Description of the Northern Regions: Ramyaka, Hiraṇmaya, Uttarakuru, Candradvīpa, Sūryadvīpa, and Rudrākara
तथा त्रिशृङ्गे च मणिकाञ्चनसर्वरत्नशिखरानुक्रमेण तस्योत्तरशृङ्गात् दक्षिणसमुद्रान्ते चोत्तरकुरवः। वृक्षेष्वेव वस्त्राण्याभरणानि च जायन्ते; क्षीरवृक्षाः क्षीरासवाश्च सन्ति; मणिभूमिः सुवर्णबालुका। तस्मिन् स्वर्गच्युताश्च पुरुषा वसन्ति, त्रयोदशवर्षसहस्रायुषः। तस्यैव द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य देवलोकाच्चन्द्रद्वीपो भवति, योजनेसहस्रपरिमण्डलः। तस्य मध्ये चन्द्रकान्तसूर्यकान्तनामा गिरिवरौ; तयोर्मध्ये चन्द्रावती नाम महानदी अनेकवृक्षफलानेकनदीसमाकुला। एतत्कुरुवर्षं च। तस्योत्तरपार्श्वे समुद्रोरिमालाढ्यं पञ्चयोजनसहस्रमतिक्रम्य देवलोकात् सूर्यद्वीपो भवति, योजनेसहस्रपरिमण्डलः। तस्य मध्ये गिरिवरः शतयोजनविस्तीर्णस्तावदुच्छ्रितः। तस्मात् सूर्यावर्त्तनामा नदी निर्गता। तत्र सूर्यस्याधिष्ठितं, तत्र सूर्यदैवत्यास्तद्वर्णाश्च प्रजा दशवर्षसहस्रायुषः। तस्य च द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य समुद्रं दशयोजनसहस्रपरिमण्डलं द्वीपो रुद्राकरो नाम। तत्र च भद्रासनं वायोरनेकरत्नशोभितम्; तत्र विग्रहवान् वायुः तिष्ठति। तपनीयवर्णाश्च प्रजाः पञ्चवर्षसहस्रायुषः।
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.