
Sapta-dvīpa Cosmography and the Vision of Śvetadvīpa–Vaikuṇṭha
承接《普罗那》式的宇宙图志,苏多将神圣地理从阎浮提扩展到层层相续的岛洲大陆:每一洲面积倍增,并由各自不同的大海环绕。先说普拉克沙洲,具族山与诸河,众生安住于法,奉祀苏摩而得苏摩合一(soma-sāyujya)与长寿。继而依次叙述娑罗摩利洲、俱沙洲、克劳恩恰洲与舍迦洲:各有七山、七大河、所名之民与种姓,并以奉爱为主轴,分别归依风神、梵天、鲁陀罗(大自在天)与日神,赐予如同形(sārūpya)、同界(sālokatā)及蒙恩亲近等层级成就。章末至乳海(Kṣīroda)所围的白洲(Śvetadvīpa),其众无病、无惧、无贪、无诳,以瑜伽、真言、苦行与智(jñāna)专奉那罗延。随后细绘那罗延城/毗昆他:哈利卧于舍沙之上,吉祥天女室利在其足下;并以教义印证作结:宇宙由那罗延而生,住于那罗延之中,劫坏(pralaya)时复归那罗延——唯彼为至上归宿,为后续更显神学与瑜伽的开示作铺垫。
Verse 1
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिशो ऽध्यायः सूत उवाच जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः / संवेष्टयित्वा क्षारोदं प्लक्षद्वीपो व्यवस्थितः
苏多说道:阎浮提洲四面周匝,其外有普罗叉洲,广度为其两倍,环绕着刹罗陀——咸水之海。
Verse 2
प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः / ऋज्वायताः सुपर्वाणः सिद्धसङ्घनिषेविताः
在普罗叉洲,噢婆罗门中最胜者,有七座族山(库拉帕尔瓦塔):高峻挺直,延展绵长,峰脊端严,常为悉达众所游止。
Verse 3
गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते / नारादो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा / वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणो ऽत्यन्तवल्लभः
其中,戈梅达为第一,旃陀罗为第二;那罗陀与敦杜毗亦在其列,又有苏摩与利沙婆。毗婆罗阇被宣为第七,最为梵天(Brahmā)所钟爱。
Verse 4
तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः / उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक्
在那里,福德无生之主阿阇(Aja)为天仙圣贤、乾闼婆与成就者所礼敬供养。祂是宇宙之我,见证一切,亦为世界之创造者。
Verse 5
तेषु पुण्या जनपदा नाधयो व्याधयो न च / न तत्र पापकर्तारः पुरुषा वा कथञ्चन
在那些地方,皆为清净福德之国:无忧患之苦,亦无疾病之扰;在那片土地上,绝无作恶造罪之人。
Verse 6
तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः / तासु ब्रह्मर्षयो नित्यं पितामहपुपासते
在那些诸方域(varṣa)之中,确有七条大河,而各方域之河皆流入大海。在那圣水之中,诸梵仙(Brahmarṣi)恒常礼敬供奉毗多摩诃——祖父梵天(Brahmā)。
Verse 7
अनुतप्ता शिखी चैव विपापा त्रिदिवा कृता / अमृता सुकृता चैव नामतः परिकीर्तिताः
它们以名号而著称:阿努塔普塔(Anutaptā)、尸佉(Śikhī)、毗帕帕(Vipāpā)、三天(Tridivā)、克利塔(Kṛtā)、阿蜜利塔(Amṛtā)与苏克利塔(Sukṛtā)。
Verse 8
क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि / न चैतेषु युगावस्था पुरुषा वै चिरायुषः
细小支流不可胜数,湖泊亦甚众多;然而在这些地方,诸劫(Yuga)的正序并不显现,那里的人们也并非长寿。
Verse 9
आर्यकाः कुरवाश्चैव विदशा भाविनस्तथा / ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्तिताः
在那座洲(dvīpa)中,据说居住着阿利耶迦族、俱卢族、毗陀舍族与婆毗那族;在那里亦依传统列举四姓:婆罗门、刹帝利、吠舍与首陀罗。
Verse 10
इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः / तेषां च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः
在那里,诸住民不分四姓皆礼敬神圣的主宰苏摩;其果报是得与苏摩合一(sāyujya),并得与其同相(sārūpya),噢,诸牟尼之最胜者。
Verse 11
सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः / पञ्चवर्षसहस्त्राणि जीवन्ति च निरामयाः
他们众人恒常奉持达摩,心意常喜;并且无病无恙,寿至五千年。
Verse 12
प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः / संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः
然而,舍尔摩利洲(Śālmalī-dvīpa)在四方的广度皆为普拉克沙洲(Plakṣa-dvīpa)的两倍,环绕着那水如甘蔗汁的海洋而安住。
Verse 13
सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः / ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः
在那里亦有七个区域(varṣa),同样有七座族山(kulaparvata);诸山绵延笔直,脊岭分明而庄严。又有七条河流,噢,持善誓者。
Verse 14
कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः / द्रोणः कङ्कस्तु महिषः ककुद्वान् सप्त पर्वताः
库穆达、乌恩纳塔,以及第三的巴拉哈卡;继而是德罗那、康迦、摩希沙与卡库德梵——此即七座圣山。
Verse 15
योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी / निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम्
优尼、托雅、维特里什纳、旃陀罗、舒克拉、毗摩遮尼与尼弗里提——这些河流被忆念为能涤除人间罪垢。
Verse 16
न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः / न चैवास्ति युगावस्था जना जीवन्त्यनामयाः
在他们之中,噢最胜的再生者啊,既无贪欲亦无嗔怒;也不见诸劫之衰相,人们无病无恼而安住。
Verse 17
यजन्ति सततं तत्र वर्णा वायुं सनातनम् / तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता
在那里,四姓之众恒常礼敬永恒的风神伐由(Vāyu)。因此他们得证萨尤吉亚(与之合一)、萨鲁毗亚(形相相似)与萨洛卡塔(住于其界)。
Verse 18
कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा / पीता वैश्याः स्मृताः कृष्णा द्वीपे ऽस्मिन् वृषला द्विजाः
在此岛洲中,婆罗门被说为卡毗罗色(黄褐);诸王亦容色明丽;吠舍被记为微黄;首陀罗则黝黑。于此处,甚至再生者也被视为“弗里沙拉”(vṛṣala,失坠正行者)。
Verse 19
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः / संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः
俱舍洲(Kuśadvīpa)环列四方,其广度为娑摩罗洲(Śālmaladvīpa)的两倍;并从各面围绕苏罗海(酒海/甘露海)。
Verse 20
विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा / कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः
毗陀卢摩(Vidruma)与诃摩(Hema)、辉耀者(Dyutimān)与花盛者(Puṣpavān);俱舍舍耶(Kuśeśaya)与诃利(Hari);以及曼陀罗(Mandara)——此为七山。
Verse 21
धुतपापा शिवा चैव पवित्रा संमता तथा / विद्युदम्भा मही चेति नद्यस्तत्र जलावहाः
在那里,载水而流的诸河名为:涤罪河(Dhutapāpā)、吉祥河(Śivā)、净化河(Pavitrā)、称许河(Saṃmatā)、电光河(Vidyudambhā)与大地河(Mahī),皆在圣域中奔流。
Verse 22
अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः / तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते
又啊,婆罗门们,还有成百上千条吉祥之河,其水如宝珠般闪耀;在那些水中,诸天之首礼敬供奉伊舍那(Īśāna)——亦即梵天(Brahmā)的主宰。
Verse 23
ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा / वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्तिताः
在那教说中:婆罗门被称为倾向财资;刹帝利具足勇力与炽烈;吠舍多情而执著;首陀罗则被说为理解迟钝——于彼处如是分别。
Verse 24
सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः / यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः
他们全都具足真实的明辨智慧,具备以慈友为首的诸德;人人依教奉行,皆乐于成就一切众生之安乐。
Verse 25
यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् / तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता
他们以种种祭祀供奉梵天——居于宇宙宝座之至上主(Parameṣṭhin);由此而得与梵天合一、形相相似,并同住一界(梵天界,Brahma-loka)之成就。
Verse 26
कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः / क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम्
婆罗门啊,环绕俱娑洲(Kuśa-dvīpa)四方、其广度为其两倍者,即为鸲鹆洲(Krauñca-dvīpa),它围绕着酥油之海(ghṛta-samudra)。
Verse 27
क्रौञ्चो वामनकश्चैव तृतीयश्चान्धकारकः / देवावृच्च विविन्दश्च पुण्डरीकस्तथैव च / नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः
诸山依次为:鸲鹆山(Krauñca)、侏儒山(Vāmanaka)、第三名暗黑山(Andhakāraka);又有天树山(Devāvṛk)、维文达山(Vivinda),以及白莲山(Puṇḍarīka)。第七座山名为敦杜毗斯瓦那(Dundubhisvana),意为“声如鼓者”。
Verse 28
गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा / ख्यातिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः
被忆念为主要的诸河是:高丽河(Gaurī)、库穆德瓦蒂河(Kumudvatī)、黄昏河(Saṃdhyā)、夜河(Rātri)、疾行河(Manojavā)、名闻河(Khyāti)与白莲河(Puṇḍarīkā)。
Verse 29
पुष्कराः पुष्कला धन्यास्तिष्यास्तस्य क्रमेण वै / ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः
普什迦罗、普什迦拉、达尼亚与提湿耶——他们依其传承次第而生。由他而出婆罗门、刹帝利、吠舍以及首陀罗,噢,最胜的再生者。
Verse 30
अर्चयन्ति महादेवं यज्ञदानसमाधिभिः / व्रतोपवासैर्विविधैर्हेमैः स्वाध्यायतर्पणैः
他们以祭祀(yajña)、布施与三昧之定来礼敬大天(Mahādeva);以种种誓戒与斋戒;以黄金供养;并以诵习圣典(svādhyāya)与作满足供(tarpaṇa)而奉事。
Verse 31
तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् / सलोकता च सामीप्यं जायते तत्प्रसादतः
对他们而言,凭祂的恩慈,得生与鲁陀罗合一(sāyujya),甚至极其难得的得鲁陀罗同形(sārūpya)亦可成就;同样,居于鲁陀罗之界(salokatā)与亲近于祂(sāmīpya)也由祂的慈恩赐予。
Verse 32
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः / शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम्
婆罗门啊,遍于四方、以两倍之广超越鸠槃遮洲(Krauñca-dvīpa)者,即为娑迦洲(Śāka-dvīpa),环抱酪海(Dadhi-sāgara)而安住。
Verse 33
उदयो रैवतश्चैव श्यामाको ऽस्तगिरिस्तथा / आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः
诸山名为:优陀耶(Udaya)、赖伐多(Raivata)、湿耶摩迦(Śyāmāka)与阿斯多耆利(Astagiri);又有安毗迦耶(Āmbikeya)、罗弥耶(Ramya)与计舍梨(Keśarī)。
Verse 34
सुकुमारी कुमारी च नलिनी रेणुका तथा / इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः
苏库玛丽、库玛丽、那丽尼,以及勒努卡;伊克舒卡、德努卡与伽婆斯提——这些皆为诸条圣河。
Verse 35
आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः / अनामया ह्यशोकाश्च रागद्वेषविवर्जिताः
饮此诸圣流之水,居于彼处之人得以安住:无病无忧,远离贪著与憎恶。
Verse 36
मगाश्च मगधाश्चैव मानवा मन्दगास्तथा / ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु
此处依次提及摩伽族与摩揭陀族,亦有摩那婆与曼达伽;并且四姓——婆罗门、刹帝利、吠舍与首陀罗——亦按次第列出。
Verse 37
यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् / व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम्
他们恒常礼敬那位神——诸界唯一的见证者:天神之神、日光之主帝婆迦罗(太阳),以种种誓戒与斋戒苦行奉事之。
Verse 38
तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता / सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः
凭其恩典,噢婆罗门中的最胜者,他们得证与日神的四种成就:萨尤吉亚(合一)、萨米毗亚(亲近)、萨鲁毗亚(同相)、以及萨洛迦亚(住于其界)。
Verse 39
शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः / श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः
环绕着娑迦洲(Śākadvīpa)的,是乳海(Kṣīroda)。其中央有白洲(Śvetadvīpa),那里的众生皆一心归依、奉事那罗延(Nārāyaṇa)。
Verse 40
तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः / श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः
彼处有诸多福德清净之国土,具足种种奇妙。那里的人恒常出生肤色皎洁,并且时时专心奉敬毗湿奴(Viṣṇu)主。
Verse 41
नाधयो व्याधयस्तत्र जरामृत्युभयं न च / क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः
在那里既无心灵之苦,亦无身病之患,也不惧老与死。彼处众生离嗔离贪,远离幻诳(māyā)与嫉妒。
Verse 42
नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः / नारायणपराः सर्वे नारायणपरायणाः
他们恒常丰足,无惧无患,常住喜乐——这便是得享真实安泰者。众人皆以那罗延(Nārāyaṇa)为至上归趣,唯独全然归依那罗延。
Verse 43
केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः / केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनो ऽपरे
有些瑜伽行者恒常住于禅观,摄持诸根。有人诵持真言并修苦行;又有人专注于具辨别力的灵性智慧(vijñāna)。
Verse 44
अन्ये निर्बोजयोगेन ब्रह्मभावेन भाविताः / ध्यायन्ति तत् परं व्योम वासुदेवं परं पदम्
另有一些人,以无种子瑜伽而成熟,浸润于梵之境界,观想那至上虚空——婆苏提婆(Vāsudeva),即最高归宿与至上住处。
Verse 45
एकान्तिनो निरालम्बा महाभागवताः परे / पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं
那些至上的薄伽梵奉者,专一归向而不依外缘,得见至上梵,名为毗湿奴(Viṣṇu),超越无明之暗。
Verse 46
सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः / सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः
他们全都现四臂之相,执螺、轮与杵;皆着灿然黄衣,胸前皆有吉祥的室利跋蹉(Śrīvatsa)标记。
Verse 47
अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः / स्वयोगोद्भूतकिरणा महागरुडवाहनाः
另一些人归敬大自在天(摩诃伊湿伐罗,Śiva),额上具三道圣灰纹(tripuṇḍra);由自身瑜伽修持生起灵光之辉,并乘大迦楼罗(Garuḍa)而行。
Verse 48
सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः / वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः
具足一切神力,恒住常乐,清净无垢——彼处住有成就之士,乃在毗湿奴(Viṣṇu)内在临在中行住者。
Verse 49
तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् / नारायणं नाम पुरं व्यासाद्यैरुपशोभितम्
彼处亦有那罗延那之另一境界,难以到达,亦难以越渡。其城名为“那罗延那”,由毗耶娑等大圣贤庄严增辉。
Verse 50
हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् / प्रभासहस्त्रकलिलं दुराधर्षं सुशोभनम् / हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम्
其城以黄金城垣环护,设有水晶殿亭;千灯之辉充满其间——华美、不可攻破、庄严灿然——与高楼宫阙之墙相连,望楼守塔林立。
Verse 51
हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः / शुभ्रास्तरणसंयुक्तं विचित्रैः समलङ्कृतम्
城中饰以千座金色城门,缀满种种宝珠;又铺设洁白无瑕的帷覆,并以斑斓饰物精妙庄严。
Verse 52
नन्दनैर्विविधाकारैः स्त्रवन्तीभीश्च शोभितम् / सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम्
城中点缀着如难陀那般的欢喜园林,形态万千,又为潺潺流水所增妍;四周环以莲池,琴(维那)与笛声回荡不绝。
Verse 53
पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् / वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः
城中以无数斑斓旗幡庄严点缀;四面皆有廊道与行径,并有镶嵌宝石的阶梯。
Verse 54
नारीशतसहस्त्राढ्यं दिव्यगोयसमन्वितम् / हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् / चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम्
此城/圣居富有数十万女子,具足天赐神牛与无量财宝;群集天鹅与迦兰陀婆鸟,又为查克拉瓦卡鸳鸯鸭所增辉。四门庄严,无与伦比,诸天之敌亦不可入。
Verse 55
तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् / नानागीतविधानज्ञैर्देवानामपि दुर्लभैः
此处彼处,皆为成群阿普萨拉起舞而增辉;又有通晓诸般曲调与歌法编排的乐师点缀其间——其艺之稀有,连诸天亦难得一见。
Verse 56
नानाविलाससंपन्नैः कामुकैरतिकोमलैः / प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः
她们具足种种风姿妙艺与嬉游之媚——情意缱绻,柔美至极——面容如月者众多,并随步履发出脚铃(nūpura)清越的叮咚回响。
Verse 57
ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः / अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः
她们微含笑意,唇若熟透的频婆果,眸如幼鹿,带着稚纯的青春之韵;又以无尽荣华与诸般饰物庄严其身,腰肢纤细。
Verse 58
सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः / संलापालापकुशलैर्दिव्याभरणभूषैतैः
她们以天界宝饰庄严,行步如高贵天鹅般婉转;衣饰华美,声韵甘柔,善于礼雅的交谈与精妙的辞令。
Verse 59
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः / नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः
她们因乳房之重而身姿微俯,醉意使双目流转;肢体以多彩纹饰与诸般珠饰点缀,喜爱种种享乐,沉醉于情欲之戏。
Verse 60
प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् / असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि
四面皆以繁花盛开的园林庄严点缀,处处光辉照耀——清净无垢,具无量功德,纵使诸天亦难以抵达。
Verse 61
श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः / तस्य मध्ये ऽतितेजस्कमुच्चप्राकारतोरणम्
主之圣居光荣而至净——吉祥之主Śrīpati,威光无量。其中央矗立一座炽然夺目的高大门阙,建于高耸城垣之上。
Verse 62
स्थानं पद् वैष्णवं दिव्यं योगिनामपि दुर्लभम् / तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः / शेते ऽशेषजगत्सूतिः शेषाहिशयने हरिः
有一处神圣的毗湿奴境界(Vaikuṇṭha),连诸瑜伽行者亦难得至。其中央,唯有一位薄伽梵安卧,光辉如莲瓣。哈利(Hari)为一切世界之所从生,憩于舍沙(Śeṣa)大蛇之床。
Verse 63
विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः / स्वात्मानन्दामृतं पीत्वा परं तत् तमसः परम्
为以萨难陀那(Sanandana)为首的最胜瑜伽师所观想;饮尽自性之乐的甘露后,那至上实相超越黑暗(tamas),凌驾一切之上。
Verse 64
सुपीतवसनो ऽनन्तो महामायो महाभुजः / क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः
身披灿然黄衣的无尽者,具大摩耶与雄伟臂力;乳海之女圣吉祥天(室利/拉克希米)恒以虔敬捧持其双足。
Verse 65
सा च देवी जगद्वन्द्या पादमूले हरिप्रिया / समास्ते तन्मना नित्यं पीत्वा नारायणामृतम्
那位女神为世间所礼敬,乃哈利所钟爱;她安住于其足下,心恒融入于他,因已饮得那名为那罗延的甘露。
Verse 66
न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः / वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम्
不义之人不得至彼处,依止他神者亦不能往。彼地名为毗昆陀(Vaikuṇṭha),连三十三天神亦皆礼敬。
Verse 67
न मे ऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे / एतावच्छक्यते वक्तुं नारायणपुरं हि तत्
欲尽述其全貌,我此处智慧不足。唯可言之:彼实为那罗延之城——那罗延城(Nārāyaṇapura)。
Verse 68
स एव परमं ब्रह्म वासुदेवः सनातनः / शेते नारायणः श्रीमान् मायया मोहयञ्जगत्
唯他是至上梵——常住的婆苏提婆。作为光耀的那罗延,他安卧而住;并以其摩耶,使世间陷入迷妄。
Verse 69
नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् / तमेवाभ्येति कल्पान्ते स एव परमा गतिः
此宇宙由那罗延(Nārāyaṇa)而生;唯依于祂而安住维持。至劫末复归于祂——唯祂是至上的归宿。
The chapter moves outward from Jambūdvīpa to Plakṣadvīpa (salt ocean), Śālmalīdvīpa (sugarcane-juice-like ocean), Kuśadvīpa (sura/nectar-liquor ocean), Krauñcadvīpa (ghṛta/clarified-butter ocean), Śākadvīpa (dadhi/curd ocean), and then the Kṣīroda (milk ocean) containing Śvetadvīpa.
Each dvīpa presents a legitimate devotional center—Soma, Vāyu, Brahmā, Rudra, Sūrya—granting classical fruits (sāyujya, sārūpya, sālokatā, sāmīpya). Yet the narrative apex is Śvetadvīpa/Vaikuṇṭha, where devotion culminates in Nārāyaṇa/Vāsudeva as the ultimate origin and end at pralaya.
They are depicted as free from affliction and moral impurities, devoted to Nārāyaṇa through meditation with restrained senses, mantra-japa and tapas, discriminative knowledge (jñāna), and advanced seedless yoga culminating in Brahman-abidance focused on Vāsudeva.
It concludes with an ontological claim: from Nārāyaṇa the universe is born, in Him it is sustained, and at the end of the aeon it returns to Him—thereby identifying Nārāyaṇa/Vāsudeva as the supreme destination beyond all.