
萨那特库玛罗传授供奉圣哈奴曼的专门燃灯仪轨(dīpa-dāna / nitya-dīpa),并揭示其“内在秘义”(rahasya)。本章如同仪式手册:规定灯器与用油的度量;将特定油类、谷物、面粉、颜色与香料对应于不同的祈用(prayoga),以求富饶、摄受、除病,以及 uccāṭana、vidveṣa、māraṇa、远行者归来等。又详述古代度量衡(pala、prasṛta、kuḍava、prastha、āḍhaka、droṇa、khārī)、灯芯股数与颜色,并说明用油与研磨、和面之规。继而指出合宜的行仪处(哈奴曼像前、湿婆庙、十字路口、行星/灵类之地;水晶 liṅga 与 śālagrāma),以及图式供养(六角形、八瓣莲;ṣaḍaṅga 安置;以 Vasu-lotus 供奉要紧的 vānara)。并讲述咒语运用(kavaca、mālā-mantra、十二音节 vidyā、太阳音节)。文中给出两段较长的护身与战斗用法,随后说明二十六音节 tattva-jñāna 咒的特征(ṛṣi Vasiṣṭha;anuṣṭubh)与驱逐 graha/灵类的武器咒(ṛṣi Brahmā;gāyatrī),最后以保密与弟子资格之规作结。
Verse 1
सनत्कुमार उवाच । अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः । यस्य विज्ञानमात्रेण सिद्धो भवति साधकः ॥ १ ॥
善达库玛罗说道:现在我将宣说哈奴曼之灯供仪轨,并连同其中的内秘;仅凭领悟此法,修行者便得成就。
Verse 2
दीपपात्रप्रमाणं च तैलमानं क्रमेण तु । द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात् ॥ २ ॥
应依次说明:先是灯盏器皿的适当尺寸,其次是油量,再者是其他供品材料的分量;这些度量当按次第有序陈述。
Verse 3
स्थानभेदं च मंत्रं च दीपदानमनुं पृथक् । पुष्पवासिततैलेन सर्वकामप्रदं मतम् ॥ ३ ॥
关于行仪之处的差别、所诵真言,以及灯供的具体规矩,应各自分别说明;然而传统认为,以花香熏染之油供灯,能赐予一切所愿之成就。
Verse 4
तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति । अतसीतैलमुद्दिष्टं वश्यकर्मणि निश्चितम् ॥ ४ ॥
芝麻油被规定用于求得吉祥富足,并用于促使远行之人归来;而亚麻籽油(linseed)则被特别指出,并被认定在摄引、招致之法事(vaśya-karman)中确有功效。
Verse 5
सार्षापं रोगनाशाय कथितं कर्मकोविदैः । मारणे राजिकोत्थं वा विभीतकसमुद्भवम् ॥ ५ ॥
精通仪轨者宣说:以芥子所制之法可除诸病;而于毁灭之行(māraṇa)则称当用黑芥所出之物,或取自毗毗多迦树(bibhītaka)者。
Verse 6
उच्चाटने करजोत्थं विद्वेषे मधुवृक्षजम् । अलाभे सर्वतैलानां तिलजं तैलमुत्तमम् ॥ ६ ॥
于驱逐之法(uccāṭana),当用迦罗阇树(karaja)所出之油;于起怨之法(vidveṣa),当用蜜树(madhu)所生之油。若诸油难得,则芝麻油被宣为诸油之最胜。
Verse 7
गोधूमाश्च तिला माषा मुद्गा वै तंडुलाः क्रमात् । पंचधान्यमिदं प्रोक्तं नित्यदीपं तु मारुतेः ॥ ७ ॥
小麦、芝麻、黑豆(māṣa)、绿豆(mudga)与稻米,依次而列,称为“五谷”;并且(此供品)被说用于维持马鲁提(哈奴曼)之常明灯。
Verse 8
पंचधान्यसमुद्भूतं पिष्टमात्रं सुशोभनम् । सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके ॥ ८ ॥
以五谷所成之粉,仅以其粉制灯,复雕饰端严者,于施灯之仪(dīpadāna)中,恒常被宣说能赐予一切所愿。
Verse 9
वश्ये तडुलपिष्टोत्थं मारणे माषपिष्टजम् । उञ्चाटने कृष्णतिलपिष्टजं च प्रकीर्तितम् ॥ ९ ॥
于摄伏之法(vaśya),当用米粉所成;于毁灭之法(māraṇa),当用黑豆粉所成;于驱逐之法(uñcāṭana),当用黑芝麻粉所成——如是宣说。
Verse 10
पथिकागमने प्रोक्तं गोधूमोत्थं सतंडुलम् । मोहने त्वाढकीजात विद्वेषे च कुलत्थजम् ॥ १० ॥
为使旅人迅速来到面前之仪轨,经典规定当用由小麦制备的米粒。为迷惑、惑恋之仪轨,当用由āḍhakī所生之谷粒;为挑起怨憎之仪轨,当用由kulattha所生之谷粒。
Verse 11
संग्रामे केवला माषाः प्रोक्ता दीपस्य पात्रके । संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम् ॥ ११ ॥
临战之时,经典规定唯以māṣa(黑豆)作灯之器皿或支座。于saṃdhyā(晨昏交界)之际,当用名为tripiṣṭaja之制品;为求吉祥富饶、承受女神Lakṣmī之恩,当用以麝香(kastūrikā)所制之物。
Verse 12
एलालवंगकर्पूरमृगनाभिसमुद्भवम् । कन्याप्राप्त्यै तथा राजवंश्ये सख्ये तथैव च ॥ १२ ॥
豆蔻、丁香、龙脑与麝香——皆为清净芬芳之物——经典规定用以求得新娘、结盟王族之系,亦复用以赢得友谊。
Verse 13
अलाभे सर्ववस्तूनां पंचधान्यं वरं स्मृतम् । अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम् ॥ १३ ॥
若诸物皆不可得,则以五谷(pañcadhānya)为供,宣说为最胜之代。少量谓八把;丰足之量则为其八倍。
Verse 14
पुष्कलानां चतुर्णां च ह्याढकः परिकीर्तितः । चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम् ॥ १४ ॥
四个puṣkalā宣说为一āḍhaka;四个āḍhaka为一droṇa;而一khārī由四个droṇa组成。
Verse 15
खारीचतुष्टय प्रस्थसंज्ञा च परिकीर्तिता । अथवान्यप्रकारेण मानमत्र निगद्यते ॥ १५ ॥
又宣说:四个 khārī 的合量亦称为“prastha”。或者,此处另以他法陈述度量之制。
Verse 16
पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थस्तैश्चतुर्भिस्तथाढकः ॥ १६ ॥
二个 pala 称为一“prasṛta”,其倍量称为“kuḍava”。四个 kuḍava 为一“prastha”,四个 prastha 同样为一“āḍhaka”。
Verse 17
चतुराढको भवेद्द्रोणःऋ खारी द्रोणचतुष्टयम् । क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसंभवे ॥ १७ ॥
四个 āḍhaka 为一 droṇa;一 khārī 由四 droṇa 组成。诸度量当依此次第了知,并与六种仪式行持所用之器皿(pātra)相应。
Verse 18
पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम् । सौगंधे नैव मानं स्यात्तद्यथारुचि संमतम् ॥ १८ ॥
其度量依次为五、七、九。然而于香料芬芳之物,并无定量;随其所喜而为,亦所许可。
Verse 19
नित्यपात्रे तु तैलानां नियमो वार्तिकोद्भवः । सोमवारे गृहीत्वातद्ध्वान्यं तोयप्लुतं धरेत् ॥ १९ ॥
至于置于日常器皿中的诸油,其规矩出自世间行用之常法。于星期一取用之后,当以水洒净,并加以覆护而安置。
Verse 20
पश्चात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम् । तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिंडितम् ॥ २० ॥
随后,应依量度之法而知:研磨之事当由处女之手为之。其糊置于净器中,再以河水揉捏成团。
Verse 21
दीपपात्रं ततः कुर्याच्छुद्धः प्रयतमानसः । दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत् ॥ २१ ॥
其后,行者既已净身,心意专一,当备灯器。于灯器中点燃灯焰之时,应诵摩鲁提(哈奴曼)之护身甲咒(kavaca)。
Verse 22
शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत् । मालामनूनां ये वर्णाः साध्यनामसमन्विताः ॥ २२ ॥
将其如法安置于净地之上,便在地上点燃明灯。花鬘真言(mālā-mantra)之诸字母(varṇa),与所求之萨迪亚(sādhya,所礼之神或所愿之果)之名相连,用于此仪。
Verse 23
वर्तिकायां प्रकर्त्तव्यास्तंतवस्तत्प्रमाणकाः । तत्त्रिंशांशेन वा ग्राह्या गुरुकार्येऽखिलाढ्यता ॥ २३ ॥
于量绳(vartikā)之中,应依彼规定之尺度备办诸线;或取其三十分之一亦可。若为大事大作,则材料与尺度皆须具足无缺。
Verse 24
कूटतुल्याः स्मृता नित्ये सामान्येऽथ विशेषके । रुद्राः कूटगणाः प्रोक्ता न पात्रे नियमो मतः ॥ २४ ॥
于常行之仪(nitya)以及一般与特别之行持中,恒被忆念为“与一团一堆(kūṭa)等同”。诸鲁陀罗(Rudra)被说为属“kūṭa之群”;而在此事上,关于受者(pātra)并无一定之限制。
Verse 25
एकविंशतिसंख्याकास्तन्तवोऽथाध्वनि स्मृताः । रक्तसूत्रं हनुमतो दीपदाने प्रकीर्तितम् ॥ २५ ॥
在仪轨之道(adhvan)上,诸线据说共有二十一股。于供灯(dīpa-dāna)之时,亦规定系以红线,以与哈奴曼(Hanumān)相应。
Verse 26
कृष्णमुञ्चाटने द्वेषेऽरुणं मारणकर्मणि । कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम् ॥ २६ ॥
用于驱逐之仪(muncāṭana)当用黑色之物;由怨憎而起之事当用红色;而为毁灭之作法,亦用所规定之红色。其油量以一帕拉(pala)计,重量等同一库塔(kūṭa),被称为灵验,并具吉祥之德,适用于重大要务。
Verse 27
नित्ये पंचपलं प्रोक्तमथवा मानसी रुचिः ॥ २७ ॥
于日常恒常之行,规定用量为五帕拉(pala);或亦可随心中所起之意乐,即依自身内在之力,以纯心作供与修持。
Verse 28
हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम् । शिवालयेऽथवा कुर्यान्नित्यनैमित्तिके स्थले ॥ २८ ॥
当于哈奴曼(Hanumān)圣像之前供灯;或亦可在湿婆(Śiva)神庙中,于适合日常与随时仪轨之处而行之。
Verse 29
विशेषोऽस्त्यत्र यः कश्चिन्मारुते रुच्यते मया ॥ २९ ॥
于此,关于摩鲁多(Māruta)之风的教义,确有一处别义,尤为我所喜悦。
Verse 30
प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च । चतुष्पथे तथा प्रोक्तं षट्सु दीपप्रदापनम् ॥ ३० ॥
当以欢喜心在神圣圣像前供灯,也应在与诸行星(graha)及诸灵类(bhūta)相关之处供灯;同样,在十字路口亦被规定供灯——如是,供灯之法被教示于这六种处所。
Verse 31
सन्निधौ स्फाटिके लिंगे शालग्रामस्य सन्निधौ । नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः ॥ ३१ ॥
在水晶林伽(sphāṭika-liṅga)之前,以及在圣石舍利格罗摩(Śālagrāma)之前,应当供灯;此为哈奴曼所宣说,能赐予兴盛福泽,并得种种安乐受用。
Verse 32
गणेशसन्निधौ विघ्नमहासंकटनाशने । विषव्याधिभये घोरे हनुमत्सन्निधौ स्मृतम् ॥ ३२ ॥
在象头神伽内沙之前,应忆念其能摧破障碍与大厄;而当因毒害与疾病而生可怖之惧时,当忆念哈奴曼的护佑圣临。
Verse 33
दुर्गायाः सन्निधौ प्रोक्तं संग्रामे दीपदापनम् । चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च ॥ ३३ ॥
在女神杜尔迦之前,已宣说应当供灯;同样,在战阵之时、在十字路口、为除病患、亦为破除恶眼邪视,都被教令行供灯之礼。
Verse 34
राजद्वारे बंधमुक्तौ कारागारेऽथवा मतम् । अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये ॥ ३४ ॥
在王门之前供灯,被规定能得解脱束缚;在牢狱之中亦被认为同样有效。而在阿湿婆他树或榕树之根下供灯,则令一切所作事业皆得成就。
Verse 35
वश्ये भये विवादे च वेश्मसंग्रामसंकटे । द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा ॥ ३५ ॥
在使人屈服之法、在恐惧与争讼之时;在家宅与战斗所生之危难中;在赌博、令他人目光凝滞之术、播下怨憎之行,以及同样在毁灭性的“玛拉那”(māraṇa)作法中——皆可施用此法。
Verse 36
मृतकोत्थापने चैव प्रतिमाचालने तथा । विषे व्याधौ ज्वरे भूतग्रहे क्रृत्याविमोचने ॥ ३६ ॥
同样,(这些咒法仪轨)也用于使死者复苏、令神像移动;并用于中毒、疾病、热病、鬼神附体之时,以及解除敌对咒术“克里提亚”(kr̥tyā)之缚。
Verse 37
क्षतग्रंथौ महारण्ये दुर्गेव्याघ्ने च दंतिनि । क्रूरसत्त्वेषु सर्वेषु शश्वदूंधविमोक्षणे ॥ ३७ ॥
在受伤或肿结破裂之时;在广袤大林之中;在险难之地;当遭遇猛虎或长牙之象;在一切凶猛生灵之间;以及为恒常脱离危厄——应当施行/诵持此法。
Verse 38
पथिकागमने चैव दुःस्थाने राजमोहने । आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम् ॥ ३८ ॥
经中教示:(这些征兆/指示)当旅人到来之时、在不祥或困厄之处、在关乎国王迷惑之事上,以及在出入之际——尤其在王门之前——都应加以考察。
Verse 39
दीपदानं हनुमतो नात्र कार्या विचारणा ॥ ३९ ॥
至于向哈奴曼供奉明灯——对此无需再作思量;必当奉行。
Verse 40
रुद्रैकविंशपिंडांश्च त्रिधा मंडलमानकम् । लघुमानं स्मृतं पंच सप्त वा नव वा तथा ॥ ४० ॥
二十一枚“鲁陀罗”团丸(piṇḍa)合为一“曼荼罗”之量,并以三分之法而定。“轻量”(laghu)亦被传记为由五个——或七个,或九个——此类单位组成。
Verse 41
क्षीरेण नवनूतेन दध्ना वा गोमयेन च । प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने ॥ ४१ ॥
经教示:为向摩鲁提(哈奴曼)奉献明灯,可用牛乳、鲜酥(新黄油)、凝乳,乃至牛粪,塑作圣像(pratimā)。
Verse 42
दक्षिणाभिमुखं वीरं कृत्वा केसरिविक्रमम् ॥ ४२ ॥
令那位英雄面向南方,并使其威猛如狮,勇力赫然。
Verse 43
ऋक्षविन्यस्तपादं च किरीटेन विराजितम् । लिखेद्भित्तौ पटे वापि पीठे वा मारुतेः शुभे ॥ ४३ ॥
应描绘吉祥的摩鲁提(哈奴曼):双足踏于熊上,头戴宝冠而光辉灿然;可画于墙上、布上,或画在清净的座台/祭坛之上。
Verse 44
मालामंत्रेण दातव्यं दीपदानं हनूमतः । नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया ॥ ४४ ॥
为哈奴曼献灯,应以念珠之咒(mālā-mantra)而行;并当以十二音圣明(dvādaśākṣara-vidyā)建立常明不灭之灯。
Verse 45
विशेषस्तत्र यस्तं वै दीपदानेऽवधारय । षष्ट्यादौ च द्वितीयादाविमं दीपमितीरयेत् ॥ ४५ ॥
当明了在此处供灯之法所特有的规矩。于朔月第六日(Ṣaṣṭī)之初,亦于第二日(Dvitīyā)之初,当依仪轨奉献此灯。
Verse 46
गृहाणेति पदं पश्चाच्छेषं पूर्ववदुच्चरेत् । कूटादौ नित्यदीपे च मंत्रं सूर्याक्षरं वदेत् ॥ ४६ ॥
随后当诵“gṛhāṇa”(请受纳)一词,再如前所说诵其余部分。于起首之处(kūṭa)及常燃之灯前,应宣说由“日”之音节所成的真言。
Verse 47
तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत् । गोमयेनोपलिप्तायां भूमौ तद्गतमानसः ॥ ४७ ॥
于彼处,应以名为“Mālā(花鬘)”之咒,令诸相应仪轨各各成办。端坐于以牛粪涂抹之地,令其心神专注于此仪与其所礼敬之神。
Verse 48
षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितम् । कमलं च लिखेद्भद्रं तत्र दीपं निधापयेत् ॥ ४८ ॥
于地上当画六角形,并画“八瓣”(vāsupatra)之形,配以引导线。继而于其上绘吉祥莲华,并将灯安置于此图之中。
Verse 49
शैवे वा वैष्णवे पीठे पूजयेदंजनासुतम् । कूटषट्कं च षट्कोणे अंतराले परलिखेत् ॥ ४९ ॥
于湿婆派或毗湿奴派之坛座上,当礼敬阿阇那之子(哈奴曼)。并于六角形之内,在诸间隙处亦当绘“kūṭa-ṣaṭka”,即六个峰顶之形。
Verse 50
षट्कोणेषु षडंगानि बीजयुक्तानि संलिखेत् । सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम् ॥ ५० ॥
于六角坛图的六个角上,应书写六支(ṣaḍ-aṅga),各各配以其种子音节(bīja)。于中央当书吉祥之咒/形;并在彼处如法供奉后,再礼敬摩鲁提(哈奴曼)。
Verse 51
षट्कोणेषु षडंगानि नामानि च पुरोक्तवत् । वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः ॥ ५१ ॥
于坛图六角之处,应如前所说安置六支(ṣaḍ-aṅga)及其名号。于诸婆苏(Vasu)之八瓣莲上,当依次礼拜此八位“猿众”(Vānara)。
Verse 52
सुग्रीवायांगदायाथ सुषेणाय नलाय च । नीलायाथो जांबवते प्रहस्ताय तथैव च ॥ ५२ ॥
当供奉苏格利瓦(Sugrīva)与安伽陀(Aṅgada),亦供奉苏舍那(Suṣeṇa)与那罗(Nala);又供奉尼罗(Nīla)、贾姆巴梵(Jāmbavān),并同样供奉普罗诃斯塔(Prahasta)。
Verse 53
सुवेषाय ततः पश्चाद्यजेत्षडंगदेवताः । आदावंजनापुत्राय ततश्च रुद्रमूर्तये ॥ ५३ ॥
继而供奉苏韦沙(Suveṣa)之后,当礼拜六辅支(ṣaḍaṅga)之诸神。先供奉阿阇那之子(Añjanā-putra),继而供奉具鲁陀罗(Rudra)之形者。
Verse 54
ततो वायुसुतायाथ जानकीजीवनाय च । रामदूताय ब्रह्मास्त्रनिवारणाय तत्परम् ॥ ५४ ॥
继而供奉风神之子——哈奴曼(Vāyu-suta)——他乃阇那姬(Jānakī)之生命,罗摩(Rāma)之使者,恒常专注于抵御梵天神箭(Brahmāstra)。
Verse 55
पंचोपचारैः संपूज्य देशकालौ च कीर्तेत् । कुशोदकं समादाय दीपमंत्रं समुञ्चरेत् ॥ ५५ ॥
以五种供养恭敬礼拜圆满后,当宣告处所与时辰。随后取以俱舍草(kuśa)浸润之水,诵念灯明之真言。
Verse 56
उत्तगभिमुखो जप्त्वा साधयेत्साधकोत्तमः । तं मंत्रं कूटधा जप्त्वा जलं भूमौ विनिक्षिपेत् ॥ ५६ ॥
面向北方,最胜行者当以持诵而成就其仪。密诵彼真言之后,应将其水倾注(安置)于地上。
Verse 57
ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम् । अनेन दीपवर्येण उदङ्मुखगतेन वै ॥ ५७ ॥
随后结作合掌捧杯之印(karapuṭa),随己力持诵真言。以此殊胜灯明置于身前,面向北方而诵。
Verse 58
तथा विधेहि हनुमन्यथा स्युर्मे मनोरथाः । त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी ॥ ५८ ॥
“愿你如此安排,噢哈奴曼,使我心中所愿皆得成就。”如是共有十三种材料——其中有牛粪、泥土与灰烬等。
Verse 59
अलक्तं दरदं रक्तचंदनं चंदनं मधु । कस्तूरिका दधि क्षीरं नवनीतं धृतं तथा ॥ ५९ ॥
紫胶红染(alakta)、达罗达香矿/颜料(darada)、红檀香、檀香、蜂蜜、麝香、酸乳、牛乳、新鲜黄油,以及酥油(ghee)——皆应依仪轨备办。
Verse 60
गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम् । पश्चाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्मृतम् ॥ ६० ॥
于此处,牛粪被宣说为两类:出自黄牛者与出自水牛者。若后来正当之物不可得或已失,则水牛粪亦应忆念为“牛粪”,可作其替代而受用。
Verse 61
पथिकागमने दूरान्महादुर्गस्य रक्षणे । बालादिरक्षणे चैव चौरादिभयनाशने ॥ ६१ ॥
它被用来召回远行之人,使其自远方归来;用以守护大城堡垒;用以护佑孩童等;并用以摧灭由盗贼等诸般险难所生的恐惧。
Verse 62
स्त्रीवश्यादिषु कार्येषु शस्तं गोगोमयं मने । भूमिस्पृष्टं न तद्ग्राह्यमंतरिक्षाञ्च भाजने ॥ ६२ ॥
于求得女子欢心等诸般作法中,牛粪被视为所规定的净化之物。然而若其已触地,则不应取用;当置于不与地相接之器中(悬离地面而持)。
Verse 63
चतुर्विधा मृत्तिका तु श्वेता पीतारुणासिता । तत्र गोपीचंदनं तु हरितालं च गौरिकम् ॥ ६३ ॥
仪式所用之土有四类:白、黄、赤、黑。其中亦计入 gopīcandana(牧女檀土)、haritāla(雄黄)与 gaurikā 等,皆为作圣印与行仪所用的殊胜土矿。
Verse 64
मषी लाक्षारसोद्भूता सर्वं वान्यत्स्फुटं मतम् । कृत्वा गोपीचदंनेन चतुरस्रं गृहं सुधीः ॥ ६४ ॥
以虫胶树脂所制之墨为所称许;并且也认为,凡其余书写之具皆当清晰分明为上。智者先以 gopī-candana 画出方形界域,然后依所规定而书写。
Verse 65
तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः । बीजं क्रोधाञ्च तत्पुच्छं लिखेन्मंत्री समाहितः ॥ ६५ ॥
在那坛图的中央,噢主宰,应以水牛之胆汁塑成哈奴曼的圣像;修持者当摄心安住,于其尾上书写 bīja(种子音)及 krodha(忿怒)诸音节。
Verse 66
तैलेन स्नापयेन्मूर्तिं गुडेन तिलकं चरेत् । शतपत्रसमो धूपः शालनिर्याससंभवः ॥ ६६ ॥
应以油为圣像沐浴,并以粗糖(jaggery)点作额饰 tilaka。所焚之香当如百瓣莲华般清芬,以娑罗树(śāla)所渗之树脂制成。
Verse 67
कुर्य्याञ्च तैलदीपं तु वर्तिपंचकसंयुतम् । दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः ॥ ६७ ॥
至善的修行者当备一盏油灯,具五条灯芯;并以米饭和凝乳(酸乳)为 naivedya 供献。
Verse 68
वारत्रयं कंठदेशे सशेषविषमुञ्चरन् । एवं कृते तु नष्टानां महिषीणां गवामपि ॥ ६८ ॥
当于喉部三次放出所余之毒。如此行之,纵使失散的母水牛与牛群亦能复得。
Verse 69
दासीदासादिकानां च नष्टानां प्राप्तिरीरिता । चौरादिदुष्टसत्त्वानां सर्पादीनां भये पुनः ॥ ६९ ॥
经中教示:凡所失之物——如婢女、仆从等——皆可复得;又于惧盗贼与诸恶类之时,乃至惧蛇等相似险难之际,亦能再获护佑。
Verse 70
तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् । पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ॥ ७० ॥
依照tāla的尺度,应建造一座庄严华美、具四门的宅舍。东门安置大象,南门同样安置水牛。
Verse 71
सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा । एवं क्रमेण खड्गं च क्षुरिकादंडमुद्गरान् ॥ ७१ ॥
西门安置蛇,北门同样安置虎。如此依次,又当陈设宝剑、短匕、杖与钉锤(mugara)。
Verse 72
विलिख्य मध्ये मूर्तिं च महिषीगोमयेन वै । कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः ॥ ७२ ॥
随后在所备之处的中央,应以水牛粪与牛粪谨慎描绘一尊形像;竭力塑成其手持ḍamaru小鼓、双目圆睁如受惊之相。
Verse 73
पयसा स्नापनं रक्तचंदनेनानुलेपनम् । जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत् ॥ ७३ ॥
当以乳为浴,复以红檀香膏涂抹其身;再以茉莉花恭敬供养,并备办清净之香。
Verse 74
घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत् । गगनं दीपिकेंद्वाढ्यां शास्त्रं च पुरतो जपेत् ॥ ७४ ॥
先以酥油灯供奉,继而以甜乳饭(pāyasa)作食供。当天空因灯火与月华而明耀时,应在(圣像/坛前)诵念神圣经典。
Verse 75
एवं सप्तदिनं कृत्वा मुच्यते महतो भयात् । अनयोर्भौमवारे तु कुर्यादारंभमादरात् ॥ ७५ ॥
如此修持七日,便能解脱大怖畏。于此两法之中,应当恭敬谨慎,于星期二(Bhauma-vāra,火星日)开始行持。
Verse 76
शत्रुसेनाभये प्राप्ते गैरिकेण तु मंडलम् । कृत्वा तदंतरे तालमीष्टन्नम्रं समालिखेत् ॥ ७६ ॥
当遭遇敌军之危时,应以红赭土绘作圆形曼荼罗;并于其中恭谨细画一株多罗树(tāla),随意令其微微倾斜。
Verse 77
तत्रावलंबमानां च प्रतिमां गोमयेन तु । वामहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका ॥ ७७ ॥
于彼处,应以牛粪塑成(或安置)一尊圣像:左手执多罗叶之尖,右手结智印(jñāna-mudrā)。
Verse 78
तालमूलात्स्वकाष्टायां मार्गे हस्तमिते गृहम् । चतुरस्र विधायाथ तन्मध्ये मूर्तिमालिखेत् ॥ ७८ ॥
从多罗树(tāla)之根处起,在沿路安放的自家木板上,营作一处如屋之地,量为一肘(hasta)。作成方形后,于其中央绘写圣像(mūrti)。
Verse 79
दक्षिणाभिमुखीं रम्यां हृदये विहितांजलिम् । तोयेन स्नानगंधादि यथासंभवमर्पयेत् ॥ ७९ ॥
面向南方,仪容安雅,双手于心前合掌(añjali),应随己力供献:沐浴之水及香料等供品。
Verse 80
कृशारान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत् । किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने ॥ ८० ॥
应以kṛśāra(煮熟的谷粒饭)佐以净酥油作为供食(naivedya)奉献于她。所说的持诵(japa)名为“kilidvaya”;故当日日如是修行。
Verse 81
एवं कृते भवेच्छीघ्रं पथिकानां समागमः । श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम् ॥ ८१ ॥
如此行之,旅人将很快聚集。应以一块黑色石片书写/刻下指示之记号,用以标明国王的居所。
Verse 82
प्राकारं तु चतुर्द्वारयुक्तं द्वारेषु तत्र वै । अन्योन्यपुच्छ रिधित्रययुक्तां हनूमतः ॥ ८२ ॥
(应建)一重围垣,具四道门;并在诸门处安置三重布置,其标记如“尾相连结”,乃属哈奴曼。
Verse 83
कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैयजेत् । जटामांसीभवं धूपं तैलाक्तघृतदीपकम् ॥ ८३ ॥
应以牛粪塑成圣像,并以达图罗花供养;献上以jatāmāṃsī制成的香,并点燃酥油灯,其灯芯先以油润之。
Verse 84
नैवेद्यं तिलतैलाक्तसक्षारा माषरोटिका । ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः ॥ ८४ ॥
作为供食(naivedya),应奉上以māṣa(黑豆/乌豆)制成的roṭikā饼,涂以芝麻油并拌入碱盐;并当观想哈利以右手享用此饼。
Verse 85
वामहस्तेन पाषाणैस्त्रासयन्परसैनिकान् । प्नारयन्भ्रुकुटीं बद्ध्वा भीषयन्मथयन्स्थितः ॥ ८५ ॥
他以左手掷石,令敌军士卒惊惧;紧蹙双眉,立于其处——以威势恐吓,使其阵列纷乱。
Verse 86
जपेञ्च भुग्भुगिति वै सहस्रं ध्यानतत्परः । एवं कृतविधानेन परसैन्यं विनाशयेत् ॥ ८६ ॥
专注于禅观者,亦当诵念“bhug bhug”之咒一千遍。依此仪轨而行,便能令敌军之师覆灭。
Verse 87
रक्षा भवति दुर्गाणां सत्यं सत्य न संशयः । प्रायोगा बहवस्तत्र संक्षेपाद्गदिता मया ॥ ८७ ॥
这些修持在艰难之时确能成为护持——真,真,毫无疑惑。其中实用的仪轨法门甚多;我仅略说其要。
Verse 88
प्रत्यहं यो विधानेन दीपदानं हनूमतः । तस्यासाध्यं न वै किंचिद्विद्यते भुवनत्रये ॥ ८८ ॥
凡每日依仪轨向哈奴曼奉献明灯者,于三界之中实无一事不可得。
Verse 89
न देयं दुष्टहृदये दुष्टचिंतनबुद्धये । अविनीताय शिष्याय पिशुनाय कदाचन ॥ ८९ ॥
切莫将神圣教诲授与心怀恶毒、智识趋向邪念之人;亦不可授与不受教的弟子,或好诽谤者,任何时候皆然。
Verse 90
कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते । बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥ ९० ॥
不可施与忘恩负义之人;当先审察而后布施。此处多言何益?万那罗之主哈奴曼,已将自身一切尽皆奉献。
Verse 91
अथ मन्त्रान्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम् । तारो नमो हनुमते जाठरत्रयमीरयेत् ॥ ९१ ॥
今当宣说另一真言,能赐真实义(tattva)之智。先诵“多罗”(即圣音Praṇava),继诵“namo hanumate”,再发“三种jāṭhara之声”。
Verse 92
दनक्षोभं समाभाष्य संहरद्वयमीरयेत् । आत्मतत्त्वं ततः पश्चात्प्रकाशययुगं ततः ॥ ९२ ॥
诵毕名为“Danakṣobha”之段后,当宣说“Saṃhāra”(融摄、寂灭)之双句。其后应阐明我性(Ātman)之真义;再其后,当教授与“Prakāśa”(光明显照)相关之双句。
Verse 93
वर्मास्त्रवह्निजायांतः सार्द्धूषड्विंशदर्णवान् । वसिष्ठोऽस्य मुनिश्छन्दोऽनुष्टुप् च देवताः पुनः ॥ ९३ ॥
此真言以“varmāstra”起首,以“vahnijāyā”终结;合计二十六音节。其见者(ṛṣi)为圣仙婆悉吒(Vasiṣṭha),其韵律为Anuṣṭubh;其主宰诸神亦当如法领会。
Verse 94
हनुमान्मुनिसप्तर्तुवेदाष्टनिगमैः क्रमात् । मंत्रार्णैश्च षडंगानि कृत्वा ध्यायेत्कपीश्वरम् ॥ ९४ ॥
依次第,以与哈奴曼、诸牟尼、七时、诸吠陀与八部Nigama相应之真言音节,行者当作六支附行(ṣaḍaṅga-nyāsa),继而观想“猴王主”Kapīśvara——哈奴曼。
Verse 95
जानुस्थावामबाहुं च ज्ञानमुद्रापरं हृदि । अध्यात्मचित्तमासीनं कदलीवनमध्यगम् ॥ ९५ ॥
他左臂倚于膝上,手在心前结“智印”,安坐入于内观禅定,身处蕉林深处。
Verse 96
बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रदं हरिम् । ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः ॥ ९६ ॥
当观想赐智之主哈利,其光辉如千万旭日齐升。如此观想后,应持诵真言十万遍,并以芝麻作供,于火供中献出其十分之一。
Verse 97
साज्यैः संपूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम् । जप्तोऽयं मदनक्षोभं नाशयत्येव निश्चितम् ॥ ९७ ॥
在先前所说的坛座(pīṭha)上,应依前法供奉主,以酥油调和之供物行供献。此真言一经持诵,必定摧灭由伽摩(欲爱)所起的扰动。
Verse 98
तत्त्वज्ञानमवाप्नोति कपींद्रस्य प्रसादतः । अथ मंत्रातरं वाक्ष्ये भूतविद्रावणं परम् ॥ ९८ ॥
承蒙迦毗因陀罗(猴王之主)的恩赐,便能获得对真如实相(tattva)的正知。如今我将宣说另一道真言——最胜能驱逐鬼魅与扰乱之众。
Verse 99
तारः काशींकुक्षिपरवराहश्चांजनापदम् । पवनो वनपुत्रांते आवेशिद्वयमीरयेत् ॥ ९९ ॥
应依次诵出诸音/词:“Tāra”“Kāśī”“Kukṣi”“Para”“Varāha”“Cāñjanāpada”;随后在“Vanaputrā”之末加诵“Pavana”。如此便宣出名为“Āveśi”的一对音节。
Verse 100
तारः श्रीहनुमत्यश्चादस्त्ररचभुजाक्षरः । ब्रह्मा मुनिः स्याद्गायत्री छंदोऽत्र देवता पुनः ॥ १०० ॥
种子音节为“多罗”(Tārā,即唵 Oṃ);与“室利”(Śrī)及“哈奴玛蒂”(Hanumatī)相合,即成所说之“武器形”真言,具“臂音节”。此处,梵天为仙见(ṛṣi),韵律为伽耶特丽(Gāyatrī),主尊亦如前所述。
Verse 101
हनुमान्कमला बीजं फट् शक्तिः परिकीर्तितः । षड्दीर्घाढ्येन बीजेन षडङ्गानि समाचरेत् ॥ १०१ ॥
所宣说的种子音为“哈奴曼—迦摩罗”(hanumān-kamalā),其势力音(śakti)为“啪吒”(phaṭ)。以具六个长元音之种子音,当行六支安置(ṣaḍ-aṅga)之法。
Verse 102
आंजनेय पाटलास्यं स्वर्णाद्रिसमविग्रहम् । पारिजातद्रुमूलस्थं चिंतयेत्साधकोत्तमः ॥ १०२ ॥
最上之修行者当观想阿阇那耶(Āñjaneya,哈奴曼):面如玫瑰之红,身若金山之相,安住于波利阇多(pārijāta)树根之下。
Verse 103
एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः । त्रिमध्वक्तैर्यंजत्पीठे पूर्वोक्तेपूर्ववत्सुधीः ॥ १०३ ॥
如是观想已,智者当持诵真言十万遍;继而取其十分之一,以芝麻为供,涂以三种蜜,于先前所说之祭坛上如前法行火供。
Verse 104
अनेन मनुना मंत्री ग्रहग्रस्तं प्रमार्जयेत् । आक्रंदंस्तं विमुच्याथ ग्रहः शीघ्रं पलायते ॥ १०४ ॥
以此真言,持咒者当依仪轨为被“摄持者”(graha)所侵之人作拂拭净除。其人哀号哭喊之际,便得解脱;graha亦迅速遁去。
Verse 105
मनवोऽमी सदागोप्या न प्रकाश्या यतस्ततः । परीक्षिताय शिष्याय देया वा निजसूनवे ॥ १०५ ॥
这些神圣的教诲应当严守秘密,不可到处宣扬;只应传授给经过考验的弟子——否则,便只传给自己的儿子。
Verse 106
हनुमद्भजनासक्तः कार्तवीर्यार्जुनं सुधीः । विशेषतः समाराध्य यथोक्तं फलमाप्नुयात् ॥ १०६ ॥
智者若专心于对哈奴曼(Hanumān)的礼拜与颂修,应当尤其虔诚地供奉并取悦迦尔塔维里亚·阿周那(Kārtavīryārjuna);如此便能如前所述,确切获得其果报。
Verse 107
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
至此,《圣大那罗陀往世书》(Śrī Bṛhan-Nāradīya Purāṇa)前分(Pūrvabhāga)之“大补充叙事”(Bṛhad-upākhyāna)第三品(Pada)中,名为《灯仪轨之阐明》(Dīpa-vidhi)的第七十五章圆满结束。
A codified Hanumān dīpa-dāna and nitya-dīpa procedure, including materials, measurements, places, maṇḍala design, and mantra-application, aimed at both welfare (prosperity, safety) and protective outcomes.
It frames Hanumān worship as heartfelt offering (glad lamp-offering before images) while operationalizing it through precise correspondences—oil types, grain-flours, thread colors/counts, nyāsa, and mantra-lakṣaṇa—typical of a practical vrata-kalpa manual.
Before a Hanumān image (or in a Śiva temple), at crossroads, at sites linked to planets/spirits, and in the presence of a crystal liṅga or Śālagrāma; additional situational placements include the king’s gate, prison contexts, and sacred trees like aśvattha/banyan.
It explicitly restricts teaching to an examined, disciplined disciple (or one’s son), warning against sharing with malicious, undisciplined, slanderous, or ungrateful persons—presenting secrecy as part of ritual integrity.