Adhyaya 77
Purva BhagaAdhyaya 77106 Verses

Adhyaya 77

Shivamurti–Pratishtha Phala: Shivalaya-Nirmana, Kshetra-Mahatmya, Tirtha-Snana, and Mandala-Vidhi

诸仙请求苏多开示安立林伽(Liṅga-pratiṣṭhā)的功德(puṇya/phala),以及从泥土到宝石建造湿婆圣殿的果报。苏多答曰:信爱(bhakti)胜于资具;即便简陋小祠与朴素供奉亦能往生鲁陀界(Rudraloka),而仿效凯拉萨/曼陀罗/须弥之宏伟殿堂(prāsāda)则赐更高天乐,终归导入智瑜伽(jñāna-yoga)并亲近湿婆与其侍从众(Gaṇa)。本章赞叹多种寺庙形制(Nāgara、Drāviḍa、Kesara),尤重修葺毁损建筑与在圣殿中劳作供事之功德。继而界定湿婆圣域(Śiva-kṣetra)的范围,列举若干著名圣地,言于彼处舍身可得解脱,并以阶梯次第说明瞻礼(darśana)、触礼(sparśana)、绕行(pradakṣiṇā)及更为殊胜的沐浴/灌顶(snāna/abhisheka)之利益。最后宣说曼荼罗供养:莲华与六角(ṣaḍ-asra)图式,将自然(prakṛti)、三德(guṇa)、五大(bhūta)、诸根(indriya)及内在原理(ahaṅkāra、buddhi、ātman)纳入仪轨几何;并总结礼敬显与不显之湿婆乃至上解脱之道,亦为后续“成就一切欲求与义利”(sarva-kāmārtha-sādhana)诸法作铺垫。

Shlokas

Verse 1

इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवमूर्तिप्रतिष्ठाफलकथनं नाम षट्सप्ततितमो ऽध्यायः ऋषय ऊचुः लिङ्गप्रतिष्ठापुण्यं च लिङ्गस्थापनमेव च लिङ्गानां चैव भेदाश् च श्रुतं तव मुखादिह

诸仙人说道:“在此,我们亲从尊者口中听闻:安立湿婆林伽(Śiva‑Liṅga)所得功德,建立林伽之行,以及诸林伽的种种分类。”

Verse 2

मृदादिरत्नपर्यन्तैर् द्रव्यैः कृत्वा शिवालयम् यत्फलं लभते मर्त्यस् तत्फलं वक्तुमर्हसि

以从朴素泥土乃至珍贵宝石等诸材料,凡人若为主湿婆建造圣殿,愿尊者宣说其所获之果报(phala)与功德。

Verse 3

सूत उवाच यस्य भक्तो ऽपि लोके ऽस्मिन् पुत्रदारगृहादिभिः बाध्यते ज्ञानयुक्तश्चेन् न च तस्य गृहैस्तु किम्

苏多说道:纵然此人于世间亦为奉爱者,若仍被儿女、妻室、家宅等所系缚,那么——即便自称具足智慧——这些“家”对他又有何用?

Verse 4

तथापि भक्ताः परमेश्वरस्य कृत्वेष्टलोष्टैरपि रुद्रलोकम् प्रयान्ति दिव्यं हि विमानवर्यं सुरेन्द्रपद्मोद्भववन्दितस्य

即便如此,至上主(帕拉梅湿伐罗)的奉献者,纵然只供奉自己所珍爱的之物,乃至一撮土块,也能到达鲁陀罗之界。诚然,他们将前往那光辉灿然的境域——那位为因陀罗与莲华所生者(梵天)所礼敬之主的最胜天宫妙毗摩那。

Verse 5

बाल्यात्तु लोष्टेन च कृत्वा मृदापि वा पांसुभिर् आदिदेवम् /* गृहं च तादृग्विधमस्य शंभोः सम्पूज्य रुद्रत्वमवाप्नुवन्ति

即使自幼年起,若有人以土块、泥土,乃至尘埃塑成林伽,又同样为商布(Śambhu)造一小祠,并以圆满虔敬礼拜本初天神(Ādideva),此等礼拜者便得鲁陀罗之位;由林伽供养(liṅga-pūjā)而亲近主宰(Pati)。

Verse 6

तस्मात्सर्वप्रयत्नेन भक्त्या भक्तैः शिवालयम् कर्तव्यं सर्वयत्नेन धर्मकामार्थसिद्धये

因此,奉献者应以至诚之奉爱(bhakti),竭尽一切努力建造湿婆圣殿(Śivālaya),多方精进,使达摩(Dharma)、欲乐(Kāma)与利养(Artha)得以成就。

Verse 7

केसरं नागरं वापि द्राविडं वा तथापरम् कृत्वा रुद्रालयं भक्त्या शिवलोके महीयते

无论以凯萨拉式(Kesara)、那伽罗式(Nāgara)、达罗毗荼式(Drāviḍa),或其他任何方式建造;凡以虔敬建起鲁陀罗圣殿(Rudrālaya)奉献于鲁陀罗者,必在湿婆之界受尊崇而显扬。

Verse 8

कैलासाख्यं च यः कुर्यात् प्रासादं परमेष्ठिनः कैलासशिखराकारैर् विमानैर् मोदते सुखी

凡为至上主(Parameṣṭhin)建造名为“凯拉萨”(Kailāsa)之殿者,此奉献者欢喜安泰,得以在形如凯拉萨山峰的天界毗摩那中自在受乐。

Verse 9

मन्दरं वा प्रकुर्वीत शिवाय विधिपूर्वकम् भक्त्या वित्तानुसारेण उत्तमाधममध्यमम्

或者,应依所规定的仪轨,为主湿婆如法营建一座曼陀罗(祭仪亭坛/坛场布置)——以虔敬之心,随自身资财而作,或极为殊胜,或朴素,或居中适度。

Verse 10

मन्दराद्रिप्रतीकाशैर् विमानैर्विश्वतोमुखैः अप्सरोगणसंकीर्णैर् देवदानवदुर्लभैः

他们乘着宛如曼陀罗山的空中毗摩那,面向四方,群群天女(阿普萨拉)簇拥其间——此等奇妙乘具,连诸天与达那婆亦难得——(遂以灿然之阵列显现)。

Verse 11

गत्वा शिवपुरं रम्यं भुक्त्वा भोगान् यथेप्सितान् ज्ञानयोगं समासाद्य गाणपत्यं लभेन्नरः

抵达吉祥可爱的湿婆之城,随愿受用诸乐之后,此人若得解脱之智的瑜伽(智瑜伽),便获得成为湿婆众伽那之一的境地(伽那之位)。

Verse 12

यः कुर्यान्मेरुनामानं प्रासादं परमेष्ठिनः स यत्फलमवाप्नोति न तत् सर्वैर् महामखैः

凡为至上主帕拉梅什提因(即湿婆)建造名为“须弥(Meru)”的殿堂者,所得功果,纵使尽行一切大祭亦不能获得。

Verse 13

सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम् तत्फलं सकलं लब्ध्वा शिववन्मोदते चिरम्

圆满获得一切祭祀、苦行、布施、朝圣与研习吠陀所许之功果之后,此人长久欢喜——其乐如同湿婆自身。

Verse 14

निषधं नाम यः कुर्यात् प्रासादं भक्तितः सुधीः शिवलोकमनुप्राप्य शिववन्मोदते चिरम्

智者信徒以虔敬之心建造名为“尼萨陀(Niṣadha)”的圣殿,得至湿婆之界;既至其处,便久享欢喜,得如湿婆自身之安乐。

Verse 15

कुर्याद्वा यः शुभं विप्रा हिमशैलमनुत्तमम् हिमशैलोपमैर् यानैर् गत्वा शिवपुरं शुभम्

诸婆罗门啊,凡行此吉祥之业者,得无上境界,如同喜马拉雅;又乘似喜马拉雅峰峦之天车,抵达湿婆的吉祥圣城——湿婆城(Śivapura)。

Verse 16

ज्ञानयोगं समासाद्य गाणपत्यमवाप्नुयात् नीलाद्रिशिखराख्यं वा प्रासादं यः सुशोभनम्

成就智瑜伽(jñāna-yoga),即灵性智慧之瑜伽者,得“伽那之位”(gāṇapatya),入主宰之伽那众。又凡建立或奉事名为“尼拉德里·希卡拉(Nīlādri-Śikhara)”的华美殿寺者,亦得同等崇高之果位。

Verse 17

कृत्वा वित्तानुसारेण भक्त्या रुद्राय शंभवे यत्फलं लभते मर्त्यस् तत्फलं प्रवदाम्यहम्

以虔敬之心,随己财力供奉鲁陀罗—商布者,凡人由此礼拜所得之果报为何,我今将宣说其果。

Verse 18

हिमशैले कृते भक्त्या यत्फलं प्राक् तवोदितम् तत्फलं सकलं लब्ध्वा सर्वदेवनमस्कृतः

既圆满获得你先前所说由在喜马拉雅以虔敬礼拜而生的一切果报,他便成为诸天所敬礼者,为一切天神所致敬。

Verse 19

रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते महेन्द्रशैलनामानं प्रासादं रुद्रसंमतम्

既已到达鲁陀罗之界,便与诸鲁陀罗同欢喜,住于名为“摩诃因陀罗山”的宫殿——此乃鲁陀罗所认可并加持清净的住处。

Verse 20

कृत्वा यत्फलमाप्नोति तत्फलं प्रवदाम्यहम् महेन्द्रपर्वताकारैर् विमानैर्वृषसंयुतैः

“我今将宣说行此湿婆仪轨所得之果报:彼得天界毗摩那,高峻如摩诃因陀罗山,由公牛牵引;此乃供奉‘帕提’——万缚魂(帕舒)之主与归依处者所应得之赏。”

Verse 21

गत्वा शिवपुरं दिव्यं भुक्त्वा भोगान्यथेप्सितान् ज्ञानं विचारितं रुद्रैः सम्प्राप्य मुनिपुङ्गवाः

既至湿婆之神圣天城,随愿受用诸乐,那些最胜牟尼便得解脱之智——由诸鲁陀罗审察而阐明;凭此,帕舒(被缚之魂)得以被引向帕提(主宰)。

Verse 22

विषयान् विषवत् त्यक्त्वा शिवसायुज्यमाप्नुयात् हेम्ना यस्तु प्रकुर्वीत प्रासादं रत्नशोभितम्

若将诸境如毒而舍,便得与湿婆合一。又凡以黄金营建殿宇神庙、以宝珠庄严者,亦得同等之湿婆恩德——能松解帕舒之缚,使之亲近帕提。

Verse 23

द्राविडं नागरं वापि केसरं वा विधानतः कूटं वा मण्डपं वापि समं वा दीर्घम् एव च

依所规定之法,可作达罗毗荼式或那伽罗式,或采用“凯萨拉”之顶构;亦可建为库塔(圣龛塔)或曼荼波(礼亭),比例端正——或等量匀称,或纵向延展。

Verse 24

न तस्य शक्यते वक्तुं पुण्यं शतयुगैरपि जीर्णं वा पतितं वापि खण्डितं स्फुटितं तथा

由供奉湿婆圣林伽所生之功德,纵历百劫亦难尽言。即使林伽已旧、曾坠落、破碎或开裂,若以虔敬(bhakti)礼拜,其果报亦不失不坏。

Verse 25

पूर्ववत्कारयेद्यस्तु द्वाराद्यैः सुशुभं द्विजाः प्रासादं मण्डपं वापि प्राकारं गोपुरं तु वा

诸位二生者,凡依前所说之法,令以门阙等庄严之具建造华美之制——或为殿宇(prāsāda)、或为曼荼罗堂(maṇḍapa)、或为围墙(prākāra)、或为门楼塔(gopura)——即是为湿婆之礼拜建立吉祥依止。

Verse 26

कर्तुरप्यधिकं पुण्यं लभते नात्र संशयः वृत्त्यर्थं वा प्रकुर्वीत नरः कर्म शिवालये

其人所得功德,甚至超过委托者——对此毫无疑问。即便有人在湿婆圣殿中仅为谋生而劳作,也仍能获得清净圣福。

Verse 27

यः स याति न संदेहः स्वर्गलोकं सबान्धवः यश्चात्मभोगसिद्ध्यर्थम् अपि रुद्रालये सकृत्

行此者无疑将与亲族同往天界。即便有人只为成就自身享乐而仅一次来到鲁陀罗之居(Rudrālaya),亦能获得所求之成就。

Verse 28

कर्म कुर्याद्यदि सुखं लब्ध्वा चापि प्रमोदते तस्माद् आयतनं भक्त्या यः कुर्यान् मुनिसत्तमाः

若有人行诸业而得安乐,并于其乐中欢喜;因此,诸位最胜牟尼,当以虔敬(bhakti)为主宰(湿婆)建立一处圣所(āyatana)。

Verse 29

काष्ठेष्टकादिभिर् मर्त्यः शिवलोके महीयते प्रसादार्थं महेशस्य प्रासादे मुनिपुङ्गवाः

噢,诸位最胜牟尼:凡人若以木材、砖石等建造供奉大自在天摩诃伊湿伐罗(湿婆)的殿宇宫阙,以求其恩赐,便在湿婆之界受尊崇而被高举。

Verse 30

कर्तव्यः सर्वयत्नेन धर्मकामार्थमुक्तये अशक्तश्चेन्मुनिश्रेष्ठाः प्रासादं कर्तुमुत्तमम्

当以一切努力而行,为了法(dharma)、欲(kāma)、利(artha),并最终趋向解脱(mokṣa)。若力不能及,噢最胜牟尼,不能建造无上殿堂,也当尽己所能,以对主宰(Pati)湿婆的虔敬而奉行。

Verse 31

संमार्जनादिभिर् वापि सर्वान्कामानवाप्नुयात् संमार्जनं तु यः कुर्यान् मार्जन्या मृदुसूक्ष्मया

以扫拂等细致的侍奉于圣所,便可成就一切所愿。然而行扫拂者当用柔软细密之帚,使礼拜之地得以清净,而不致损伤、粗暴。

Verse 32

चान्द्रायणसहस्रस्य फलं मासेन लभ्यते यः कुर्याद्वस्त्रपूतेन गन्धगोमयवारिणा

若以香水和牛粪水相和,并先以布滤净而行此仪,则于一月之内,所得功德等同千次月行苦行(Cāndrāyaṇa)。

Verse 33

आलेपनं यथान्यायं वर्षचान्द्रायणं लभेत् अर्धक्रोशं शिवक्षेत्रं शिवलिङ्गात्समन्ततः

依规如法行涂抹净化(ālepana),即可得一年之月行苦行(Cāndrāyaṇa)之果报。又以湿婆林伽为中心,湿婆圣域向四方周遍延展,各至半拘舍(krośa)。

Verse 34

यस् त्यजेद् दुस्त्यजान् प्राणाञ् शिवसायुज्यम् आप्नुयात् स्वायंभुवस्य मानं हि तथा बाणस्य सुव्रताः

凡能舍弃连最难舍的生命气息(普拉那)者,必得“湿婆萨尤吉亚”——与主湿婆合一。此人所获尊荣等同于自生者(梵天·Svāyambhuva),亦同于巴那(Bāṇa),噢,持善誓者。

Verse 35

स्वायंभुवे तदर्धं स्यात् स्याद् आर्षे च तदर्धकम् मानुषे च तदर्धं स्यात् क्षेत्रमानं द्विजोत्तमाः

依“自生者”(Svāyambhuva)之度量,应为其半;依“圣仙”(Ārṣa)之度量,又为其半之半;依“人间”(Mānuṣa)之度量,再为其半——此即圣地田界之定则,噢,最胜的两次生者。

Verse 36

एवं यतीनामावासे क्षेत्रमानं द्विजोत्तमाः रुद्रावतारे चाद्यं यच् छिष्ये चैव प्रशिष्यके

如是,噢,最胜的两次生者:为诸“游行者”(yati,出离修行者)居住之圣域,其适当的界量已宣说;并连同与鲁陀罗降世相关的原初法令,当由弟子传弟子,乃至弟子的弟子。

Verse 37

नरावतारे तच्छिष्ये तच्छिष्ये च प्रशिष्यके श्रीपर्वते महापुण्ये तस्य प्रान्ते च वा द्विजाः

噢,两次生者:在人身之化现中,于其弟子及弟子的弟子之中,神圣传承亦复延续——在大福德的室利山(Śrīparvata)之上,或在其边境之地。

Verse 38

तस्मिन्वा यस्त्यजेत्प्राणाञ् छिवसायुज्यमाप्नुयात् वाराणस्यां तथाप्येवम् अविमुक्ते विशेषतः

在彼处,凡舍弃生命气息者,必得萨尤吉亚——与湿婆圆满合一。于瓦拉纳西亦复如是;而尤以阿毗穆克塔(Avimukta)为最胜——那是主从未舍离的神圣之地。

Verse 39

केदारे च महाक्षेत्रे प्रयागे च विशेषतः कुरुक्षेत्रे च यः प्राणान् संत्यजेद्याति निर्वृतिम्

凡于凯达罗(Kedāra)、大圣域摩诃刹多罗(Mahākṣetra)、尤其于普拉雅伽(Prayāga),或于俱卢刹多罗(Kurukṣetra)舍弃生命之息者,皆得证入涅尔弗利提(nirvṛti)——究竟安宁与解脱;此由主宰帕提(湿婆)之恩德成就,能斩断束缚众生(paśu)的绳索(pāśa)。

Verse 40

प्रभासे पुष्करे ऽवन्त्यां तथा चैवामरेश्वरे वणीशैलाकुले चैव मृतो याति शिवात्मताम्

若于普拉婆娑(Prabhāsa)、补湿迦罗(Puṣkara)、阿凡提(Avantī),亦于阿摩雷湿伐罗(Amareśvara),并于瓦尼希罗(Vaṇīśaila)之圣域中舍身者,得证“湿婆自性”(śivātmatā)——与湿婆同一,成其本性。

Verse 41

वाराणस्यां मृतो जन्तुर् न जातु जन्तुतां व्रजेत् त्रिविष्टपे विमुक्ते च केदारे संगमेश्वरे

束缚之灵(jantu)若死于婆罗那西(Vārāṇasī),便永不再堕入有身众生之境。又于三十天界(Triviṣṭapa)、于解脱处(Vimukta)、于凯达罗(Kedāra)及于桑伽梅湿伐罗(Saṅgameśvara),亦皆得解脱——凭主宰帕提(湿婆)解脱者之恩,脱离再生之绳索(pāśa)。

Verse 42

शालङ्के वा त्यजेत्प्राणांस् तथा वै जम्बुकेश्वरे शुक्रेश्वरे वा गोकर्णे भास्करेशे गुहेश्वरे

或若于沙兰迦(Śālaṅka)舍命,亦于占布凯湿伐罗(Jambukeśvara)、或于舒克雷湿伐罗(Śukreśvara)、或于瞿迦尔那(Gokarṇa)、于婆斯迦雷沙(Bhāskareśa)、或于古黑湿伐罗(Guheśvara)舍身——此等离世被称为至极净化;因为这些皆是湿婆解脱众生的圣座。

Verse 43

हिरण्यगर्भे नन्दीशे स याति परमां गतिम् नियमैः शोष्य यो देहं त्यजेत्क्षेत्रे शिवस्य तु

彼于“金胎那提沙”(Hiraṇyagarbha Nandīśa)得至无上归趣。又凡以尼耶摩(niyama,清净戒行)使此身枯竭而净化,继而于湿婆圣域(kṣetra)中舍身者,确实抵达最高之目标。

Verse 44

स याति शिवतां योगी मानुषे दैविके ऽपि वा आर्षे वापि मुनिश्रेष्ठास् तथा स्वायंभुवे ऽपि वा

此瑜伽行者得证“湿婆性”(śivatā),无论处于人身,或乃至天界之身;或处于仙圣(ṛṣi)之位——噢,诸牟尼中最胜者——同样,即便在自生自显的“svāyambhuva”存在方式中,也能成就。

Verse 45

स्वयंभूते तथा देवे नात्र कार्या विचारणा आधायाग्निं शिवक्षेत्रे सम्पूज्य परमेश्वरम्

当神祇为自生自显之Svayaṃbhū时,于此无需再作思量。应在湿婆圣域(kṣetra)点燃圣火(agni),以圆满恭敬礼拜至上主——帕拉梅湿伐罗(Parameśvara)。

Verse 46

स्वदेहपिण्डं जुहुयाद् यः स याति परां गतिम् यावत्तावन्निराहारो भूत्वा प्राणान् परित्यजेत्

凡以自身之躯为供献、投入火供(juhu)者,得至上之归趣。于所规定之期内断食不食,继而舍离诸prāṇa(生命气息);由此斩断paśu之系缚,而至于Pati——湿婆。

Verse 47

शिवक्षेत्रे मुनिश्रेष्ठाः शिवसायुज्यमाप्नुयात् छित्त्वा पादद्वयं चापि शिवक्षेत्रे वसेत्तु यः

噢,诸牟尼中最胜者,在湿婆圣域(kṣetra)中可得sāyujya——与湿婆合一。即便有人斩去双足,却仍居住于湿婆圣域之内,也因该圣域的解脱威力而得此境。

Verse 48

स याति शिवतां चैव नात्र कार्या विचारणा क्षेत्रस्य दर्शनं पुण्यं प्रवेशस्तच्छताधिकः

他得证湿婆性(śivatā)本身,于此无需疑虑。仅仅瞻见这神圣的湿婆圣域(kṣetra)亦具功德;而入其境者,所得果报更增百倍。

Verse 49

तस्माच्छतगुणं पुण्यं स्पर्शनं च प्रदक्षिणम् तस्माच्छतगुणं पुण्यं जलस्नानमतः परम्

因此,触礼圣林伽并行绕行礼(pradakṣiṇā)可得百倍功德;而更胜于此者,以清水为之沐浴灌顶(abhiṣeka),据说其功德又增百倍,超越前者。

Verse 50

क्षीरस्नानं ततो विप्राः शताधिकमनुत्तमम् दध्ना सहस्रमाख्यातं मधुना तच्छताधिकम्

继而,噢婆罗门圣贤们,以乳为圣林伽行灌顶沐浴(abhiṣeka),宣说其果报超越百倍,至上无比。以凝乳(dadhi)则说得千倍;以蜂蜜则又在其上增百倍。

Verse 51

घृतस्नानेन चानन्तं शार्करे तच्छताधिकम् शिवक्षेत्रसमीपस्थां नदीं प्राप्यावगाह्य च

以酥油(ghee)为之沐浴灌顶,功德无量无边;以糖为之沐浴,则此功德又增百倍乃至更多。并且,若抵达一条临近圣地湿婆刹多罗(Śiva-kṣetra)的河流,当入水沉浸沐浴其中。

Verse 52

त्यजेद्देहं विहायान्नं शिवलोके महीयते शिवक्षेत्रसमीपस्था नद्यः सर्वाः सुशोभनाः

若有人舍身而去——先已断食——便在湿婆之界受尊崇。凡临近湿婆圣域(Śiva-kṣetra)之诸河,皆极为吉祥,光辉灿然。

Verse 53

वापीकूपतडागाश् च शिवतीर्था इति स्मृताः स्नात्वा तेषु नरो भक्त्या तीर्थेषु द्विजसत्तमाः

噢二次生者中之最胜者,井、阶井与池塘,皆被忆念为湿婆圣渡处(Śiva-tīrtha)。若有人以虔敬(bhakti)在这些圣渡处沐浴,便亲近湿婆之恩:松解系缚个我之魂(paśu)的羁绊(pāśa),并令其心转向主宰(Pati)——大自在天湿婆。

Verse 54

ब्रह्महत्यादिभिः पापैर् मुच्यते नात्र संशयः प्रातः स्नात्वा मुनिश्रेष्ठाः शिवतीर्थेषु मानवः

噢,最胜牟尼!凡于黎明在湿婆之圣渡处(tīrtha)沐浴者,必得解脱于梵杀罪(brahmahatyā)等诸罪——此无疑也。由主宰帕提(Pati)净化此圣水,受缚之灵(paśu)得从恶业之绳索(pāśa)中松脱。

Verse 55

अश्वमेधफलं प्राप्य रुद्रलोकं स गच्छति मध्याह्ने शिवतीर्थेषु स्नात्वा भक्त्या सकृन्नरः

若有人以虔敬(bhakti)于正午在湿婆之圣渡处沐浴,纵使仅一次,亦得阿湿婆梅陀(Aśvamedha)大祭之功德,继而往生鲁陀罗之界(Rudra-loka)。

Verse 56

गङ्गास्नानसमं पुण्यं लभते नात्र संशयः अस्तं गते तथा चार्के स्नात्वा गच्छेच्छिवं पदम्

其功德等同于沐浴恒河(Gaṅgā)——此无疑也。日落之后,若以虔敬而浴,便趋入湿婆之境(Śiva-pada),即解脱主宰帕提(Pati)之至上住处,能令受缚之灵(paśu)离于系缚。

Verse 57

पापकञ्चुकमुत्सृज्य शिवतीर्थेषु मानवः द्विजास् त्रिषवणं स्नात्वा शिवतीर्थे सकृन्नरः

抛却罪垢之衣,人在湿婆圣渡处沐浴——尤以行三时沐浴之二生者(dvija)为甚——即便仅于一处湿婆圣渡沐浴一次,亦得清净。

Verse 58

शिवसायुज्यमाप्नोति नात्र कार्या विचारणा पुराथ सूकरः कश्चित् श्वानं दृष्ट्वा भयात्पथि

彼得与湿婆之萨尤吉亚(sāyujya)——亲密合一——对此不必疑虑。因为在古时,有一野猪于路上见犬,因恐惧而生起趋向湿婆的忆念,由此获得最上之果。

Verse 59

प्रसंगाद्वारमेकं तु शिवतीर्थे ऽवगाह्य च मृतः स्वयं द्विजश्रेष्ठा गाणपत्यमवाप्तवान्

他因缘偶然而入一门;于湿婆圣渡(Śiva-tīrtha)沐浴后即于彼处命终,那位最胜的再生者得证“伽那帕提亚”(Gaṇapatya),成为湿婆伽那众之一。

Verse 60

यः प्रातर्देवदेवेशं शिवं लिङ्गस्वरूपिणम् पश्येत्स याति सर्वस्माद् अधिकां गतिमेव च

凡于黎明瞻礼湿婆——诸天之主——住于林伽本相者,必得至上解脱之道,超越一切他得。

Verse 61

मध्याह्ने च महादेवं दृष्ट्वा यज्ञफलं लभेत् सायाह्ने सर्वयज्ञानां फलं प्राप्य विमुच्यते

正午瞻见大天(Mahādeva),得吠陀祭祀之果;傍晚瞻见彼尊,则获一切祭祀之功德而得解脱——赖主宰帕提(Pati)之恩,断除缚住帕舒(paśu,个体灵魂)于轮回的缚索(pāśa)。

Verse 62

मानसैर्वाचिकैः पापैः कायिकैश् च महत्तरैः तथोपपातकैश्चैव पापैश्चैवानुपातकैः

无论罪业出自意、语或身——乃至极重之罪——无论是次罪(upapātaka)或随从之罪(anupātaka),皆摄于此:皆为缚索(pāśa),遮蔽帕舒(paśu,个体灵魂)不见帕提(Pati,主宰)。

Verse 63

संक्रमे देवमीशानं दृष्ट्वा लिङ्गाकृतिं प्रभुम् मासेन यत्कृतं पापं त्यक्त्वा याति शिवं पदम्

于桑克拉玛(Saṅkrama,日行换宫之时),瞻见主宰伊沙那(Īśāna)——至上帕提——以林伽之相显现者,能舍离一月所作诸罪,得至吉祥的湿婆之境。

Verse 64

अयने चार्धमासेन दक्षिणे चोत्तरायणे विषुवे चैव सम्पूज्य प्रयाति परमां गतिम्

若于至日、半月之仪、太阳南行与北行之时,并于昼夜平分之日,皆如法礼敬供养湿婆者——必得至上归趣(paramā gati),在主宰帕提之庇护下证得最高解脱。

Verse 65

प्रदक्षिणत्रयं कुर्याद् यः प्रासादं समन्ततः सव्यापसव्यन्यायेन मृदुगत्या शुचिर्नरः

清净之人当绕殿周行三匝,步履柔和、次第如仪——守右绕之正行(pradakṣiṇā),并于仪轨所许之处行逆绕(apasavya),皆契合祭则。

Verse 66

पदे पदे ऽश्वमेधस्य यज्ञस्य फलमाप्नुयात् वाचा यस्तु शिवं नित्यं संरौति परमेश्वरम्

其人步步皆得马祭(Aśvamedha)之果报——凡以言语恒常宣扬湿婆、至上自在天者。由不断忆念与称名,缚魂(paśu)转向主宰(Pati),被提升超越系缚(pāśa),此非仅凭仪式所能究竟断除。

Verse 67

सो ऽपि याति शिवं स्थानं प्राप्य किं पुनरेव च कृत्वा मण्डलकं क्षेत्रं गन्धगोमयवारिणा

即便此人亦得至湿婆之所——更复何言?先以香物、牛粪与清水净治道场,作成仪式之曼荼罗(maṇḍala),则其身堪受湿婆之恩光。

Verse 68

मुक्ताफलमयैश्चूर्णैर् इन्द्रनीलमयैस् तथा पद्मरागमयैश्चैव स्फाटिकैश् च सुशोभनैः

以珍珠之粉,亦以青金宝(indranīla)之粉,又以红宝(padmarāga)之粉,并以莹洁华美之水晶——用以庄严圣相,使之光辉灿然,供养帕提:解脱缚魂(paśu)系缚之主。

Verse 69

तथा मारकतैश्चैव सौवर्णै राजतैस् तथा तद्वर्णैर् लौकिकैश्चैव चूर्णैर्वित्तविवर्जितैः

同样,也可以用祖母绿、黄金、白银来礼拜林伽;亦可用与其色相相近的世间粉末供奉——尤其为贫乏无财者而设——因为献给主宰帕提的真正供养在于虔敬(湿婆奉爱),不在于耗费。

Verse 70

आलिख्य कमलं भद्रं दशहस्तप्रमाणतः सकर्णिकं महाभागा महादेवसमीपतः

吉祥者啊,当绘一朵瑞相莲华,广达十手之量,具足莲房,并将其安置于大天(摩诃提婆)近旁,作为礼拜的神圣陈设之一。

Verse 71

तत्रावाह्य महादेवं नवशक्तिसमन्वितम् पञ्चभिश्च तथा षड्भिर् अष्टाभिश्चेष्टदं परम्

于彼处,先迎请大天(摩诃提婆)降临,具九种圣力(九Śakti)相随;礼拜者当敬奉那赐予所愿果报的至上者,并依次供奉五、六、八等诸神圣群类。

Verse 72

पुनरष्टाभिर् ईशानं दशारे दशभिस् तथा पुनर्बाह्ये च दशभिः सम्पूज्य प्रणिपत्य च

复次,以八种供品礼敬伊舍那;又于十辐之轮中,以十种供品供养。继而在外环亦以十种供品周遍供奉;供养圆满后,当俯伏顶礼。

Verse 73

निवेद्य देवदेवाय क्षितिदानफलं लभेत् शालिपिष्टादिभिर् वापि पद्ममालिख्य निर्धनः

将此奉献于天中之天(Devadeva),便得如同施舍土地之功德。即使贫者,以米粉等绘莲华而供奉湿婆,亦能获得同等果报。

Verse 74

पूर्वोक्तमखिलं पुण्यं लभते नात्र संशयः द्वादशारं तथालिख्य मण्डलं पदम् उत्तमम्

他必定获得前文所说的一切功德——毫无疑虑。因此,当绘成十二辐的曼荼罗时,应安立最上圣座(pada),以供奉礼拜林伽——那是主宰帕提(湿婆)的标志,能解脱有情(paśu)脱离系缚(pāśa)。

Verse 75

रत्नचूर्णादिभिश्चूर्णैस् तथा द्वादशमूर्तिभिः मण्डलस्य च मध्ये तु भास्करं स्थाप्य पूजयेत्

以宝石等吉祥之物研成的粉末,并依次安置十二种形相,应在仪式曼荼罗中央安奉婆斯迦罗(太阳神),而加以礼拜——知其为在帕提(湿婆)主宰之下运作的光明显现。

Verse 76

ग्रहैश् च संवृतं वापि सूर्यसायुज्यमुत्तमम् एवं प्राकृतम् अप्यार्थ्यां षडस्रं परिकल्प्य च

又或者,以诸行星(九曜,graha)环绕之,则得与苏利耶(太阳)之最上合一(sāyujya)。因此,即便为世间所求,先祈请所愿之果,亦应依其所宜构作六角形(ṣaḍ-asra)。

Verse 77

मध्यदेशे च देवेशीं प्रकृतिं ब्रह्मरूपिणीम् दक्षिणे सत्त्वमूर्तिं च वामतश् च रजोगुणम्

在中央区域,他安置女神——普拉克里蒂(Prakṛti),其形体即是梵(Brahman)本身;在南方安置萨埵(Sattva)的化身,在左侧安置罗阇(Rajas)之德。

Verse 78

अग्रतस्तु तमोमूर्तिं मध्ये देवीं तथांबिकाम् पञ्चभूतानि तन्मात्रापञ्चकं चैव दक्षिणे

在前方,应安置具“昏暗性”(Tamas)之形的显现;在中央,安奉女神安比迦(Ambikā)本尊。于右侧,应陈列五大(pañca-bhūta)以及五种微细境(tanmātra)之组。

Verse 79

कर्मेन्द्रियाणि पञ्चैव तथा बुद्धीन्द्रियाणि च उत्तरे विधिवत्पूज्य षडस्रे चैव पूजयेत्

应依仪轨次第,于北方位礼拜五种作业根,并礼拜诸知根;亦当于六角分位中供奉。如此将诸根诸识奉献于主宰Pati—湿婆,以令系缚之绳pāśa从众生之魂paśu上渐得松解。

Verse 80

आत्मानं चान्तरात्मानं युगलं बुद्धिमेव च अहङ्कारं च महता सर्वयज्ञफलं लभेत्

依大主之加持,当证悟自我与内在之我,并了知那一对原理、理智buddhi以及我执ahaṅkāra;由此得一切祭祀之果报。(对paśu而言,此内供若归向主宰Pati—湿婆,即成真实的yajña。)

Verse 81

एवं वः कथितं सर्वं प्राकृतं मण्डलं परम् अतो वक्ष्यामि विप्रेन्द्राः सर्वकामार्थसाधनम्

如是,我已为汝等详尽宣说至上的、属prākṛta之曼荼罗。今者,噢诸婆罗门中之最胜者,我将宣讲能成就一切所愿之法——在湿婆礼拜之道上圆满诸目的与愿求。

Verse 82

गोचर्ममात्रमालिख्य मण्डलं गोमयेन तु चतुरश्रं विधानेन चाद्भिर् अभ्युक्ष्य मन्त्रवित्

通晓真言者,应绘制一幅大小如牛皮之曼荼罗;依仪则以净化之牛粪作成方形,并如法洒水加持,使其成圣。

Verse 83

अलंकृत्य वितानाद्यैश् छत्रैर् वापि मनोरमैः बुद्बुदैरर्धचन्द्रैश् च हैमैरश्वत्थपत्रकैः

以华盖帷幔等装饰供养之处与主之圣标,或以悦意宝伞庄严;复以金色如泡之饰、半月纹样与金制菩提榕(aśvattha)叶纹点缀,然后当以恭敬之心礼拜Pati——一切众生之主。

Verse 84

सितैर्विकसितैः पद्मै रक्तैर् नीलोत्पलैस् तथा मुक्तादामैर् वितानान्ते लम्बितस्तु सितैर्ध्वजैः

华盖边缘悬挂白幡;亭榭之内以盛放的白莲、红花与蓝色睡莲,并以串串珍珠璎珞庄严点缀——此为吉祥之饰,堪为湿婆之林伽礼拜所用;在清净与神圣秩序中,被系缚的众生(paśu)得以趋近主宰(Pati)。

Verse 85

सितमृत्पात्रकैश्चैव सुश्लक्ष्णैः पूर्णकुम्भकैः फलपल्लवमालाभिर् वैजयन्तीभिर् अंशुकैः

又以白色陶器、以光洁而盈满的吉祥宝瓶,以果实与嫩叶编成的花鬘,以胜鬘(vaijayantī)以及精美净布——如是应当恭敬供养林伽。

Verse 86

पञ्चाशद्दीपमालाभिर् धूपैः पञ्चविधैस् तथा पञ्चाशद्दलसंयुक्तम् आलिखेत्पद्ममुत्तमम्

以五十行灯盏,又以五种香熏,当绘制一朵具五十瓣的上妙莲华——作为林伽礼拜的吉祥依止;凭借有序的仪轨,使被系缚的众生(paśu)被引向主宰(Pati)。

Verse 87

तत्तद्वर्णैस् तथा चूर्णैः श्वेतचूर्णैरथापि वा एकहस्तप्रमाणेन कृत्वा पद्मं विधानतः

以相应色彩之粉末——或仅以白粉亦可——依仪则绘制一朵一掌量的莲华图。此有序之曼荼罗成为林伽供奉的清净道场,使众生(paśu)由持戒有度的仪轨而趋近主宰(Pati)。

Verse 88

कर्णिकायां न्यसेद् देवं देव्या देवेश्वरं भवम् वर्णानि च न्यसेत्पत्रे रुद्रैः प्रागाद्यनुक्रमात्

于莲华花房(中央轮)中,应安置神祇——与女神同在的婆婆(Bhava),即诸天之主的天神主宰。又于莲瓣之上,应自东方起依次安置圣字,按诸鲁陀罗(Rudra)之次第分配。

Verse 89

प्रणवादिनमो ऽन्तानि सर्ववर्णानि सुव्रताः सम्पूज्यैवं मुनिश्रेष्ठा गन्धपुष्पादिभिः क्रमात्

噢,最胜的牟尼!如是礼敬一切神圣音节——自普罗那瓦“唵”(Oṁ)起,至“那摩哈”(Namaḥ)止——噢,持善誓者,当依次第以香、花等供品恭敬奉献,作为有序的湿婆礼拜之仪。

Verse 90

ब्राह्मणान् भोजयेत्तत्र पञ्चाशद्विधिपूर्वकम् अक्षमालोपवीतं च कुण्डलं च कमण्डलुम्

于彼处,应依五十种规定之仪次,供养婆罗门饮食;并当施与念珠(akṣamālā)、圣线(upavīta),以及耳环与净水壶(kamaṇḍalu)。

Verse 91

आसनं च तथा दण्डम् उष्णीषं वस्त्रमेव च दत्त्वा तेषां मुनीन्द्राणां देवदेवाय शंभवे

既以座具、杖(daṇḍa)、头巾(uṣṇīṣa)与衣服施与诸尊胜仙人,则此等施行皆奉献于商婆(Śambhu)——湿婆,诸天之天。

Verse 92

महाचरुं निवेद्यैवं कृष्णं गोमिथुनं तथा अन्ते च देवदेवाय दापयेच्चूर्णमण्डलम्

如是献上大熟供(mahācaru)之后,亦当奉献一头黑牛与一对牛畜;末后,当为诸天之天——主湿婆——施与粉末曼荼罗(cūrṇa-maṇḍala)之供。

Verse 93

यागोपयोगद्रव्याणि शिवाय विनिवेदयेत् ओङ्काराद्यं जपेद्धीमान् प्रतिवर्णम् अनुक्रमात्

智者行者当将祭祀与礼拜所用诸物,悉皆奉献于湿婆。继而自神圣“唵”(Oṁ)起,按其次第,逐字逐音持诵真言。

Verse 94

एवमालिख्य यो भक्त्या सर्वमण्डलमुत्तमम् यत्फलं लभते मर्त्यस् तद्वदामि समासतः

今我将略说:凡夫有情(受缚之魂,paśu)以虔敬(bhakti)绘制此至上、遍摄一切之曼荼罗——为礼敬湿婆(Śiva)而设的神圣图式——所能获得之果报。由主宰帕提(Pati,湿婆)之恩,paśu趋向解脱,离于缚索(pāśa)。

Verse 95

साङ्गान् वेदान् यथान्यायम् अधीत्य विधिपूर्वकम् इष्ट्वा यज्ञैर्यथान्यायं ज्योतिष्टोमादिभिः क्रमात्

如法研习诸吠陀,并兼修其支分学(aṅga),又依仪轨次第举行祭祀——由“光明祭”(Jyotiṣṭoma)等诸祭渐次而行——则能循所立之道而进,成为堪能更高转向帕提(Pati,主湿婆)者。

Verse 96

ततो विश्वजिदन्तैश् च पुत्रानुत्पाद्य तादृशान् वानप्रस्थाश्रमं गत्वा सदारः साग्निरेव च

继而,经由毗湿伐吉特(Viśvajit)等祭仪,得生同样贤善之子;遂入林栖期(Vānaprastha),与妻同往林中,并守护圣火不绝。如此在帕提(Pati)之下,使其生命转向持戒之法与内在净化。

Verse 97

चान्द्रायणादिकाः सर्वाः कृत्वा न्यस्य क्रिया द्विजाः ब्रह्मविद्यामधीत्यैव ज्ञानमासाद्य यत्नतः

既如法行诸忏悔苦行,自月行法(Cāndrāyaṇa)等一切始;二次生者遂舍置诸仪轨之业,唯修梵知(Brahmavidyā),勤求解脱之智。由此智,受缚之魂(paśu)在帕提(Pati)之下被引向自由。

Verse 98

ज्ञानेन ज्ञेयम् आलोक्य योगी यत्काममाप्नुयात् तत्फलं लभते सर्वं वर्णमण्डलदर्शनात्

瑜伽行者以真知照见所当知者,便能成就其所愿之果;由观见“字轮曼荼罗”(Varṇa-maṇḍala),他圆满获得该成就的一切果报。

Verse 99

येन केनापि वा मर्त्यः प्रलिप्यायतनाग्रतः उत्तरे दक्षिणे वापि पृष्ठतो वा द्विजोत्तमाः

噢,最胜二生者!若有凡人以任何方式涂抹或玷污神龛前的空间——无论在北侧、南侧,乃至后方——皆被视为对主之圣所的不当之行,障碍礼敬湿婆林伽所必需的清净。

Verse 100

चतुष्कोणं तु वा चूर्णैर् अलंकृत्य समन्ततः पुष्पाक्षतादिभिः पूज्य सर्वपापैः प्रमुच्यते

以仪式粉末从四方装饰四角(方形)曼荼罗,并以花、阿克沙塔(整粒米)等供养礼拜者,得脱一切罪业——蒙主宰帕提、湿婆之恩,使被缚之灵(paśu)趋向解脱。

Verse 101

यस्तु गर्भगृहं भक्त्या सकृदालिप्य सर्वतः चन्दनाद्यैः सकर्पूरैर् गन्धद्रव्यैः समन्ततः

然而,若有人以虔敬之心,哪怕仅一次,也以檀香等芬芳之物,并和以龙脑等香料,周遍涂抹内殿(garbhagṛha)四方,则以清净供奉向主宰帕提(湿婆)献上悦意之侍奉。

Verse 102

विकीर्य गन्धकुसुमैर् धूपैर्धूप्य चतुर्विधैः प्रार्थयेद्देवमीशानं शिवलोकं स गच्छति

散布芬芳之花,又以四种香供养焚熏之后,当祈请天主伊沙那(湿婆);如是奉者将往至湿婆之界。

Verse 103

तत्र भुक्त्वा महाभोगान् कल्पकोटिशतं नरः स्वदेहगन्धकुसुमैः पूरयञ्छिवमन्दिरम्

在彼处,享受无上妙乐历经百亿劫后,此人以自身净化之躯所散发的芬芳化作花朵,充满湿婆之殿。

Verse 104

क्रमाद्गान्धर्वमासाद्य गन्धर्वैश् च सुपूजितः क्रमादागत्य लोके ऽस्मिन् राजा भवति वीर्यवान्

循序渐进,他抵达乾闼婆之界,受诸乾闼婆盛大礼敬;继而按时回归此世,成为威力具足、英勇无畏的国王。

Verse 105

आदिदेवो महादेवः प्रलयस्थितिकारकः सर्गश् च भुवनाधीशः शर्वव्यापी सदाशिवः शिवब्रह्मामृतं ग्राह्यं मोक्षसाधनम् उत्तमम्

摩诃提婆,元初之神,司掌坏灭与护持;而祂亦是创生之动因——诸界之主,遍一切处为舍婆(Śarva),恒常安住为萨达湿婆(Sadāśiva)。是故,当领受并融入“湿婆—梵”(Śiva-Brahman,湿婆为至上实相)之甘露;此乃通向解脱(mokṣa)之最上方便——脱离缚(paśa),令有情(paśu)在与主宰(Pati)合一中得圆满。

Verse 106

व्यक्ताव्यक्तं सदा नित्यम् अचिन्त्यम् अर्चयेत् प्रभुम्

当礼敬那位主宰——既显亦隐,恒常现前,永恒不变,超越思量所及。

Frequently Asked Questions

Nāgara, Drāviḍa, and Kesara are mentioned as valid forms of Rudrālaya construction, alongside prāsāda archetypes likened to Kailāsa, Mandara, Meru, Niṣadha, Himśaila, Nīlādri-śikhara, and Mahendraśaila.

It presents an escalating ladder: darśana (seeing) is meritorious; entry is 100×; touch and pradakṣiṇā are 100× beyond that; snāna is higher still, with abhiṣeka substances (water → milk → curd → honey → ghee → sugar-water) described as progressively more potent in phala.

By drawing and worshiping prescribed mandalas (lotus and ṣaḍ-asra), installing deities/principles, and performing japa and offerings, the practitioner symbolically integrates cosmic categories (prakṛti, guṇas, bhūtas, indriyas, buddhi/ahaṅkāra/ātman) and gains purification, ritual merit comparable to extensive Vedic rites, and readiness for liberation.

It concludes by urging worship of the Lord as vyakta–avyakta (manifest–unmanifest), nitya (eternal), and acintya (inconceivable), presenting this grasp of Shiva-tattva as the supreme mokṣa-sādhana.