依赖于他的世界化为灰烬。
Verse 20
यज्जीवितं चाचिरांशुसमानक्षणभंगुरम् । तच्चेद्धर्मकृते याति यातु दोषोऽस्ति को ननु
生命如日光一线,刹那即碎、极其脆弱;若为正法(Dharma)而耗尽,便让它如此吧,其中又有何过失?
Verse 21
जीवितं च धनं दाराः पुत्राः क्षेत्रगृहाणि च । यान्ति येषआं धर्मकृते त एव भुवि मानवाः
世间唯有此等人方称真丈夫:当正法(Dharma)有所召唤,便能舍弃生命、财物、妻室、子嗣、田地与居宅。
Verse 22
तापसा ऊचुः । एवं ते ब्रुवतः पार्थ दीर्घमायुः प्रवर्धताम् । सदा धर्मे रतिर्भूयाद्याहि स्वं कुरु वांछितम्
诸苦行者说道:“噢,帕尔塔(Pārtha),你既如此言说,愿你寿命增长。愿你恒常乐住于正法(Dharma)。如今去吧——成就你应得的心愿。”
Verse 23
एवमुक्तः प्रणम्यैतानाशीर्भिरभिसंस्तुतः । जगाम तानि तीर्थानि द्रष्टुं भरतसत्तमः
如是受告,婆罗多族中最卓越者向他们顶礼;蒙诸祝福称赞后,他便启程前往瞻礼那些神圣的渡口圣地(tīrtha)。
Verse 24
ततः सौभद्रमासाद्य महर्षेस्तीर्थुमुत्तमम् । विगाह्य तरसा वीरः स्नानं चक्रे परंतपः
随后,焚敌之勇士阿周那抵达苏婆陀罗——大圣仙之至上圣渡口——便迅速入水,行净浴之礼。
Verse 25
अथ तं पुरुषव्याघ्रमंतर्जलचरो महान् । निजग्राह जले ग्राहः कुंतीपुत्रं धनंजयम्
这时,一条潜行水下的强大鳄鱼在河中擒住了那位“人中之虎”——昆蒂之子檀那阇耶。
Verse 26
तमादायैव कौतेयो विस्फुरंतं जलेचरम् । उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः
昆蒂之子以巨臂之力,举起那在水中挣扎的水兽;这位强者中的最强者,凭纯粹的力量挺身而起。
Verse 27
उद्धृतश्चैव तु ग्राहः सोऽर्जुनेन यशस्विना । बभूव नारी कल्याणी सर्वाभरणभूषिता
那鳄鱼被声名显赫的阿周那拖出水面后,竟化作一位吉祥善美的女子,周身佩戴诸般宝饰。
Verse 28
दीप्यमानशिखा विप्रा दिव्यरूपा मनोरमा । तदद्भुतं महद्दृष्ट्वा कुंतीपुत्रो धनंजयः
那女子鬓发炽然如火焰,形貌天妙,妩媚动人。昆蒂之子檀那阇耶见此宏大奇瑞,心中惊叹不已。
Verse 29
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् । का वै त्वमसि कल्याणि कुतो वा जलचारिणी
他心中大喜,对那女子说道:“吉祥的女子啊,你究竟是谁?你从何处而来,竟能在水中行走?”
Verse 30
किमर्थं च महात्पापमिदं कृतवती ह्यसि । नार्युवाच । अप्सरा ह्यस्मि कौतेय देवारण्यनिवासिनी
“你为何犯下这般大罪?”那女子答道:“昆蒂之子啊,我确是一位阿普萨拉(天女),居住在诸神的神林之中。”
Verse 31
इष्टा धनपतेर्नित्यं वर्चानाम महाबल । मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः
“勇力之士啊,我常为财主天(Dhanapati,俱毗罗)所钟爱;我名为瓦尔叉(Varcā)。我另有四位同伴——皆为吉祥之身,且各能随意往来所至。”
Verse 32
ताभिः सार्धं प्रयातास्मि देवराजनिवेशनात् । ततः पश्यामहे सर्वा ब्राह्मणं चानिकेतनम्
“我与她们一同从天帝的宫邸出发。随后我们都看见一位婆罗门——无有定居之所的行者。”
Verse 33
रूपवंतमधीयानमेकमेकांतचारिणम् । तस्य वै तपसा वीर तद्वनं तेजसावृतम्
“他容貌端严,勤修圣学,独居而行于幽静之处。勇士啊,由于他的苦行之力,那片森林被光辉所笼罩。”
Verse 34
आदित्य इव तं देशं कृत्स्नमेवान्व भासयत् । तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम्
如同太阳一般,他照耀了那整个地域。见到如此严峻的苦行与那令人惊叹的形相,真是奇妙可观——
Verse 35
अवतीर्णास्ति तं देशं तपोविघ्नचिकीर्षया । अहं च सौरभेयी च सामेयी बुद्बुदालता
我们降临到那地方,意在破坏他的苦行。我——以及苏罗婆诃伊、娑弥伊与布布达拉塔——
Verse 36
यौगपद्येन तं विप्रमभ्यगच्छाम भारत । गायंत्यो ललमानाश्च लोभयंत्यश्च तं द्विजम्
我们同时走近那位婆罗门,噢,婆罗多——一边歌唱嬉戏,一边试图诱惑那位“二生者”。
Verse 37
स च नास्मासु कृतवान्मनोवीरः कथंचन । नाकंपत महातेजाः स्थितस्तपसि निर्मले
然而那位心志如勇士者对我们毫不在意。那大光辉者不曾动摇,安住于清净的苦行之中。
Verse 38
सोऽशपत्कुपितोऽस्मासु ब्राह्मणः क्षत्रियर्षभ । ग्राहभूता जले यूयं भविष्यथ शतं समाः
噢,刹帝利中的雄牛,那位婆罗门对我们震怒而诅咒道:“在水中,你们将化为鳄鱼之灵,并如此停留一百年。”
Verse 39
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम । आयाताः शरणं विप्रं तपोधनमकल्मषम्
于是我们众人——心神大为震惶——噢,婆罗多族中最胜者,前来投依那位婆罗门;他是苦行之宝,清净无罪。
Verse 40
रूपेण वयसा चैव कंदर्पेण च दर्पिताः । अयुक्तं कृतवत्यः स्म क्षंतुमर्हसि नो द्विज
我们因姿容、青春与欲望之傲而自满,遂行不当之事。噢,二次生者(婆罗门)啊,愿你垂赦于我们。
Verse 41
एष एव वधोऽस्माकं स पर्याप्तस्तपोधन । यद्वयं शंसितात्मानं प्रलोब्धुं त्वामुपागताः
此事本身便足为我们的惩罚,噢,苦行之宝:我们竟走近你这无瑕之灵,只为诱惑试探你。
Verse 42
अवध्याश्च स्त्रियः सृष्टा मन्यंते धर्मचिंतकाः । तस्माद्धर्मेण धर्मज्ञ एष वादो मनीषिणाम्
思惟法(dharma)者认为:女子被造为不可杀害。故而,噢,通达法者,此乃智者之合理论断——以法行法,令法依于法。
Verse 43
शरणं च प्रपन्नानां शिष्टाः कुर्वंति पालनम् । शरण्यं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षंतुमर्हसि
守正之人必护持来投依者。我们已投依于你——赐予庇护者——因此愿你垂赦。
Verse 44
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् । प्रसादं कृतवाञ्छूररविसोमसमप्रभः
如是被劝告后,那位具法之婆罗门、行吉祥善业者,遂生慈悦而赐恩;其光辉如日月并照,具足英雄般的威耀。
Verse 45
ब्राह्मण उवाच । भवतीनां चरित्रेण परिमुह्यामि चेतसि । अहो धार्ष्ट्यमहो मोहो यत्पापाय प्रवर्तनम्
婆罗门说道:“你们的行径令我心神迷乱。唉,何等放肆!唉,何等痴迷!竟使人趋向罪业!”
Verse 46
मस्त कस्थायिनं मृत्युं यदि पश्येदयं जनः । आहारोऽपि न रोचेत किमुताकार्यकारिता
若有人见死亡立于自己头顶,连饮食都不觉可口;更何况还会去作非义之事呢?
Verse 47
आहो मानुष्यकं जन्म सर्वजन्मसु दुर्लभम् । तृणवत्क्रियते कैश्चिद्योषिन्मूढैर्दुराधरैः
唉,人身于诸生之中最为难得;然而有些女子愚迷难制,却将此身轻贱如一叶草芒。
Verse 48
तान्वयं समपृच्छामो जनिर्वः किंनिमित्ततः । को वा लाभो विचार्यैतन्मनासा सह प्रोच्यताम्
我们直问你们:此见解因何在你们心中生起?请于心内细细思量,然后告知我们——其中究竟有何利益?
Verse 49
न चैताः परिनिन्दामो जनिर्यार्भ्यः प्रवर्तते । केवलं तान्विनिंदामो ये च तासु निरर्गलाः
我们并不谴责这些女子,因为她们的行止出自其本性与养育。我们只责备那些对她们放纵无度、毫无节制之人。
Verse 50
यतः पद्मभुवा सृष्टं मिथुनं विश्ववृद्धये । तत्तथा परिपाल्यं वै नात्र दोषोऽस्ति कश्चन
既然莲华所生者(梵天)为令世界增盛而造就男女之对,当如其旨意而护持;此中实无过失。
Verse 51
या बांधवैः प्रदत्ता स्याद्वह्निद्विजसमागमे । गार्हस्थ्यपालनं धन्यं तया साकं हि सर्वदम्
若女子由亲族在圣火与二次生者之前交付为妻,与她共守家居之法实为吉祥;因有如此贤妻,家道便成赐予一切兴盛之源。
Verse 52
यथाप्रकृति पुंयोमो यत्नेनापि परस्परम् । साध्यामानो गुणाय स्यादगुणायाप्यसाधितः
依各自本性,男子与女子纵然彼此用心;若能加以陶冶引导,便可成为德行之因;若不善导正,亦可成为过失之因。
Verse 53
एवं यत्नात्साध्यमानं स्वकं गार्हस्थ्यमुत्तमम् । गुणाय महते भूयादगुणायाप्यसाधितम्
是故,自身殊胜的家居之道,若以勤勉谨慎而培育,便成为广大德行之源;若任其荒废不加修治,亦将成为罪过之源。
Verse 54
पुरे पंचमुखे द्वाःस्थ एकादशभटैर्युतः । साकं नार्या बह्वपत्यः स कथं स्यादचेतनः
在般遮目迦城中,有一位守门人,随侍十一名卫士,又与妻子及众多子女同住——如此之人,怎会无知无责、失却分寸?
Verse 55
यश्चस्त्रिया समायोगः पंचयज्ञादिकर्मभिः । विश्वोपकृतये सृष्टा मूढैर्हा साध्यतेऽन्यथा
与妻相合——并连同以五大祭祀为首的诸般义务——本为利益世间而设;奈何迷妄之人,却以乖曲之道去追逐它。
Verse 56
अहो श्रृणुध्वं नो चेद्वः शुश्रूषा जायते शुभा । तथापि बाहुमुद्धृत्य रोरूयामः श्रृणोति कः
啊——请听!若你们心中不生起善愿来听从我们的话,即便如此,我们也将举臂高呼、放声哀号;然而究竟有谁会听呢?
Verse 57
षड्धातुसारं तद्वीर्यं समानं परिहाय च । विनिक्षेपे कुयोनौ तु तस्येदं प्रोक्तवान्यमः
彼精液乃六种成分之精髓,其势力本同;然若投置于不堪之胎,阎摩便就行此事者宣说了如下之语。
Verse 58
प्रथमं चौषधीद्रोग्धा आत्मद्रोग्धा ततः पुनः । पितृद्रोग्धा विश्वद्रोग्धा यात्यंधं शाश्वतीः समाः
先是背弃疗愈药草者;继而背弃自身者;再者背弃祖灵者;最后背弃整个世界者。此人将堕入令人失明的黑暗,历经无尽岁月。
Verse 59
मनुष्यं पितरो देवा मुनयो मानवास्तथा । भृतानि चोपजीवंति तदर्थं नियतो भवेत्
祖灵、诸天、圣贤、他人以及一切依赖者,皆因一人之扶持而得以存活;故当为彼等而自律而行,怀持正志。
Verse 60
वचसा मनसा चैव जिह्वया करश्रोत्रकैः । दांतमाहुर्हि सत्तीर्थं काकतीर्थमतः परम्
以言语、以心念、以舌、以手与耳而自持者,实被宣说为真正的圣渡口(sat-tīrtha)。除此之外,不过是“乌鸦之渡”(kāka-tīrtha),卑下而不净的归依处。
Verse 61
काकप्राये नरे यस्मिन्रमंते तामसा जनाः । हंसोऽयमिति देवानां कोऽर्थस्तेन विचिंत्यताम्
若昏暗之性(tāmasa)之人喜悦于一位“如乌鸦者”,诸天又何必将他思量为“天鹅”呢?当自省而深思。
Verse 62
एवंविधं हि विश्वस्य निर्माणं स्मरतोहृदि । अपि कृते त्रिलोक्याश्च कथं पापे रमेन्मनः
心中忆念此宇宙奇妙之造化——乃至三界——其心又怎会乐于罪业?
Verse 63
तदिदं चान्यमर्त्यानां शास्त्रदृष्टमहो स्त्रियः । यमलोके मया दृष्टं मुह्ये प्रत्यक्षतः कथम्
此事诚然,别的凡人唯从圣典而知——诸位夫人啊!然我已在阎摩之界亲见;既然如今亲现于前,我又怎会迷惘?
Verse 64
भवतीषु च कः कोपो ये यदर्थे हि निर्मिताः । ते तमर्थं प्रकुर्वंति सत्यमस्तुभमेव च
既然众生皆依其被造之本意而行,对你们又何来嗔怒?他们只是成就那一目的——愿此被承认为真实,确然如此。
Verse 65
शतं सहस्रं विश्वं च सर्वमक्षय वाचकम् । परिमाणं शतं त्वेव नैतदक्षय्यवाचकम्
“一百”“一千”以及“整个宇宙”等说法,都可用来指称无尽无竭;但“百”若作为可度量的定数而言,便不是指无尽之词。
Verse 66
यदा च वो ग्राहभूता गृह्णतीः पुरुषाञ्जले । उत्कर्षति जलात्कश्चित्स्थले पुरुषसत्तमः
而当有一位卓越之士立于干地,从水中拉出那些被你们——如同攫人的鳄鱼——所紧紧擒住的男子之时……
Verse 67
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ । अनृतं नोक्तपूर्वं मे हसतापि कदाचन । कल्याणस्य सुपृक्तस्य शुद्धिस्तद्वद्वरा हि वः
那时你们众人将再度复得自身真实之形。我从未说过虚妄——纵使戏言,也从无一次。因为吉祥之事若调和得当,清净便随之而生;故此,确是你们最善的归宿。
Verse 68
नार्युवाच । ततोभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम्
女子说道:“于是她恭敬礼拜那位婆罗门,并且又绕行其右(作右绕礼,pradakṣiṇā)。”
Verse 69
अचिंतयामापसृत्य तस्माद्देशात्सुदुःखिताः । क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्
我们从那地方退去,满怀悲苦,心中思量:“在这短暂时日里,我们众人究竟到哪里才能寻得那位男子?”
Verse 70
समागच्छेम यो नः स्वं रूपमापादयेत्पुनः । ता वयं चिंतयित्वेह मुहूर्तादिव भारत
“——好使我们得以与他相会;唯有他能使我们恢复本来的形相。”于是我们在此思惟,仿佛只过了一瞬,噢,婆罗多。
Verse 71
दृष्टवत्यो महाभागं देवर्षिमथ नारदम् । सर्वा दृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्
随后我们见到大有福德的天仙圣者那罗陀。见到这位光辉无量的天界圣贤,我们众人都凝目注视着他。
Verse 72
अभिवाद्य च तं पार्थ स्थिताः स्मो व्यथिताननाः । स नोऽपृच्छद्दृःखमूलमुक्तवत्यो वयं च तम्
我们向他顶礼致敬,噢,帕尔塔,便面带哀伤站在那里。他询问我们忧苦的根由,我们也如实告知了他。
Verse 73
श्रुत्वा तच्च यथातत्त्वमिदं वचनमब्रवीत् । दक्षिणे सागरेऽनूपे पंच तीर्थानि संतिवै
他如实听罢,便说道:“在南方海滨、清美的沿海之地,确有五处圣地——五个 tīrtha(渡口圣境)。”
Verse 74
पुण्यानि रमणीयानि तानि गच्छत मा चिरम् । तत्रस्थाः पुरुषव्याघ्रः पांडवो वो धनंजयः
那些地方既神圣又悦人——切莫迟延,速往彼处。彼处住着你们的般度族勇士檀那阇耶,乃人中之虎。
Verse 75
मोक्षयिष्यति शुद्धात्मा दुःखा दस्मान्न संशयः । तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः
那位清净之心者必将使我们脱离苦难——对此毫无疑虑。听闻他的话语,哦勇士,我们众人便来到此处投奔于他。
Verse 76
त्वमिदं सत्यवचनं कर्तुमर्हसि पांडव । त्वद्विधानां हि साधूनां जन्म दीनोपकारकम्
哦般度之子,你当使这句真实之言成为事实。因为如你这般贤善之人的降生,正是为扶持无依无助之众。
Verse 77
श्रुत्वेति वचनं तस्याः सस्नौ तीर्थेष्वनुक्रमात् । ग्राहभूताश्चोज्जहार यथापूर्वाः स पांडवः
听了她的话,那位般度族英雄便依次在诸圣地(tīrtha)沐浴净身;又将被“伽罗诃”(grāha)之灵所攫住者拔除其缠缚,使其复归旧态。
Verse 78
ततः प्रणम्य ता वीरं प्रोच्यमाना जयाशिषः । गंतुं कृताभिलाषाश्च प्राह पार्थो धनंजयः
随后,他向那些英雄致敬顶礼,领受胜利的祝福。帕尔塔·檀那阇耶既已坚定启程之志,便开口说道。
Verse 79
एष मे हृदि संदेहः सुदृढः परिवर्तते । कस्माद्वोनारदमुनिरनुजज्ञे प्रवासितुम्
此疑坚固而不息,在我心中回旋:为何圣贤那罗陀竟准许你离去而游行四方?
Verse 80
सर्वः कोऽप्यतिहीनोऽपि स्वपूज्यस्यार्थसाधकः । स्वपूज्यतीर्थेष्वावासं प्रोक्तवान्नारदः कथम्
凡人纵使极其乏力,也能成就其所礼敬神祇之旨意。既如此,那罗陀又怎会吩咐你住在你所奉事之神的诸圣地(tīrtha)之中?
Verse 81
तथैव नवदुर्गासु सतीष्वतिबलासु च । सिद्धेशे सिद्धगणपे चापि वोऽत्र स्थितिः कथम्
同样,在九位杜尔迦女神与大力的萨蒂众前——乃至在悉地湿与悉地伽那帕之前——你又如何能安然停留于此?
Verse 82
एकैक एषां शक्तो हि अपि देवान्निवारितुम् । तीर्थसंरोधकारिण्यः सर्वा नावारयत्कथम्
她们每一位都足以制止诸天。既然众皆能封阻通往圣地(tīrtha)之路,为何却未拦住你?
Verse 83
इति चिंतयते मह्यं भृशं दोलायते मनः । महन्मे कौतुकं जातं सत्यं वा वक्तुमर्हथ
我如此思量,心神大为摇荡;我生起极大的好奇——请为我道出真实。
Verse 84
अप्सरस ऊचुः । योग्यं पृच्छसि कौन्तेय पुनः पश्योत्तरां दिशम्
天女阿普萨罗说道:“昆蒂之子啊,你所问甚为相宜。请再向北方望去。”